पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)

पञ्चसायक (कविशेखर ज्योतिरीश्वर - कामकला एवं रति-शास्त्र संस्कृत मूल पाठ)
Panchasayaka of Kavishekhara Jyotirishvara with Commentary
कविशेखर ज्योतिरीश्वर (सम्पादक: पं. श्रीधर शास्त्री) द्वारा
DevanagariSanskritpublished109 पृष्ठ
पृष्ठ 99, कुल 109 में से
संदर्भ में पढ़ेंपृष्ठ 99
५६ पञ्चमसायकः
पद्भ्यांस्थितो हस्तयुगञ्च भूमौ
त्रैविक्रमः स्यादिति निम्बराजः ॥ ११ ॥
"अथ चाटुकफेलुकाख्यं बन्धनिरूपयति-
"नितम्बबिम्बं किल नायकेन
नार्यास्त्रिकं हस्तयुगेनधृत्वा ।
गुल्फौनिधाय स्थित एव तस्या-
बन्धोऽप्यसौ चाटुकफेलुकः स्यात् ॥ १२ ॥
अथ अवदारिताख्यं बन्धं निरूपयति-
कान्तस्यवक्षः स्थलगा च पादा
वालिङ्ग्य गाढं प्रमदा कराभ्याम् ।
किञ्चिन्नतोरुद्वययोगकश्च
ज्ञेयो बुधैरित्यवदारितोऽयम् ॥ १३ ॥
इत्युत्तानबन्धसमुद्देश
"अथ पार्श्वबन्धसमुद्देशः—
उपवीतकाख्यं बन्धं दर्शयति
एकं युवत्या हृदयं स्वपादौ
तथार्पितं तत्परगतं तदन्यम् ।
प्रौढाङ्गना वल्लभ एषबन्धः
ख्यात पृथिव्यामुपवीतकाख्य ॥ १४ ॥
- (१) "चाटुक फेल्ल" इति गपुस्तकीय पाठान्तरम् ।