सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 366, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 366

३४४ न्यायमञ्जर्याम्
तदलमतिप्रसक्तानुप्रसक्त्या द्राघीयसी चर्चेयम् प्रकृतान्तरायकरिणीति न
प्रतन्यते इह त्वेतावतैव पुनः प्रयोजनम् वर्णपदपूर्वको व्यवहारो न भवतीति
वाक्येन लोके व्यवहारात्तस्य चावयवावयविव्यवस्थानुपपत्तेर्निर्भागमेव तद्वाच-
कं निर्भागश्च तस्य वाच्यो ऽर्थ इति, अर्वान्तरवाक्यमपि प्रयोगयोग्यं व्य-
वहारकारणमिति तन्न निहूयते अविद्यावस्थेयं वर्तते तत्रेयं व्यवहारवर्तनी
यथादृश्यमानैवास्तु विद्यायां सर्वमेवेदमसारमिति, पदेन वर्णेन वा व्यव-
वहाराभावात्तस्य केवलस्याप्रयोगात्तत्स्वरूपमस्यामपि दशायां न वास्तव-
मिष्यते इति ।
तस्मादेकः क्रमविरहितः कल्पितासद्भिभागे
वाक्द्यस्फोटो जनयति मतिं तादृशीं स्वाभिधेये ।
वर्णास्त्वेते प्रकृतितलयवः कल्पनैकप्रतिष्ठाः
तस्मिन्नर्थे विदधति धियं नेत्यलं तत्कथाभिः ॥
स्फोटनिराकरणोपक्रमः-
अत्राभिधीयते, किमथमनुमानमहिम्ना स्फोटोऽभ्युपगमः प्रत्यक्षप्रतीति-
बलवत्तया वा, न तावदनुमानतः स्फोटस्वरूपमुपपादयितुं पार्यते परिदृश्य-
मानविशिष्टानुपूर्वीकवर्णकलापकरणेनार्थप्रतीतेर्घटमानत्वात् ,
वर्णानां वाचकत्वस्य समर्थनम्-
ननु व्यस्तसमस्तादिविकल्पैरुत्सा दितं वर्णानां वाचकत्वम् , नैतद् दुर्वि-
कल्पास्ते व्यस्तानां तावद्वाचकत्वं नेष्यते वर्णानां समस्ता एव ते वाचकाः,
यत्तुत्तसामर्थ्यं नास्ति क्रमभावित्वादिति तदसन् , क्रमभाविनापि समस्तानां
कार्यकारिणामनेकशो दर्शनात् , यथा युगपद्भाविनः समाश्रयो ग्रावाणः एका-
मुखां धारयन्तो दृश्यन्ते तथा क्रमभविनो ऽपि समस्ता ग्रासा एकां तृप्तिमुत्पा-
दयन्तो दृश्यन्ते, एकस्मिन्नपि हि ग्रासे हीयमाने न भवति तादृशी तृप्तिः अतः
समस्ता एव ते ग्रासाः तृप्तेः कारणम् , न च समस्ता अपि ते ग्रासाः युगपत्प्र-
योक्तुं शक्याः तथैकानुवाकग्रहणे संस्थानां क्रमभाविनीनामपि सामस्त्ये सति
सामर्थ्यमेकया संस्थया विना तदामुखीकरणासम्भवात् एवं तावल्लोके सामस्त्यं
क्रमभाविनां दृष्टम् , वेदे ऽपि दर्शपूर्णमासाभ्यामितीतरेतरयोगशंसिना द्वन्द्वेन
समर्पितसाहित्यानामाग्नेयादियागानां पञ्चद्वये प्रयोक्तृत्वेन चापरिहार्यक्रमाणामे-
काधिकारसम्पादकत्वं दृष्टम्, तथा ऐन्द्रवायवं गृह्णाति आश्विनं गृह्णाति इति सो
मग्रहणाभ्यासानां समस्तानां क्रमभाविनां चैकप्रधाननिर्वर्तकत्वं दृष्टमित्यतश्च
नायं विरोधः सामस्त्यं च क्रमभावित्वं चेति, एवं क्रमवर्तिनो ऽपि वर्णा एवा-