सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 374, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 374

३८२ न्यायमञ्जर्याम्

बहुतमस्थाने एव त्वयं संत्रासः, न हि शब्दत्वं स्फोटः प्रतिवर्णं हि शब्दः शब्दः
इति बुद्धिरस्ति न च वर्णः स्फोटः तदिदं शब्दत्वसामान्यमेव शब्दबुद्धेरालम्बनं
न स्फोटः, सामान्यसिद्धौ तु व्यक्त्यन्तरानुसन्धानमकारणमिति प्रागेव निर्णीतं
तस्मान्न शब्दबुद्धावपि स्फोटो ऽवभासते पदवाक्यबुद्धावित्येतच्च सत्यमाह यदि-
यमेककार्यकारित्वनिबन्धना वनपृतनादिबुद्धिसमानयोगक्षेमैव पदवाक्यबुद्धि-
रिति, न च जात्यादिष्वसमाश्वासो वैलक्षण्यस्य दर्शितत्वात्,
यदप्येककार्यकारित्वनिबन्धनायामभेदबुद्धावितरेतराश्रयपरिचोदनमेकार्थ-
प्रतातिपूर्विका पदवाक्यबुद्धिः पदवाक्यबुद्धिपूर्विका चैकार्थप्रतीतिरिति तदपि
न सम्यक, स्मर्यमाणानुभूयमानवर्णजनितेयमर्थप्रतीतिरित्युक्तत्त्वान्न नाभि-
न्नपदपरिच्छेदपूर्विकेति कुत इतरेतराश्रयत्वम्, ब्रूयाच्चपदवाक्ययोरेकत्वमन्तरेण
कथं पदवाक्यार्थप्रतीतिरेकरूपा भवेदिति सो ऽयमतीव मुग्धालापः, प्रतीतिभे-
दाभेदौ हि विषयभेदाभेदावनुरुध्येते नोपायभेदाभेदौ भिन्नैरपि लोचनालोका-
न्तःकरणप्रभृतिभिरुपायैरभिन्नार्थग्राहिणी बुद्धिरुपजन्यते एव, तदिह पदार्थबु-
द्धेरेकत्वात्पदार्थ एको भवतु यो ऽस्या विषयः न त्वेकं पदं यत्कारणमिति
वाक्यार्थबुद्धेरप्येकत्वादेको वाक्यार्थो भवतु न त्वेकं वाक्यं वर्गीकरणकारणं
क्रमभाविनां बहूनां वर्णानामेतद्भवति यदेकार्थप्रतिपादकत्वं न त्वभेदमेव पद-
वाक्ययोर्गमयतीति, विप्रलब्धा एव च वैयाकरणा पदवाक्ययोरप्यभेदं मन्यन्ते
किल शब्दादनन्यभूत एव शब्दार्थ इति स पुनरेषां व्यामोहः तद्भेदस्य दृढप्र-
माणसिद्धत्वात्, शब्दाध्यासस्तु प्रतीतिविरुद्धत्वेन नेष्यते इत्यलं तत्कथया
तस्मात्प्रत्यक्षगम्यो ऽपि न स्फोट इति सिद्धम्,
शब्दनिरवयवत्वनिराकरणम्—
नन्वभिन्नत्वाद्वाक्यार्थबुद्धेर्विषयभेदाभेदानुवृत्तित्वाच्च बुद्धिभेदाभेदयोर-
भिन्नो वाक्यार्थः स्याद्वाढमभिन्नो न त्वनवयवः पटादैरभिन्नस्यापि सावयवत्वात्,
यत्तु निरवयवत्वमुच्यते तदतीव संवित्परामर्शकौशलशून्यव्याहृतम्।
अंशाः सन्ति न सन्तीति चिन्तात्यन्तमसङ्गता ।
निरंशस्त्वस्ति नास्तीति युक्तं चिन्तयितुं सताम्