न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 103, कुल 654 में से
संदर्भ में पढ़ेंतच्छब्दवाच्यताज्ञप्तिर्विना संज्ञोपदेशिनः ।
शब्दान्नेति स एवात्र सत्यप्यक्षे प्रकर्षभाक् ॥
अतः सूत्रकृता ऽप्यत्र शब्दातिशयदर्शनाद् ।
व्यधायि तद्व्यवच्छेदो न तु धर्मोपदेशिना ॥
तस्मादुभयजज्ञानव्यवच्छेदार्थमेवेदं पदमिति ।
अव्यपदेश्यपदस्य मतान्तरेण प्रयोजनप्रदर्शनम्--
अन्ये मन्यन्ते यदि संकेतग्रहणकाले भाविनः संज्ञोपदेशकवचनजनित-
स्योभयजज्ञानस्य व्यवच्छेदकमिदं वर्ण्यते पदं तदा तद्व्यवहारकाले ऽपि
यदयं गौरिति संकेतग्रहणकालानुभूतदेवदत्ताद्युदीरितसंज्ञोपदेशकवचनस्मरण-
पूर्वकं विज्ञानमुत्पद्यते तदप्युभयजमेवेति कथमेनेन न व्युदस्यते ।
ननु तत्र शब्दस्मरणं कारणं न शब्दः संकेतकाले ऽपि शब्दस्मरणमेव
कारणं न हि क्रमभाविनो वर्णा युगपदनुभवितुं पार्यन्ते अन्त्यवर्णे तु गृह्य-
माणे स्मर्यमाणे वा किं शब्दव्यापारो विशिष्यते ।
ननु व्यवहारकाले गवादिनामधेयपदमात्रमेव स्मर्यमाणमिन्द्रियेण सह
सविकल्पप्रत्ययोदये व्याप्रियते संकेतकाले तु संज्ञोपदेशि वृद्धवाक्यमिति चेन्मै-
वम् , व्यवहारकाले ऽपि संज्ञोपदेशकं वृद्धवाक्यमेव स्मर्यते तदस्मरणे तच्छ-
ब्दवाच्यताऽनवगमात् , अस्य गौरिति नाम देवदत्तेनोपदिष्टमासीदित्येवमनुस्मृ-
त्य गोशब्दवाच्यतयैवं व्यवहरतीति वाक्यस्मरणजमेवेदं ज्ञानम् ।
तस्मादस्यापि तद्वाक्यं संज्ञाकर्मोपदेशकम् ।
हेतुतामुपयातीति शाब्दमेतदपीष्यताम् ॥
एवमस्त्विति चेच्छ्रान्तमेवं सति तपस्विनाम् ।
नैयायिकानामुत्पन्नं प्रत्यक्षं सविकल्पकम् ॥
यत्र मार्गान्तरेणापि संकेतज्ञानसम्भवः ।
तत्राप्यनेन न्यायेन शाब्दता न निवर्तते ॥
नैयायिकानां च सविकल्पप्रत्यक्षमयाः प्राणाः तस्मान्नोभयजस्य शाब्दत्वं
ज्ञानस्य वक्तव्यम् , संबन्धाधिगमस्तु नानाप्रमाणकः, तत्र स्वे स्वे विषये त-
त्प्रमाणं प्रवर्तते, यथाह भट्टः संबन्धस्त्रिप्रमाणक इति, तस्मान्नैकस्य शब्दस्य
भार आरोपणीयः , प्रत्यक्षं तु संकेतग्रहणकाले ऽपि स्वविषयग्राहकम् इदानी-
मपि व्यवहारकाले ऽपि तत्स्वविषयग्राहकमिति नोभयजज्ञानव्यवच्छेदपक्षो
निरवद्यः, तस्माद्वरं जरन्नैयायिककथितशब्दकर्मतापन्नज्ञानव्यवच्छेद एवाश्री-
यताम् , तत्र तावत्कर्मणि कृत्य कृते व्यपदेश्यशब्दो यथार्थतरो भवति ।
ननु तत्र चोदितं न तादृशं ज्ञानमप्रमाणं न परोक्षमप्रमाणमिति, सत्यम् ,
११ न्या०