पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)
Panchasayaka of Kavishekhara Jyotirishvara with Commentary
कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री) द्वारा
पृष्ठ 103, कुल 109 में से
संदर्भ में पढ़ें७८ पञ्चमायके
[६] “अष्टनायिकासमुद्देशः-
अथ स्वाधीनपतिकायाः स्वरूपंनिरूपयति-
“यस्याः पतिर्लिखति केलिकथानुरक्तः
पार्श्वं न मुञ्चति मनोभववेगयुक्तः ।
स्यात्सुन्दरी सकलसौख्यकलानिधाना
स्वाधीनपूर्वकपतिकेति वदन्ति तज्ज्ञाः २९ ॥
अथ उत्कण्ठितायाः स्वरूपं निरूपयति=
पुष्पाङ्गराग-रुचिरा तरुणी प्रियस्य
तिष्ठत्यनागमनहेतु-विचारलोला ।
एषाऽबला न हि चिरं परिदेवनीया
सोत्कण्ठितेति कथिता कविभिः पुराणैः ॥ ३० ॥
“अथ वासकसज्जितायाः स्वरूपं निरूपयति=
स्रक्चन्दनाम्बरविभूषणभूषिताङ्गी
या वल्लभागमन-मार्ग-निरूढ-दृष्टिः ।
तल्पंगता रुचिरवासगृहेऽवशेते
सा कीर्तिता जगतिवासकसज्जितेति ॥ ३१ ॥
अथ कलहान्तरितायाः स्वरूपंवर्णयति=
क्रोधान्नयत्यातिचरणे पतितोऽपि कान्तः
प्रायःप्रचण्डवचनाक्षरैर्निरस्तः ।
- (१) समुद्देशोऽयं गपुस्तके पञ्चमसायकसमाप्तौ दृश्यते इति प्रागेव परि-
शिष्ट [निर्णीतम् ।