पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)
Panchasayaka of Kavishekhara Jyotirishvara with Commentary
कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री) द्वारा
तृतीय सायक ३५
द्रवति झटिति कान्ता भेषजस्यास्य योगा-
दिति वदति नगेन्द्रो रन्तिदेवः कवीन्द्रः ॥४१॥
इति कामिनीद्रावणसमुद्देशः।
[१०] “अथ ध्वजस्थूलीकरणसमुद्देशः-
“अथ ध्वजवृद्ध्यर्थं कुष्टाद्यचूर्णमाह-
म कुष्ठ-मातङ्ग बलाऽबलानां
वचाऽश्वगन्धागजपिप्पलीनाम् ।
तुङ्गशत्रो र्नवनीतयोगात्
लेपेन लिङ्गं मुशलत्व मेति ॥४२॥
अथ ब्रह्मवल्ल्यादिचूर्णप्रयोग माह-
किमत्र चित्रं यदि ब्रह्मवल्ली-
वचाऽश्वगन्धा-जलशूकचूर्णम् ।
उन्मत्तबीजं बृहतीफलाढ्यं
घर्षेण कुर्यान्मुशलप्रमाणम् ॥४३॥
अथ लोध्रादितैलविधानमाह-
मलोध्र-काशीश-तुरङ्गगन्धा-
हेमंप्रसूनै परिपाचितेन ।
३६ पञ्चसायके
तैलेन वृद्धिं खलु याति लिङ्गं
वराङ्गनाऽलोकनमोहनञ्च ॥४४॥
इति ध्वजस्थूलीकरणसमुद्देशः ॥
[११] “अथ ध्वजदृढीकरणसमुद्देशः–
अथ करवीरदलादिप्रलेपविधानमाहः–
हयारि पत्रं नवनीत मध्ये
वचा-बला-नाग वलामयैश्च ।
लेपेन लिङ्गं महसैव पुंसां
लोहोपमं स्यादिति दृष्टमेतत् ॥४५॥
इति ध्वजदृढीकरणसमुद्देशः ॥
(१२) “अथ वीर्यस्तम्भनसमुद्देशः–
अथ लजालुमूलादिप्रयोगं निरूपयति–
क्षीरेण वस्तस्य च वत्समूलं
लजालु-मूलं स्वयमेव पिष्ट्वा ।
य स्तु स्वपादौ परिलिप्य शेते
रेतो न तस्य द्रवते कदाचित् ॥४६॥
अथ श्वेतशरपुङ्खफलादिप्रयोग माह–
श्वेतेषुपुङ्खाख्य-तरोः फलानि
क्षीरेण पिष्ट्वा वट-पादपस्य ।
करञ्ज-बीजोदर मध्यगानि
बध्नन्ति वीर्यं वदने धृतानि ॥४७॥
(१) 'पलामान' २पुस्तकाय पाठः ।
तृतीयः सायकः ॥ ३७
“अथ शरपुङ्खमूलप्रयोगं निर्दिशति—
श्वेतेषुपुङ्खा-चरणं गृहीत्वा
पुष्यार्कयोगे पुरुषस्य कट्याम् ।
कुमारिका-कर्तित सूत्रकेण
बद्धं न यात्याशु मनोजनीरम् ॥४८॥
अथ काकजंघामूलविधान माह—
“आदाय कृष्णेतर काकजङ्घा--
मूलं सिताम्भोरुह-केशरञ्च ।
क्षौद्रेण पिष्ट्वा परिलिप्य नाभिं
स्तम्भं प्रयात्याशु नरस्य बीजम् ॥४९॥
इति वीर्यस्तम्भनसमुद्देशः ।
(१३) “अथ तिलकसमुद्देशः—
अथ मञ्जिष्ठादितिलकप्रयोग माह—
मञ्जिष्ठ-तोयद-वचा सितभानु मूलैः
स्वीयाङ्ग शोणितयुतैः समकुष्ठकैश्च ।
कृत्वा ललाटफलके तिलकं कृतज्ञो
लोकत्रयं वशयति क्षणमात्रकेण ॥५०॥
इति तिलकसमुद्देशः ।
३८ पञ्चशायकं
(१४) १अथ अञ्जनसमुद्देशः—
अथ वशीकरणार्थं कज्जलप्रयोग माह—
देवीमहोत्सवदिने किल कज्जलं यत्
सिद्धार्थकस्य सुरसेन नरोत्तमाङ्गे ।
निःपातितं नरवरेण निशि श्मशाने
तन्नेत्रगं भुवन मेव वशं करोति ॥५१॥
इत्यञ्जनसमुद्देशः ।
(१५) २अथ चूर्णसमुद्देशः—
अथ वशीकरणार्थं कुष्ठादिचूर्ण माह—
कुष्ठोत्पलं मधुकरस्य च पत्रयुग्मं
मूलं तथा तगरजं सितकाकजंघा ।
यस्याः शिरोगतमिदं विहितन्तु चूर्णं
दासीभवेज्झटिति सा तरुणी न चित्रम् ॥५२॥
इति चूर्णसमुद्देश ॥
(१६) अथ लेपन-समुद्देशः—
अथ वीर्यप्रलेपविधान माह—
मध्येन पाणिकमलेन निशावसाने
यो रेतसा निजभवेन विलासिनीनाम् ।
(१) चित्रकञ्जनम् इति ग पुस्तस्य पाठान्तरम् ।
१- घ पुस्तके पञ्चमेखट्ङ्गिरमित्यन्ताऽग्रे पठाने नात्राश दृष्टतगरे परिशिलिय-
बनि सिद्धार्थनानाहिन ष्टपञ्चदश । पुंस कपोलफलके विनिपातनेन तेनाञ्जनेन-
दर्शना विनिपातियोग ।
तृतीय-सायक ३६
वामं विलिम्पति पदं सहसैव यस्या
स्तस्यैव सा भवति नात्र विकल्पभावः ॥ ५३ ॥
अथ पतिदासीकरणप्रयोगमाह—
सम्भोग-शेष-समये निज-कान्त-मेढ्रं ।
या कामिनी स्पृशति वामपदाम्बुजेन ।
तस्याः पतिः सपदि विन्दति दासभावं
गोणी-सुतेन कथितः किल योगराजः ॥ ५४ ॥
अथ कपोतमलादिप्रलेपविधान माह—
सिन्धूत्थ-माक्षिक-कपोतमलानि पिष्ट्वा
लिङ्गं विलिप्य तरुणीं रमते नगे यः ।
मान्यं प्रयाति पुरुषं न कदापि कामं
दासीभवेदतिमनोहरदिव्यमूर्तिः ॥ ५५ ॥
अथ भल्लूकमेढ्रघनसारादिप्रयोगमाह—
“भल्लूक-मेढ्र-घनसार-मधूनि पिष्ट्वा
लिप्तध्वजो निधुवनं विदधीत यस्याः ।
साह्लादिनी कुसुमसायकमन्नताक्षी
वश्या भवेच्चिरतरं न हि संशयोऽत्र ॥ ५६ ॥
अथ गोरोचनादिप्रलेपं निरूपयति—
गोरोचना-शिशिरदीधिति-शम्भुबीज-
काश्मीरचन्दनयुतः कनकद्रवैश्च ।
४० पञ्चसायके
लिप्तध्वजः परिरमत्यबलां नरो य-
स्तस्याः स एव हृदये मुकुटत्वमेति ॥ ५७ ॥
इति लेपनसमुद्देशः ॥
अथ धूप-समुद्देशः—
शृङ्गी-वचा-युवति-सर्जरसं समानं
कृत्वा त्रुटिं मलयजञ्च षडेव मिश्रम् ।
यो धूपयेन्निजगृहं वसनं शरीरं
तस्यापि दास इव मोह मुपैति लोकः ॥ ५८ ॥
इति धूपसमुद्देशः ।
[१८] अथ काममन्त्रसमुद्देशः—
अथ मदनमन्त्रं दर्शयति—
“ॐ मद मद मादय मादय हीं अमुकीं वशमानय स्वाहा”—
अस्य मन्त्रस्य दशसहस्रसङ्ख्याकोन्मितो जपः ।
रक्तवर्णैः प्रसूनैर्मधुना घृतेन च होमः करणीयः ॥
( १ ) ग संज्ञक पुस्तक यद्यपि लेपनसमुद्देशे वहूनि पाठान्तराणि समुपलभ्यन्ते,
like 'ज्ञ' or 'सा' or 'मा'?
Wait, in 'ज्ञा', the ligature is ज + ञ + ा.
Look at line 18: it has a loop, a cross stroke, and a vertical bar: it looks like "ज्ञात्वेमं" or "साध्येमं"!
Wait, what about the mantra in line 11 then?
If line 18 is:
"... वशमानयेति च पदं साध्यं द्वितीयायुतम्"
Wait, where does "मोहय" come from in the mantra?
Look at Line 19 (verse line 3):
स्वा हान्तः प्र ज पा दि रे ष क थि तो म न्त्रे म हा मो ह नः
स्वा(1) हा(2) न्तः(3) प्र(4) ज(5) पा(6) दि(7) रे(8) ष(9) क(10) थि(11) तो(12) म(13) न्त्रे(14) म(15) हा(16) मो(17) ह(18) नः(19) = 19 syllables!
Wait, line 19 ends with "मन्त्रो महामोहनः" or "मन्त्रे महामोहनः"? In image: "मन्त्रे महामोहन" or "मन्त्रो महामोहनः"? It looks like "मन्त्रे महामोहन" or "मन्त्रो महामोहनः".
Now Line
अथ चामुण्डायाः ध्यानम्—
दंष्ट्राकोटिविसङ्कटा सुवदना सान्द्रान्धकारेस्थिता
खट्वाङ्गासि-निगूढदक्षिणकरा वामे सपाशांशिरः ।
श्यामापिङ्गलमूर्द्धजाभयकारी शार्दूलचर्माम्बरा
चामुण्डा शववाहिनी जपविधौध्येया सदासाधकौः ॥ ६० ॥
इति चामुण्डा मन्त्रसमुद्देशः ॥
[२०] विश्वेश्वरीसमुद्देशः—
अथ विश्वेश्वरीमन्त्रं निरूपयति—
“ॐ नमश्चामुण्डे हिलि हिलि अमुकीं वशमानय स्वाहा”
अस्य मन्त्रस्य जपो लक्षपरिमितः ।
पलाशकुसुमैश्च होमः करणीयः ॥
सूर्यं वामहस्तेन कर्त्तव्यम् ।
अथ विश्वेश्वरीध्यानम्—
वत्रास्रकशरासना त्रिनयना सव्येतरे साङ्कुशं
वामेनापि करेण पाशमुरसि न्यस्तोत्तमाङ्गस्रजा ।
व्यामुक्तेरुकचा करालवदना वह्निप्रभा मध्यगा
ध्येया जाप्यविधौ नरै रिति सदा विश्वेश्वरीसिद्धये ॥ ६१ ॥
इति विश्वेश्वरीसमुद्देशः ॥
(१) गयंशकपुस्तके विश्वेश्वरीमन्त्रसमुद्देशो नोपलभ्यते ।
तृतीयः नायक ४३
[२१] अथ पद्मिनीमन्त्रसमुद्देशः—
अथ पद्मिनीवशीकरणमन्त्रं निरूपयति=
“ॐ कामेश्वर ! मोहय स्वाहा” इति मन्त्रः ॥
अनेन मन्त्रेण मधुमिश्रित-जातीकुसुम-सहितं
ताम्बूलमादित्यदिने पञ्चाशद्वार मभिमन्त्रितं
पद्मिन्यै दातव्यम् । पद्मिनी वश्या भवति ॥ [क]
इति पद्मिनीमन्त्रसमुद्देशः ॥
[२२] अथ चित्रिणीमन्त्रसमुद्देशः=
अथ चित्रिणीवशीकरणमन्त्रः=
“ॐ पच पच ॐ विहङ्गम विहङ्गम ॐ कामदेवाय स्वाहा”
इति मन्त्रः ।
अनेन मन्त्रेण रम्भामूलजलपुटित-जातीफल-मिलित-
ताम्बूलमादित्यदिने पञ्चशतवार=
मभिमन्त्रितं चित्रिण्यै दातव्यम् ।
चित्रिणी वश्या भवति ॥
इति चित्रिणीमन्त्रसमुद्देशः ॥ [ग]
(१) “मध्वङ्गारम्” इति घपुस्तकीय पाठान्तरम् ।
(२) “ॐ क्षिं २ अमुकीं वश्यं कुरु कामदेवाय स्वाहा” इति गपुस्तकीयं
पाठान्तरम् ।
४४ पञ्चमसायके
(२३) अथ शङ्खिनीमन्त्रसमुद्देशः ।
अथ शङ्खिनी-वशीकरणमन्त्रः=
“ॐ हर हर ॐ पच पच कामदेवाय स्वाहा=” इति मन्त्रः ।
- अनेन मन्त्रेण तगरमूलं श्रीफलञ्चादित्यवारे—
अष्टोत्तरशतवारमभिमन्त्रितं शङ्खिन्यै-
दातव्यम् । सा वश्या भवति ॥७॥
इति शङ्खिनीमन्त्रसमुद्देशः ।
अथ हस्तिनीमन्त्रसमुद्देशः—
[२४] अथ हस्तिनीवशीकरणमन्त्रः=
“ॐ चिरि चिरि वशं कुरु कामदेवाय स्वाहा” इति मन्त्रः ।
अनेन मन्त्रेण आदित्यदिने चाँद्राङ्गौ कपोत-
भ्रमरौ ताम्बूलदले विन्यस्य अष्टोत्तरशत—
मभिमन्त्रितं कृत्वा हस्तिन्यै देयम् ।
हस्तिनी वश्या भवति ॥ [घ]
इति हस्तिनीमन्त्रसमुद्देशः ।
—
(१) ख संज्ञक पुस्तके “शङ्खिनीनाममन्त्रसमुद्देशो हस्तिनीमन्त्रसमुद्देशश्च न
लभ्यते, परं पद्मिनीमन्त्रसमुद्देशस्य चित्रिणीमन्त्रसमुद्देशस्य चोपलभ्यमानत्वा
दवशिष्टं समुद्देशद्वयमपि वर्णनीयमिति मूल एव विन्यस्तामिति ॥
६
तृतीय सायक ४५
(२५) "अथ अनिच्छाहरणमुद्देशः—
अथ अनिच्छाहरणोपायं निरूपयति ।
क्षीरोदनं द्विजवराय पुनः प्रदद्यात्
पुष्योद्धृतं सित वला चरणं कुमार्या ।
पिष्टं प्रदत्तमिति वैरिकृतामनिच्छां
निःसारयेदिह मुहुर्विदित प्रभावः ॥६२॥ [ह]
इत्यनिच्छाहरणमुद्देशः ।
[२६] अथ स्तनोत्थापनमुद्देशः ।
अथ गजपिप्पल्यादि विधानम् ।
“मातङ्गकृष्णामयवाजिगन्धा”
वचायुताः पर्युषिताम्बुमिश्रा ।
हयारिपत्रैर्नवनीतयोगान्
कुर्वन्ति पीनं कुचकुम्भयुग्मम् ॥६३॥
अथ स्तनवृद्धिकरं भुजङ्गवमादिप्रयोगमाह—
वसा भुजङ्गस्य हयारि-पत्र्य
कोलस्य मेदः समभागयुक्ता ।
वक्षोज कुम्भं मदिरायताक्ष्याः
कुर्वन्ति पीनं सकलं हठेन ॥६४॥
अथ दाडिमकल्कसाधितं सिद्धार्थतैलविधानमाह—
“तैलं हठाद् दाडिम-कल्क सिद्धं
सिद्धार्थजं लेपनतो नितान्तम् ।
४६ पञ्चसायके
नारी-स्तनौ चारुतरो सुपीनौ
कुर्यादसौ योगवरः सदैव ॥६५॥
इति स्तनोत्थापनसमुद्देशः ।
[२७] “अथ पतितस्तनोत्थापनसमुद्देशः—
“अथ श्रीपर्णिकातैलं निरूपयति—
श्रीपर्णिकाया रसकल्कसिद्धं
तिलोद्भवं तैलवरं प्रदिष्टम् ।
तैलेन वक्षोजयुगे प्रदेयं
प्रयाति वृद्धिं पतितोऽपि नार्याः ॥६६॥
इति पतितस्तनोत्थापनसमुद्देशः ।
[२८] “अथ योनि-संस्कारसमुद्देशः—
“योनिधूपनविधिं दर्शयति”—
प्रक्षालयेन्निम्ब-कषायनीरै-
र्निशाज्यकृष्णाऽगुरुगुग्गुलूनाम् ॥
धूपेन योनिं निशि धूपयित्वा
नारी प्रमोदं विदधाति भर्तुः ॥६७॥
अथ जातिकुसुमतैलं निरूपयति—
जातीप्रसूनैः सितसर्षपस्य
तैलं पचेल्लध्वनले प्रधानम् ।
० (१) प्रलेपादिति पाठान्तर साधीयः ।
तृतीयः सायकः ॥ ४७
अभ्यङ्गयोगेन सदैव योनों
सौभाग्यमाप्नोति रते पुरन्ध्री ॥६८॥
इति योनिसंस्कारसमुद्देशः ।
[२६] “अथ रोमशातनसमुद्देशः—
अथ भुजङ्गतैलप्रयोगमाह—
“भुजङ्ग-तैलं कटुतैलमध्ये
सप्ताहमादित्यकरे निधेयम् ।
तत्तैल-योगेन विलासिनीनां
नश्यन्ति रोमाणि समूलमेव ॥ ६६ ॥
“अथ तालकादिचूर्णमाह—
“पलाश-भस्मान्वित-तालचूर्णैः
रम्भाऽम्बुमिश्रैरुपलिप्य भूयः ।
कन्दर्पगेहे मृगलोचनानां
रोमाणि रोहन्ति कदापि नैव ॥ ७० ॥
“अथ मृतशङ्खादिचूर्णप्रयोगमाह—
रम्भाजले सप्तदिनं विभाव्य
भस्मेदं कम्बोर्मधुना च पश्चात् ।
तालेन युक्तञ्च विलेपनेन
रोमाणि निर्मूलयति क्षणेन ॥ ७१ ॥
इति रोमशातनसमुद्देशः ॥
४८ पञ्चसायकं
“अथ स्मरमन्दिरपुष्पसमुद्देशः—
अथ ज्योतिष्मतीपत्रप्रयोगमाह—
“ज्योतिष्मतीकोमलपत्रमग्र्यं
भृष्टं जवायाः कुसुमेन पिष्टम् ।
गुड़ाम्बुना पीतमिदं युवत्या
करोति पुष्पं स्मरमन्दिरस्य ॥ ७२ ॥
³इति स्मरमन्दिरपुष्पसमुद्देशः ॥
(३१) “अथ गर्भधारणसमुद्देशः—
“अथ तुरङ्गन्धापाचितदुग्धप्रयोगमाह—
“तुरङ्गन्धाश्रित-वारि-सिद्ध-
माजं पयः स्नानदिने निपीय ।
प्राप्नोति गर्भं नियमं चरन्ती
वन्ध्यापि सूनुं पुरुषप्रसङ्गात् ॥७३॥
“अथ लक्ष्मणाचूर्णं निरूपयति ।
पुष्योद्धृतं लाक्ष्मणमेव मूलं
पुंसा निपिष्टं सघृतञ्च पीतम् ।
क्षीरोदनं प्रा
अथ बीजपूरमूलप्रयोगमाह-
या बीजपूरद्रुममूलमेकं
क्षीरेण सिद्धं हविषा विमिश्रम् ।
ऋतौ निपीय स्वपतिं प्रयाति
दीर्घायुषं सा तनयं प्रसूते ॥७५॥
इति गर्भधारणसमुद्देशः
"अथ गर्भमेस्थापनसमुद्देशः—
"अथ कशेरुकादिमाधितदुग्धप्रयोगमाह-
कशेरुशृङ्गाटकजीवनानि
पयो-ऽर्घनण्डशतावरीभिः ।
सिद्धं पयः शर्करया विमिश्रं
संस्थापयेद्गर्भमुदीर्णशूलम् ॥७६॥
इति गर्भधारण समुद्देश ॥
[३२] "अथ सुखप्रसवसमुद्देशः—
अथ सुखप्रसवमन्त्रः—
ॐ इहामृतञ्च सोमश्च चित्रभानुश्च भामिनि ।
उर्धैःश्रवा तुरङ्गाणां मन्दिरे निवसन्तु ते ॥ ७७ ॥
"अथ द्वितीयः सुखप्रसवमन्त्रः—
ॐ इदममृतमपां समुद्धतं यैन्वानर लघु गर्भमिमंविमुञ्चतु स्त्रि ।
१-ईं । २-न । ३-अन समुद्देश ३ । सुखप्रसवः ।
५० पञ्चमनायक
तदनल पवनाऽर्क वासरा स्ते सह
लवणाम्बुधर्दिशन्तुशान्तिम् ॥ ७८ ॥
“अथ सुखप्रसवकरस्तृतीयो मन्त्रः--
ॐ मुक्ताःपाशा विपाशाश्च मुक्ताःसूर्येण रश्मयः ।
मुक्तः सर्वभयाद् एहि मा चिर मा चिरम् स्वाहा” ॥७९॥
“अथ मन्त्राणां प्रयोग विधानमाह-
एभिर्जलं च्यावनमन्त्रराजै
र्जप्त्वा प्रदेयं किल गर्भिण्यै ।
सद्यः प्रसूते नवगूढगर्भा
यो(गो)ऽयमात्रेयमुनिप्रदिष्टः ॥ ८० ॥
एभिर्मन्त्रैः सप्तवारमभिमन्त्रितं जलंगर्भिण्यैपातुं दातव्यम् ॥
“अथ अपरः सुखप्रसवकरोमन्त्रः—
“ॐ मन्मथ मन्मथ मन्मथवाहिनि ! लम्बोदरं
मुञ्च मुञ्च लघु स्वाहा” इति मन्त्रः ॥
अनेन मन्त्रेण सप्तवारमभिमन्त्रितं जलं गर्भिण्यै
पातुं दातव्यम् । सुखान् प्रसवोभवति ॥
इति गुह्यप्रसवगुह्येशः ।
( १ ) एहि मा चिरं स्यात् इति रघुमराय पाठान्तरम् ।
( २ ) गङ्गाम्बु यदुदके नीरदम्भ्यत ।
तृतीय सायक. ५६
(३३) अथ वन्ध्याकरण समुद्देशः-
अथ पलाशबीजादिप्रयोगमाह-
पलाशबीजद्रुमयोः फलानि
पुष्पाण्यथो शाल्मलिपादपस्य ।
मद्येन मासार्द्धदिनं निपीय
वन्ध्या भवेन्निश्चितमेव नारी ॥ ८१ ॥
"अथ कदम्बफलप्रयोगमाह-
फलं कदम्बस्य च माक्षिकानि
तुषोदकंन त्रिदिनं निपीय ।
स्नानावसानेनियमेन चापि
वन्ध्यामवश्यं कुरुते हठेन ॥८२॥
अथ रक्तमवृक्षबीजप्रयोगमाह-
कर्षद्वयं रक्तमवृक्ष-बीजं
सप्ताहमात्रं सितशालिवारा ।
र्तौ निपीतं मृगशावकाक्ष्या
वन्ध्यात्वमेतन्नियतं करोति ॥८३॥
इति वन्ध्याकरण समुद्देशः ।
[३४] अथ केशसंस्कारसमुद्देशः ।
तिलप्रसूनादिप्रलेप-
तिल-प्रसूनं सह गोक्षुरेण
३. पञ्चम सायक: वशीकरण, सुगन्ध-द्रव्य, सौन्दर्य-प्रसाधन व उपसंहार
५२ पञ्चसायके
समारधं गव्यघृतेन पिष्टम् ।
सप्ताहमात्रेण शिरः प्रलेपात्
भवन्ति दीर्घाः प्रचुराश्चकेशाः ॥४॥
अथ निम्बस्य तैलं निरूपयति—
“कर्पार्द्धमात्रं प्रसवं फलेन
निम्बस्य तैलं नियमेन पीतम् ।
क्रमेण कुन्देन्दु-तुषारगौरं
शिरोरुहं मेचकतामुपैति ॥५॥
इति केशसंस्कारसमुद्देशः ।
(३५) अथ इन्द्रलुप्तसमुद्देशः—
अथ गुञ्जाफलप्रयोगमाह—
गुञ्जाफलैः क्षौद्रयुतं विलिप्य
केशप्रदेशं सकलेन्द्रलुप्तम् ।
अनेन योगेन मदैव केशाः
रोहन्ति कृष्णाः कुटिला विशालाः ॥६॥
इति इन्द्रलुप्तसमुद्देशः ।
इति पञ्चसायके तृतीय सायकः
(१) “केशप्रदेशे सकलेन्द्रलुप्तं” इति पाठान्तरम् ॥
(२) वपुस्तत्वे सगुणरसं+चात्र चतुर्थः सायक समाप्यते ।
चतुर्थ सायक ५३
अथ चतुर्थः सायकः
[१] "अथ कन्यालक्षणसमुद्देशः-
अथ विवाहोचितकन्यायाः स्वरूपं वर्णयति
"प्रख्याते महति प्रभूतविभवे चारित्रशीलान्विते
विद्या धैर्य-विवेक-शौर्य विभव-श्लाघ्ये कुलीने कुले ।
कन्या भ्रातृयुता सुशीलविनया रूपोज्ज्वला दक्षिणा
१त्रैवर्ग्याश्रितशुद्धवंशजनिता सद्भिर्विवाह्या नरैः ॥ १ ॥
प्रकारान्तरेण स्वरूपं निरूपयति-
अम्भोजास्या बहलनयना भृङ्गकेशप्रचारा
तुङ्गा स्निग्धा कुसुमदशना पद्मगन्धाधरोष्ठी ।
रम्यश्रोत्रा मधुरवचना कम्बुकण्ठी शुभाङ्गी
मध्ये क्षीणा सुललितकरु दक्षिणावर्तनाभि ॥ २ ॥
"पीनश्रोणी कनककदलीस्तम्भजङ्घाभिरामा
रक्ताशोकप्रसवचरणा स्निग्धशाखाङ्गुलीका ।
इत्थं युक्ता सुललिततनुर्लक्षणैरुत्तमार्था
कन्या सद्भिश्श्रुतकुलरता सा विवाह्या गुणज्ञैः ॥ ३ ॥
इति कन्यालक्षणसमुद्देशः ॥
[२] "अथ कन्यादूषणसमुद्देशः-
अविवाह्यानां कन्यकानां स्वरूपं वर्णयति-
खर्वा पिङ्गलकुन्तला कृशतनुर्दीर्घातिरोमावृता
रूक्षा काकलोचना पृथुगला कृष्णाधरा दन्तुरा ।
१) "धर्मार्थाश्रिता प्रशस्ता । भगनासार्था शस्तारूपा" इति पाठान्तरमुपलब्धम् ।
४४ पञ्चमायके.
रुक्षाङ्गी विकटस्तनी च सबला विभ्रंशवीरात्मजा
वाचाला बहुभोजना च गदिनी प्रौढा च दुःखान्विता ॥४॥
पुष्पन्माधरवृत्तदेशनटिनी नक्षत्रसंज्ञा च या
हास्ये कूपयुगं कपोलफलके यस्या भवेत् सत्वरम् ।
अङ्गुष्ठाधिकपर्व्वणी चरणयोर्यस्याश्च जाताङ्गुलिः
पादस्यापि कनीनिका न पतति क्ष्मायां तदन्यैव वा ॥५॥
"प्रकारान्तरेण कन्यादूषणानि वर्णयति-
"अज्ञातान्वयजा स्वभावपिशुना लम्बाधरा चञ्चला
कुष्ठिश्वित्रिकुलोद्भवा च वितता यस्याः कटिर्नासिका ।
निन्द्या पल्लवजिह्विका द्रुतगति र्नूनाधिकाङ्गी पुन-
स्त्याज्याकामकलाकलापूरुशलैः कन्या विवाहे सदा ॥६॥
इति कन्यादूषणसमुद्देशः-
(३) अथ वरलक्षणसमुद्देशः-
प्रख्यातोऽमलवंशजो नववयाः शूरश्च शीलाश्रयः
मान्यारः स्थिरसौहृदो गुणनिधि र्नानाकूटुग्मी वली ।
सर्व्वाभोगरतो विशिष्टवचनो दाक्षिण्यधर्याश्रयः
जामाता जगतीतले कविवरैरेवंविधो वर्णितः ॥७॥
इति वरलक्षणसमुद्देश.