सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 92, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 92

तच्चेदं प्रत्यक्षं चतुष्टयत्रयद्वयसन्निकर्षात्प्रवर्त्तते, तत्र बाह्ये रूपादौ विषये
चतुष्टयसन्निकर्षात् ज्ञानमुत्पद्यते आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रिय-
मर्थेनेति, सुखादौ तु त्रयसन्निकर्षाज्ज्ञानमुत्पद्यते तत्र चक्षुरादिव्यापाराभावात्,
आत्मनि तु योगिनो द्वयोरात्ममनसोरेव संयोगाज्ज्ञानमुपजायते तृतीयस्य
ग्राह्यस्य ग्राहकस्य तत्राभावात्, तस्मात्सुखादिज्ञानसंग्रहादिन्द्रियार्थसन्नि-
कर्षोत्पन्नमितियुक्तमुक्तम्, आत्ममनसोस्तु सदपि ज्ञानजनकत्वमिह न सूत्रितं
सर्वप्रमाणसाधारणत्वादिति ।
ज्ञानपदकृत्यम्- -
ज्ञानग्रहणं विशेष्यनिर्देशार्थम्, तस्य हीन्द्रियार्थसन्निकर्षोत्पन्नत्वादीनि वि-
शेषणानि तानि असति विशेष्ये कस्य विशेषणानि स्युरिति,
अथ वा सुखादिव्यावृत्त्यर्थं ज्ञानपदोपादानम् । इन्द्रियार्थसन्निकर्षोत्पन्नं
हि सुखमपि भवतितत्र तज्जनकं कारकचक्रं प्रमाणं मा भूज्ज्ञानजनकमेव
प्रमाणं यथा स्यादिति ज्ञानग्रहणम् ।
बौद्धमतेन ज्ञानस्य सुखरूपत्वम्—
अत्र शाक्याश्चोदयन्ति-न ज्ञानपदेन सुखादिव्यवच्छेदः कर्तुं युक्तः शक्यो
वा सुखादीनामपि ज्ञानस्वभावत्वात्, ज्ञानस्यैवामी भेदाः सुखं दुःखमिच्छा द्वे-
षः प्रयत्न इति, कारणाधीनो हि भावानां भेदो भवितुमर्हति समानकारणानाम-
पि तु भेदे ऽभिधीयमाने न कारणकृतं पदार्थानां नियतं रूपमिति तद्भाऽऽकस्मि-
कत्वप्रसङ्गः, तदुक्तम्—
तत्तद्रूपिणो भावास्तत्तद्रूपहेतुजाः ।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ इति ।
तस्माज् ज्ञानरूपाः सुखादयः तदभिन्नहेतुत्वादिति ।
स्वमतेन ज्ञानस्य सुखरूपताखण्डनम् ।
तदिदमनुपपन्नम्-प्रत्यक्षविरुद्धत्वाद्धेतोः, सुखादिसंवेद्यमानमानन्दादिरूपत-
या ऽनुभूयते ज्ञानं विषयानुभवस्वभावतयेति प्रत्यक्षसिद्धभेदत्वात्कथमभेदे ऽनु-
मानं क्रमते, अत एव इदमपि न वचनीयम्, एवमेवेदं संविद्रूपं हर्षवि-
षादाद्यनेकाकारविवर्त्तं पश्यामः तत्र यथेष्टं सञ्ज्ञाः क्रियन्तामिति, संविदो वि-
षयानुभवस्वभावतयैव प्रतिभासात् सुखादेश्च विषयानुभवस्वभावाऽनुस्यूतस्याप्र-
तिभासात्, ज्ञानमेव विषयग्रहणरूपं प्रकाशते न सुखं दुःखं वा, यस्तु सुखज्ञा-
नं दुःखज्ञानमिति प्रतिभासः स ज्ञानस्वभावभेदकृत एव संशयज्ञानं विपर्ययज्ञा-
नमितिवत्, उक्तमत्र संशयविपर्ययादौ विषयानुभवस्वभावत्वमनुस्यूतमवभाति