सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

प्रमाणप्रकरणम् ३४१

त्वोपाधिकृतेयमेकाकारा बुद्धिरिति चेदेकार्थप्रतीरिदानीं कुतस्त्या, पदवाक्य-
प्रतीतिपूर्विका हि पदार्थवाक्यार्थप्रतीतिः पदार्थवाक्यार्थप्रतीत्याख्यकार्यैक्या-
च्च पदवाक्यबुद्धिरेकाकारेति दुरुत्तरमितरेतराश्रयत्वम् , औपाधिक-
त्वं च सामान्यावयविबुद्धेरपि सुवचम्, बाधसन्देहरहितप्रतीतिदाढर्यात्तत्र
परिहार इति चेत्तदितरत्रापि समानम् , तस्मात्पदबुद्धेः पदस्फोटो वाक्यबुद्धेश्च
वाक्यस्फोटो विषय इति प्रत्यक्ष एव स्फोटः तत्र पदस्फोटात्पदार्थप्रतिपत्तिः वा-
क्यस्फोटाच्च वाक्यार्थप्रतिपत्तिः,
वाक्यस्फोटसाधनम्—
आह यदि निरवयवः स्फोटात्मा शब्दो भवति वाक्यमपि शब्द एव
तस्य पदात्मकास्त्ववयवा मा भूवन् तस्य चेत्पदात्मानो ऽवयवा भवन्ति-
पदस्यापि तर्हि वर्णात्मानो ऽवयवा भवन्तु, ।
उच्यते किं चिदुच्छ्वसितमेव मे हृदयम् , मन्ये भविष्यत्यायुष्मतो विवे-
कालोको बोध्यमानो भोत्स्यसे किंचित् , ध्वन्युपाधिभेदप्रवृत्तवर्णभेदावभासवि-
प्रलब्धबुद्धिं भवद्विधं बोधयितुं पदस्फोट एष निरवयवो ऽस्माभिर्दर्शितः, परमा-
र्थतस्तु पदस्फोटो वाक्यावयवभूतो नास्त्येव निरवयवमेव वाक्यं निरवयवस्यैव
वाक्यार्थस्य बोधकम् , यथा पदस्यावयवान सन्ति तथा वाक्यस्यावयवाः पदा-
नीति, तथा चाहुः “वाक्ये पदानामसत्त्वादसत्त्वं तदर्थे पदार्थानां निरवयवौ वाक्य-
वाक्यार्थौ” इति, अवयवकल्पनायां हि यथा वाक्यस्यावयवाः पदानि पदानामव-
यवा वर्णा एवं वर्णानामप्यवयवैर्भवितव्यं तदवयवानामप्यवयवान्तरैरित्यान-
न्त्यात्का व्यवस्था स्यात् , वर्णान् प्राप्य तु यद्यवयवकल्पनातो विरन्तव्यं तद्वाक्ये
एव विरम्यताम् , एकघटनाकारा हि वाक्यार्थबुद्धिस्तथाविधादेव वाक्यादुत्पत्तुम-
र्हति, वृद्धव्यवहाराद्धि शब्दार्थे व्युत्पद्यन्ते व्यवहत्तारः तत्रास्य पदस्य प्रयोग एव न
केवलस्य दृश्यते व्यवहारानङ्गत्वाद् वाक्यं तु प्रयोगार्हमिति तत्रैव व्युत्पत्तिः
तत एवार्थसम्प्रत्ययः, अवयवप्रतिभासस्तु भ्रममात्रमर्थो ऽपि वाक्यार्थ्यक एव-
नरसिंहाकारः, जात्यन्तरं हि नरसिंहो नाम तत्र न नरार्थो नापि सिंहार्थः,
एवंपदार्थेभ्यो ऽन्य एव वाक्यार्थः पानकादिवत् , यथा पानकं शर्करानाग-
केशरमरिचादिभ्यो ऽर्थान्तरमेव यथा च सिन्दूरहरिताललाक्षादिभ्यो ऽर्थान्तर-
मेव चित्रम्, यथा वा षड्जर्षभगान्धारधैवतादिभ्यो ऽर्थान्तरमेव ग्रामरागः तथा
पदेभ्यो वाक्यं पदार्थेभ्यो वाक्यार्थः,
वाक्यांशानामसत्यत्वम्—
कथं तर्हि तदंशावगम इति चेत् कल्पनामात्रं तत् नासौ परमार्थः, तच्छ-

ब्दानुगमे तदर्थानुगमदर्शनात्पारमार्थिकत्वं भागानामिति चेन्न, कूपसूपयूपानामे-
काक्षरानुगमे ऽप्यर्थानुगमाभावात् , न च केवलानुगममात्रेण तत्कारणभावो
वक्तुं शक्यो रेणुपटलानुगामितया करितुरगादिवत्पिपीलिकापङ्क्तेरपि दृश्यमा-
नायास्तत्कारणत्वप्रसङ्गात्, तस्मात्प्रकृतिप्रत्ययांशवदसत्पदार्थपरिकल्पनं वा-
क्यार्थावगमोपायतया ऽऽश्रीयते न त्वर्थस्तदीयः तत्राश्वकर्णादिवदुपलभ्यते,
असत्यमपि सत्योपायतां प्रतिपद्यमानं दृश्यते अलीका हि दंशादयः सत्यमरण-
कारणं भवन्ति लिप्यक्षराणि चासत्यान्येव सत्यार्थप्रतिपत्तिमादधति, स्वरूपस-
त्यानि तानीति चेन्न, रेखारूपतया तेषामर्थाप्रतिपादकत्वात् , गकारो ऽयमिति
एवं गृह्यमाणा रेखा अर्थप्रत्ययहेतवस्ताः येन रूपेण सत्यास्तेन नार्थप्रतिपादिकाः
येन चार्थप्रतिपादिकास्तेन न सत्या इति,
ननु प्रकृतिप्रत्ययार्थांशा अपि परमार्थसन्त एव तथा प्रतिभासात्तदर्थप्रत्ययहे-
तुत्वाच्च, नैतदेवम् अन्वाख्यानभेदेन तेषां स्वरूपेयेयत्तानिश्चयानुपपत्तेः, भवती-
त्यत्र भूशब्दः प्रकृतिः क चिदन्वाख्यायते कचिद्भवशब्दः प्रत्ययादेशागमगुणवृ-
द्विवर्णलोपाद्यन्वाख्यानविसंवादात्कः पारमार्थिकः प्रकृतिप्रत्ययविभागः, कल्प-
नामात्रं त्वेतत् 'इयं प्रकृतिरेष प्रत्यय' इति,
एवं पदार्थानामपि वाक्यार्थपरिकल्पनयैवापोद्धारः तदुक्तम्--
पदं कैश्चिद् द्विधा भिन्नं चतुर्धा पञ्चधा ऽपि वा ।
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवदिति(१) ॥
अपि च पारमार्थिकत्वे पदानां नियतमविसंवादि रूपं प्रतीयेत विसंवा-
दि तु तत्, नामाख्यातसाधारणवर्णसन्निवेशदर्शनान्न नियतं तेषां रूपमतः
काल्पनिकमेव तन्न वास्तवम् , न च निश्चेतुमपि तत्पार्यते “काले नदन्ति नागा”
इत्यत्र हि कीदृशः पदविभागः अर्थद्वयोपपत्तेः, उभयत्र च वर्णतुल्यत्वात् किं
कालेन कृष्णेन दन्तिना हस्तिना अगास्त्वम् इत्येवमेतानि पदानि व्यवस्था-
प्यन्ताम् अथ काले समये नदन्ति शब्दायन्ते नागाः करिणः फणिनो वेति,
तस्मादनियमान्न पदतदर्थविभागः पारमार्थिकः,
अथ प्रथमप्रतिपन्नवाक्यार्थानुसारेण पदतदर्थविभागो व्यवस्थाप्यते तर्हि
किं तेन तद्भानां व्यवस्थापितेन वाक्यार्थस्य प्रथममेव प्रतिपन्नत्वात्,
किं च दध्यत्र मध्वत्रेति दधिमधुपदयोरिकारोकारयोरदर्शने ऽपि तदर्थ-

( १ ) वाक्यपदीये तृतीयकाण्डे श्लो० १ वाक्येभ्योऽपोद्धृत्य कल्पनाबुद्ध्या पदं
पृथक् निष्कृष्य कैश्चित्पदं नामाख्यातभेदेन द्विधा भिन्नं कैश्चित्तु नामाख्यातोपसर्गनि-
पातभेदेन चतुर्धा कैश्चित् नामाख्यातोपसर्गनिपातकर्मप्रवचनीयभेदेन पञ्चधा स्वीकृतम्
तत्तत्राखण्डवाक्यव्युत्पत्तिरित्यर्थः ।

प्रमाणप्रकरणम् ३४३
संप्रत्ययो दृश्यते तस्मादपि न पारमार्थिकः पदवर्णविभागः, निरस्तावयवं
वाक्यं तथाविधस्यैव वाक्यार्थस्य वाचकमिति सिद्धम् ,
स्फोटस्य ब्रह्मरूपत्वम्-
ननुयथा पदेषु वर्णा न सन्ति वाक्येषु पदानि न सन्ति तथा महावाक्ये-
ष्ववान्तरवाक्यान्यपि न स्युः ततः किं महावाक्यान्यपि प्रकरणापेक्षया न ता-
त्त्विकानि स्युः ततः किं प्रकरणान्यपि शास्त्रापेक्षया न स्युः ततो ऽपि किम्
एकमेवेदं शास्त्रतत्त्वम् अविभागमद्वयमापतति,
उच्यते यदि तत्त्वं पृच्छसि बुद्धयसे वा साधो शब्दब्रह्मावेदमद्वयमनाद्यवि-
द्यावासनाप्लवमानभेदमर्थभावेन विवर्तते न तु वाचकाद्विभक्तं वाच्यमपि नाम
किं चिदस्ति, तस्मात्काल्पनिक एव वाच्यवाचकविभागे। ऽयमविद्यैव विद्योपाय
इत्याश्रीयते, वाग्रूपता तत्त्वम् सर्वत्र प्रत्यये तदनपायात् , यथोक्तम् ,
वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनीति(१) ॥
सा चेयं वाक् त्रैविध्येन व्यवस्थितावावभासते वैखरी मध्यमा पश्यन्ती-
ति, तत्रेयं स्थानकरणप्रयत्नक्रमव्यज्यमानगकारादिवर्णसमुदायत्मिका या वाक्
सा वैखरीत्युच्यते, विखर इति देहेन्द्रियसंग्घात उच्यते तत्र भवा वैखरी तदुक्तम्—
स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तितिनिबन्धनेति(२) ॥
या पुनरन्तः संकल्प्यमानक्रमवती श्रोत्रग्राह्यवर्णरूपा ऽभिव्यक्तिरहिता वा-
क्सा मध्यमोच्यते, तदुक्तम्—
केवलं बुद्धयुपादाना क्रमरूपानुपातिनी ।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ इति(३) ।
या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशसंविद्रूपा वाक्सा पश्यन्तीत्युच्यते,
तदुक्तम्—
अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनीति(४) ॥


( १ ) वाक्यपदीये प्रथमकाण्डे श्लो० १२५ । अवबोधस्य ज्ञानस्य नित्या वाग्रूपता
यदि उत्क्रामेत् अपगच्छेत् तदा प्रकाशः न प्रकाशेत सा वाग्रूपता हि यतः प्रत्यवम-
र्शिनी सविकल्पकरूपा ।
(२)(३)(४) भारतवचनत्वेनैते श्लोकाः वाक्यपदीयटीकायां पुण्यराजकृतायां
प्रथमकाण्डे १४४ श्लोके लिखिताः ।

३४४ न्यायमञ्जर्याम्
तदलमतिप्रसक्तानुप्रसक्त्या द्राघीयसी चर्चेयम् प्रकृतान्तरायकरिणीति न
प्रतन्यते इह त्वेतावतैव पुनः प्रयोजनम् वर्णपदपूर्वको व्यवहारो न भवतीति
वाक्येन लोके व्यवहारात्तस्य चावयवावयविव्यवस्थानुपपत्तेर्निर्भागमेव तद्वाच-
कं निर्भागश्च तस्य वाच्यो ऽर्थ इति, अर्वान्तरवाक्यमपि प्रयोगयोग्यं व्य-
वहारकारणमिति तन्न निहूयते अविद्यावस्थेयं वर्तते तत्रेयं व्यवहारवर्तनी
यथादृश्यमानैवास्तु विद्यायां सर्वमेवेदमसारमिति, पदेन वर्णेन वा व्यव-
वहाराभावात्तस्य केवलस्याप्रयोगात्तत्स्वरूपमस्यामपि दशायां न वास्तव-
मिष्यते इति ।
तस्मादेकः क्रमविरहितः कल्पितासद्भिभागे
वाक्द्यस्फोटो जनयति मतिं तादृशीं स्वाभिधेये ।
वर्णास्त्वेते प्रकृतितलयवः कल्पनैकप्रतिष्ठाः
तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः ॥
स्फोटनिराकरणोपक्रमः-
अत्राभिधीयते, किमथमनुमानमहिम्ना स्फोटोऽभ्युपगमः प्रत्यक्षप्रतीति-
बलवत्तया वा, न तावदनुमानतः स्फोटस्वरूपमुपपादयितुं पार्यते परिदृश्य-
मानविशिष्टानुपूर्वीकवर्णकलापकरणेनार्थप्रतीतेर्घटमानत्वात् ,
वर्णानां वाचकत्वस्य समर्थनम्-
ननु व्यस्तसमस्तादिविकल्पैरुत्सा दितं वर्णानां वाचकत्वम् , नैतद् दुर्वि-
कल्पास्ते व्यस्तानां तावद्वाचकत्वं नेष्यते वर्णानां समस्ता एव ते वाचकाः,
यत्तुत्तसामर्थ्यं नास्ति क्रमभावित्वादिति तदसन् , क्रमभाविनापि समस्तानां
कार्यकारिणामनेकशो दर्शनात् , यथा युगपद्भाविनः समाश्रयो ग्रावाणः एका-
मुखां धारयन्तो दृश्यन्ते तथा क्रमभविनो ऽपि समस्ता ग्रासा एकां तृप्तिमुत्पा-
दयन्तो दृश्यन्ते, एकस्मिन्नपि हि ग्रासे हीयमाने न भवति तादृशी तृप्तिः अतः
समस्ता एव ते ग्रासाः तृप्तेः कारणम् , न च समस्ता अपि ते ग्रासाः युगपत्प्र-
योक्तुं शक्याः तथैकानुवाकग्रहणे संस्थानां क्रमभाविनीनामपि सामस्त्ये सति
सामर्थ्यमेकया संस्थया विना तदामुखीकरणासम्भवात् एवं तावल्लोके सामस्त्यं
क्रमभाविनां दृष्टम् , वेदे ऽपि दर्शपूर्णमासाभ्यामितीतरेतरयोगशंसिना द्वन्द्वेन
समर्पितसाहित्यानामाग्नेयादियागानां पञ्चद्वये प्रयोक्तृत्वेन चापरिहार्यक्रमाणामे-
काधिकारसम्पादकत्वं दृष्टम्, तथा ऐन्द्रवायवं गृह्णाति आश्विनं गृह्णाति इति सो
मग्रहणाभ्यासानां समस्तानां क्रमभाविनां चैकप्रधाननिर्वर्तकत्वं दृष्टमित्यतश्च
नायं विरोधः सामस्त्यं च क्रमभावित्वं चेति, एवं क्रमवर्तिनो ऽपि वर्णा एवा-

..." wait, in L27:
"भवन्नसद्वर्णगोचर एव न चित्रा-"
Wait, look at the word: "भवन्नसद्वर्णगोचर"
Let's zoom into L27:
"यदि वा ऽन्त्यवर्णे ऽपि तिरोहिते भवन्नसद्वर्णगोचर एव न चित्रा-"
Yes, 'भवन्नसद्वर्णगोचर' - wait, is it 'भवन्नसद्वर्ण' or 'भवन्नसद्...'?
भ - व - न्न - स - द्व - र्ण - गो - च - र
Yes, "भवन्नसद्वर्णगोचर".

Let's check L28:
"कारः। सो ऽर्थप्रतीतिहेतुरेक एवेति निरवकाशा व्यस्तसमस्तविकल्पाः,"
Notice: "कारः। सो" - there is a danda after कारः.
"कारः। सो ऽर्थप्रतीतिहेतुरेक एवेति निरवकाशा व्यस्तसमस्तविकल्पाः,"

Let's check L29:
"ननु सङ्कलनाप्रत्यये ऽपि यदि ते वर्णाः क्रमेणावभासन्ते तदसावपि पूर्वो-"

Let's check L30:
"त्पन्नैकैकवर्णबुद्धिनिर्विशेष एव स्यादिति तदुपारूढा अपि वर्णा नार्थप्रतीतिहे-"

Let's check L3

उच्यते, विशिष्टानुपूर्वीकवर्णमालाऽनुभवसमनन्तरभावी हि सङ्कलना
प्रत्ययो ऽर्थप्रतीतेर्हेतुर्न स्तबकाकारपरिच्छेदमात्रं विपरीतक्रमाशाङ्कनं च तदानीं
कुतस्त्यम्, स्तबकावभासे तावत्क्रम एव नास्ति कस्य वैपरीत्यमवैपरीत्यं वा
यदनन्तरजन्मा ऽयं समुच्चयप्रत्ययः ताश्च तद्विशिष्टक्रमावभासिन्य एव पूर्वभा-
विन्यो वर्णबुद्धय इति कुतो वैपरीत्यविकल्पः, तस्मात्प्रथमावगमनियतानुपूर्वी-
कास्ते तदनन्तरभाविसमस्तावभासिसङ्कलनाप्रत्ययोपारूढा वर्णा अर्थप्रतीति-
कारिण इति न दोषः,
यथा(१) “पूर्ववर्णजनितसंस्कारसहितो ऽन्त्यवर्ण” इति तत्र भवता मोमां-
साभाष्यकृता वर्णितं तथा वा वर्णानामर्थप्रत्यायकत्वमस्तु,
नन्वत्रोक्तं संस्कारस्यार्थप्रतीतिजनकत्वं न दृष्टपूर्वं स्मृतावेव तस्य व्यापार
इति, किमियं राजाज्ञा स्मृतिरेव संस्कारेण कर्त्तव्येति नेयं राजाज्ञा नयाज्ञा
त्वेषा न हि संस्कारो नाम स्वतन्त्रः को ऽपि धर्मी किं तु पट्वभ्यासादर-
प्रत्ययगृहीतेष्वर्थेषु यदात्मनः स्मरणकारणं स संस्कारः सा च स्मृत्यैव कार्येण
कल्प्यमाना शक्तिः न च शक्तिरूपस्य संस्कारस्य शक्त्यन्तरमर्थप्रतीति-
जन्मनि सम्भवति येनैव कार्येण सा कल्प्यते शक्तिस्तदपहाय किं कार्यान्तरं
कुर्यान्, स्मरणहेतोश्च संस्कारस्य प्रसवकारणमनुभवः अनुभवहेतोस्त्वस्य
नूतनचरितस्य संस्कारस्य जन्मनिमित्तमेव नोत्पश्यामः तस्मान्नासावर्थप्रती-
तिहेतुर्भवति,
नैतत्सारं, वर्णानुभवसंस्कृतमतेः पुंसो ऽर्थप्रतीतिदर्शनान्न हि स्मरणशक्तिः
संस्कारः किं त्वात्मगुणो वासनाख्यः स च स्मृतिमिवार्थप्रतीतिमपि जनयितु-
मुत्सहते सर्वत्र नो दर्शनं प्रमाणं स्मरणजननकौशलमपि तस्य तथा दर्शनाद-
वगम्यते तदिदमनुभवजननपि ततो दृश्यते एव वर्णाश्च तदनुभवाश्च व्य-
तीताः अन्यच्च शब्दतत्त्वं नानुभूयते इति वक्ष्यामः, अस्ति चार्थप्रतीतिर्नासौ
निष्करणा करणव्यतिरेकेण हि सा ऽनुद्भवन्ती करणमाक्षिपति यदस्याः करणं
स संस्कार इति स्मृतिरिवार्थप्रतीतिरपि तत्कार्यत्वात्तदनुमापिका भवत्येव,
यत्तु कुतस्तादृशः संस्कार उदेति जडप्रश्नो ऽयम् अनुभवहेतुकस्य सुप्रसि-
द्धत्वात्, तथा चाह, “वस्तुधर्मो ह्येष यदनुभवः पटीयान्स्मृतिबीजमाधत्ते” इति,
ननु स्मृतिबीजमिति यदुच्यते तत्कथमनुभवबीजं स्यान्नैष नियमः स्मृतेरेव
बीजमिति, अनुभवस्तावत्तथाविधमात्मधर्ममाधत्ते स कार्यभेदो ऽपि नोत्पत्तौ
कारणान्तरं मृगयते कार्यभेदश्च तथा दर्शनादवगम्यते इत्युक्तम् ,
अथ वा किमनेन निर्बन्धनेन साक्षादर्थप्रतीतिकारी संस्कारः स्मृतिद्वारेण

( १ ) शाबरभाष्ये अ० १ पा० १ सू० ९ ।

तां करिष्यति पूर्ववर्णेषु संस्कारात्स्मरणमन्त्यवर्णे श्रोत्रेन्द्रियादनुभव इत्येवं
स्मर्यमाणानुभूयमानवर्णकरणको ऽर्थप्रत्ययः स्यात्को दोषः,
नन्वनुभवक्रमाहितसंस्कारसामर्थ्यमनुरुध्यमानाःस्मृतयो ऽपि क्रमेणोत्पत्तुम-
र्हन्ति न युगपदिति ततश्च प्राक्तन एव दोषःसामस्त्याभावादिति, नैष दोषः नानाव-
र्णविषयैः क्रमभाविभिरनुभवैः क्रमोपचयात्मा पुटपाकैरिव कार्तस्वरस्यैक एवा-
त्मनः संस्कारः तादृगुपाधीयते येन सर्वानैव पूर्वदृष्टान्वर्णानसौ सकृत्स्मरतीति,
संस्कारात्संस्कारोत्पत्तिरलौकिकीति चेन्नालौकिकी स्वाध्यायाध्ययने सिद्धत्वात्,
उच्चारणक्रियायाः क्षणिकत्वात्तदाहिते संस्कारान्तरकारिणि संस्कारे ऽनिष्यमाणे
ऽन्त्यमुच्चारणं प्रथमोच्चारणान्न विशिष्येत ततः किं पुरुषायुषेणापि नानुवाक-
एव आमुखीक्रियेत,
नन्वयमीदृशः प्रकारः एकस्मरणसिद्धये कल्पनीयः अर्थप्रतीतिहेतुता वा
संस्कारस्य कल्पनीयेति सर्वथेयमदृष्टकल्पना ऽतो न पश्यामहे तत्र कः संस्कारं
प्रति पक्षपातः कश्च स्फोटं प्रति विद्वेषः यदेष कल्प्यते नैष इति, उक्तमत्र तेनैव
सुगृहीतनाम्ना भाष्यकारेण “शब्दकल्पनायां सा च शब्दकल्पना च” इति,
ननु नास्ति कल्पनाद्वैगुण्यं संस्कारो हि यथाप्रसिद्धि स्थित एव का तत्क-
ल्पना न हि वयं स्मरणैककारणत्वं संस्कारधर्ममतिलङ्घितवन्तो भवन्त इव, कथं
न लङ्घितवन्तो भवन्तः सर्ववर्णविषयैकस्मरणकारिता भवद्भिरपि कल्पितैव
यैव हि वर्तनी वर्णानामर्थप्रतीतौ सैव स्फोटव्यक्तावपि तां च कल्पयित्वा शब्दो
ऽन्यः कल्पित एवमतश्च संस्कारोभयवादिविहितस्य स्मरणकारित्वमुल्लङ्घ्या-
र्थप्रत्ययकारित्वं केवलमस्माभिरभिहितम्, भवद्भिस्तु मूलत एवारभ्य नवं वि-
श्वमुत्थापितमपूर्वस्य शब्दस्य तावदस्तित्वं पुनर्वर्णव्यतिरिक्तत्वं पुनरवयवराहि-
त्यं कल्पितमिति कथं न कल्पनागुरुत्वम् तदुक्तम्—
सद्भावव्यतिरेकौ च तथा ऽवयववर्जनम् ।
तवाधिकं भवेत्तस्मान्नो ऽसावर्थबुद्धिषु इति(१) ॥
यत्पुनरवादि प्रथमवर्णबुद्धिवेलायामिव व्यक्तं स्फोटतत्त्वमुत्तरोत्तरबुद्धि-
भिरतिशयिततरप्रत्ययतां नीयते रत्नतत्त्ववदिति, स एष विषम उपन्यासः रत्न-
स्य हि सावयवत्वात्प्रथमप्रत्ययाविषयीकृतसूक्ष्मतरावयवविशेषग्राहिणामुत्तरोत्त-
रप्रत्ययानामस्ति तत्रावकाशः, स्फोटस्तु वर्णस्वरूपवदनंश इति तत्स्वरूपसर्व-


( १ ) श्लोकवार्तिके स्फोटवादे श्लो. ९४ । तत्र स्फोटवादिनः स्फोटसद्भावः
तस्य च वर्णेभ्यो व्यतिरेकः सावयवे पदे गम्यमाने तद्विपरीतं निरवयवत्वं च कल्पनीयम्
तस्मादवश्याश्रयणीयः संस्कारादिकल्पनांशः अर्थबुद्धावेवाश्रयणीयो न स्फोटाभिव्यक्ता-
वित्यर्थः ।

३४८ न्यायमञ्जर्याम्
खमात्रेणैव वर्णेन व्यक्तं किमिदानीमन्ये वर्णाः करिष्यन्ति एकदेशव्यक्तिस्तु नि-
रवयवस्य वर्णस्येव न सम्भवति, यथोक्तम्—
अल्पीयसापि यत्नेन शब्दमुच्चारितं मतिः ।
यदि वा नैव गृह्णाति वर्णं वा सकलं स्फुटमिति (१) ॥
यो ऽपि द्वितीयो दृष्टान्त उदाहारि यथा ऽनुवाकः श्लोको वा प्रथमसंस्थया
गृहीतो ऽपि संस्थानान्तराभ्यासैः स्फुटतरपरिच्छिन्नो भवति तथा स्फोटो ऽपि
प्रथमवर्णव्यक्तौ वर्णान्तरैरतिशयिताभिव्यक्तिर्भविष्यतीति, सो ऽपि न सदृशो
दृष्टान्तः श्लोकानुवाकयोरनंशत्वानुपपत्तेः, के चिदवयवा वर्णात्मानः पदात्मानो
वा प्रथमायां बुद्धावपरिस्फुरन्तः संस्थाभ्यासलब्धातिशयायां तस्यां प्रकटीभवन्ति,
स्फोटस्त्वेकवर्ण इव निरंश इति तत्र को बुद्धेरतिशययोगः तस्मादयमपि न
सङ्गता दृष्टान्तः,
स्फोटे ध्वनिव्यङ्ग्यताया निराकरणम्—
ये ऽपि च मन्वते ध्वनिव्यङ्ग्यत्वात् स्फोटस्य न तत्र वर्णविकल्पावसर
इति ते ऽपि न सम्यग्दर्शिनः, पराणुभ्यः वर्णप्रतीतिध्वनिभ्यः शब्दप्रतीतेर-
नुत्पादात् , अतिद्रुतोच्चिचारयिषया ऽनुपलभ्यमानवर्णविभागाच्च शब्दाद-
र्थप्रत्ययाभावात् ,
अथ ध्वनयः शब्दव्यक्तिमादधानाः स्थानकरणानुरोधेनासत्यमेव वर्ण-
भेदमुपदर्शयन्ति श्यामादिरूपमिव मुखस्य खङ्गाद्य इत्युच्यते तदप्यसत् ,
असत्यत्वे निमित्ताभावात्प्रतीयन्ते हि निर्वाधया बुद्ध्या वर्णास्तदतिरिक्तस्तु
शब्दो न प्रतीयते यश्च न प्रतीयते सो ऽस्ति ये च प्रतीयन्ते ते न सन्ती-
त्युच्यमाने शशो नास्ति विषाणमस्तीति स्यात्तस्मादयमपि न कल्पनागौ-
रवपरिहारक्षमः पन्थाः, अतः सुष्ठुक्तं "शब्दकल्पनायां सा च शब्दकल्पना
च"ऽति, तस्मात्स्फोटप्रतिपत्तौ यः क्रम आश्रेयः सो ऽर्थप्रतिपत्तावेवास्थीय-
तामिति किं तेन स्फोटेन,
अन्ये तु उपलब्ध्यानन्तरसत्ताकानां वर्णानामर्थप्रत्यायकत्वमाचक्षते तदिह
नेष्यते, क्षणिकत्वाद्द्वर्णानाम् , उपलब्धेरूर्ध्वसत्तानुपपत्तेः, सर्वथा व्युत्पत्त्य-
नुसारेण वर्णानामर्थप्रत्यायकत्वं तद्यथा पुरा दृष्टं तथा ऽभ्युपगम्यते इति तदुक्तं
"यावन्तो यादृशा" इति,
यत्त्वत्र प्रतीपमुक्तं कियन्तः कीदृशा इति तत्र प्रतीतयः प्रष्टव्या न तप-
( १ ) श्लोकवार्तिके स्फोटवादे श्लो. १० । अल्पीयसापि यत्नेन उच्चरितं शब्दं
यदि मतिः सकलं वर्णं न गृह्णाति तदा वर्णानामवयवसिद्धिः स्यात् सांकल्यवैकल्यग्रहणे
हि अवयवसिद्धिः नैवमस्तीति भावः ।

प्रमाणप्रकरणम् ३४९
स्विनो वयमिति यत्किंचिदेतत् ,
यत्पुनरभ्यधायि क्रमव्यत्यासप्रयुक्ता अपि वर्णाः प्रत्यायका भवेयुः क्रम
एव वा स्फोटः स्यादिति तदपि न पेशलम्, क्रमो हि नाम स कालभेदो न च
काल एव स्फोटो भवितुमर्हति, क्रमो ऽपि च न स्वतन्त्रः प्रतिपादकः पदार्था-
न्तरवृत्तित्वात् किं तु वर्णाश्रित एव, तत्र चोक्तम्—
द्वये सत्यपि तेनात्र विज्ञेयो ऽर्थस्य वाचकः ।
वर्णाः किं नु क्रमोपेताः किं नु वर्णाश्रयः क्रमः ॥
क्रमः क्रमवतामङ्गमिति किं युक्तिसाध्यता ॥
धर्ममात्रमसौ तेषां न वस्त्वन्तरमिष्यते(१) ॥ इति ॥
तस्माद्ये यावत्क्रमका यमर्थं प्रत्याययन्तो दृष्टा वर्णास्ते तत्क्रमका वर्णास्त-
मर्थं प्रत्याययिष्यन्तीति न स्फोटादर्थावगतिरिति, तदेवं न कार्यानुमानमर्थाप-
त्तिर्वा स्फोटसिद्धये प्रभवतीति सिद्धम् ,
स्फोटे प्रत्यक्षगम्यताया निराकरणम्—
यद्यप्यभाणि शब्दादर्थं प्रतिपद्यामहे इति व्यवहारः स्फोटपक्षसाक्षितामेवा-
वलम्बते इति, तदप्यसारं वर्णानां वाचकत्वे यथोक्तनीत्या साधिते तत्पक्षे ऽपि
तथा व्यवहारोपपत्तेः,
ननु कथमुपपत्तिः संस्कारस्तावन्न शब्दशब्देनोच्यते न हि तथा लोके
प्रसिद्धिः संस्कारे च वाचके व्युत्पत्तिरपि दुरुपपादा परावगतिपूर्विका हि
शब्दात्स्वावगतिर्न च परस्थः संस्करः परस्य प्रतीतिमुपजनयन् ग्रहीतुं शक्यः
परोक्षत्वाद्वर्णेष्वपि शब्दशब्दो वर्तमानः प्रतिवर्णं वा वर्तेत वर्णसमुदाये वा
प्रतिवर्णं वर्तमाने च शब्दे न शब्दादर्थप्रतिपत्तिः स्यात् , एकम्य वर्णस्य
वाचकत्वायोगात् समुदाये तु न वर्तितुमर्हति शब्दशब्दो जातिशब्दत्वात् ,
द्विवचनबहुवचनान्तव्यक्तिशब्दप्रयोगे हि तत्सामानाधिकरण्येन न जातिशब्द
एकवचनान्तः प्रयुज्यते न हि भवति देवदत्तयज्ञदत्तौ पुरुष इति धवखदिर-
पलाशा वृक्ष इति तथा गकारौकारविसर्जनीयाः शब्द इत्यपि,
ननु वनशब्दवत्तर्हि समुदायवाची भविष्यति शब्दशब्दो वनं वृक्षा न
जातिशब्दवदिति चेन्न, तत्र समुदायव्यतिरेकनिर्देशदर्शनादाम्राणां वनं
कपित्थानां वनमिति न चैवमिह व्यतिरेकनिर्देशो ऽस्ति गकारादीनां शब्द इति
अदर्शनात् ,
( १ ) श्लोकवार्तिके शब्दन्नित्यताधिकरणे २८५—२८६ । क्रमोपेता वर्णा वर्णक्र-
मो वा वाचक इति द्वये सत्यपि क्रमोपेता वर्णा एव वाचकः न तु वर्णक्रमः स हि वर्णानां
धर्ममात्रं न वस्त्वन्तरं तस्मात्प्रतीयमाना क्रमोपेता वर्णा एव वाचक इति भावः ।

अथ ब्रूयादाम्रादयो वनमित्यभेदेनापि वनशब्दः प्रयुज्यते तथेहापि गका-
रादयः शब्द इति प्रयोक्ष्यते एतदपि नास्ति, वनादौ भेदव्यपदेशवशेन प्रति-
व्यक्ति चाप्रयोगेण प्रसिद्धे समुदायशब्दत्वे समुदायिनोरभेदोपचारादाम्रादयो
वनमिति युज्यते प्रयोक्तुमिह तु गकारादीनां शब्द इति न कदा चिदपि व्यति-
रेकनिर्देशो दृश्यते इति समुदायशब्दत्वमघटमानं तत्सर्वथा वर्णशब्दवादिना-
मनुपपन्नो ऽयं व्यपदेशः शब्दादर्थं प्रतिपद्यामहे इति, उच्यते किमनेनोपपन्नेना-
नुपपन्नेन वा कृत्यम् , यद्यद्युपपद्यते ततः किम् अथापि नोपपद्यते ततो ऽपि
किम् , न हि लोकव्यपदेशनिबन्धना वस्तुस्थितिर्भवति,
ननु शास्त्रकारा अप्येवं व्यवहरन्ति भावमाख्यातेनाचष्टे इति न शास्त्र-
कारव्यवहारादप्याप्रामाणिको ऽर्थः शक्यते ऽभ्युपगन्तुं कतरच्चेदं प्रमाणं लो-
कव्यपदेशो नाम, अनुमानं तावत्प्रतिच्छिन्नं प्रत्यक्षमपि प्रतिछेत्स्यते न
चान्यत् स्फोटसिद्धौ प्रमाणं क्रमते तदस्थाने ऽयं लोकव्यपदेशनिरूपणेन
स्फोटाटोपः, न चात्यन्तमसङ्गतो ऽयं वर्णपक्षे लौकिको व्यपदेशः पूर्ववर्णजनि-
तसंस्कारसहिते तावदन्त्यवर्णे वाचके सुसङ्गत एवायं व्यपदेशः, तस्य शब्द-
त्वादेकत्वाच्च, सङ्कलनाप्रत्ययोपारूढवर्णवाचकत्वपक्षे ऽपि न दोषः न हि भेदश-
ब्दसहित एष शब्दशब्दः प्रयुज्यते गकारादिभ्यः शब्दादर्थं प्रतिपद्यामहे केवलस्तु
जातिशब्द एकवचनान्तो बहुष्वपिवर्णेषु न विरुद्धः, किं च स्फोटपक्षे सुतरामनु-
पपन्नो ऽयं व्यपदेशः शब्दादिति, प्रातिपदिकस्यार्थस्याभावान्न हि वर्णवत्स्फोटे
शब्दशब्दत्वं प्रयुञ्जानो दृश्यते व्यवहर्तृजनः अर्थप्रतिपत्तिहेतुत्वं शब्दलक्षण-
मसाधु, धूमादिभिर्व्यभिचारात् ,
अथापि प्रक्रमपर्यालोचनया श्रोत्रग्राह्यत्वविशिष्टप्रतिपत्तिहेतुत्वम् शब्दलक्ष-
णमभिधीयते तदिदं स्फोटं प्रति न सिद्धं तस्य श्रोत्रप्रत्ययविषयत्वाभावात् ,
श्रोत्रग्राह्यत्वमेव च तदितरव्यवच्छेदक्षममिति तदेव युक्तं किमुभयोपादानेन
श्रोत्रग्राह्यत्वं च वर्णेष्वेव नार्थान्तरस्येति वर्णा एव शब्दः तदुक्तम्—
परस्परानपेक्षाश्च श्रोत्रबुद्ध्या स्वरूपतः ।
वर्णा एवावसीयन्ते न पूर्वापरवस्तुनो इति(१) ॥
श्रोत्रग्राह्यत्वं शब्दलक्षणं सत्तादावप्यस्तीति चेन्न, श्रोत्रेणैवेत्यवधारणस्य
विवक्षितत्वात् , श्रोत्रमनोभ्यां ग्रहणादसिद्धमवधारणमिति चेन्न समानजातीय-
व्यवच्छेदार्थत्वादवधारणस्य विवक्षितत्वात् , चक्षुरादीन्येव तेन व्यवच्छिद्यन्ते


( १ ) श्लोकवार्त्तिके स्फोटवादे श्लो० ९। "गकारौकारविसर्जनीयाः ते च श्रोत्रग्रहणा"
इति भाष्ये गकारादीनामेव श्रोत्रत्ववचनात् पूर्वं—वर्णाकारणीभूता अवयवाः अपरं गत्व-
मवयवी गोशब्दत्वं समुदायः स्फोटश्च नावगम्यन्ते किन्तु वर्णा एवावगम्यन्ते इत्यर्थः ।

न मनः, तथापि शब्दत्वेन व्यभिचार इति चेन्न जातिमत्त्वे सतीति प्रक्रमलभ्य-
विशेषणापेक्षणात्, स्तनयित्नुनादप्रभृतिभिरपि न व्यभिचारस्तेषां शब्दत्वाभ्युप-
गमात् तदुक्तं भाष्यकृता(१) “द्विविधश्चायं शब्दो वर्णात्मा ध्वनिमात्रश्च” इति,
अर्थप्रत्यायकत्वं तु न लक्षणमित्युक्तम् अगृहीतसंबन्धे वर्णात्मनि शब्दे तद्-
भावेनाशब्दत्वप्रसङ्गात, कालान्तरेण संबन्धबुद्धौ सत्यां च शब्दत्वमिति अव्य-
स्थितमिदं लक्षणम्,
यदपि शब्दस्वरूपनिरूपणप्रसङ्गेन तदभिधेयानां जातिगुणक्रियादीनां
शब्दत्वाशङ्कनं तत्परिहरणं च तदपि किमाशयमिति न विद्मः, तेषामतिविभक्त-
रूपग्रहणादतः श्रोत्रग्राह्यस्य शब्दत्वात् स्फोटस्य च श्रोत्रग्राह्यत्वाभावाद् वर्ण-
वादिनामेव शब्दार्थं प्रतिपद्यामहे इत्यनुकूलो व्यपदेशो न स्फोटवादिनामिति
[L

३८२ न्यायमञ्जर्याम्

बहुतमस्थाने एव त्वयं संत्रासः, न हि शब्दत्वं स्फोटः प्रतिवर्णं हि शब्दः शब्दः
इति बुद्धिरस्ति न च वर्णः स्फोटः तदिदं शब्दत्वसामान्यमेव शब्दबुद्धेरालम्बनं
न स्फोटः, सामान्यसिद्धौ तु व्यक्त्यन्तरानुसन्धानमकारणमिति प्रागेव निर्णीतं
तस्मान्न शब्दबुद्धावपि स्फोटो ऽवभासते पदवाक्यबुद्धावित्येतच्च सत्यमाह यदि-
यमेककार्यकारित्वनिबन्धना वनपृतनादिबुद्धिसमानयोगक्षेमैव पदवाक्यबुद्धि-
रिति, न च जात्यादिष्वसमाश्वासो वैलक्षण्यस्य दर्शितत्वात्,
यदप्येककार्यकारित्वनिबन्धनायामभेदबुद्धावितरेतराश्रयपरिचोदनमेकार्थ-
प्रतातिपूर्विका पदवाक्यबुद्धिः पदवाक्यबुद्धिपूर्विका चैकार्थप्रतीतिरिति तदपि
न सम्यक, स्मर्यमाणानुभूयमानवर्णजनितेयमर्थप्रतीतिरित्युक्तत्त्वान्न नाभि-
न्नपदपरिच्छेदपूर्विकेति कुत इतरेतराश्रयत्वम्, ब्रूयाच्चपदवाक्ययोरेकत्वमन्तरेण
कथं पदवाक्यार्थप्रतीतिरेकरूपा भवेदिति सो ऽयमतीव मुग्धालापः, प्रतीतिभे-
दाभेदौ हि विषयभेदाभेदावनुरुध्येते नोपायभेदाभेदौ भिन्नैरपि लोचनालोका-
न्तःकरणप्रभृतिभिरुपायैरभिन्नार्थग्राहिणी बुद्धिरुपजन्यते एव, तदिह पदार्थबु-
द्धेरेकत्वात्पदार्थ एको भवतु यो ऽस्या विषयः न त्वेकं पदं यत्कारणमिति
वाक्यार्थबुद्धेरप्येकत्वादेको वाक्यार्थो भवतु न त्वेकं वाक्यं वर्गीकरणकारणं
क्रमभाविनां बहूनां वर्णानामेतद्भवति यदेकार्थप्रतिपादकत्वं न त्वभेदमेव पद-
वाक्ययोर्गमयतीति, विप्रलब्धा एव च वैयाकरणा पदवाक्ययोरप्यभेदं मन्यन्ते
किल शब्दादनन्यभूत एव शब्दार्थ इति स पुनरेषां व्यामोहः तद्भेदस्य दृढप्र-
माणसिद्धत्वात्, शब्दाध्यासस्तु प्रतीतिविरुद्धत्वेन नेष्यते इत्यलं तत्कथया
तस्मात्प्रत्यक्षगम्यो ऽपि न स्फोट इति सिद्धम्,
शब्दनिरवयवत्वनिराकरणम्—
नन्वभिन्नत्वाद्वाक्यार्थबुद्धेर्विषयभेदाभेदानुवृत्तित्वाच्च बुद्धिभेदाभेदयोर-
भिन्नो वाक्यार्थः स्याद्वाढमभिन्नो न त्वनवयवः पटादैरभिन्नस्यापि सावयवत्वात्,
यत्तु निरवयवत्वमुच्यते तदतीव संवित्परामर्शकौशलशून्यव्याहृतम्।
अंशाः सन्ति न सन्तीति चिन्तात्यन्तमसङ्गता ।
निरंशस्त्वस्ति नास्तीति युक्तं चिन्तयितुं सताम्

तद्वदिहाभ्युपगम्यमाने नूनं क चिद्वाक्ये सर्वमवयवानामेषितव्यम्, चित्रे ऽपि
हरितालसिन्दूरादिरूपं पानके त्वगेलादिरसो ग्रामरागे ऽपि षड्जर्षभगान्धार।-
दिश्वरजातं पृथगवगतमिति न ते निर्भागदृष्टान्ताः, चित्रादिबुद्धयस्तर्हि दृष्टान्ता
इति चेत् बाढं वाक्यार्थबुद्धिरपि निर्भागैष्यते एवास्माभिः बुद्धीनां निरंशत्वेन
सर्वांसामनवयवत्वात्, बुद्धिविषयीकृतस्त्वर्थो दृष्टान्तदार्ष्टान्तिकयोः सावयव
एव, तस्मान्न निर्भागो वाक्यवाक्यार्थाविति युक्तम् ,
यदप्यभ्यधायि वृद्धव्यवहारेण सम्बन्धबुद्धिर्वाक्यवाक्यार्थयोरेव न पदतदर्थयोः
पदेन व्यवहाराभावादिति तदप्यसाधु वाक्यादपि व्युत्पत्तिर्भवन्ती पदार्थपर्यन्ता
भवतीति, एवं हि पदतदर्थसंस्कृतमतेरभिनवविरचितादपि वाक्याद्वाक्यार्थप्रती-
तिर

३६४ न्यायमञ्जर्याम्

नापायदर्शनादनयैव युक्त्या पदभागा अपि प्रकृतिप्रत्ययादयः तात्विका इत्यवग-
न्तव्यं न कल्पनामात्रप्रतिष्ठाः, वृक्षं वृक्षेणेत्यत्र प्रकृत्यर्थानुगमे प्रत्ययार्थो भिद्यते
वृक्षं घटमिति प्रत्ययार्थानुगमे प्रकृत्यर्थो भिद्यते तत्र यो ऽर्थो यं शब्दमनु-
गच्छति स तस्यार्थ इत्यवसीयते तत्कथमसत्या भागाः,
यत्पुनः कूपसूपयूपादौ सत्यपि वर्णानुगमे ऽर्थानुगमो न दृश्यते तेन
चाकारणमर्थप्रतीतेर्वर्णानुगम इत्युक्तम् तदयुक्तम् , यतो नान्वयव्यतिरेकाभ्या-
मनुत्पन्ना प्रतीतिरुत्पाद्यते येन कूपादौ तदुत्पादनमाशङ्क्येत सिद्धायां तु प्रतीतौ
वाचकभागेयत्तानियमपरिच्छेदे ऽनयोर्व्यापारो न चैकत्र वर्णानुगमे ऽनुगमो
दृष्ट इत्यन्यत्रादृश्यमाने ऽपि हठादापादयितुं युक्तः, रेणुपटलानुगतपिपीलि-
कापङ्क्तिद्वारकव्यभिचाराद्भावनमपि न पेशलम् , पांसुपटलविकलपिपीलिका-
पङ्क्तिदर्शनेन तस्याः तत्प्रतीतिकारित्वाभावनिश्चयात्, करिकरभतुरगप्र-
भृतीनां तु प्रत्येकं व्यभिचारे ऽपि बहुप्राणिरूपसामान्यानपायात्तत्तत्कारणमेव
धूलिपटलमवगम्यते,
यदप्यश्वकर्णादाववयवार्थलोपादन्यत्राप्येवमिति कथितं तदपि न चतुर-
श्रम्, अश्वकर्णशब्दो हि क्व चिदर्थप्रकरणवशान्न्यग्भवदवयवशक्तितया तिर-
स्कृतावयवार्थवस्त्वन्तरव्यक्तौ न सर्वात्मना ऽवयवार्थाभावे। व्यस्तत्वेन साम-
स्त्येन वा पुनः प्रयोगान्तरे तदर्थसंप्रत्ययदर्शनादश्वमारोह कर्णं कुण्डलमिति
व्यस्तयोः प्रयोगः तुरगश्रोत्रे तु प्रतिपिपादयिषिते ऽश्वकर्ण इति समस्तप्रयोगो

(right bar with top slant). In line 32:वि धि ह तो? Yes, there is a right bar and a top slant: तो! Wait, is there an anusvara or something? Look at the text: न च विधिहतो वाच्ये बुद्धिं विधातुमसौ क्षमःWait, let's look atविधिहतोvsविदधतो: Could the second letter be द? Look at दinपदतां(line 30):दhas a round back. In line 32, the second letter has a loop on the left likeधand animātrā! Wait, why does it have animātrā? Look at line 32:विhasि, then the next letter has िtoo! That'sधि! Wait, does the third letter have ि? No, it's हwith something? Wait, could it be:न च विधिहिते? No, the last letter clearly has an o-mātrā (ो): right vertical line and upper stroke! Wait, could it be न च विधिहतो? Let's check if the word is विधिहतो: वि धि ह तो` -> 4 syllables: U U U –.

एवं स्फोटे प्रतिहते वर्णेषु वाचकेषु स्थितेषु कश्चिदाह बाढं वर्णेभ्यः पदार्थ-
प्रतीतिरस्तु वाक्यार्थप्रतीतौ न तेषां सामर्थ्यं कुतस्तर्हि वाक्यार्थावगतिः पदा-
र्थेभ्य इत्याह, तथा च वर्णानां पदार्थप्रतिपत्तौ चरितार्थत्वान्न वाक्यार्थे ऽपि
सामर्थ्यमपरिम्लानसामर्थ्यास्तु पदार्था आसते ते वाक्यार्थबुद्धेर्विधातारः अर्था-
पत्त्या हि वर्णानां कार्येषु शक्तयः कल्प्यन्ते तत्र पदार्थबुद्धेरन्यथाऽनुपपन्नतयाद्य-
थोक्तनीत्या वर्णानां तत्प्रतिपादने शक्तिरवगम्यते वाक्यार्थप्रतीतिः पुनरन्यथाऽ-
प्युपपद्यमाना न तत्र तेषां शक्तिमुपकल्पयितुमर्हति,
किं च किमेकमेव संस्कारमादधाना वर्णाः पदार्थं च वाक्यार्थं च बोध-
यन्ति भिन्नं वा तत्र च—
एकयैव हि संकृत्या कथं कार्यद्वयं भवेत् ।
न चैषां पूर्वसंस्कारादन्यो ऽस्तीति प्रतीयते ॥
वाक्यार्थप्रतीतेरन्यथा ऽपि भावान्न नानासंस्कारकल्पनाबीजमस्ति, अपि
च पदेषु पूर्ववर्णेषु नातिदूरमतिक्रान्तेषु बुद्धेचोपसंहर्तुं शक्येषु घटमानमन्त्य-
वर्णवेलायामनुसन्धानं वाक्येषु पुनरतिचिरतरतिरोहिताक्षरपरम्परानुसन्धान-
मतिश्लिष्टमदृष्टपूर्वमिति दुर्घटमेतत् , व्यवहितपदोच्चारणे तु दृश्यते वाक्यार्थ-
प्रतीतिर्यत्र पूर्ववर्णानुसन्धानगन्धो ऽपि नास्ति, तस्मान्न वर्णा वाक्यार्थबुद्धिहे-
तवः, अपि च पदार्थं वाक्यार्थं च प्रतिपादयन्तो वर्णा युगपत्प्रतिपादयेयुः क्र-
मेण वा तत्र सकृदुच्चारितानां युगपदुभयकरणमनुपपन्नम् , अशक्यत्वात्क्रम-
पक्षे ऽपि पूर्वं चेद् वाक्यार्थप्रतिपादनं तदयुक्तम् , अनवगतपदार्थस्य वाक्यार्थ-
प्रत्ययादर्शनात् ,
अथ पूर्वं पदार्थप्रतिपादनं ततो वाक्यार्थप्रत्यायनं हन्त तर्हि पदार्थप्रत्य-
यादेव वाक्यार्थबुद्धेः सिद्धत्वात्किमिति पुनर्व्यापारान्तरे श्रम आश्रीयते, तस्मा-
त्पदार्थप्रतिपादनपर्यवसितसामर्थ्यानि पदानि पदार्थेभ्यस्तु वाक्यार्थप्रत्यय इति
सिद्धम् ,
अपि च अन्वयव्यतिरेकाभ्यामेवमवगम्यते ‘यत्पदार्थपूर्वको वाक्यार्थ’ इति
यो हि मानसादपचाराच्छ्रुतेष्वपि पदेषु पदार्थान्नावगच्छति नावगच्छत्येव
वाक्यार्थम् , यस्तु अश्रुतेष्वपि पदेषु प्रमाणान्तरतः पदार्थाञ्जानीयाज्जानीते-
वासौ वाक्यार्थम् ।
पश्यतः श्वेतिमरूपं हेषाशब्दं च शृण्वतः ।
खुरविक्षेपशब्दं च श्वेतो ऽश्वो धावतीति धीः ॥

प्रमाणप्रकरणम् ३५७
दृष्टा वाक्यविनिर्मुक्ता न पदार्थैर्विना क्वचिदिति(१) ।
तदेषा वाक्यार्थबुद्धिः पदार्थप्रतीतिं न व्यभिचरति व्यभिचरति तु पदप्रती-
तिमिति न तत्कार्या भवितुमर्हतीति,
यदप्युच्यते प्रत्येकं व्यभिचारात्समुदितानामसाधारण्यान्न पदार्थानां वा-
क्यार्थावगतिहेतुत्वमिति तदप्ययुक्तम् , प्रत्येकं तावद् गमकत्वं नेष्यते एव समु-
दितानां त्वसाधारण्यं भवदपि न नः क्षतिकरं न ह्येते लिङ्गवत्सम्बन्धग्रहणम-
पेक्षमाणा अवबोधका यदसाधारण्यत्रावकल्पेत किं त्वगृहीतसम्बन्धा अपि
आकाङ्क्षासन्निधियोग्यतापर्यालोचनया परस्परं संसृज्यन्ते स एव वाक्यार्थः
संसृष्टः पदार्थसमुदाय इतरविशिष्टो वेतर इति, नाप्यशाब्दत्वमित्थं वाक्यार्थ-
प्रतीतेराशङ्कनीयम् शब्दावगतिमूलत्वेन तस्याः शाब्दत्वाच्छब्दात्पदार्थप्रतिपत्तौ
वाक्यार्थप्रतिपत्तिरिति सर्वमनवद्यम् , तदुक्तं पदानि हि स्वं स्वमर्थमभिधाय
निवृत्तव्यापाराणि अथेदानीमवगताः पदार्था एव वाक्यार्थमवगमयन्ति' इति(१) ।
पदार्थानां वाक्यार्थबोधहेतुत्वनिराकरणम्—
अत्राभिधीयते न पदार्थेभ्यो वाक्यार्थावगतिरपि तु वाक्यादेव, तथा चायं
वाक्यार्थ इति प्रसिद्धो न पदार्थार्थः, यथा हि काल्पनिकवर्णसमूहात्मकं पदं
पदार्थप्रतिपत्तिमादधाति तथा काल्पनिकपदसमूहात्मकं वाक्यं वाक्यार्थप्रतिप-
त्तिमाधास्यति,
ननु पदसमूहात्मकं वाक्यमन्यन्नास्ति किं तु पदान्येव वाक्यं पदानां च
स्वार्थे चरितार्थत्वान्न वाक्यार्थसामर्थ्यमित्युक्तं, नैतद्युक्तम् पदार्थानामपि
चरितार्थत्वात् , क्व तेषां चरितार्थत्वं स्वप्रतिपत्तौ,
ननु पदानि स्वप्रतिपत्तौ चरितार्थीभूय पदार्थप्रतिपत्तिमादधति पुनस्तान्येव
कथं वाक्यार्थप्रतिपत्तिमाधास्यन्ति पदार्थास्तु स्वावगतेरूर्ध्वं न क्व चित्परत्र
चरितार्था इति वाक्यार्थबुद्धेर्विधातारो भवन्तु नैतदेवम् , अन्त्यपदस्यान्यत्र
चरितार्थत्वाभावात् , अन्त्यपदमेव पूर्वपदस्मरणोपकृतं वाक्यमुच्यते तदर्थश्च .
पूर्वपदार्थविशिष्टो वाक्यार्थ इत्येके, तस्माद्वाक्यादेव वाक्यार्थप्रत्ययः,
यत्तु किमेकसंस्कारस्मरणेन कार्यद्वयं पदानि विदधति विभिन्नसंस्कारेण
वेति कार्यभेदात्कारणभेदानुमानमिति प्रसिद्ध एष पन्थाः एको ऽप्यतीन्द्रियः
( १ ) श्लोकवार्तिके वाक्याधिकरणे श्लो० ३५८ । श्वेतं कं चित्पदार्थं दूरादुप-
लभमानस्तस्मिन्नेव प्रदेशे हेषया अश्वजातिं खुरशब्देन च गतिमनुमाय तेषां गुण-
जातिक्रियाणामर्थान्तरान्वयमपेक्षमाणानां योग्यानां परस्परं 'श्वेतोऽश्वो धावति'
इति संसर्गं बुध्यते इति प्रमाणान्तरोपस्थितैरपि पदार्थैः वाक्यविनिर्मुक्ता धीर्दृष्टा पदा-
र्थैर्विना तु क्वचिन्न दृष्टेत्यर्थः ।

३५८ न्यायमञ्जर्याम्
संस्कारः कार्यात्कल्प्यते बहवो ऽपि तत एव कल्पयिष्यन्ते कार्यस्य भिन्नत्वात् ,
यदपि चिरतिरोहितवर्णप्रबन्धानुसन्धानं दुर्घटमिति कथितं तदपि न
चारु, कया चित्कल्पनया वर्णानामिव पदबुद्धौ पदानामपि वाक्यबुद्धौ उपारो-
हसम्भवात् , एतच्चानन्तरं दर्शयिष्यते,
यदपि विकल्पितं युगपद्वा क्रमेण वा वर्णाः पदवाक्यार्थप्रत्यये व्याप्रियेर-
न्निति तत्राप्युच्यते यौगपद्यं तावदनभ्युपगमादेव प्रत्युक्तम् , क्रमो ऽप्येषामीदृशो
यत्प्रथमं पदार्थमवगमयन्ति ततो वाक्यार्थम् , सो ऽयं हि पदार्थपूर्वक एव
वाक्यार्थ उक्तो भवतीति चेन्मैवम् , पदार्था हि नाम प्रमेयमेव न ते प्रमाणवर्गे
निपतन्ति न च पदार्थवाक्यार्थयोरत्यन्तं भेदो येन तयोर्धूमाग्न्योरिव संबन्ध-
ग्रहणसापेक्षयोस्तदनेपेक्षयोर्वा रूपदीपयोरिव प्रत्याय्यप्रत्यायकभावः न हि स्वश-
रीर एव गम्यगमकवाचोयुक्तिः प्रवर्त्तते, कथं स्वभावात्स्वभावहेतुवादिनो बौद्ध-
स्य शिष्य इव निर्वृत्तः,
ननु सामान्ये हि पदं वर्त्तते विशेषे च वाक्यमन्यच्च सामान्यमन्ये च विशेषाः,
यदुक्तम्, “सामान्यान्य न्यथासिद्धेर्विशेषं गमयन्ति हि” इति व्यतिरेक एव
प्रत्याय्यप्रत्यायकयोः, उच्यते बाढमस्त्ययमियान् व्यतिरेकः किं तु विरतव्यापारे
चक्षुषीव शब्दे धूमादिवत्प्रमेयात्पदार्थादग्नेरिव वाक्यार्थस्यावगमो नास्ति न
हि पदार्थाः प्रमेयीभूतधमवत्पुनः प्रमाणीभवितुमर्हन्ति किं तु पदान्येव तत्प्र-
तिपादनद्वारेण वाक्यार्थप्रतिपत्तौ पर्यवस्यन्ति कथमात्मीयमेव ग्रन्थं न बुध्यन्ते
भवन्तः ।
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनमिति(१) ॥
अवान्तरव्यापारो हि न कारकस्य प्रधाने व्यापारे कारकतां व्याहन्ति
पदानां हि द्वयी शक्तिरभिधात्री तात्पर्यशक्तिश्च तत्राभिधात्री शक्तिरेषां पदा-
र्थेषूपयुक्ता तात्पर्यशक्तिश्च वाक्यार्थे पर्यवस्यतीति,
यद्यपि पदानि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि तथापि यदर्थपराणि
तत्रानिवृत्तव्यापाराण्येवेति, एवं हि शाब्दता वाक्यार्थप्रत्ययस्य न हास्यते, सर्वा-
त्मना तु विरतव्यापारे शब्दे सा ऽवश्यं हीयते शब्दावगतिमूलत्वात्तु शाब्द-
त्वे श्रौत्रत्वमपि स्यात् , श्रोत्रस्य पारम्पर्येण मूलत्वात् , शब्दे वितरव्यापारे
कतमत्तत्प्रमाणं यस्य वाक्यार्थप्रतीतिः फलमिति न विद्मः, न प्रत्यक्षम् अती-
न्द्रियत्वाद्वाक्यार्थस्य, नानुमानं ‘न चानुमानमेषा धीः’इत्यादिना ग्रन्थविस्तरेण

( १ ) श्लोकवार्त्तिक वाक्याधिकरणे श्लो० ३४३ । तेषां पदानां वाक्यार्थबोधा-
य प्रवृत्तौ सत्यां पदार्थप्रतिपादनं काष्ठानां पाके प्रवृत्तौ ज्वाला इव नान्तरीयक मित्यर्थः।
पदानि पदार्थं प्रतिपाद्य वाक्यार्थबोधं जनयन्तीति भावः ।

एव कया चित्कल्पनया पदवाक्यभावमुपगतेभ्यः पदार्थवा- Line 18:क्यार्थसंप्रत्यय इति युक्तम् , तस्मात्पदार्थजन्या न भवति वाक्यार्थबुद्धिरिति Line 19:सिद्धम् , अनुपरतव्यापाराद्वाक्यादेवेयमुद्भवति, Line 20:वर्णानां पदवाक्यभावोपगमप्रकारः— Line 21:आह कया पुनः कल्पनया पदवाक्यभावमुपगता वर्णाः पदार्थवाक्यार्थप्र- Line 22:तीतिमादध्युरिति, Line 23:तत्राचार्यास्तावदिमां कल्पनामुदीदृशन् प्रथमं वर्णज्ञानं ततः संस्कारः ततो Line 24:द्वितीयवर्णज्ञानं तेन प्रथमवर्णज्ञानजनितेन च संस्कारेण पटुतरः संस्कारः Line 25:ततस्तृतीयवर्णज्ञानं तेन प्राक्तनेन संस्कारेण पटुतरः संस्कारः एवं यावदन्त्य- Line 26:वर्णज्ञानमन्त्यवर्णज्ञानानन्तरं तु ततः संस्कारात्सकलपूर्ववर्णविषयमेकस्मरणं Line 27:तेनान्त्यवर्णज्ञानस्य विनश्यत्ता विनश्यदव

३६० न्यायमञ्जर्याम्
रेण सर्वपदविषयमेकस्मरणमुपजन्यते संस्कारस्यैकत्वात्सो ऽयं स्मर-
णानुभवविषयीकृतवर्णसमूहपदसमूहो वाक्यमित्युच्यते ततो वाक्यार्थप्रति-
पत्तिः संस्कारस्य च संस्कारान्तरकरणकौशलमवश्यमेषितव्यमन्यथा सर्वत्र क्रि-
याभ्यासो ऽनर्थकः स्यादिति,
उक्तस्य वर्णानां पदवाक्योपगमप्रकारस्य खण्डनम् —
अत्र वदन्ति, नेयं प्रक्रिया साध्वी ज्ञानयौगपद्य प्रसङ्गात्, तथा हि चर-
मपदप्रतिभासानन्तरं यथा पूर्वपदस्मरणं तथा तदैव संकेतस्मरणेनापि भवि-
तव्यमनवगतपदार्थस्य हि न वाक्यार्थप्रतीतिरस्मृतसंकेतस्य च न पदा-
र्थप्रतीतिः, यत्राप्यभ्यस्ते विषये संकेतस्मृतिर्न संवेद्यते तत्राप्यविनाभा-
वस्मृतिरिव बलादसौ कल्प्यते अनवगतपदपदार्थसम्बन्धस्य नारिकेलद्वीपवा-
सिन इवार्थप्रत्ययाभावात्, सम्बन्धानुभवस्य च पूर्ववृत्तत्वेनेदानीं स्मरणमुखे-
नोपकारित्वात्तस्मादन्त्यपदज्ञानानन्तरं पूर्वपदसमयस्मरणयोर्युगपदुत्पादाज् ज्ञा-
नयौगपद्यम् ,
अथ समयस्मरणानन्तरं पूर्वपदस्मरणमुपेयते तथा तत्स्मृतिकाले पदा-
र्थज्ञानोपजनात्पुनरपि ज्ञानयौगपद्यं न च तदा पदार्थज्ञानं नोदेतीति शक्यते
वक्तुमविकलतदुपजनकारणसामग्रीसन्निधानात्प्रतिनायकस्य च तदानीमभा-
वात्, पदार्थज्ञानोत्तरकालं तर्हि पूर्वपदस्मरणमस्त्विति चेद् एवं तर्हि चर-
मपदज्ञानप्रत्यस्तमयादन्त्यपदरहितं वाक्यं स्यादन्त्यपदज्ञानस्य हि संकेतस्मृति-
वेलायां विनश्यत्ता पदार्थज्ञानवेलायां विनाश एव,
यत्तु ब्रूयादसंवेद्यमानमपि तदानीमन्त्यपदमस्त्येवेति स्वस्ति तर्हि न्याय-
विस्तराय, अपि च तदानीमनुपलभ्यमानेनापि सता किमन्त्यपदेन क्रियते,
पुनरवगमो ऽस्य भविष्यतीति चेत् स कुतस्त्यः, श्रोत्रस्य विरम्य व्यापारासंवे-
दनात्, मनसश्च स्वातन्त्र्येण बाह्ये विषये सामर्थ्यासम्भवात्, सत्यपि पुनः
तदवगमे ज्ञानयौगपद्यानपायात्,
अपि च पूर्वपदैरर्थशून्यतया शुष्कनीरसतनुभिरन्त्यपदानुभवसमनन्तरं
स्मृतैरपि को गुणः, न हि तथाविधपदस्मरणमर्थप्रत्यायनाङ्गम् , अथ सार्थ-
कानि प्राञ्चि पदानि स्मर्यन्ते तर्हि समयस्मरणपदार्थज्ञानादिकार्यसांकर्यकृतमने-
कशाखं प्रतिपदं ज्ञानयौगपद्यमापद्यते इत्यसतीयं कल्पना,
प्रकारान्तरेण वर्णानां पदवाक्यभावोपगमनिरूपणम्--
व्याख्यातारस्तु प्रक्रियान्तरमाचचक्षुः, वर्णानुगमरूपेण तावत्प्रथमप-
दज्ञानमुत्पद्यते ततः संकेतस्मरणं तेन विनश्यदवस्थेन पदज्ञानेन स्वविषयाव-
च्छेदेन पदार्थज्ञानमाधीयते यत्र वाचकावच्छिन्नं वाच्यस्वरूपमवभास-