न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 107, कुल 654 में से
संदर्भ में पढ़ेंप्रमाणप्रकरणम् ८५
भवति स्थाणुर्वा स्यात्पुरुषो वेति, सो ऽयं स्वरूपभेदः प्रत्यात्मसंवेद्यः, कारण-
भेदस्तु विरुद्धविशेषः स्मरणप्रभवो विपर्ययः, शुक्तिकायां सन्निहितायां रजत-
विशेषान्मरीचिषु सलिलगतविशेषाननुस्मरतो विपर्ययो भवति उभयविशेष-
स्मरणजन्मा तु संशय इति पदान्तरनिरसनीय एवायम् ।
ननु संशयविपर्ययोरपि निर्विकल्पयोरसम्भवादव्यपदेश्यपदेनैव प्रवरपक्षे(१)
प्रतिषेधः सिद्धयेत, पुरोऽवस्थितस्थाण्वादिधर्मदर्शनमात्रमेव निर्विकल्पकमि-
न्द्रियव्यापारजम्, अनन्तरं तूभयान्यतरविशेषणस्मरणजन्मनोरुल्लिखितशब्दयो-
रेव संशयविपर्ययोरुत्पादः तत्र विशेषस्मृत्यैव शब्दानुवेधस्याक्षेपात्, अतः प-
दद्वयमपि तद्व्युदासाय न कर्त्तव्यम्, अत्र तदेव तावद्वक्तव्यम्, प्रवरपक्षः प्र-
तिक्षिप्त एव यतः शब्दानुवेधजातमस्ति प्रत्यक्ष