न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 96, कुल 654 में से
संदर्भ में पढ़ें७४ न्यायमञ्जर्याम्
त्वादुभयजमिदं ज्ञानं व्यपदेशाज्जातमिति व्यपदेश्यमुच्यते तद्व्यपदेश्यपदेन
व्युदस्यते, न चेदं परुक्षमं प्रमाणमवतरति किं तु शाब्दमिवैतदनुमन्यते लोकः,
तथा च कथं पुनः जानीते भवान्पनसो ऽयमिति पृष्टः प्रतिवक्ति मम देवदत्तेना-
ख्यातं पनसो ऽयमिति, न पुनरेवं विस्मृत्यापि ब्रवीति चक्षुषा मया प्रतिपन्नं
पनसो ऽयमुच्यते इति, तदिन्द्रियान्वयव्यतिरेकानुविधाने सत्यपि शब्द एवा-
त्र करणम् , अत एव सूत्रकृता शब्दलक्षणं वर्णयता नेन्द्रियानुप्रवेशप्रतिषेधाय
किमपि विशेषणमुपरचितम् , उपदेशः शब्द इत्येतावदेव लक्षणमभिहितम् ,
अतश्चेन्द्रियानुप्रवेशे ऽपि शाब्दतामस्य मन्यते सूत्रकारः, इह पुनरव्यपदेश्य-
विशेषणपदोपादानेन शब्दानुप्रवेशप्रतिषेधान्न प्रत्यक्षफलमेतज् ज्ञानं तस्मादेवं
विधव्यपदेश्यविज्ञानव्यवच्छेदार्थमव्यपदेश्यपदमिति,
अव्यपदेश्यपदस्य पूर्वोक्तप्रयोजनस्य निराकरणम्—
तदेतद्व्याख्यातारो नानुमन्यन्ते, यद्युभयजं ज्ञानमव्यपदेश्यपदेन व्यु-
दस्यते तदपि नाप्रमाणम् अप्रमाणलक्षणातीतत्वादिति, प्रमाणं भवत्कस्मिन्न-
नुनिविशतामिति चिन्त्यम् ।
ननु शाब्दमिदं ज्ञानं तद्भावानुविधानतः ।
भवत्वक्षजमप्येतत्तद्भावानुविधानतः ॥
शाब्दं चोभयजं चेति विरुद्धमभिधीयते ।
प्रमाणान्तरमेव स्यादित्थं तदपि पूर्ववत् ॥
ननु लोकः शाब्दतामस्य व्यपदिशति देवदत्तेनाख्यातं पनसो ऽयमिति व्य-
वहारादित्युक्तम्, अहो लोकवृत्तः श्रद्दधानो महानुभावः, न खलु लोकस्य व्य-
पदकैकशरणा वस्तुस्थितयो भवन्ति, लोको हि यथारुचि व्यपदिशति, नाना-
मुनिजनसाधारणमपि तीर्थं नन्दिकुण्डमिति किं न श्रुतवान् भवान्, हन्त तर्हि
सूत्रकाराशयमनुसरन्तः शाब्दमिदं ज्ञानं प्रतिपद्यामहे यदयं सूत्रकारः प्रत्यक्षे
शब्दानुप्रवेशव्यवच्छेदार्थ विशेषणमिदमुपदिशति शब्दे तु नेन्द्रियव्युदासाय
किं चिद्विशेषणमुपादत्ते स पश्यति करणान्तरानुप्रवेशे ऽपि शाब्दमेतज् ज्ञान-
मिति, उच्यते—
मनुवत्सूत्रकारो ऽपि न धर्मस्योपदेशकः ।
येनैतदनुरोधेन तस्य ब्रूयाम शाब्दताम् ॥
वस्तुस्थित्या तु निरूप्यमाणमिन्द्रियान्वयव्यतिरेकानुविधायित्वादिदं विज्ञानं
न प्रत्यक्षफलतामतिवर्त्तते, ततश्च व्युदस्यमानं प्रमाणन्तरमेव स्पृशेत् ।
तस्मादुभयजज्ञानव्युदासानुपपत्तितः ।
व्याख्या भङ्ग्यन्तरेणास्य पदस्येयं विधीयते ॥