न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
प्रमाणप्रकरणम् ६९
तमिति, संयुक्तविशेषणभावादभावग्रहणं व्याख्यातम् इह घटो नास्तीति, चक्षुषा
संयुक्तो भूप्रदेशस्तद्विशेषणीभूतश्चाभाव इति ।
सन्निकर्षावश्यकत्वम्—
ननु सन्निकर्षावगमे किं प्रमाणम् , व्यवहितानुपलब्धिरिति ब्रूमः, यदि ह्य-
सन्निकृष्टमपि चक्षुरादीन्द्रियमर्थं गृह्णीयाद् व्यवहितो ऽपि ततो ऽर्थ उपलभ्येत
न चोपलभ्यते तस्मादस्ति सन्निकर्षः,
नन्वव्यवधानमेवास्तु किं सन्निकर्षेण, मैवम्-इन्द्रियाणां कारकत्वेन प्राप्य-
कारित्वात् , संसृष्टं च कारकं फलाय कल्पते इति कल्पनीयः संसर्गः, एतच्चे-
न्द्रियपरीक्षाप्रसङ्गे निपुणं निर्णेष्यते इति नेह विविच्यते, रसनस्पर्शनयोश्च स्पष्टं
प्राप्यकारित्वमुपलभ्यते इति तत्सामान्यादिन्द्रियान्तरेष्वपि कल्पनीयमिति ।
तच्चेदं प्रत्यक्षं चतुष्टयत्रयद्वयसन्निकर्षात्प्रवर्त्तते, तत्र बाह्ये रूपादौ विषये
चतुष्टयसन्निकर्षात् ज्ञानमुत्पद्यते आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रिय-
मर्थेनेति, सुखादौ तु त्रयसन्निकर्षाज्ज्ञानमुत्पद्यते तत्र चक्षुरादिव्यापाराभावात्,
आत्मनि तु योगिनो द्वयोरात्ममनसोरेव संयोगाज्ज्ञानमुपजायते तृतीयस्य
ग्राह्यस्य ग्राहकस्य तत्राभावात्, तस्मात्सुखादिज्ञानसंग्रहादिन्द्रियार्थसन्नि-
कर्षोत्पन्नमितियुक्तमुक्तम्, आत्ममनसोस्तु सदपि ज्ञानजनकत्वमिह न सूत्रितं
सर्वप्रमाणसाधारणत्वादिति ।
ज्ञानपदकृत्यम्- -
ज्ञानग्रहणं विशेष्यनिर्देशार्थम्, तस्य हीन्द्रियार्थसन्निकर्षोत्पन्नत्वादीनि वि-
शेषणानि तानि असति विशेष्ये कस्य विशेषणानि स्युरिति,
अथ वा सुखादिव्यावृत्त्यर्थं ज्ञानपदोपादानम् । इन्द्रियार्थसन्निकर्षोत्पन्नं
हि सुखमपि भवतितत्र तज्जनकं कारकचक्रं प्रमाणं मा भूज्ज्ञानजनकमेव
प्रमाणं यथा स्यादिति ज्ञानग्रहणम् ।
बौद्धमतेन ज्ञानस्य सुखरूपत्वम्—
अत्र शाक्याश्चोदयन्ति-न ज्ञानपदेन सुखादिव्यवच्छेदः कर्तुं युक्तः शक्यो
वा सुखादीनामपि ज्ञानस्वभावत्वात्, ज्ञानस्यैवामी भेदाः सुखं दुःखमिच्छा द्वे-
षः प्रयत्न इति, कारणाधीनो हि भावानां भेदो भवितुमर्हति समानकारणानाम-
पि तु भेदे ऽभिधीयमाने न कारणकृतं पदार्थानां नियतं रूपमिति तद्भाऽऽकस्मि-
कत्वप्रसङ्गः, तदुक्तम्—
तत्तद्रूपिणो भावास्तत्तद्रूपहेतुजाः ।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ इति ।
तस्माज् ज्ञानरूपाः सुखादयः तदभिन्नहेतुत्वादिति ।
स्वमतेन ज्ञानस्य सुखरूपताखण्डनम् ।
तदिदमनुपपन्नम्-प्रत्यक्षविरुद्धत्वाद्धेतोः, सुखादिसंवेद्यमानमानन्दादिरूपत-
या ऽनुभूयते ज्ञानं विषयानुभवस्वभावतयेति प्रत्यक्षसिद्धभेदत्वात्कथमभेदे ऽनु-
मानं क्रमते, अत एव इदमपि न वचनीयम्, एवमेवेदं संविद्रूपं हर्षवि-
षादाद्यनेकाकारविवर्त्तं पश्यामः तत्र यथेष्टं सञ्ज्ञाः क्रियन्तामिति, संविदो वि-
षयानुभवस्वभावतयैव प्रतिभासात् सुखादेश्च विषयानुभवस्वभावाऽनुस्यूतस्याप्र-
तिभासात्, ज्ञानमेव विषयग्रहणरूपं प्रकाशते न सुखं दुःखं वा, यस्तु सुखज्ञा-
नं दुःखज्ञानमिति प्रतिभासः स ज्ञानस्वभावभेदकृत एव संशयज्ञानं विपर्ययज्ञा-
नमितिवत्, उक्तमत्र संशयविपर्ययादौ विषयानुभवस्वभावत्वमनुस्यूतमवभाति
संशयो हि विषयग्रहणात्मको ऽनुभूयते अनिश्चितं तु विषयं गृह्णाति विपर्ययो-
ऽपि विषयग्रहणात्मक एव विपरीतमसन्तं वा विषयं गृह्णाति न तु विषयग्रह-
णास्वभावं सुखं दुःखं चानुभूयते, अन्य एवायं ग्राह्यैकस्वभाव आन्तरो धर्मः
सुखदुःखादिरिति घटज्ञानवद्विषयतयैव ज्ञानं भिनत्ति न स्वभावभेदेन संशयव-
दिति, तन्नैतस्यात् स्वप्रकाशत्वात्सुखादेर्न ग्राह्यैकस्वभावत्वम्, अतश्च ग्राह्यग्र-
हणोभयस्वभावत्वाज् ज्ञानमेव तदिति, मैवं वोचः, प्रकाशत्वं ज्ञाने ऽपि प्रति-
क्षिप्तं प्रतिषेत्स्यते तत्कुतः सुखादौ भविष्यति, न हि ग्रहणस्वभावं कश्चित्सुख-
मनुभवति ज्ञानवदिति ।
नन्वस्य प्रकाशत्वानभ्युपगमे सुखादेरुत्पादानुत्पादयोरविशेषात्सर्वदा सु-
खित्वं न कदा चिद्वा स्यादिति, नैतदेवम्-उत्पन्नमेव सपदि सुखं गृह्यते ज्ञाने-
नेति कथमनुत्पन्नान्न विशिष्यते, प्रत्युत स्वप्रकाशसुखवादिनामेष दोषः स्वप्र-
काशस्य दीपादेः सर्वान्प्रत्यविशिष्टत्वात् , क चित्सन्ताने स्वप्रकाशसुखोत्पादा-
त्तेनैव स्वप्रकाशेन सुखेनान्यो ऽपि सुखी स्याद्यस्यापि सुखं नोत्पन्नमिति, किं च
किमेकमेव ज्ञानं सर्वसुखदुःखाद्यशेषाकारभूषितमिष्यते उत किं चित्सुखात्मकं
किं चिद्दुःखात्मकं ज्ञानमिति, आद्ये पक्षे सर्वाकारखचितज्ञानोपजननादेक-
स्मिन्नेव क्षणे परस्परविरुद्धसुखदुःखादिधर्मप्रबन्धवेदनप्रसङ्गः, उत्तरस्मिंस्तु
किञ्चित्सुखज्ञानं किंचिद्दुःखज्ञानमिति यत्किं चित्सुखदुःखचितं विषयानुभव-
स्वभावमपि ज्ञानमनुभूयमानमेषितव्यमेव, तच्च न स्वच्छम् अपि तु केन चिद्-
घटादिना विषयेणोपरक्तमन्वयव्यतिरेकाभ्यां च घटाद्युपजननापाये ऽपि
बोधस्वभावमनुवर्त्तमानं प्रतीयते, तदिदानीं सुखज्ञानमप्यनुभूयमानं सुखेन
विषयभावजुषा घटादिनेवोपरज्यते इति गम्यते न स्वरूपेणैव सुखात्मकं ततो
भिन्नरूपस्य बोधमात्रस्वभावस्य ज्ञानस्यान्यदा दृष्टत्वादिति, तस्मान्न बोधरूपाः
सुखादयः, अभिन्नहेतुजत्वादिति चायमसिद्धो हेतुः समवायिकारणस्यात्मनः
असमवायिकारणस्यात्ममनः संयोगस्य अभेदे ऽपि निमित्तकारणस्य सुखत्व-
ज्ञानत्वादेर्भिन्नत्वात् ।
ननु सुखोत्पादात्पूर्वमनाश्रयं सुखत्वसामान्यं कथं तत्र स्यात् , कश्चापि
सुखहेतुभिः कारकैः संसर्गः असंसृष्टं च कथं कारकं स्यात् ,
उच्यते-सर्वसर्वगतानि सामान्यानि साधयिष्यन्ते इति सन्ति तत्रापि सु-
खत्वादीनि योग्यतालक्षण एव चैषां सुखहेतुभिः कारकैः संसर्गः धर्माधर्मवत् ,
धर्माधर्मौ हि सर्वस्य प्राणिनां सुखदुःखहेतोः जायमानस्य शाल्यादेः कार्यस्य
कारणं तयोश्च तत्कारणैः बीजक्षितिजलादिभिः सह योग्यतैव संसर्गः एवं
सुखत्वादीनामपि स्यात् , तस्मान्निमित्तकारणभेदाद्भिन्नानि ज्ञानसुखादीनि
कार्याणि ।
निमित्तकारणान्यत्वमपि कार्यस्य भेदकम् ।
विलक्षणा हि दृश्यन्ते घटादौ पाकजा गुणाः ॥
अपि च ज्ञानमिच्छन्ति न सर्वं ज्ञानपूर्वकम् ।
सुखदुःखादि सर्वं तु विषयज्ञानपूर्वकम् ॥
विषयानुभवात्पाश्चाद्यत्रापि न सुखादयः ।
तत्रापि तेषामुत्पत्तौ कारणं विषयस्मृतिः ॥
क्व चित्तु सङ्कल्पो ऽपि सुखस्य कारणतां प्रतिपद्यते, तस्मात्सर्वं सुखादि
ज्ञानपूर्वकमेव, ज्ञानमपि ज्ञानपूर्वकमेवेति चेद् उपरिष्टान्निराकरिष्यमाणत्वात्
न हि गर्भादौ मदमूर्च्छाद्यनन्तरं वा ज्ञानमुपजायमानं ज्ञानान्तरपूर्वकं भवतीति
वक्ष्यामः, तेन सुखादीनां वैलक्षण्योपपादनात् सुखादिव्यवच्छेदस्य सिद्धत्वात् ,
अव्यभिचारिपदाज्ज्ञानलाभशङ्कासमाधाने--
व्यभिचाराव्यभिचारौ हे ज्ञानस्य धर्मौ न सुखादेरतस्तदुपादानात्तद्धर्मयोगि
ज्ञानं लभ्यते एव किं ज्ञानग्रहणेन, नैतदेवम्-सुखस्यापि सव्यभिचारस्य दृष्ट-
त्वात् , किं
त्यलमतिकेलिना, तस्मात्समानन्यायत्वात्सुखे व्यभिचारितास्तीत्यव्यभिचारि-
पदाज्ज्ञानं न लभ्यते ।
व्यवसायपदाज्ज्ञानलाभसम्भवे विशेष्यनिर्देशार्थं ज्ञानपदम्--
अपर आह—किमनेन डिम्भकलहेन मा भूदव्यभिचारिपदाज्ज्ञानस्य
लाभस्तथापि व्यवसायात्मकपदाल्लभ्यत एव ज्ञानं न हि सुखदुःखादयो व्यव-
सायात्मका भवन्ति किं तु ज्ञानमेव तथाविधमिति, संशयव्यवच्छेदार्थं च त-
त्पदमिति चेत , सत्यम्—सुखादिव्यवच्छेदमपि कर्तुमलमेव भवति व्यवसा-
यात्मकत्वस्य सुखादिष्वसम्भवादिति, तदेवं सिद्धे ऽपि सुखादिव्यवच्छेदे कर्त्त-
व्यमेव ज्ञानग्रहणं विशेष्यनिर्देशार्थत्वात् , तस्य हि सर्वाण्यमूनि विशेषणान्यु-
पात्तानि तदनुपादाने निरालम्बनानि भवेयुः, श्रोतुश्च बुद्धिर्न समाधीयेतेति तेन
बलादगम्यमानमेव कर्त्तव्यमेव ज्ञानग्रहणम् , अर्थाक्षिप्तस्यावचने प्रत्यक्षं प्रत्य-
क्षमित्येतावन्मात्रमभिधेयं स्यादन्यदर्थाल्लभ्यत एव, तस्माद्धर्मिनिर्देशार्थं युक्तं
ज्ञानपदम् ।
अव्यपदेश्यपदकृत्यम्-
शब्दानामर्थसंस्पर्शित्वं शाक्यमतनिरासेन साधयिष्यते इति शब्दानुप्रवेश-
वशेन व्यपदेश्यं नाम ज्ञानमुपपद्यते इति तद्व्यवच्छेदार्थमव्यपदेशपदम् ।
तत्र वृद्धनैयायिकास्तावदाचक्षते, व्यपदिश्यते इति व्यपदेश्यं शब्दकर्मता-
मापन्नं ज्ञानमुच्यते यदिन्द्रियार्थसन्निकर्षोत्पन्नं सद्विषयनामधेयेन व्यपदिश्यते
रूपज्ञानं रसज्ञानमिति तद्व्यपदेश्यं ज्ञानं प्रत्यक्षफलं मा भूदित्यव्यपदेशग्रहणम्।
अव्यपदेश्यपदस्य कृत्यान्तरम्-
तदिदमनुपपन्नम्—न हि नामधेयव्यपदेश्यत्वमप्रामाण्यकारणं भवति
यदि हि तद्रूपज्ञानं रसज्ञानं च विषयाव्यभिचारि निःसंशयं च तत्कथमप्रमा-
णफलमुच्यते व्यभिचारादिदोषयोगे वा पदान्तरेण तत्प्रतिषेधात् किमव्यपदे-
श्यपदेन, प्रमाणफलं च तद्विज्ञानमिदानीं किं प्रमाणप्रभवं भवद् न प्रत्यक्षफलम्
एतत्पदप्रक्षिप्तत्वात् , नानुमानादिजन्यं तद्वैलक्षण्यात् , नास्ति किं चित् पञ्चमं
प्रमाणमसङ्ग्रहो ऽस्य लक्ष्यस्य लक्षणेनेति प्रज्ञाप्रमादः, तस्मादपव्याख्यानमे-
तदिति व्यवच्छेद्यान्तरमव्यपदेश्यपदस्य वर्ण्यां चक्रुराचार्याः—शब्दार्थेषु स्थ-
विरव्यवहारतो व्युत्पद्यमानो जनः संशयावगमसमये संज्ञोपदेशकादयं पनस उ-
च्यते इति वृद्धोदीरिताद्वाक्यात्पुरोऽवस्थितशाखादिमन्तमर्थं पनसशब्दवाच्यत-
या जानाति, तदस्य ज्ञानमिन्द्रियजमपि न केवलेन्द्रियकरणं भवितुमुचितम् ,
असति संज्ञोपदेशिनि शब्दे तदनुत्पादात्तेन शब्देन्द्रियाभ्यां सम्भूय जनित-
१० न्या०
७४ न्यायमञ्जर्याम्
त्वादुभयजमिदं ज्ञानं व्यपदेशाज्जातमिति व्यपदेश्यमुच्यते तद्व्यपदेश्यपदेन
व्युदस्यते, न चेदं परुक्षमं प्रमाणमवतरति किं तु शाब्दमिवैतदनुमन्यते लोकः,
तथा च कथं पुनः जानीते भवान्पनसो ऽयमिति पृष्टः प्रतिवक्ति मम देवदत्तेना-
ख्यातं पनसो ऽयमिति, न पुनरेवं विस्मृत्यापि ब्रवीति चक्षुषा मया प्रतिपन्नं
पनसो ऽयमुच्यते इति, तदिन्द्रियान्वयव्यतिरेकानुविधाने सत्यपि शब्द एवा-
त्र करणम् , अत एव सूत्रकृता शब्दलक्षणं वर्णयता नेन्द्रियानुप्रवेशप्रतिषेधाय
किमपि विशेषणमुपरचितम् , उपदेशः शब्द इत्येतावदेव लक्षणमभिहितम् ,
अतश्चेन्द्रियानुप्रवेशे ऽपि शाब्दतामस्य मन्यते सूत्रकारः, इह पुनरव्यपदेश्य-
विशेषणपदोपादानेन शब्दानुप्रवेशप्रतिषेधान्न प्रत्यक्षफलमेतज् ज्ञानं तस्मादेवं
विधव्यपदेश्यविज्ञानव्यवच्छेदार्थमव्यपदेश्यपदमिति,
अव्यपदेश्यपदस्य पूर्वोक्तप्रयोजनस्य निराकरणम्—
तदेतद्व्याख्यातारो नानुमन्यन्ते, यद्युभयजं ज्ञानमव्यपदेश्यपदेन व्यु-
दस्यते तदपि नाप्रमाणम् अप्रमाणलक्षणातीतत्वादिति, प्रमाणं भवत्कस्मिन्न-
नुनिविशतामिति चिन्त्यम् ।
ननु शाब्दमिदं ज्ञानं तद्भावानुविधानतः ।
भवत्वक्षजमप्येतत्तद्भावानुविधानतः ॥
शाब्दं चोभयजं चेति विरुद्धमभिधीयते ।
प्रमाणान्तरमेव स्यादित्थं तदपि पूर्ववत् ॥
ननु लोकः शाब्दतामस्य व्यपदिशति देवदत्तेनाख्यातं पनसो ऽयमिति व्य-
वहारादित्युक्तम्, अहो लोकवृत्तः श्रद्दधानो महानुभावः, न खलु लोकस्य व्य-
पदकैकशरणा वस्तुस्थितयो भवन्ति, लोको हि यथारुचि व्यपदिशति, नाना-
मुनिजनसाधारणमपि तीर्थं नन्दिकुण्डमिति किं न श्रुतवान् भवान्, हन्त तर्हि
सूत्रकाराशयमनुसरन्तः शाब्दमिदं ज्ञानं प्रतिपद्यामहे यदयं सूत्रकारः प्रत्यक्षे
शब्दानुप्रवेशव्यवच्छेदार्थ विशेषणमिदमुपदिशति शब्दे तु नेन्द्रियव्युदासाय
किं चिद्विशेषणमुपादत्ते स पश्यति करणान्तरानुप्रवेशे ऽपि शाब्दमेतज् ज्ञान-
मिति, उच्यते—
मनुवत्सूत्रकारो ऽपि न धर्मस्योपदेशकः ।
येनैतदनुरोधेन तस्य ब्रूयाम शाब्दताम् ॥
वस्तुस्थित्या तु निरूप्यमाणमिन्द्रियान्वयव्यतिरेकानुविधायित्वादिदं विज्ञानं
न प्रत्यक्षफलतामतिवर्त्तते, ततश्च व्युदस्यमानं प्रमाणन्तरमेव स्पृशेत् ।
तस्मादुभयजज्ञानव्युदासानुपपत्तितः ।
व्याख्या भङ्ग्यन्तरेणास्य पदस्येयं विधीयते ॥
प्रमाणप्रकरणम् ७५
वाच्यार्थप्रत्यये वाचकशब्दस्य विषयतया प्रसक्ता-
संभवदोषवारणार्थमव्यपदेश्यपदम्—
असम्भवदोषव्यवच्छेदार्थमव्यपदेश्यपदोपदानम् , एवं हि परो मन्यते स-
ति लक्ष्ये लक्षणवर्णनमुचितम् इह तु लक्ष्यमाणं प्रत्यक्षमिन्द्रियार्थसन्निकर्षोत्पन्नं
नाम न किं चिदस्ति, गौरित्यादिज्ञानानां शब्दावच्छिन्नवाच्यविषयत्वेन शाब्द-
त्वात्, इह हि विषयव्यतिरेकेण ज्ञानानामतिशयो दुरुपपादः बोधस्वभावस्य
सर्वान्प्रत्यविशिष्टत्वात्, तत्र यथा दण्डीति शुक्न इति वा प्रत्ययो विशेषणावच्छि-
न्नविशेष्यविषयतया सातिशयत्वमश्नुते तथा गौरित्यादिप्रत्ययो ऽपि वाचकाव-
च्छिन्नवाच्यविषयत्वात्सातिशयत्वं भजते शब्दावच्छिन्नवाच्यविषयत्वाच्च शाब्द
एष प्रत्ययः तद्व्यतिरिक्तकरणाकार्यत्वानुपपत्तेः, न हीन्द्रियकरणमिदं ज्ञानं भवि-
तुम
न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥
तस्मात्प्रत्यक्षस्य लक्ष्यस्यासद्भावात्कस्येदं लक्षणमुपक्रान्तमिति असम्भव-
दोषमाशङ्क्याह सूत्रकारः अव्यपदेश्यमिति, यदिदमविदितपदपदार्थसंबन्धस्य
ज्ञानमुत्पद्यते विदितसंबन्धस्यापि वा यत्प्रथमाक्षसन्निपातसमये एव-ज्ञानमनु-
ल्लिखितशब्दकं शब्दानुस्मरणे हेतुभूतमुपजायते तदशाब्दम् अशाब्दावच्छिन्न-
विषयमव्यपदेश्यमिन्द्रियार्थसन्निकर्षैककरणमविकल्पं प्रत्यक्षम् , न च शब्दकृता
बुद्धीनां प्रकाशस्वभावता, स्वत एव तासामेवंरूपत्वात्, न च निर्विकल्पकसमये
यत्किं चिदिदमित्यादिसामान्यशब्दोल्लेखः को ऽपि कैश्चिदनुभूयते तस्माद् गौ-
रित्यादिज्ञानानां शाब्दत्वे ऽपि तथाविधस्य ज्ञानस्य लक्ष्यस्य सद्भावान्न व्यर्थं
लक्षणमित्येवमसम्भवदोषनिराकरणार्थमव्यपदेश्यपदमिति,
वाच्यार्थप्रत्यये वाचकशब्दस्याऽविषयत्वेनासम्भवदोषनिरासः-
तदेतदाचार्या न क्षमन्ते न गौरित्यादिज्ञानमिन्द्रियार्थसन्निकर्षोत्पन्नमपीदं
शाब्दमिति वक्तुं युक्तम् न चात्र शब्दावच्छिन्नार्थः प्रकाशते तथाविधार्थग्रहणे
करणाभावाद्, विशेषार्थप्रमितौ तावच्छब्दः करणम्, विशेषणभूतस्य तु शब्द-
स्य ग्रहणे किं करणमिति निरूप्यताम्, न श्रोत्रं विरम्य व्यापारासंवेदनात्
संबन्धग्रहणादूर्ध्वं च स्मर्यमाणशब्दयोजनया जायमाने गौरित्यादिज्ञाने श्रोत्रं
करणमाशङ्कितुमपि न युक्तम्, नापि मनो बाह्यकरणनिरपेक्षं बाह्ये विषये धिय-
माधातुमलम् अन्धाद्यभावप्रसङ्गात् ।
ननु शब्द एव करणमित्युक्तं तत्किमपरकरणाशङ्कनेन, मैवम्-एकस्य
कारकस्यैकस्यामेव क्रियायां कर्मकरणभावानुपपत्तेः, सवितृप्रकाशवदिति चेद्
न क्रियाभेदाद् यत्रासौ करणं न तत्र कर्म यत्र वा कर्म न तत्र करणमिति,
घटादिविषयप्रमितिजन्मनि करणमेव तरणिप्रकाशो न कर्म तद्ग्रहणकाले तु
कर्मैवासौ न करणम्, किं तर्हि तत्र करणमिति चेत् केवलमेव चक्षुरिति ब्रूमः
आलोकग्रहणे चक्षुषः प्रकाशान्तरनिरपेक्षत्वात्, कथमेवमिति चेद् अपर्य-
नुयोज्या हि वस्तुशक्तिः घटादिग्रहणे चक्षुरुद्द्योतमपेक्षते नोद्द्योतग्रहणे इति
कमनुयुञ्ज्महे, सो ऽयं सूर्यप्रकाशः प्रकाशान्तरनिरपेक्षचक्षुरिन्द्रियप्रथमगृहीतः
चिरमवतिष्ठमानस्तदिन्द्रियग्राह्य एकविषये गृह्यमाणे करणतामुपयातीति युक्तम्,
शब्दस्तु क्षणिकः श्रोत्रेन्द्रियग्राह्यस्तदितरपरिच्छेदे विषये तदवगमक्रियायां क-
रणीभूय भूयस्तस्यामेव क्रियायां कथमिव कर्मभावमनुभवेत्, शब्दो हि
धूमादिवदुपाय एव नोपेयः स उपायत्वात्प्रथमं गृह्यतां नाम न उपेयग्रहणकाले
पुनर्ग्रहणमर्हति धूमवदेवेति, एवं स्मर्यमाणो ऽपि शब्दो यत्रार्थप्रतीतिकारणं
प्रमाणप्रकरणम् ७७
'तत्रापि प्रथमं शब्दस्मरणं ततः शब्दार्थसम्प्रत्ययो भवति नतरां तत्रार्थप्रती-
तिवेलायां शब्दग्रहणं सम्भाव्यते, तस्मान्नास्ति वाचकविशेषितवाच्यप्रतिभासः,
अपि च गौरित्यादिज्ञानमिन्द्रियार्थसन्निकर्षान्वयव्यतिरेकानुविधायि प्रसभं त-
त्कथं शाब्दमित्युच्यते ।
.शब्दस्मरणसापेक्षं यस्योत्पादकमिन्द्रियम् ।
तदेव यदि ते शाब्दमहो नैयायिको भवान् ॥
ननु शब्दावच्छिन्नमर्थं न चक्षुः श्रोत्रयोरन्यतरदपि करणं ग्रहीतुमलम-
त्युक्तम् , भोः साधो चक्षुरेवैनं ग्रहीष्यतीति कथं न ब्रूषे ।
ननु नाविषये युक्तमिन्द्रियस्य प्रवर्त्तनम् ।
तेन शब्दविशिष्टार्थज्ञानं नेन्द्रियजं ब्रुवे ॥
मरीचिषु जलज्ञानं कथमिन्द्रियजं तव ।
तत्रापि हि न तोयेन सन्निकर्षो ऽस्ति चक्षुषः ॥
ननु च स्मृत्युपारूढमुदकं तत्र गृह्यते ।
इहापि स्मृत्युपारूढः शब्दः कस्मान्न गृह्यते ॥
ननु शब्दो न नेत्रस्य कदा चिदपि गोचरः ।
असंनिहितमप्यम्बु किं वा भवति गोचरः ॥
नन्वेकेन्द्रियवादः स्याच्चाक्षुषे शब्दवेदने ।
अत्रापि सर्वबोधः स्यादसन्निहितवेदने ॥
ननु च मरीचिजलज्ञानं भ्रान्तमिति कथमिह दृष्टान्तीक्रियते, कथञ्चास्य भ्रा-
न्तत्वं किमनिन्द्रियजत्वादुत व्यभिचारित्वात् , तत्रानिन्द्रियजत्वेनास्य भ्रान्त-
तायामिन्द्रियार्थसन्निकर्षोत्पन्नपदेनैव निरासादव्यभिचारिपदमनुपादेयमिति,
तदुपादानात्तु व्यभिचारित्वेनास्य भ्रान्तत्वमिति नूनमिदमिन्द्रियजमसंनिहितस-
लिलज्ञानमभ्युपगन्तव्यम् ।
यथा चाविषये तस्मिन्नीरे नयनजा मतिः ।
तथा वाचकसंस्पृष्टे वाच्ये किमिति नेष्यते ॥
यथा च तव कालादि नीरूपमपि चाक्षुषम् ।
तथा शब्दानुरक्तो ऽपि किमित्यर्थो न चाक्षुषः ॥
एवं हीन्द्रियव्यतिरेकानुविधानमत्र न वाधितं भविष्यति ।
ननु चाक्षुषतां शब्दे न जीवन्वक्तुमुत्सहे ।
त्यजैनं वाचकोपेतवाच्यावगमदुंग्रहम् ॥
अपि चामुष्य शाब्दत्वे संबंधग्रहणं कथम् ।
न चागृहीतसंबन्धः शब्दो भवति वाचकः ॥
७८ न्यायमञ्जर्याम्
निर्विकल्पकविज्ञानविषये न च तद्ग्रहः ।
शाब्दपत्ते तु निश्चितं भवता सविकल्पकम् ॥
संबन्धः शक्यते बोद्धुं न च मानान्तराद्विना ।
शाब्दज्ञानेन तद्बोधे भवेदन्योन्यसंश्रयम् ॥
न च शब्दोपरक्ते ऽर्थे संबन्धं बुध्यते जनः ।
गो शब्दवाच्यो गोशब्द इति हि ग्रहणं भवेत् ॥
वाच्यस्य हि गवादेर्गोशब्दविशेषितस्य वाच्यत्वाद्वाच्यो ऽर्थ इव गोशब्दो
ऽपि वाच्यतामवलम्बते ।
यदि च स्वानुरागेण वाचकाद्वाच्यवेदनम् ।
लिङ्गादपि भवेद् बुद्धिः स्वावच्छेदेन लिङ्गिनि ॥
अथ धूमान्वितत्वेन न वह्निरवगम्यते ।
इहापि शब्दयोगेन गवादिर्नैव गम्यते ॥
न चास्ति वस्तुनो धर्मो वाच्यता नाम कश्चन ।
यदि स्यान्निर्विकल्पे ऽपि प्रतिभासेत रूपवत् ॥
अर्थासंस्पर्शिनः शब्दान्कथयन् दुष्टसौगतः ।
प्रत्यक्षास्त्रेण भेत्तव्यः स कथं हन्यते त्वया ॥
प्रत्यक्षविषये वृत्तिः शब्दानां भवतः कुतः ।
तेषां यद्विषये वृत्तिस्तद्धि शाब्दीकृतं त्वया ॥
अपि च विषयभेदेन प्रतिभासभेदो भवतीति दुराशया शब्दविशिष्टमर्थं नि-
र्विकल्पात् सविकल्पस्य विषयमधिकं पश्यति भवाननेनैव च वर्त्मना ऽवतरन्परं
शब्दाध्यासं न पश्यतीति को ऽयं व्यामोहः, स त्वं वचनीयो ऽसि संवृत्तः 'मधु
पश्यसि दुर्बुद्धे प्रपातं नैव पश्यसि' इति ।
तस्माद्गौरिति विज्ञानं प्रत्यक्षमवधार्यताम् ।
शब्दस्मरणसापेक्षचक्षुरिन्द्रियनिर्मितम् ॥
मानसत्वं तु यत्तस्य नेष्यते युक्तमेव तत् ।
तद्भावानुविधायित्वाद् बाह्येन्द्रियजमेव तत् ॥
शब्दस्य विशेषणतया प्रत्यक्षविषयत्वेन प्रसक्तासम्भवदोषवारणा-
र्थमव्यपदेश्यपदम्--
अत्र पुनः प्रवराः प्राहुः, नन्वेवं गौरित्यादिबोधेषु वाचकावच्छिन्नवाच्यप्र-
तिभासे सर्वप्रकारमपाक्रियमाणे प्रथमाक्षसंनिपातसमयमासादितसद्भावनिर्वि-
ल्पकवेदनवैलक्षण्यं कथमेषां भवेत्, न हि विषयातिशयमन्तरेण प्रतिभासाति-
प्रमाणप्रकरणम् (पृष्ठ ७९)
शयो भवितुमर्हति, दण्डीति दण्डविशिष्टः पुरुषः प्रतिभासते इतरथा न केवल-
पुरुषप्रतीतेरेषा प्रतीतिर्विशिष्यते उभयप्रतिभासे ऽपि न दण्डपुरुषाविति प्रतीतेः
विशेषणविशेष्यभावस्य नियामकत्वात् ।
पूर्वापरचिरक्षिप्रक्रमाद्यवगमेष्वपि ।
दिक्कालादिविशिष्टो ऽर्थः स्फुरत्यतिशयग्रहात् ॥
प्रत्यक्षः किं स कालादिः प्रतीतिं पृच्छ किं मया ।
गृह्यते तद्विशिष्टो ऽर्थः स च नेत्येतदद्भुतम् ॥
एतेन समवाये ऽपि प्रत्यक्षत्वं प्रकाशितम् ।
इहेति तन्तुसंबद्धपटप्रत्ययदर्शनात् ॥
अयं पट इति प्रत्ययादिह तन्तुषु पट इति विलक्षण एष प्रत्ययः तन्तुपट-
संबन्धस्य विशेषणस्याप्रत्यक्षतायां न केवलपटप्रत्ययाद्विशिष्येतेति, अथ मतम्
उपायभेदात्प्रतीतिभेदो भवति दूराविदूरदेशव्यवस्थितस्थाण्वादिपदार्थप्रतीतिवत्
संस्कृतासंस्कृताक्षकरणविषयबोधवद्वेति, तदसांप्रतम् , उपायभेदे ऽपि तद्भेदासि-
द्धेः, उपायो बुद्धावतिशयमादधाति न विषये विषयावगतिसमये च न बुद्धिरव-
भातीति नैयायिकाः, तदयमतिशयो यदधिकरणस्सा न प्रतिभासते बुद्धिः यश्च
तदानीमवभासते विषयः तत्रातिशयो नास्ति दृश्यते चातिशयसंवेदनमिति सङ्क-
टः पन्थाः, न च दूराविदूरदेशवर्त्तिनि पदार्थे प्रतीतिरूपायभेदाद्भिद्यते, सापि हि
विषयभेदादेव भिद्यते ।
दूराद्धि वस्तुसामान्यं धर्ममात्रोपलक्षितम् ।
अदूरतःस्तु विस्पष्टविशेषमवसीयते ॥
यथा माघेन वर्णितम्—
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥
क्रियान्तराणां वैचित्र्ये यद्वा तद्वा ऽस्तु कारणम् ।
भेदो ज्ञानक्रियायास्तु कर्मभेदनिबन्धनः ॥
शब्दस्य विशेषणतया प्रत्यक्षविषयत्वेनासम्भवदोषनिरासः —
तदेतदाचार्याः प्रतिसमादधते-न विषयभेदादेव प्रतिभासभेदः किं तूपाय-
भेदाद्भवत्येव, यच्च चोदितं विषयप्रतिभासकाले तत्प्रतिभासाप्रतिभासादतिशयव-
चने सङ्कटः पन्था इति तदविदितनैयायिकदर्शनस्यैव चोद्यम् , ज्ञानोत्पाद एव
विषयस्य प्रत्यक्षतेति नो दर्शनं न ज्ञानग्रहणमिति, तत्रयथा पुरुष इति निरति-
शयज्ञानमात्रोत्पादे तावन्मात्रविषयप्रत्यक्षता भवति न तत्र ज्ञानं प्रकाशते अगृ-
ह्यमाणे ऽपि ज्ञाने विषय एव प्रतिभासते एवं दण्डीति शुक्लवासा इति विशेष-
णज्ञानाभ्युपायातिशयवशात् सातिशयप्रत्ययजनने तदग्रहणे स एव विषया ऽव-
भासते इति कियानेष सङ्कटः पन्थाः, तथा च दण्डीति पुरुषप्रवणैव मतिः को
दण्डी पुरुषः कः पुरुषो दण्डीति सामानाधिकरण्येन निः सन्धिबन्धस्य पुंस एव
प्रतिभासात् , एवं दण्डिनं भोजय दण्डिने देहीति भोजनादिकार्ययोगित्वं न
दण्डे दृश्यते ऽपि तु पुंस्येव,
ननु दण्डी पर्वतमारोहतीति दण्डे ऽपि कार्यान्वयो दृश्यते लोके वेदे
ऽपि दण्डी मैत्रावरुणः प्रैषानन्वाहेति प्रैषानुवचनस्य वचनान्तरतः प्राप्तेर्दण्डवि-
धानार्थमेतद्वाक्यं भवति यथा लोहितोष्णीषा ऋत्विजः प्रचरन्तीति श्येनादौ-
ऋत्विजां प्रकृतिवद्भावेन प्राप्तानां लोहितोष्णीषविधानमात्रमेतद्भवति, उच्यते-
भवत्वेवं किं तु दण्डमवलम्ब्य पुरुषः पर्वतमारोहति न दण्डो निश्चेतनः वेदे
ऽपि दण्डपाणिः पुरुषः प्रैषाननुभाषते न दण्डः न लोहिता उष्णीषाः प्रचरन्ति
किं तु अन्यपदार्थीभूता ऋत्विज एवेति सर्वत्र विशेष्यप्रवणैव मतिः उभय-
प्रतिभाने तु दण्डपुरुषाविति स्यान्न दण्डीति, विशेषणविशेष्यभावस्य नियाम-
कत्वादिति चेत् सेयं विशेष्यप्रवणा मतिरुक्तैव भवति, विशेषणस्य विशेष-
णत्वेनैवोपसर्जनत्वादण्डो ऽस्यास्तीति पुरुष एवोच्यते न दण्डपुरुषौ, एवं
पूर्वापरादिप्रत्ययाश्चिरंक्षिप्रदिप्रत्यया इह तन्तुषु पट इत्यादिप्रत्ययाश्च दिक्का-
लसमवायग्राहिणः, त इमे दिक्कालसमवायाः सामग्र्यन्तर्गताः सन्तः प्रत्यया-
तिशयमादधति न तद्विषये भवन्ति पटादिद्रव्यवत् , एवं पतनानुमेयगुरुत्वा-
दिकारणभेदजनिता गुरुः पाषाण इत्यादिप्रत्ययाः परोक्षविशेषणं विशेष्यमवल-
म्बन्ते इत्यलं विस्तरेण ।
• तस्माद्गौरित्यादिज्ञानं न वाचकावच्छिन्नवाच्यविषयम् अतश्च न शाब्दं
तत् , अपि तु सुस्पष्टं प्रत्यक्षमेव, तस्मिंश्च लक्षिते सति लक्षणवैयर्थ्यशङ्काकर-
णाभावात्रासम्भवदोषनिराकरणार्थमव्यपदेश्यपदम् ।
अव्यपदेश्यपदस्याचार्यमतेन प्रयोजनप्रदर्शनम्---
किमर्थं तर्हीदमस्तु, उक्तमाचार्यैः उभयजज्ञानव्यवच्छेदार्थमिति, ननु तदपि
प्रत्यक्षमेवेति, अनपोद्यमुक्तम् , पुरोऽवस्थितगवादिपदार्थस्वरूपमात्रग्रहणनि-
ष्ठितसामर्थ्यमत्र प्रत्यक्षम् , गोशब्दवाच्यतायां तु संज्ञाकर्मोपदेशी शब्द एव
प्रमाणम् , यद्यपि शब्दार्थसम्बन्धपरिच्छेदे गत्यन्तरमपि सम्भवति तथा ऽपि
यत्र तावत् संज्ञिनं निर्दिश्य सञ्ज्ञा वृद्धैरुपदिश्यते गोशब्दवाच्यो ऽयं पन-
सशब्दवाच्योऽ यमिति तत्र तद्वाच्यतापरिच्छेदे स एव कारणम् ।
अत एव च लोको ऽपि शाब्दत्वमभिमन्यते ।
शब्दोपरचितापूर्वज्ञानातिशयतोषितः ॥
तच्छब्दवाच्यताज्ञप्तिर्विना संज्ञोपदेशिनः ।
शब्दान्नेति स एवात्र सत्यप्यक्षे प्रकर्षभाक् ॥
अतः सूत्रकृता ऽप्यत्र शब्दातिशयदर्शनाद् ।
व्यधायि तद्व्यवच्छेदो न तु धर्मोपदेशिना ॥
तस्मादुभयजज्ञानव्यवच्छेदार्थमेवेदं पदमिति ।
अव्यपदेश्यपदस्य मतान्तरेण प्रयोजनप्रदर्शनम्--
अन्ये मन्यन्ते यदि संकेतग्रहणकाले भाविनः संज्ञोपदेशकवचनजनित-
स्योभयजज्ञानस्य व्यवच्छेदकमिदं वर्ण्यते पदं तदा तद्व्यवहारकाले ऽपि
यदयं गौरिति संकेतग्रहणकालानुभूतदेवदत्ताद्युदीरितसंज्ञोपदेशकवचनस्मरण-
पूर्वकं विज्ञानमुत्पद्यते तदप्युभयजमेवेति कथमेनेन न व्युदस्यते ।
ननु तत्र शब्दस्मरणं कारणं न शब्दः संकेतकाले ऽपि शब्दस्मरणमेव
कारणं न हि क्रमभाविनो वर्णा युगपदनुभवितुं पार्यन्ते अन्त्यवर्णे तु गृह्य-
माणे स्मर्यमाणे वा किं शब्दव्यापारो विशिष्यते ।
ननु व्यवहारकाले गवादिनामधेयपदमात्रमेव स्मर्यमाणमिन्द्रियेण सह
सविकल्पप्रत्ययोदये व्याप्रियते संकेतकाले तु संज्ञोपदेशि वृद्धवाक्यमिति चेन्मै-
वम् , व्यवहारकाले ऽपि संज्ञोपदेशकं वृद्धवाक्यमेव स्मर्यते तदस्मरणे तच्छ-
ब्दवाच्यताऽनवगमात् , अस्य गौरिति नाम देवदत्तेनोपदिष्टमासीदित्येवमनुस्मृ-
त्य गोशब्दवाच्यतयैवं व्यवहरतीति वाक्यस्मरणजमेवेदं ज्ञानम् ।
तस्मादस्यापि तद्वाक्यं संज्ञाकर्मोपदेशकम् ।
हेतुतामुपयातीति शाब्दमेतदपीष्यताम् ॥
एवमस्त्विति चेच्छ्रान्तमेवं सति तपस्विनाम् ।
नैयायिकानामुत्पन्नं प्रत्यक्षं सविकल्पकम् ॥
यत्र मार्गान्तरेणापि संकेतज्ञानसम्भवः ।
तत्राप्यनेन न्यायेन शाब्दता न निवर्तते ॥
नैयायिकानां च सविकल्पप्रत्यक्षमयाः प्राणाः तस्मान्नोभयजस्य शाब्दत्वं
ज्ञानस्य वक्तव्यम् , संबन्धाधिगमस्तु नानाप्रमाणकः, तत्र स्वे स्वे विषये त-
त्प्रमाणं प्रवर्तते, यथाह भट्टः संबन्धस्त्रिप्रमाणक इति, तस्मान्नैकस्य शब्दस्य
भार आरोपणीयः , प्रत्यक्षं तु संकेतग्रहणकाले ऽपि स्वविषयग्राहकम् इदानी-
मपि व्यवहारकाले ऽपि तत्स्वविषयग्राहकमिति नोभयजज्ञानव्यवच्छेदपक्षो
निरवद्यः, तस्माद्वरं जरन्नैयायिककथितशब्दकर्मतापन्नज्ञानव्यवच्छेद एवाश्री-
यताम् , तत्र तावत्कर्मणि कृत्य कृते व्यपदेश्यशब्दो यथार्थतरो भवति ।
ननु तत्र चोदितं न तादृशं ज्ञानमप्रमाणं न परोक्षमप्रमाणमिति, सत्यम् ,
११ न्या०
अयं तु तेषामाशयः, रूपादिविषयग्रहणाभिमुखं हि तदक्षजं ज्ञानं प्रमाणं वा
फलं वोच्यते यदा तु तदेव शब्देनोच्यते रूपज्ञानं रसज्ञानमिति तदा रूपादिज्ञा-
नविषयग्रहणव्यापारलभ्यां प्रमाणतामपहाय शब्दकर्मताऽऽपत्तिकृतां प्रमेयतामे-
वावलम्बतेइति न तस्यां दशायां तत्प्रमाणमिति कुतः पञ्चमप्रमाणप्रसङ्ग इति,
अपर आह, सविकल्पकस्य शब्दसंकल्पकस्य शब्दसंसर्गासापेक्षजन्मनः प्र-
त्यक्षज्ञानस्य शाब्दतां पूर्ववदाशङ्क्य तस्यैवाशाब्दतां दर्शयत्यव्यपदेश्यपदेन सू-
त्रकारः, प्रत्यक्षमेव तज्ज्ञानमिन्द्रियान्वयव्यतिरेकानुविधायित्वादव्यपदेश्यम-
शाब्दमित्यर्थः ।
स्पष्टत्वाद् वाचकाभावादिन्द्रियानुविधानतः ।
लोकस्य संमतत्वाच्च प्रत्यक्षमिदमिष्यते ॥
शब्दानुस्मृतिजत्वे ऽपि न शाब्दं ज्ञानमीदृशम् ।
शब्दस्मृतिः सहायः स्यादिन्द्रियस्य प्रदीपवत् ॥
नन्वेवं सविकल्पस्य प्रत्यक्षत्वे प्रसाधिते ।
नेदानीं संगृहीतं स्यात्प्रत्यक्षं निर्विकल्पकम् ॥
यत्तु शब्दानुवेधेन शाब्दत्वं सविकल्पके ।
कश्चिदाशङ्कते तस्य प्रतिशब्दो ऽयमुच्यते ॥
यत्र शब्दानुवेधे ऽपि प्रत्यक्षं ज्ञानमिष्यते ।
तत्र तत्स्पर्शशून्यस्य तथात्वे का विचारणा ॥
निर्विकल्पकवत्तस्मात्प्रत्यक्षं सविकल्पकम् ।
समग्रहीच्च तदिदं पदेनानेन सूत्रकृत् ॥
इत्याचार्यमतानोह दर्शितानि यथाऽऽगमम् ।
यदेभ्यः सत्यमाभाति सभ्यास्तदवलम्ब्यताम् ॥
अव्यभिचारिपदकृत्यप्रदर्शनम्—
अव्यभिचारिग्रहणं व्यभिचारिज्ञानव्यवच्छेदार्थम्, यथा ग्रीष्मे तपति ल-
लाटन्तपे तपने तन्मरीचिषु चतुरमूपरभुवमभिहत्य समुत्फलितेषुत्तरङ्गाकार-
धारिषु यद् वारिधिज्ञानं तदतस्मिंस्तदिति ग्रहणाद् व्यभिचारि भवति तदनेन
पदेन व्यवच्छिद्यते न तत्प्रत्यक्षमिति, तत्र च निर्विकल्पकमपि प्रथमनयनसन्नि-
पातजज्ञानमुदकसविकल्पकज्ञानजनकमुदकग्राह्येव न यथा तथा तथागताः कथ-
यन्ति मरीचिविषयमविकल्पकं ज्ञानमुदकसविकल्पकजननादप्रमाणमिति निर्वि-
कल्पावस्थायामविचारयत एव प्रथमोन्मीलतचक्षुषो झगिति सलिलप्रतिभासात्
अथ वा वाचकोल्लेखपूर्विका अपि संविदः नैवेन्द्रियार्थजन्यत्वं जहतीत्युपपा-
दितम् , तस्मात्सविकल्पकमविकल्पकं वा यदतस्मिंस्तदिति ज्ञानमुत्पद्यते तद्व्यभि-
चारि तन्नेह व्यावर्यमिति ।
प्रमाणप्रकरणम् ८३
ननु मरीचिषु जलज्ञानमविद्यमानसलिलावभासित्वादनिन्द्रियार्थसन्निकर्ष-
जमतश्चेन्द्रियार्थसन्निकर्षोत्पन्नपदेन तद्व्युदाससिद्धेः किमव्यभिचारिपदेन
नैतदेवम्—
तस्येन्द्रियार्थजन्यत्वं सिद्धं तद्भावभावतः ।
न ह्यनुन्मीलिताक्षस्य मरौ सलिलवेदनम् ॥
अर्थो ऽपि जनकस्तस्य विद्यते नासतः प्रथा ।
तदालम्बनचिन्तां तु त्रिधा ऽऽचार्याः प्रचक्रिरे ॥
कैश्चिदालम्बनं तस्मिन्नुक्तं सूर्यमरीचयः ।
निगूहितनिजाकाराः सलिलाकारधारिणः ॥
तत्र तरङ्गादिसामान्यधर्मग्रहणे सति न स्थाणुपुरुषवदुभयविशेषा न च
सन्निहितमरीचिविशेषाः स्मरणपथमवतरन्ति किं तु पूर्वोपलब्धविरुद्धसलिल-
वर्तिनो विशेषास्तत्स्मरणाच्च स्थगितेषु स्वविशेषेषु मरीचयः स्वरूपमुपदर्शयितु-
मशक्नुवन्तः तोयरूपेणावभासन्ते ।
अन्ये त्वालम्बनं प्राहुः पुरोवस्थितधर्मिणः ।
सादृश्यदर्शनाद्भूतस्मृत्युपस्थापितं पयः ॥
यत्र किल ज्ञाने यद्रूपमुपप्लवते तत्तस्यालम्बनमुच्यते न सन्निहितम् , न
चैकान्तासतः खपुष्पादेः ख्यातिरवकल्पते इति देशान्तरादौ विद्यमानमेव स-
लिलं सदृशदर्शनप्रबुद्धसंस्कारोपजनितस्मरणोपारूढमिहावलम्बनीभवति ।
अन्यदालम्बनं चान्यत्प्रतिभातीति के चन ।
आलम्बनं दीधितयस्तोयं च प्रतिभासते ॥
कर्तृकरणव्यतिरिक्तं ज्ञानजनकमालम्बनमुच्यते इति न परमाण्वादौ प्रस-
क्तिरिति, तदिदं पक्षत्रयमप्युपरिष्टान्निपुणतरं निरूपयिष्यते, तदेवं बाह्येन्द्रिया-
र्थान्वयव्यतिरेकाऽनुविधायिनां विभ्रमाणामिन्द्रियार्थसन्निकर्षोत्पन्नपदेन निरसि-
तुमशक्यत्वाद् युक्तमव्यभिचारिपदोपादानम् ।
यस्तु मानसा विभ्रमा बाह्येन्द्रियानपेक्षजन्मानः तेषां सत्यमिष्यते एवेन्द्रि-
यार्थसन्निकर्षपदेन पर्युदासनमिति न तदर्थमव्यभिचारिपदोपादानम्, तद्यथा—
विरहोद्दीपितोद्दामकामाकुलितदृष्टयः ।
दूरस्थामपि पश्यन्ति कान्तामन्तिकवर्त्तिनीम् ॥
नन्वेवम्प्रायेषु निरालम्बनेषु विभ्रमेषु कुतस्त्य आकारः प्रतिभाति, उच्यते–
आकारः स्मृत्युपारूढः प्रायेण स्फुरति भ्रमे ।
स्मृतेस्तु कारणं किं चित्कदा चिद्भवति क्व चित् ॥
क्व चित्सदृशविज्ञानं कामशोकादयः क्व चित् ।
क्व चित्स्वदर्शनाभ्यासः तिमिरं चक्षुषः क्व चित् ॥
क्व चिन्निद्रा क्व चिच्चिन्ता धातूनां विकृतिः क्व चित् ।
अलक्ष्यमाणे तद्धेतावदृष्टं स्मृतिकारणम् ॥
बालस्येन्दुद्वयज्ञानमस्ति नास्तीति वेत्ति कः ।
अस्तित्वे ऽपि स्मृतौ हेतुमदृष्टं तस्य मन्वते ।
नूनं नियमसिद्ध्यर्थं जनकस्यावभासनम् ।
न चैकान्तासतो दृष्टा ज्ञानोत्पादनयोग्यता ।
न च सन्निहितं वस्तु तत्रास्ति वनितादिकम् ।
तेनेदं स्मृत्युपारूढमवभातीति मन्वते ॥
तत्राद्येन पदेनैताः स्वान्तःकरणसम्भवाः ।
निरस्ता भ्रान्तयो ऽक्षादिसंसर्गरहितोदयाः ॥
याः पुनः पीतशङ्खादिमरुनीरादिबुद्धयः ।
अक्षजास्तद्व्युदासाय सूत्रे पदमिदं कृतम् ॥
व्यवसायपदकृत्यप्रदर्शनम्—
दूरात् स्थाणुपुरुषसाधारणं धर्ममारोहपरिणाहरूपमुपलभमानस्य तयोरन्य-
तरत्र वर्त्तमानान्वक्रकोटरदीन्करचरणांश्च विशेषानपश्यतः समानधर्मप्रबुद्ध-
संस्कारतया चोभयवर्तिनोऽपि विशेषाननुस्मरतः पुरोऽवस्थितार्थविषयं स्था-
णुर्वा पुरुषो वेति संशयज्ञानमुपजायते तदिन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषण-
युक्तमपि न प्रत्यक्षफलम् अतस्तद्व्यवच्छेदाय व्यवसायात्मकग्रहणम् ,
ननु मानसत्वात्संशयज्ञानस्येन्द्रियार्थसन्निकर्षोत्पन्नग्रहणेन निरासः सिद्धय-
त्येवेति किं पदान्तरेण, तथा च भाष्यकारः स्मृत्यनुमानागमसंशयप्रतिभास्वप्न-
ज्ञानोहसुखादिप्रत्यक्षमिच्छादयश्च मनसा लिङ्गानीति वक्ष्यति ।
मैवम्—स्थाण्वादिसंशयस्य बाह्येन्द्रियान्वयव्यतिरेकानुविधायित्वात्, क-
श्चिद्धि मानसः संशयः समस्त्येव यथा दैशिकस्य ज्योतिर्गणकादेरेकदा ऽन्यदा
चासम्यगादिश्य तृतीये पदे पुनरादिशतः संशयो भवति किमयमस्मदादेशः
संवदेदुत विसंवदेदिति स भाष्यकृतश्चेतसि केवलमनःकरण इति स्थितिः,
यस्तु विस्फारिताक्षस्य स्थाणुर्वा पुरुषो वेत्यादिः संपद्यते संशयस्तमनिन्द्रियार्थ-
सन्निकर्षजं को नामाचक्षीत ।
नन्वतस्मिंस्तदिति ज्ञानं व्यभिचारि व्याख्यातम् एकरूपं च पुरोऽव-
स्थितमर्थमनेकरूपतया स्पृशति संशयः स्थाणुर्वा पुरुषो वेति सोयमतस्मिंस्तत्प्र-
भावाद्विपर्यय एवेति पूर्वपदव्युदस्तत्वान्न पदान्तरव्यवच्छेद्यतामर्हतीति, नैत-
देवम्, स्वरूपभेदात्कारणभेदाच्च, एवमेव विरुद्धमाकारमुल्लिखन्विपर्ययो जा-
यते स्थाणौ पुरुष इति पुंसि वा स्थाणुरिति, अनियताकारद्वयोल्लेखी तु संशयो
प्रमाणप्रकरणम् ८५
भवति स्थाणुर्वा स्यात्पुरुषो वेति, सो ऽयं स्वरूपभेदः प्रत्यात्मसंवेद्यः, कारण-
भेदस्तु विरुद्धविशेषः स्मरणप्रभवो विपर्ययः, शुक्तिकायां सन्निहितायां रजत-
विशेषान्मरीचिषु सलिलगतविशेषाननुस्मरतो विपर्ययो भवति उभयविशेष-
स्मरणजन्मा तु संशय इति पदान्तरनिरसनीय एवायम् ।
ननु संशयविपर्ययोरपि निर्विकल्पयोरसम्भवादव्यपदेश्यपदेनैव प्रवरपक्षे(१)
प्रतिषेधः सिद्धयेत, पुरोऽवस्थितस्थाण्वादिधर्मदर्शनमात्रमेव निर्विकल्पकमि-
न्द्रियव्यापारजम्, अनन्तरं तूभयान्यतरविशेषणस्मरणजन्मनोरुल्लिखितशब्दयो-
रेव संशयविपर्ययोरुत्पादः तत्र विशेषस्मृत्यैव शब्दानुवेधस्याक्षेपात्, अतः प-
दद्वयमपि तद्व्युदासाय न कर्त्तव्यम्, अत्र तदेव तावद्वक्तव्यम्, प्रवरपक्षः प्र-
तिक्षिप्त एव यतः शब्दानुवेधजातमस्ति प्रत्यक्ष
अव्ययीभावव्याख्यानं तु न युक्तं प्रत्यक्षः पुरुषः प्रत्यक्षा स्त्रीत्यादिव्यवहारा-
दर्शनादित्यलं प्रसङ्गेन ।
तेनेन्द्रियार्थजत्वादिविशेषणगणान्वितम् ।
यतो भवति विज्ञानं तत्प्रत्यक्षमिति स्थितम् ॥
इति विगतकलङ्कमस्य धीमानकुरुत लक्षणमेतदक्षपादः ।
न तु पररचितानि लक्षणानि क्षणमपि सूक्ष्मदृशां विशन्ति चेतः ॥
बौद्धाभिमतप्रत्यक्षलक्षणम्-
यत्तावत्कल्पनाऽऽपोढमभ्रान्तमिति लक्षणम् ।
प्रत्यक्षस्य जगौ भिक्षुस्तदत्यन्तमसाम्प्रतम्(१) ॥
शब्दसंसर्गयोग्यप्रतिभासत्वाद्पि (किल कल्पना ।)
शब्दसंसर्गयोग्यप्रतीतिः किल कल्पना ।
अस्याश्च केन दोषेण प्रामाण्यं न विषह्यते ॥
नन्वभिलापसंसर्गयोग्यप्रतिभासत्वादपि हि कमन्यं दोषं मृगयते भवान्
असदर्थविषयत्यागे तत्त्वमुक्तं भवति शब्दार्थस्य वास्तवस्याभावात्, स्वलक्षणस्य
सजातीयेतरव्यावृत्तात्मनः संबन्धाधिगमसव्यपेक्षप्रवृत्तिना शब्देन विषयीकर्तु-
मशक्यत्वात्, तद्व्यतिरिक्तस्य वस्तुनो ऽनुपलम्भात्, न चेन्द्रियार्थसन्निकर्षा-
न्वयव्यतिरेकानुविधायिनी कल्पनाबुद्धिः तमन्तरेणापि भावात्, तस्मिन्सत्यपि
च पूर्वानुभूतवाचकशब्दयोजनं विना ऽनुत्पादात्, यदि चेन्द्रियार्थसन्निकर्षस्त-
ज्जनको भवेत् प्रथममेव तथाविधां धियं जनयेन्न च जनयति, तदयं शब्दस्मृते-
रूर्ध्वमपि न जनक इति मन्यामहे । तदुक्तम्--
यः प्रागजनको बुद्धेरुपयोगाविशेषतः ।
स पश्चादपि तेन स्यादर्थापाये ऽपि नेत्रधीः ॥ इति ।
अपि च सत्यपीन्द्रियार्थसंसर्गे स्मृत्यपेक्षया सो ऽर्थस्तयैव व्यवहितः स्यात्,
आह च-
अर्थोपयोगे ऽपि पुनः स्मात्तं शब्दानुयोजनम् ।
अक्षधीर्यद्यपेक्षेत सो ऽर्थो व्यवहितो भवेत् ॥ इति ।
सङ्केतस्मरणसहकारिसव्यपेक्षमक्षमीदृशीं बुद्धिमुपजनयतीति चेद् न व्यक्ति-
रिक्तान्यतिरिक्ताकारादिविकल्पैः सहकारिणो निरस्तत्वात्, किं च दण्डीत्या-
दिविकल्पविज्ञानं नेन्द्रियापातवेलायामेव जायते किं तु बहुप्रक्रियापेक्षम्, यदाह-
विशेषणं विशेष्यं च संबन्धं लौकिकीं स्थितिम् ।
गृहीत्वा सकलं चैतत्तथा प्रत्येति नान्यथेति ॥
( १ ) तदुक्तं न्यायबिन्दोः प्रथमपरिच्छेदे धर्मकीर्त्तिना 'तत्र कल्पनापोढमभ्रान्तं
प्रत्यक्षम्' इति ।
प्रमाणप्रकरणम् ८७
न चेयतीं प्रक्रियां प्रथमनयनोपनिपातजातमविकल्पकं ज्ञानमुद्वोढुं क्षम-
मित्याह ।
सङ्केतस्मरणोपायं दृष्टसङ्कलनात्मकम् ।
पूर्वापरपरामर्शशून्यन्तच्चाक्षुषं कथम् ॥ इति ।
तच्चैतत्स्यात्, द्विविधा विकल्पाः छात्रमनोरथविरचिताः इदन्ताग्राहिणश्च
नीलमित्यादयः तत्र पूर्वे मा भूवन्प्रमाणं कस्तेष्वर्थनिरपेक्षजन्मसु प्रामाण्ये
ऽभिनिवेशः, इदन्ताग्राहिणां त्वर्थाविनाभूतत्वात्कथं न प्रामाण्यमिति, उच्यते-
सर्वएवामी विकल्पाः परमार्थतो ऽर्थं न स्पृशन्त्येव स हि निर्विकल्पकेनैव सर्वा-
त्मना परिच्छिन्नः तदुक्तम्-
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
को ऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥ इति ।
यत्तु केषां चिद्विकल्पानामिदन्ताग्राहित्वस्पष्टत्वादि रूपं तदर्थाविनाभावि-
निर्विकल्पकदर्शनपृष्ठभावित्वावाप्तच्छायासंसर्गजनितं न तु तेषामर्थस्पर्शः
कश्चिदस्ति अर्थात्मनो निर्विकल्पेनैव मुद्रितत्वात् ।
तस्मादतात्त्विकाकारसमुल्लेखपुरस्सराः ।
न यथावस्तु जायन्ते कदा चिदपि कल्पनाः ॥
पञ्च चैताः कल्पना भवन्ति जातिकल्पना गुणकल्पना क्रियाकल्पना नाम-
कल्पना द्रव्यकल्पना चेति, ताश्च क चिदभेदे ऽपि भेदकल्पनात् क चिच्च भेदे
ऽप्यभेदकल्पनात्कल्पना उच्यन्ते ।
जातिजातिमतोर्भेदो न कश्चित्परमार्थतः ।
भेदारोपणरूपा च जायते जातिकल्पना ॥
इदमस्य गोर्गोत्वमिति न हि कश्चिद्भेदं पश्यति तेनाभेदे भेदकल्पनैव ।
एतया सदृशन्यायान्मन्तव्या गुणकल्पना ।
तत्राप्यभिन्नयोर्भेदः कल्प्यते गुणतद्वतोः ॥
तथा चाहुः-एष गुणी रूपादिभ्यो ऽर्थान्तरत्वेन नात्मानं दर्शयति तेभ्यश्च
व्यतिरेकं वाञ्छसीति चित्रम् ।
भेदारोपणरूपैव गुणवत्कर्मकल्पना ।
तत्स्वरूपातिरिक्ता हि न क्रिया नाम का चन ॥
गच्छति देवदत्त इति देवदत्तस्यैवान्यूनानतिरिक्तस्य प्रतिभासात् ।
विभिन्नयोस्त्वभेदेन प्रवृत्ता नामकल्पना ।
चैत्रो ऽयमित्यभेदेन निश्चयो नामनामिनोः ॥
चैत्र इत्ययं शब्दः अयमित्यर्थः कीदृशमनयोः सामानाधिकरण्यम् ।
(repha) above it?
There is an anusvara dot, and maybe a faint repha?
Wait, if it's "योग्यथं", it's clearly a typo in the print for "योग्यार्थ" / "योग्यअर्थ". In transcription, we should faithfully transcribe it or note it: "योग्यथं" or "योग्यर्धं"?
Wait, looking at the letter, it looks like "योग्यथं". Let's write "योग्यथं" as printed.
Let's check line 25:
"थिष्यमाणत्वात् कः पुनरसाविति चेद्य एव निर्विकल्पके प्रतिभासते किं नि-"
Wait, "चेद्य एव":
'चे' 'द्य' 'ए' 'व' -> "चेद्य एव" (चेत् + यः + एव -> चेद्य एव).
Correct!
Let's check line 26:
"र्विकल्पके सामान्यादिकमवभासते बाढमभासते इति वक्ष्यामः, अत एव बा-"
Wait, "बाढमभासते" or "बाढमवभासते"?
Look at line 26:
"बाढमभासते" or "बाढमवभासते"?
Letters:
'बा' 'ढ' 'म' 'भा' 'स' 'ते' -> "बाढमभासते" (or "बाढमवभासते" missing 'व'?).
In the print: 'बा',