न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
१६४ न्यायमञ्जर्याम्
वेदानामपौरुषेयतयाऽपि स्वतः प्रामाण्यनिरूपणम्—
तदेवं सर्वप्रमाणानां स्वतः प्रामाण्ये सिद्धे समानन्यायतया शब्दस्यापि
तथैव प्रामाण्यं भवति, न च नैसर्गिकमर्थासंस्पर्ंशित्वमेव शब्दस्य स्वरूपमिति
परीक्षितमेतत् , किं त्वर्थबोधजनकत्वात्तस्य नैसर्गिके प्रामाण्ये सति पुरुषदो-
षानुप्रवेशकारितः क चिद्धि विप्लवः, तदुक्तम् , 'शब्दे दोषोद्भवस्तावद्वक्त्रधीन
इति स्थितिः'(१) तत्र पौरुषेये वचसि गुणवति वक्तरि तद्गुणापसारित-
दोषतया तत्प्रामाण्यमौत्सर्गिकमनपोदितं भवति न तु गुणकृतं तत्प्रामाण्यम-
नङ्गत्वात्प्रामाण्ये गुणानाम् , बोधकत्वनिबन्धनमेव तदित्युक्तम् , वेदे तु
प्रणेतुः पुरुषस्याभावात् दोषाशङ्कैव न प्रवर्तते वक्त्रधीनत्वादोषाणाम् , न च
बाधकप्रत्ययो ऽद्य यावद्वेदार्थे कस्य चिदुत्पन्न इति निरपवादं वेदप्रामा-
ण्यम् , आह च(२)—
तत्रापवादनिर्मुक्तिर्वक्त्रभावालघीयसी ।
वेदे तेनाप्रमाणत्वं न शङ्कामधिगच्छतीति ॥
तदिदमुक्तं तत्प्रमाणं बादरायणस्यानपेक्षत्वादिति(३) ।
गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् ।
अपौरुषेयं सत्यार्थमिति युक्तं प्रचक्षते ॥
गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् ।
अपौरुषेयं सत्यार्थमित्ययुक्तं तु मन्वते ॥
न हि पुरुषगुणानां सत्यतासाधनत्वं
वचसि खलु निसर्गादेव सत्यत्वसिद्धिः ।
गुणमपि नरवाचां विप्लवाधायिदोष-
प्रशमनचरितार्थं सङ्गिरन्ते गुणज्ञाः ॥
चतुर्थे वा ज्ञानमुत्पन्नं तावदेवैकं पूर्वमुत्तरं वा निरपवादं स्वतः प्रामाण्यमापद्यत इत्याह
एवमिति ।
( १ ) श्लोकवार्तिके सू. २ श्लो. ६२ । शब्दे वक्त्रधीना एव दोषा न स्वाभा-
विका इति वेदे वक्तुरभावात् स्वतः प्रामाण्यं निरपवादमेवावतिष्ठते इति भावः ।
( २ ) श्लोकवार्तिके सू. २ श्लो. ६८ । अकर्तृके वेदे निराश्रया दोषाः शङ्कामपि
नाधिरोहन्ति इति अप्राण्यशङ्कैव नोदेति । औत्सर्गिकस्य प्रामाण्यस्यापवादभूतमप्रा-
माण्यं तन्निर्मुक्तिर्वेदे लघीयसी न पुंवाक्यवद् गुणापेक्षितया गुर्वी वस्तुतस्तु पुंवाक्येष्वपि
न गुणापेक्षं प्रमाण्यमिति भावः ।
( ३ ) जैमिनिसूत्रम् । अ.१. पा. १. सू ५ ।
प्रमाणप्रकरणम् १८५
मीमांसकाभिमतप्रामाण्यस्वतस्त्वस्य निरासः—
अत्राभिधीयते, प्रत्यक्षादिषु दृष्टार्थेषु प्रमाणेषु प्रामाण्यनिश्चयमन्तरेणैव
व्यवहारसिद्धेस्तत्र किं स्वतःप्रामाण्यमुत परत इति विचारेण न नः प्रयोज-
नम् अनिर्णय एव तत्र श्रेयान्, अदृष्टे तु विषये वैदिकेष्वगणितद्रविणवितर-
णादिक्लेशसाध्येषु कर्मसु तत्प्रामाण्यावधारणमन्तरेण प्रेक्षावतां प्रवर्त्तनमनु-
चितमिति तस्य प्रामाण्यनिश्चयो ऽवश्यकर्त्तव्यः, तत्र परत एव वेदस्य प्रामा-
ण्यमिति वक्ष्यामः ।
यच्चेदमियता विस्तरेण स्वतः प्रामाण्यमुपपादितं तद् व्याख्येयम्, स्वतः
प्रामाण्यमिति को ऽर्थः किं स्वत एव प्रमाणस्य प्रामाण्यं भवति उत स्वयमेव
तत्प्रमाणमात्मनः प्रामाण्यं गृह्णातीति, न तावत्स्वयमेव प्रामाण्यग्रहणमुपप-
न्नम् अप्रामाणिकत्वात्, तथा हि यदेतन्नीलप्रकाशने प्रवृत्तं प्रत्यक्षं तन्नीलं प्रति
तावत्प्रत्यक्षं प्रमाणं तावदिन्द्रियार्थसन्निकर्षोत्पन्नमिति जानीम एवैतत्किमत्र
विचार्यते, प्रामाण्यपरिच्छेदे तु किं तत्प्रमाणमिति चिन्त्यताम्, प्रत्यक्षमनु-
मानं वा प्रमाणान्तराणामनाशङ्कनीयत्वात्, न तावत्स्वप्रामाण्यपरिच्छेदे तत्प्र-
त्यक्षं प्रमाणं तद्विज्ञानस्य वा प्रामाण्यं गृह्णीयात् तत्फलस्य वा तत्र ज्ञातृ
व्यापारात्मनो ज्ञानस्य भवन्मते नित्यपरोक्षत्वात्प्रत्यक्षतः परिच्छेदानुपपत्तौ
तत्प्रामाण्यस्यापि कथं प्रत्यक्षेण ग्रहणम्, फलस्याप्यर्थप्रकाशनाख्यस्य संवेदना-
त्मनो नेन्द्रियसंसर्गयोग्यता विद्यते येन तद्गतमपि यथार्थत्वलक्षणं प्रामाण्य-
मिन्द्रियव्यापारलब्धजन्मना प्रत्यक्षेण परिच्छिद्येत, न च मानसमपि प्रत्यक्षं
फलगतयथार्थताऽवसायसमर्थमिति कथनीयं तदानीमननुभूयमानत्वात्, न हि
नीलसंवित्प्रसवसमनन्तरं यथार्थं नीलसंवित्तिरति संवेदनान्तरमुत्पद्यमान-
मनुभूयते, अनुभवे वा ततो द्वितीयात्प्रथमोत्पन्ननीलज्ञानयाथाथ्यैग्रहणान्न
स्वतः प्रामाण्यनिश्चयः स्यात्, तस्मान्न प्रत्यक्षस्यैष विषयः, अनुमानेनापि कस्य
प्रामाण्यं निश्चीयते ज्ञानस्य फलस्य वेति पूर्ववद्द्वाद्यम्, फलस्य तावत्तन्निश्चये
लिङ्गत्वमेव तावन्न कस्य चित्पश्यामः, ज्ञातृव्यापारात्मनो ज्ञानस्य तु स्वकार्यं
फलं भवेदपि लिङ्गं फलस्य क्रियामात्रव्याप्तिग्रहणात्स्वरूपसत्तामात्रमनुमापयितु-
मुत्सहते न यथार्थत्वलक्षणं प्रामाण्यम्, तद्धि फलं निर्विशेषणं वा स्वकारणस्य
ज्ञातृव्यापारस्य प्रामाण्यमनुमापयेद् यथार्थत्वविशिष्टं वा, आद्ये पक्षे यतः कु-
तश्चन फलात्तत्प्रामाण्यानुमाने नेदानीं किं चिदप्रमाणं भवेत्, उत्तरो ऽपि
नास्ति पक्षः फलगतयाथार्थ्यपरिच्छेदोपायाभावादित्युक्तम् ।
ननु सो ऽनुभव एवात्रोपायः, तद्धि नीलसंवेदनतया फलं स्वत एव प्रका-
शते नीलसंवेदनत्वमेव चास्य यथार्थत्वं नान्यत्, यद्येवं शुक्तिकायामपि रजत-
संवेदने समानो न्यायः, न हि रजतसंवेदनादन्या यथार्थत्वसंवित्तिरिति ।
ननु तत्र बाधकप्रत्ययोपनिपातेनायथार्थत्वमुपनीयते नूनं चास्य मिथ्याद-
र्शनेषु देशान्तरे वा शुक्तिकारजतादिज्ञाने कालान्तरे वा कूटकार्षापणादिप्रतीतौ
पुरुषान्तरे वा जाततैमिरिके द्विचन्द्रप्रतीतौ अवस्थान्तरे पीतशङ्खादिप्रतिभासे
भवति बाधकप्रत्ययः, तदसत्त्वे न तच्छङ्का युक्तिमतीत्युक्तमेव, सत्यमुक्तमयुक्तं
तु एवं हि वदता बाधकाभावज्ञानाधीनं प्रामाण्यमभिहितं भवति तच्च तात्का-
लिकं कालान्तरभावि वेति कल्प्यमानं नोपपद्यते इति दर्शितम् , तस्मादुत्प-
द्यमानमेव प्रमाणमात्मनः प्रामाण्यं निश्चिनोतीति न युक्तमेतत् , यदि तु प्रस-
वसमय एव ज्ञानस्य प्रामाण्यं निश्चिनुयाम तर्हि ततः प्रवर्त्तमाना न क चिदपि
विप्रलभेमहि, विप्रलभ्यामहे तु तेन मन
बाधवतत्कम्पमानो जायते, अथ निर्विचिकित्सता शुक्तिकायामपि रजतावभासो
निर्विचिकित्स एव किं स्विदिति कोटिद्वयानवमर्शात्, अथ यस्मिन् सति बाधा
न दृश्यते सोऽस्य विशेष इति, नन्वेतदेव पृच्छामि कस्मिन् सति बाधा न दृश्यते
इति सर्वावस्थस्य बाधदर्शनात् , न चासौ चिरमपि चिन्तयित्वा विशेषयितुं
शक्यः, अथ स्वविषयाव्यभिचारित्वमेव विशेषः स तदानीं नावभासते इत्युक्तम्
अपि च यदि तथाविधोऽपि विशेषः समस्ति तर्हि यत्र ज्ञाने ऽसौ न दृश्यते
ततः किमिति प्रवर्त्तते, तद्विशेषदर्शी वा प्रवर्त्तमानः कथं विप्रलभ्येतेत्युक्तम्,
यदयं स्थाणुर्न पुरुषः ।
तेनैव व्यवहारस्य सिद्धत्वात्सर्वदेहिनाम् ।
अतश्च संशयादेव व्यवहारं वितन्वताम् ॥
लौकिकानां प्रयोक्तव्या नाभिशापपरम्पराः ।
न च सर्वथा संशयसमर्थने ऽस्माकमभिनिवेशः, प्रामाण्यं तु ज्ञानोत्पत्ति-
काले ग्रहीतुमशक्यमिति नः पक्षः, प्रामाण्याग्रहणमेवानध्यवसायस्वभावं संश-
यशब्देनेह व्यपदेद्यामः, प्रामाण्याग्रहणं च प्रदर्शितम् , प्रत्यक्षेणानुमानेन वा
सता प्रमाणेनात्मनः प्रमाणत्वपरिच्छेदायोगात् , तस्मात्स्वयं प्रामाण्यं गृह्यते
इत्येष दुर्घटः पक्षः ।
प्रामाण्योत्पत्तौ स्वतस्त्वनिरासः—
अथ स्वतः प्रामाण्यं भवतीत्येष पक्ष आश्रीयते सोऽप्ययुक्तः, का-
र्याणां कारणाधीनजन्मत्वात्प्रामाण्यस्य च कार्यत्वात् , अस्ति च प्रामाण्यं
वस्तु च तद् न च नित्यमिति कार्यमेव तत् कार्यं च कार्यत्वादेव न
स्वतो भवितुमर्हति इति, अथोत्पत्तौ स्वकारकातिरिक्तगुणानपेक्षित्वमेव प्रामा-
ण्यस्य स्वतो भवनमुच्यते न पुनरकार्यत्वमेवेति तदप्यसम्यक् , सम्यग्रूपस्य
कार्यस्य गुणवत्कारकव्यतिरेकेणानिष्पत्तेः, द्विविधं कार्यं भवति सम्यगस-
म्यग्वा तत्र गुणवता कारणेन सम्यक् कार्यमुत्पद्यते दोषवता त्वसम्यगिति ।
निर्दोषं निर्गुणं वापि न समस्त्येव कारणम् ।
अत एव तृतीयस्य न कार्यस्यास्ति सम्भवः ॥
सम्यग्ज्ञानोत्पादकं कारकधर्मि स्वरूपातिरिक्तस्वगतधर्मसापेक्षं कार्यनिर्वर्त्त-
कमिति साध्यो धर्मः कारकत्वात् मिथ्याज्ञानोत्पादककारकवत् , सम्यग्ज्ञानं वा
धर्मिस्वरूपातिरिक्तधर्मसम्बन्धवत्कारकनिष्पाद्यमिति साध्यो धर्मः कार्यत्वान्मि-
थ्याज्ञानवत् , आयुर्वेदाच्चेन्द्रियगुणान् प्रतिपद्यामहे, यदमी वैद्याः स्वस्थवृत्तेरौष-
धोपयोगमुपदिशन्ति तद्गुणोपयोगायैव न दोषशान्तये, दृश्यते च तदुपदिष्टौष-
धोपयोगादिन्द्रियातिशयः, तद्विषय एव च लोके नैर्मल्यव्यपदेशो न दोषाभाव-
१५८ न्यायमञ्जर्याम्
मात्रप्रतिष्ठ इत्यलं विमर्देन, तस्मादुत्पत्तौ गुणानपेक्षत्वात्स्वतः प्रामाण्यमिति
यदुक्तं तदयुक्तम् ।
यदपि च स्वकार्यकरणे प्रमाणस्य परानपेक्षत्वमुच्यते तदपि व्याख्येयं किं
प्रमाणं स्वकार्यकरणे निरपेक्षं सामग्री वा तदेकदेशो वा तज्जन्यं वा ज्ञानमिति,
तत्र सामग्र्याः सत्यं स्वकार्यजन्मनि नैरपेक्ष्यमस्ति न तु तावता स्वतः प्रामा-
ण्यं तत्परिच्छेदस्य परायत्तत्वात्, सामग्र्यन्तर्गतकारकस्य स्वकार्ये परापेक्षत्व-
मपरिहार्यम्, एकस्मात्कारकात्कार्यनिर्वृत्त्यभावात्, ज्ञानं फलमेव न प्रमाण-
मित्य उक्तम्, न च फलात्मनस्तस्य स्वकार्यं किं चिदस्ति यत्र सापेक्षत्वमनपे-
क्षत्वं वा ऽस्य चिन्त्येत, पुरुषप्रवृत्त्यादौ तु तदिच्छाद्यपेक्षत्वं विद्यते एवेति
यत्किं चिदेतत् ।
यदपि प्रामाण्यनिश्चये नैरपेक्ष्यमभ्यधायि तदपि न साम्प्रतं, प्रामा-
ण्यनिश्चयस्य हि द्वयी गतिर्नास्तित्वं कारणापेक्षिता वा न पुनरस्ति च प्रामाण्य-
निश्चयः कारणानपेक्षश्चेति शक्यते वक्तुम्, तत्र प्रथमप्रवर्त्तकप्रतिभासप्रस-
बसमये तावन्नास्त्येव प्रामाण्यनिश्चय इत्युक्तम्, न हि नीलग्राहिणा प्रमाणेन
लीनस्वरूपमिव स्वप्रामाण्यमपि तदानीं निश्चेतुं शक्यते इति, कालान्तरे
तत्प्रामाण्यनिश्चयः सत्यमस्ति न तु तत्र नैरपेक्ष्यं प्रवृत्तिसामर्थ्याधी-
नत्वात्तन्निश्चयस्य ।
ननु क्षणिकत्वात्कालान्तरे ज्ञानमेव नास्ति कस्य प्रामाण्यं निश्चिनुमः, शि-
शुचोद्यमेतद् अप्रामाण्यमपि बाधकप्रत्ययादिना कालान्तरे कस्य निश्चिनुमः
क्षणिकत्वेन ज्ञानस्यातीतत्वात्, अतिक्रान्तस्यापि स्मर्यमाणस्य तदुत्पादस्य वा
वर्त्तमानस्य कारकचक्रस्येति चेत्प्रामाण्यनिश्चयेपि समानो ऽयं पन्थाः,
यत्पुनः कालान्तरे तन्निश्चयकरणे दूषणमितरेतराश्रयत्वं वा मुण्डितशि-
रोनक्षत्रान्वेषणवद्वैयर्थ्यं वेति वर्णितं तत्रादृष्टे विषये प्रामाण्यनिश्चयपूर्वि-
कायाः प्रवृत्तेरभ्युपगमान्नेतरेतराश्रयं चक्रकं वा, दृष्टे विषये ह्यनिर्णीतप्रामाण्य
एवार्थसंशयात्प्रवृत्तिरुभयन्मर्थसंशयाच्च निवृत्त्यात्मकं व्यवहारमारभमाणो दृश्यते
लोकः एतदेव युक्तमित्युक्तम्, न प्रामाण्यनिश्चयपुरःसरं प्रवर्त्तनमिति
कुत इतरेतराश्रयम्, वैयर्थ्यं तु दृष्टे विषये सत्यमिष्यते किं तु तत्र प्रवृत्तिसा-
मर्थ्येन प्रामाण्यं निश्चिन्वन्नाप्तोक्तत्वस्य हेतोः प्रामाण्येन व्याप्तिमवगच्छती-
ति, ह्यदृष्टविषयोपयोगिवेदादिप्रमाणप्रामाण्यपरिच्छेदे पारम्पर्येणोपायतवात्स्व-
विषये व्यर्थो ऽप्यसौ तत्र सार्थकतामवलम्बते इत्यदोषः ।
किं पुनरिदं प्रवृत्तिसामर्थ्यं नाम यतः प्रामाण्यनिश्चयमाचक्षते नैयायि-
काः, उच्यते पूर्वप्रत्ययापेक्षोत्तरा संवित्प्रवृत्तिसामर्थ्यं विशेषदर्शनं वेति पूर्वा-
चार्यैस्तत्स्वरूपमुक्तम्, तत्पुनर्नातीव हृदयंङ्गमम् इति भाष्यकृतैव 'समोहा प्रवृ-
प्रमाणप्रकरणम् १६९
तिरित्युच्यते सामर्थ्यं पुनरस्याः फलेनाभिसम्बन्ध'(१) इति वदता ऽर्थक्रिया-
ख्यफलज्ञानमेव प्रवृत्तिसामर्थ्यमिति निर्णीतम् ।
यत्पुनरर्थक्रियाज्ञानस्यापि पूर्वस्मात्को विशेषः तस्यापि चान्यतः प्रामाण्य-
निश्चयापेक्षायामनवस्थेत्युक्तं तदपि सकलप्राणभृत्प्रतीतिसाक्षिकव्यवहारविरो-
धित्वादसंबद्धाभिधानम् , अपरीक्षणीयप्रामाण्यत्वादर्थक्रियाज्ञानस्य, प्रवर्त्तकं
न सर्वज्ञानं प्रवृत्तिसिद्धये परीक्षणीयप्रामाण्यं वर्त्तते, फलज्ञाने तु सिद्धप्रयो-
जनत्वात् प्रामाण्यपरीक्षापेक्षैव नास्तीति कुतोऽनवस्था, संशयाभावाद्वा तत्-
प्रामाण्यविचाराभावः, प्रवर्त्तकं हि प्रथममुदकज्ञानमविद्यमाने ऽपि नीरे मिहि-
रमरीचिषु दृष्टमिति तत्र संशेरते जनाः, अर्थक्रियाज्ञानं तु सलिलमध्यवर्त्तीनां
भवत्तदविनाभूतमेव भवतीति न तत्र संशयः, तदभावान्न तत्र प्रामाण्यविचा-
र। विचारस्य संशयपूर्वकत्वात् , विशेषदर्शनाद्वा फलज्ञाने प्रामाण्यनिश्चयः ।
कः पुनर्विशेष इति चेद् योऽयं शौचाचमनमज्जनामरपितृतर्पणपटक्षाल-
नश्रमतापोदनविनोदनाद्यनेकप्रकारनीरपर्यालोचनप्रबन्धः न ह्यमियान्कार्यक-
लापो मिथ्याज्ञानात्प्रवृत्तस्य क चिदपि दृष्टः , स्वप्ने ऽप्यस्य प्रबन्धस्य
दर्शनमस्तीति चेद् न, स्वप्नदशाविसदृशविस्पष्टजाग्रदवस्थाप्रत्ययस्य सं-
वेद्यत्वात् , एषो ऽस्मि जागर्मि न स्वपिमीति स्वप्नविलक्षणमनिद्रायमाणः
प्रत्यक्षमेव जाग्रत्समयं सकलो जनश्चेतयते, न च तस्मिन्नवसरे सलिल-
मन्तरेणैताः क्रियाः वर्त्तमाना दृश्यन्ते इति तद्विशेषदर्शनात् सुज्ञानमर्थक्रि-
याज्ञानप्रामाण्यम्, कारणपरीक्षातो वा तस्मिन् प्रामाण्यं निश्चेष्यामः, यथोक्तं-
भवद्भिरव(२) 'प्रयत्नेनान्विच्छन्तो न चेद्दोषमवगच्छेम तत्प्रमाणाभावाददुष्टमिति-
मन्येमहि' इति तथा हि विषयस्य चलत्वसादृश्यादिदोषविरहः आलोकस्य मलीम-
सत्वाधिकारणवैकल्यम् अन्तःकरणस्य निद्रायदूषितत्वम् आत्मनः क्षुत्प्रकोपाद्य-
नाकुलत्वम् ईक्षणयुगलस्य तिमिरपटलादिविकलत्वमित्यादि, स्वयं च कार्यद्वारे-
ण परोपदेशेन च सर्वं सुज्ञानम्, अतो निरवद्यकारणजन्यत्वात्प्रमाणमर्थक्रियाज्ञा-
नमिति विद्मः, ।
यद्येवं प्रथमे प्रवर्त्तके एव प्रत्यये कस्मात्कारणपरीक्षैवेयं न क्रियते किमर्थं
क्रियाज्ञाने, न चायुष्मन्नाद्ये ऽपि ज्ञाने कारणपरीक्षायां क्रियमाणायां कः
प्रमादः, किमेवं सति स्वतः प्रामाण्यं सिद्धयति तव, मम वा परतः प्रामाण्य-
मपहीयते, किं तु लोकः प्रवर्त्तकज्ञानानन्तरं फलप्राप्तिं प्रति यथा सोद्यमो दृश्यते
न तथा तत्कारणपरीक्षां प्रति फलज्ञानमेवेत्थं परीक्ष्यते, आद्यस्य हि ज्ञानस्य फ-
लज्ञानादेव प्रामाण्यसिद्धिः, कश्च नाम निकटमुपायमुपेक्ष्य दूरं गच्छेदिति ।
( १ ) वात्स्यायनभाष्ये अ० १ पा० १ सू० १ ।
( २ ) शाबरभाष्ये अ० १ पा० १ सू० १ ।
अथ संशयोत्पत्तिसामर्थ्यादेव यथार्थनिश्चयः फलज्ञानेन लप्स्यते संशयो हि
नाम द्वैविध्यदर्शनाद् विना न भवत्येव, न हि स्थाणुपुरुषसाहचर्यमूर्ध्वताख्यस्य
धर्मस्य यो न जानाति स तं दृष्ट्वा स्थाणुर्वा स्यात्पुरुषो वेति संशेते एवमूर्ध्वत्वा-
द्व्याघ्ररूपत्वस्य व्यभिचारित्वाव्यभिचारित्वाभ्यां सह दर्शनमवश्यमाश्रयणीयम्
अन्यथा तद्विषयसंशयानुत्पादाद्, अतः पूर्वमव्यभिचारित्वदर्शने सिद्धे यस्तदा
तत्परिच्छेदोपायः स पश्चादपि भविष्यतीति सर्वथा सिद्धत्यव्यभिचारित्वनि-
श्चयः, अनिश्चितप्रामाण्यादपि वा फलज्ञानात्प्रवर्त्तकस्य प्रामाण्यनिश्चयो युक्तः न
तु स्वत उत्पत्तौ प्रमाणतदाभासयोर्विशेषग्रहणात् फलज्ञाने च तद्विशेषप्रतिभासात् ।
यत्तु विशेषज्ञानं निश्चितप्रामाण्यमनिश्चितप्रामाण्यं वेति विकल्प्यानवस्था-
पादनमप्रतिपत्तिप्रहतताकथनं वा तद्द्दष्टे विरुद्धत्वात्प्रलापमात्रमित्यलमलीको-
क्तिकल्पकलापनिर्मथनोदितदुरामोदास्वादनेन, स्थितमेतदर्थक्रियाज्ञानात्प्रामा-
ण्यनिश्चय इति, तदिदमुक्तम् , 'प्रमाणतो ऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्र-
माणम्' इति(१), तस्मादप्रामाण्यमपि परोक्तमित्यतो द्वयमपि परत इत्येष एव
पक्षः श्रेयान् ।
यत्तु कश्चित्प्राज्ञमानी वदति अभ्यस्ते विषये स्वतः प्रामाण्यमनभ्यस्ते
तु परत इति सोयमभ्यस्ते विषये इति च ब्रवीति स्वतश्च प्रामाण्यं मन्यते
इति स्वयमेवात्मानं वाच्यमानं न चेतयते, अभ्यासो हि नाम पुनः पुनः
प्रयोगः क्रियाभ्यावृत्तिः विषयस्य चाभ्यस्तता भूयो भूयः प्रवृत्तिः अतश्च स्वश-
रीरग्रहे निजगृहकुड्यस्तम्भादिप्रतिभासे वा सहस्रकृत्वः प्रवृत्तिसंवादज्ञानजन्म-
ना प्रामाण्यनिश्चय उक्तो भवति स्वतः अभ्यस्तत्वं चान्यथा न भवेदिति यत्किं-
चिदेतत्, तस्मात्परतः प्रामाण्यमिति सिद्धम् ।
यत्पुनः कैश्चिच्चोद्यते प्रमाणानां न परीक्षणमुपपद्यते तद्धि प्रमाणैः क्रियेता-
प्रमाणैर्वा प्रमाणैरपि परीक्षितैरपरीक्षितैर्वा, तत्र न नाम प्रमाणपरीक्षणं श-
क्यक्रियं प्रमाणैरप्यपरीक्षितैः तत्करणे वरं व्यवहार एव तादृशैः क्रियतां किं प-
रीक्षणेन, परीक्षितैस्तु तत्परीक्षाकरणमपर्यवसितमनवस्थाप्रसङ्गादित्यादि तद-
प्युक्तेन न्यायेन परिहृतं भवति, दृष्टे विषये प्रमाणपरीक्षां विनैव व्यवहारात्,
अदृष्टे तु परीक्षाया आवश्यकर्त्तव्यत्वादुपपत्तेश्चेति ।
तस्माददृष्टपुरुषार्थपदोपदेशि
मानं मनीषिभिरवश्यपरीक्षणीयम् ।
प्रामाण्यमस्य परतो निरणायि चेति
चेतःप्रमाथिभिरलं कुविकल्पजालैः ॥
( १ ) वात्स्यायनभाष्यप्रथमवाक्यम् ।
प्रमाणप्रकरणम् १६१
परतः प्रामाण्यनिरासाय विपरीतख्यातिमाक्षिप्याख्यातिवादेन
प्रत्यवस्थानम्—
सुशिक्षितास्त्वाचक्षते युक्तं यदमी मीमांसकपांशाः काशकुसुमराशय इव
शरदि मरुद्भिरविदूरात्समुत्सार्यन्ते दुष्टतार्किकैः, ये हि किलाभ्युपयन्ति च
विपरीतख्यातिवादमकृतास्त्राः प्रामाण्यं च स्वत इति च वदन्ति तेषां कुतः कौश-
लं विपरीतख्यातावभ्युपगम्यमानायां बाध्यबोधसंदर्भसुभिक्षे सति तत्साधर्म्या-
दनुत्पन्नबाधकेऽपि बोधे दुष्परिहरः संशयः, संशये च संवादाद्यन्वेषणमपि ध्रुव-
मवतरतीति परतः प्रामाण्यमनिवार्यम्,
बाध्यज्ञानाभावस्थापनमुखेन विपरीतख्यातिखण्डनम् ।
यदा तु न बाध्यो नाम जगति कश्चिदपि बोधः तदा किंसाधर्म्यात्संशेरतां
प्रमातारः, असंशयानाश्च किमिति परमपेक्षन्ताम् अनपेक्षमाणाः कथं परतः
प्रामाण्यं प्रतिपद्यन्तामिति निश्चलं स्वत एव प्रामाण्यमवतिष्ठते,
कथं पुनर्बाध्यो नाम नास्ति बोधः शुक्तिकादौ रजतादिप्रत्ययाः प्राचुर्येण
बाध्यमाना दृश्यन्ते, अनभिज्ञो भवान्न हि ते बाध्याः प्रत्ययाः, इदं हि निरूप्यतां
क इवोत्तरज्ञानेन पूर्वज्ञानस्य बाधः, बाधार्थमेव न विद्मः, यदि तावन्नाश
एव बाधः स न तेषामेव बुद्धेर्बुद्ध्यन्तराद्विरोध इति सकलबोधसाधारणत्वात्,
अथ सहानवस्थानं तदपि समानम् अबाधितानामपि ज्ञानानां सहावस्थाना-
संभवात् ।
अथ संस्कारोच्छेदो बाधः सोऽपि तादृगेव सम्यक्प्रत्ययोपजनितसंस्कार-
स्याप्युच्छेददर्शनात्, कश्चिद्भवदभिमतबाध्यबोधाहितोऽपि संस्कारः सत्यपि
बाधकप्रत्यये नोच्छेदमुपगच्छति कालान्तरे तत्कारणकतद्विषयस्मरणदर्शनात् ।
अथ विषयस्यापहारो बाधः सोऽपि दुर्घटः, प्रतिभासत्वेन विषयस्यापहर्तु-
मशक्यत्वात्, न हि बाधकं ज्ञानमित्थमुत्तिष्ठति यत्प्रतिभातं तन्न प्रतिभातमिति ।
अथ तदभावग्रहो बाधः स तात्कालिकः कालान्तरभावी वा, कालान्तर-
भावितदभावग्रहणस्य बाधकत्वे प्रागवगतमुद्गरदलितघटाभावग्राहिणोऽपि
विज्ञानस्य तद्बाधकत्वप्रसङ्गः, तदैव तु तदभावग्रहणे प्रत्ययद्वयसमर्पितरूप-
द्वितययोगादुभयात्मकमेव तदस्तु वस्तु किं कस्य बाध्यं बाधकं वा ।
अथ फलापहारो बाधः सो ऽपि न सम्भवति संविदः प्रमाणफलस्य उत्प-
न्नत्वेनामपहरणीयत्वात्, न हि यदुत्पन्नं तदनुत्पन्नमिति वदति बाधकः ।
अथ हानादिफलापहारो बाधः न तस्य प्रमाणफलत्वाभावात् ।
हानादिव्यवहारो हि पुरुषेच्छानिबन्धनः ।
न तेनापहृतेनापि प्रमाणं बाधितं भवेत् ॥
२१ न्या०
१६२ न्यायमञ्जर्याम्
तस्मान्न बाधो नाम कश्चित्, इतश्च नास्ति स हि समानविषययोर्वा ज्ञान-
योरिष्यते भिन्नविषययोर्वा, न समानविषययोर्धारावाहिज्ञानेष्वदृष्टत्वात् , नापि
भिन्नविषययोः स्तम्भकुम्भोपलम्भयोस्तदनुपलम्भात् , यदि चोत्तरेण ज्ञानेन पू-
र्वज्ञानेन गृहीतादर्थादर्थो ऽन्य इदानीं गृहीतः तत्पूर्वज्ञानं किमिति बाधित-
मुच्यते ।
अपि च पूर्वस्मिन्प्रत्यये प्राप्तप्रतिष्ठे सति आगन्तुरुत्तरः प्रत्ययो बाधितुं
युक्तं न पूर्वो न चैवं दृश्यते, तस्मान्न बाध्यं नाम विज्ञानमस्ति तदभावाच्च त-
त्साधर्म्यनिबन्धनः संशयः तदभावात्सम्वादाद्यनन्वेषणात्परतः प्रामाण्यम् ।
कारणभावमुखेन विपरीतख्यातिखण्डनम्—
नन्वेवं बाधे ऽपि निराक्रियमाणे किममी शुक्तिकारजतादिग्राहिणो विप-
रीतप्रत्यया अबाधि
रजतमालम्बनं तदियमसत्ख्यातिरेव न विपरीतख्यातिः असतस्तत्र रज-
तस्य प्रतिभासात्।
अथान्यदेशकालं तदस्त्येवेत्यभिधीयते।
इहासन्निहितस्यास्य तेन सत्त्वेन को गुणः ॥
अपि च देशकालावपि किं सन्तौ प्रतिभासेते उतासन्ताविति, यदि सन्तौ
तर्हि तद्देशकालमेवेदं रजतमवभातमिति न भ्रान्तिरेषा स्यात् असन्तौ तूभा-
वपि रजतवन्नालम्बनं भवितुमर्हतः।
अथ स्मृत्यारूढं रजतमस्यां प्रतीतौ परिस्फुरतीत्युच्यते तर्हि स्मृत्युपारूढ-
मिति को ऽर्थः, स्मरणमपि ज्ञानमेव तदपि कथमसदर्थविषयं स्यात्, स्मृतेर-
नर्थजत्वमेव स्वरूपमितिचेद् अस्तु कामं तत्सामान्यादत्राप्येवं प्रयोग इत्येतद्-
पि तावन्न ब्रूमः, तथा त्वनर्थजन्यया स्मृत्या सो ऽर्थः कथमिह सन्निधापयितुं
पार्यते सा हि न स्पृशत्येवा ऽर्थम्, तस्मादसन्निहितरजतालम्बना विपरीतख्या-
तिरसत्ख्यातेर्न विशिष्यते एव।
अथ स्थगितनिजवपुरुपगृहीतरजतरूपा शुक्तिका ऽत्र प्रकाशते इति नेयम-
सत्ख्यातिरुच्यते तदिदमपूर्वं किमपि नाटकमियमस्मिन् कृत्यासीता प्रवृत्तेति,
तथाहि किमत्र शुक्तिप्रतीतिरुत रजतमिति, शुक्तिकाप्रतीतौ तु शुक्तिरेव न
रजतमत्र भ्रमार्थः कः, रजतप्रतीतौ तु शुक्तिरसावित्यत्र किं प्रमाणम्, बाधक-
प्रत्ययादेवमधिगतम् इति चेन्मैवम्, न हि ज्ञानान्तरेणास्याः प्रतीतेर्विषयो व्य-
वस्थापयितुं युक्तः, बाधकेन हि ज्ञानेन पूर्वज्ञानगृहीतस्य वस्तुनो ऽसत्त्वं नाम
ख्याप्यतां न तु तस्य विषयो निरूप्यते, अनर्थित्वाद्वा कदा चिदप्रवृत्तस्य पुंसो
बाधकानुत्पत्तौ को ऽस्याः प्रतीतेः विषयं व्यवस्थापयिष्यति, तस्माद्यदेवास्यां च-
कास्ति तदेव रजतमस्या विषय इति युक्तं वक्तुम्, शुक्तिस्तु निगूहितनिजवपु-
रिति दुर्विदग्धवाचोयुक्तिरियम्।
ये त्वालम्बनतां शुक्ते रजतस्यावभासनम् ।
वदन्त्यस्मिन् भ्रमज्ञाने तेषामतितरां भ्रमः ॥
न ह्यालम्बनता युक्ता सन्निधाननिबन्धना ।
तत्रैव भूप्रदेशस्य तथाभावप्रसङ्गतः ॥
तदेवालम्बनं बुद्धेर्यदस्यामवभासते ।
अन्यदालम्बनं चान्यद्भातीति भणितिर्नवा ॥
अतो रजतमेवैतद्बुद्धिग्राह्यमसच्च तत् ।
एवं विपर्ययख्यातिरसत्ख्यातेर्न भिद्यते ॥
१६४ न्यायमञ्जर्याम्
असत्ख्यात्यभावाक्षेपः—
तत्किमसत्ख्यातिरेव साधीयसी तामेवाभ्युपगच्छामः मैवम्, सा ऽपि नो-
पपद्यते एव, असत्ख्यातिरिति को ऽर्थः, किमेकान्तासत एवार्थस्य प्रथनम् अथ
देशान्तरादौ विद्यमानस्येति, उत्तरस्मिन् पक्षे विपरीतख्यातिरेवैषा परैरपि तत्र
रजतस्य सत्त्वानभ्युपगमात्, देशान्तरादौ तु तत्सत्तायास्त्वयापि प्रतिपन्नत्वाद्,
एकान्तासतस्त्वर्थस्य ख्यातिरिति न पेशलम् आकाशनलिनीपल्लवादेरप्रतिभास-
नात्, वासनाभ्यासादसतामपि प्रतिभासा भविष्यन्तीति चेद् न, अर्थमन्तरेण
वासनया अप्यनुपपत्तेः, अर्थानुभवसमाहितो हि संस्कारो वासना कथ्यते सा
कथमसदर्थप्रतिभासहेतुः स्यात्, भवत्वन्या वा भवदभिमता का चन वासना
ऽपि त्वसत्त्वाविशेषे किमिति रजतमित्युपजनयति न
प्रमाणप्रकरणम् १६५
विपरीतख्यातावपि रजतस्य सन्निहितस्य ज्ञानजनकत्वम् अजनकस्य च प्रतिभासे
नेष्यते एव, तत्र स्मृत्युपस्थापितं रजतमवगतिजनकमुपगतम्, अतश्च रजत-
स्मृतिरपरिहार्या, सा च रजतस्मृतिर्न तदा स्वेन रूपेण प्रकाशते स्मरामीति
प्रत्ययाभावात् ।
तस्मात्प्रमुषितामेनां स्मृतिमिच्छन्ति तार्किकाः ।
अभ्यस्ते विषये लिङ्गप्रतिबन्धां स्मृतिं यथा ॥
सो ऽयं स्मृतिप्रमोषस्तत्त्वाग्रहणमख्यातिरुच्यते ।
एवं सतीयमख्यातिरिष्यते सर्ववादिभिः ।
तथा प्रकटयद्भिस्तु पीतं प्राभाकरैर्यशः ॥
ननु रजतमिति स्मृतेः स्वरूपोल्लेखो मा भूद् इदमित्यत्र पुरोऽवस्थितध-
र्मिप्रतिभासात्कथमख्यातिः, उच्यते, न पुरोऽवस्थितो धर्मी शुक्तिकेयमिति
स्पष्टतया गृह्यते तथा चाभ्युपगमे भ्रमाभावप्रसङ्गात् , किं तु तेजस्वितादिविप-
रीतं धर्मिमात्रमवभासते, धर्मसारूप्याच्च तदानीं रजतं स्मर्यते, ते एते ग्रहणस्म-
रणे विविक्ते अपि विविक्ततया न गृह्येते इति विवेकाग्रहणमख्यातिः न तु सर्वेण
सर्वाप्रतिपत्तिरेव, व्यधिकरणयोश्च ग्रहणस्मरणयोर्वैयधिकरण्यं चेन्न गृहीतं
किमन्यदस्तु सामानाधिकरण्यात् , न तु यदेवेदं तदेव रजतमिति सामानाधि-
करण्येन ग्रहणमस्ति सा हि विपरीतख्यातिरेव स्यात् , वैयधिकरण्यानुपग्र-
हादेव प्रमातुः प्रवृत्तिः अविवेकात्साधारण्याभिमानेन प्रवृत्तिरिति फलत इयं
वाचोयुक्तिः—
सामानाधिकरण्येन के चित्तत्पृष्ठभाविनम् ।
परामर्शमपीच्छन्ति तन्न श्रद्दध्महे वयम् ॥
अख्यातिपक्ष एवं हि हीयेतैकत्ववेदनात् ।
वक्रैश्च वितथा ख्यातिरुत्तरैः कथिता भवेत् ॥
नन्वेवमख्यातिपक्षे प्रतिष्ठाप्यमाने नेदं रजतमिति पूर्वावगतरजतप्रतिबोध-
बाधी बाधकप्रत्ययो दृश्यमानः कथं समर्थयिष्यते, अप्रतीतिज्ञो देवानांप्रियः,
न ह्यनेन रजतनिषेधो विधीयते किं तु प्रागगृहीतो विवेकः प्रख्याप्यते, न
इदं रजतं यदेवेदं तदेव रजतमित्येतन्न इदमिदं रजतं रजतम् , एतदुक्तं भ-
वति इदमन्यद्रजतमन्यदिति, सो ऽयं विवेकः ख्यातितो भवति ।
नन्वेवमिदं रजतमित्यादौ स्मरणानुभवयोर्भवतु विवेकाग्रहणं स्वप्ने तु
कथमेतद्भविष्यति, भीरो किं जातं स्वप्ने—
विवेकेन न गृह्येते स्मरणानुभवौ क्व चित् ।
स्वप्ने तु स्मृतिरेवैका तथात्वेन न गृह्यते ॥
सदृशदर्शनाद्विना स्मृतिरेव कुतस्त्येति चेद् न, नानाकारणकत्वात्स्मरणस्य
निद्राकषायितमप्यन्तः करणं स्मरणकारणं भवत्येव, यद्येवं द्विचन्द्रतिक्तशर्क-
रादिप्रत्ययेषु कथं स्मृतिप्रमोषः आः कुण्डशेखर कथमसकृदभिहितमपि
न बुध्यसे—
न सर्वत्र स्मृतेरेव प्रमोषो ऽभ्युपगम्यते ।
किं त्वख्यातिरतश्चासौ कथं चित्कस्य चित्क्व चित् ॥
भवत्यनुभवस्मृत्योर्विवेकाग्रहणं क्व चित् ।
क्व चित्तु स्मर्यमाणस्य तथात्वेनानुपग्रहः ॥
द्विधाकृता क्व चिद्वृत्तिर्नेत्रस्य तिमिरादिना ।
न हि ग्रहीतुमैक्येन शक्नोति शिशिरत्विषम् ॥
क्व चिद्रसनसंपृक्ते पित्ते तिक्तत्ववेदनात् ।
परिच्छेत्तुं न शक्नोति माधुर्यं शर्करागतम् ॥
गृह्णाति यत्तु तिक्तत्वं वस्तुतः पित्तवर्त्ति तत् ।
तथा तु न विजानाति निगिरन्नेष शर्कराम् ॥
एतेन पीतशङ्खादिख्यातयो ऽपि व्याख्याताः ।
तदेवं सति सर्वत्र सम्यग्ग्रहणं भ्रमः ।
न मिथ्याप्रत्ययः कश्चिदस्ति शङ्कानिबन्धनम् ॥
अज्ञातमिथ्याशङ्कश्च न संवादमपेक्षते ।
तस्मान्न कश्चित्परतः प्रामाण्यमधिगच्छति ॥
एवं स्वतः प्रमाणत्वे सिद्धे वेदे ऽपि सा गतिः ।
अपवादद्वयाभावो वक्तव्यश्चात्र पूर्ववत् ॥
परतः प्रामाण्यसमर्थनाय विपरीतख्यातिसमर्थनम्—
अत्र प्रतिविधीयते, यदुक्तमिदं रजतमिति स्मरणानुभवस्वभावे विवेकेना-
गृह्यमाणे द्वे एते ज्ञाने इति तदसाम्प्रतम् , प्रत्यभिज्ञावदेकत्वेनैव संवेद्यमानत्वात् ,
यदेवेदं पुरोऽवस्थितं भास्वररूपाद्यधिकरणं धर्मिसामान्यं तदेव रजतमिति वि-
शेषतः प्रतिपद्यते, यदिदमग्रतः स्थितं तद्रजतमिति सत्यरजतप्रतीतिवत् , अनु-
भूततया हि न रजतमत्र प्रकाशते किं त्वनुभूयमानतया, अनुभूतताग्रहणं च
स्मरणमुच्यते नानुभूयमानताग्रहणम् स्वप्रकाशा च संवित्तिरिति भवतां दर्श-
नम् , तत्रैषा रजतसंवित्तिः केन रूपेण प्रकाशतामिति चिन्त्यम् , यदि स्मरणा-
त्मना कः प्रमोषार्थः, अथानुभवात्मना तदियं विपरीतख्यातिरेव स्मृतेरनुभव-
त्वेन प्रतिभासात् , अथ संविन्मात्रतयैव प्रकाशते तदपि न युक्तम् , रजतवि-
षयोल्लेखात् स्मरणानुभवविशेषरहितायाश्च विषयसंवित्तेरनुपपत्तेः, न चेयम-
Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari script:
प्रमाणप्रकरणम् । ६७
प्रतिपत्तिरेवेति वक्तुमुचितं मदमूर्च्छादिदशाविसदृशस्वप्रकाशसंवेदनानुभवात्,
यथा इदमित्यंशे स्वप्रकाशं संवेदनं तथैव रजतमित्यत्रापि।
अपि च द्वयोरंशांशयोः समाने संवेदने तत एकं प्रत्यक्षलब्धमपरं स्मरणफ-
लमिति कुतस्यो विभागः, इदमित्यत्र च किमवभासते इति निरूप्यम्, यदि शु-
क्तिकाशकलं सकलस्वगतविशेषखचितमवभाति तदा तद्दर्शने सति रजतस्मर-
णस्य को ऽवसरः, भवदपि वा सादृश्यकृतं स्मरणं न तद्विवेकाय कल्पते देव-
दत्तदर्शनानन्तरोद्गततत्सद्दशपुरुषान्तरस्मरणवत् ।
अथ धर्मिमात्रमिदमिति प्रत्यये प्रतिभाति न शुक्तिकाशकलं तद्बाढमिष्यते
तदेव चेदं सामान्यधर्मग्रहणवशविरुद्धसंस्कारोपनिवन्धनविरुद्धविशेषस्मरणका-
रणकमिदं रजतमिति सामान्योपक्रमे विशेषपर्यवसानं ज्ञानं यदिदं तद्रजतमिति
सामानाधिकरण्यावमर्शात्, रजतानुभवाभिमानेनैव च रजतार्थी तत्र प्रवर्त्तते
ननु स्मरणानुभवयोर्विवेकमप्रतिपद्यमानः प्रवर्त्तते इत्युक्तम्, श्रुतमिदं यदत्र
भवद्भिर्धर्मकीर्त्तिगृहाद्दाइतं दृश्यविकल्पावर्थाविकीकृत्य प्रवर्त्तते इति, किं च चौ-
र्यमपीदं न कथं चन स्वार्थं पुष्णाति, यावद्धि दृश्यं गृहीतमिति न जातः प्रत्ययः
तावत्कथं दृश्यार्थिनस्तत्र प्रवृत्तिः, एवमिहापि यावद्रजतं गृहीतमिति न जातः
प्रत्ययः तावत् कुतस्तदर्थिनां प्रवृत्तिः, तस्मादस्ति रजतग्रहणं न तु तत्स्मरणप्र-
मोषमात्रम् ।
ननु रजतस्मरणं विपरीतख्यातिवादिभिरप्यङ्गीकृतमित्युक्तम्, सत्यं रजत-
गतविशेषस्मरणमभ्युपगतम्, यथा हि पुरोवस्थिते धर्मिण्यूर्ध्वत्वादिसाधारण-
धर्मग्रहणात्स्थाणुपुरुषगतविशेषाग्रहणादुभयविशेषस्मृतेः संशयो भवति एवमि-
हापि तेजस्वितादिसामान्यधर्मग्रहणाद्विशेषाग्रहणाद्रजतगतविशेषस्मृतेश्च तस्मि-
न्धर्मिणि रजतप्रत्ययो भवति विपर्ययात्मकः, संशये ह्युभयविशेषस्मरणं कार-
णम् इह त्वन्यतरविशेषस्मरणमिति विशेषः, अत एव चागृहीतरजतस्येदं ज्ञानं
नोत्पद्यते सदृशाग्रहणे वा निशीथादाविति, न त्वेतावता स्मरणमात्रमेवेदमिती-
यति विरम्य स्थातव्यम्, स्मरणजन्यस्य विपर्ययप्रत्ययस्यापि संवेदनात्, अत
एव तत्पृष्ठभाविपरामर्शावादिनो वरं सत्यवाचः, ते हि प्रतिभासं न निह्नुवते,
यत्तु विपर्ययावगतेः कारणं विकल्पितं तत्रोक्तमेव प्रामाणिकैः ।
कार्य चेदवगम्येत किं कारणपरीक्षया ।
कार्यं चेन्नावगम्येत किं कारणपरीक्षया ॥
कार्याकस्मिकतानुपपत्तेश्च कल्प्यतां कारणं तच्च क्लृप्तमेव दोषसहितमि-
न्द्रियं यथा संस्कारसहकारि प्रत्यभिज्ञायामिति ।
सुवते शालयो दुष्टा न यद्यपि यवाङ्कुरम् ।
शालिकार्यं त्वपूपादि जनयन्त्येव कल्मषम् ॥
१६८ न्यायमञ्जर्याम्
तस्माद्दोषकलुषितादिन्द्रियात्पुरोऽवस्थितधर्मिगतत्रिकोणत्वादि विशेषावम-
र्शकौशलशून्यात्सामान्यधर्मसहचरितपदार्थान्तरगतविशेषस्मरणोपकृताद्भवति
विपरीतप्रत्ययः, सम्यग्ज्ञानापेक्षया च तद् दुष्टमुच्यते स्वकार्ये तु विपर्ययज्ञाने
तत्कारणमेव न दुष्टम् , तस्माद्रजतमित्यनुभव एव न प्रमुषितस्मृतिः ।
अपि च नेदं रजतमिति बाधकज्ञानं पूर्वानुभवविषयीकृतरजतनिषेधम-
धिगमयदुत्पद्यते नेदं रजतमिति यदहमद्राक्षं तद्रजतं न भवतीति, प्रसक्तस्य
चायं निषेधः अननुभूतं त्वप्रसक्तमपि प्रतिषिध्यमानं रजतमिव कनकमपि कि-
मिति न प्रतिषिध्यते ।
यत्तु व्याख्यातं प्रागनवगतस्मरणानुभवविवेकप्रतिपादकं बाधकज्ञानमि-
ति तद्वाख्यानमात्रमेव तथा ऽननुभवात्, न ह्येवं बाधक उद्घाट्यते यद्वि-
विक्तं तद्विविक्तमिति, अतो यत्किंचिदेतत्, तस्मान्न रजतस्मरणं रजते वा कदा
चिदनुभवो ऽभूदिति स्मरणमभिधीयमानं नात्यन्तमलौकिकम्, स्वप्ने तु स्वशि-
रश्छेदादेरत्यन्ताननुभूतस्य स्मृतिरिति कथ्यमानमेव त्रपाकरम्, जन्मान्तरे
निजमस्तकलवनमनुभूतमनेनेति चेद् इदमपि स्वभाषितमसारम् , यज्जन्मान्त-
रानुभूतं स्मर्यते तत्र च कृतस्य एष नियमो यत्कदा चिदेव स्मर्यते न सर्वदा
सर्वमिति ।
ननु भवता ऽप्यसत्ख्यातिं निरस्यता स्वप्नज्ञानेषु तादृक्षु किं वक्तव्यं यद्व-
क्तव्यं तत्रैव श्रोष्यसि असन्न प्रतिभातीत्युच्यते न त्वननुभूतमिति ।
नन्वननुभूतं सत्कथं जानीषे सदिति चेज् ज्ञानं तदनुभूतमिति, मैवम्, मया
तन्नानुभूतम् अन्येनानुभविष्यते परानुभूतं च सदिति शक्यते वक्तुम्, परानु-
भूते तु स्मरणमघटमानमिति नावयोरत्र वस्तुनि समानयोगक्षेमत्वम् ।
अपि च भवन्मते स्वप्नस्मृतेः स्मृतित्वेनाग्रहणे केन रूपेण ग्रहणमिति चिन्य-
म्, रूपान्तरेण ग्रहणे विपरीतख्यातिः सर्वात्मना त्वग्रहणे स्वप्नसुषुप्तयोरविशे-
षप्रसङ्गः, अनुभवप्रत्ययश्च स्वप्ने संवेद्यते न स्मरणानुल्लेखमात्रमिति दुरभि-
निवेश एव स्मृतिप्रमोषसमर्थनं नामेति, द्विचन्द्रादिप्रत्ययेषु कथमख्यातिः ।
ननूक्तं सुषिरभिन्ना नयनवृत्तिरेकत्वेन ग्रहीतुं न शक्नोति शशाङ्कमिति, भोः
श्रोत्रिय तादृशी दृशो वृत्तिरेकत्वमिन्दोर्मा ग्रहीद् द्वित्वानुभवं तु भ्रान्तं क
प्रच्छादयामः, ननु चक्षुर्वृत्तौ तद् द्वित्वं तद्गतत्वेन तु यत्तस्याग्रहणं स एव
भ्रमः, नैतदेवम्, नेत्रवृत्तेः सर्वत्र परोक्षत्वात् ।
किमेकचन्द्रबोधेऽपि वृत्त्येकत्वं प्रतीयते ।
इयं ह्यगृह्यमाणैव चक्षुर्वृत्तिः प्रकाशिका ॥
एवमुच्यमाने नैकचन्द्रग्रहणे ऽपि वृत्त्येकत्वाग्रहणादख्यातिरेव भवेत्,
यदपि तिक्तशर्करादिप्रत्ययेष्वख्यातिसमर्थनकदाशया पित्तवृत्तेस्तिक्तत्वस्य
संवेद्यमानस्य तत्स्थत्वेनाग्रहणमुपवर्णितं तदपि कुशकाशावलम्बनप्रायम् ।
मोहात्पित्तगतत्वेन तिक्तता चेन्न गृह्यते ।
मा ग्राहि शर्करायां तु किंकृता तिक्ततामतिः ॥
पित्तं त्विन्द्रियस्थं तिमिरवदगृह्यमाणमपि भ्रममुपजनयति शरीरस्थमिव
ज्वरं शिरोर्त्यादि रोगमित्यलं प्रसङ्गेन ।
एवं सर्वत्र नाख्यातिर्निर्वहन्तीव लक्ष्यते ।
न चैतयापि परतः प्रामाण्यमपहन्यते ॥
रजते ऽनुभवः किं स्यादुत प्रमुषिता स्मृतिः ।
द्वैविध्यदर्शनादेवं भवेत्तत्रापि संशयः ॥
संशयानश्च संवादं नूनमन्वेषते जनः ।
तदपेक्षाकृत तस्मात्प्रामाण्यं परतो ध्रुवम् ॥
न चैष शून्यवादस्य प्रतीकारक्रियाक्रमः ।
अनर्थजा हि निर्दग्धपित्रादौ भवति स्मृतिः ॥
दृष्टान्तीकृत्य तामेव शून्यवादे समुत्थितः ।
भ्रमोपप्लवमात्रेण प्रतिहन्तुं न शक्यते ॥
अथास्ति का चित्परतः प्रामाण्यस्य निषेधिका ।
शून्यवादस्य या युक्तिः सैव वाच्या किमेतया ॥
तस्माद्यथार्थमस्याः संश्रयणं तद् निषिद्धमख्यातेः ।
संविद्विरोध एव प्रकटित इति धिक् प्रमादित्वम् ॥
तदुक्तम्--
कृतश्च शूलविध्वंसो न चानङ्गश्च सङ्गतः ।
आत्मा च लाघवं नीतस्तच्च कार्यं न साधितम् ॥
यत्पुनर्विपरीतख्यातौ पक्षत्रयमाशङ्क्य दूषितं तदपि न युक्तम् , अस्तु ताव-
दयमेव पक्षः रजतालम्बनं तदेव चास्यां प्रतीतौ परिस्फुरतीति ।
नन्वत्र चोदितम् असत्ख्यातिरेव सा भवेदिति नैतत्साधु, देशान्तरादौ रज-
तस्य विद्यमानत्वात्, असत्ख्यातिपक्षे हि-
तत्रैकान्तासतो ऽर्थस्य किं देशान्तरचिन्तया ।
किं कुर्मस्तादृशस्येव वस्तुनः ख्यातिदर्शनात् ॥
यस्तु देशान्तरे ऽप्यर्थो नास्ति कालान्तरे ऽपि वा ।
न तस्य ग्रहणं दृष्टं गगनेन्दीवरादिवत् ॥
अयमेव च द्वयोरसत्त्वयोर्विशेषः यदेकस्य ग्रहणं दृष्टमितरस्य न दृष्टमिति ।
२२ न्या०
१७० न्यायमञ्जर्याम्
ननूक्तं तत्रासतो ऽर्थस्य कथं ज्ञानजनकत्वमजनकस्य वा कथं प्रतिभासः
उक्तमत्र सदृशपदार्थदर्शनादुद्भूतस्मृत्युपस्थापितस्य रजतस्यात्र प्रतिभासनमिति,
न चास्योपस्थानं पशोरिव रज्ज्वा संयम्य ढौकनम् अपि तु हृदये परिस्फुरतो
ऽर्थस्य बहिरवभासनम्, न चैतावतेयमात्मख्यातिरसतख्यातिर्वेति वक्तव्यं वि-
ज्ञानाद्विच्छेद्रप्रतीतेः अत्यन्तासदर्थप्रतिभासाभावाच्चेति, अत एव पिहितस्वा-
कारा परिगृहीतपराकारा शुक्तिकैवात्र प्रतिभातीति भवतु पक्षः ।
ननूक्तं कृत्यासीतावत्किमिदं वेशभाषापरिवर्तनं कथं च रजतज्ञाने शुक्तिका
ऽवभासितुमर्हति, श्रुतमिदं नाटकं न तु वयमत्रापहासपात्रम् , शुक्तिकेति वस्तु-
स्थितिरैषा कथ्यते पुरोऽवस्थितं धर्मिमात्रं भास्वररूपादिसामृश्योपजनितरजत-
विशेषस्मरणमत्र प्रतिभातीति ब्रूमः, यदेतत्पुरः किमपि वर्त्तते तद्रजतमित्यनु-
भवात् , वस्तुस्थित्या तु शुक्तिरेव सा त्रिकोणत्वादिविशेषग्रहणाभावाच्च निगूहि-
तनिजाकारेत्युच्यते रजतविशेषस्मरणाच्च परिगृहीतरजताकारेति, एतच्च विषये-
न्द्रियादिदोषप्रभवेषु शुक्तिकारजतावभासभास्करकिरणजलावगमजलदगन्धर्वन-
गरनिर्वर्णनरज्जुभुजंगग्रहणरोहिणीरमणद्वयदर्शनशङ्खशर्करापीततिक्ततावसाय-
केशकूर्चकालोकनादिविभ्रमेष्वभ्युपगम्यते मनोदोषनिबन्धनेषु तु मिथ्याप्रत्ययेषु
निरालम्बनेषु स्मृत्युल्लिखितनिराकारः प्रकाशते इति,
यस्तु तृतीयः पक्षः अन्यदालम्बनमन्यच्च प्रतिभातीति कैश्चिदाश्रितः
तत्रापि न सन्निहितस्यालम्बनत्वमुच्यते येन भूप्रदेशस्यापि तथात्वमाशङ्कयेत,
नापि आलम्बनस्याजनकत्वं यच्चक्षुरादावपि प्रसज्येत, किं त्विदमित्यङ्गुल्या
निर्दिश्यमानं कर्मतया यज्ज्ञानस्य जनकं तदालम्बनमित्युच्यमाने न कश्चिद्दोषः।
ननु केशोण्डूकज्ञाने किमालम्बनकारणम्, किं चित्तु तिमिरं रोमराजिरिव
नयनधात्रो- मध्ये एवास्ते तेन द्विधा कृता नयनवृत्तिः द्वित्वेन चन्द्रमसं गृह्णाति,
किं चित्तु तिमिरं तत्र विवरवदन्तराऽन्तरा तिष्ठति चक्षुषः तेन विरलप्रसृता
नयनरश्मयः सूक्ष्माः सूर्य्यांशुभिरभिहन्यमानाः केशकूर्चकाकारा भवन्तीति
तदेवालम्बनम् , अनुदिते ऽस्तमिते वा सवितरि केशोण्डूकप्रत्ययस्यानुत्पादात् ।
गन्धर्वनगरज्ञाने जलदाः पाण्डुरत्विषः ।
आलम्बनं गृहाट्टालप्राकाराकारधारिणः ॥
तस्माद्विपरीतख्यातौ पक्षत्रयमपि निरवद्यम् ।
यः पुनरितरेतरसङ्करः ख्यातीनामुदाहारि तत्रात्मख्यात्यसत्ख्याता अप-
वर्गाह्निके वयमपि विज्ञानाद्वैतमपाकरिष्यन्तः पराकरिष्याम इति किं तच्चिन्तया,
विपरीतख्यातौ तु तत्साङ्कर्यं परिहृतम् ।
यत्पुनरवादि सर्ववादिभिः स्मृतिप्रमोषे ऽभ्युपगत एव प्राभाकरैस्तु यशः
पातमिति तत्र वाद्यन्तराणि तावद्यथा भवन्ति तथा भवन्तु वयं तु स्मृत्युपारू-
no:यदुक्तं पूर्वस्मिन् प्रत्यये प्राप्तप्रतिष्ठे सत्यागन्तुज्ञानमुत्तरं बाध्यतामिति,`
Line 31:
यतः पूर्वोपमर्द्देनैव तदुत्तरं ज्ञानमुदेति विषयसहायत्वात्प्रमाणान्तरानुगृह्यमा-
Line 32:
णत्वाच्च उत्तरमेव ज्ञानं बाधकमिति युक्तम् , तस्मादस्ति ज्ञानानां बाध्यबाध-
Wait, look at line 16:
अथ वा फलापहारो भवतु वाधः प्रमाणफलत्वं च हानादिबुद्धीनां प्रत्य-
Is it वाधः or बाधः?
Line 16 has वाधः (letter without dot/slash, written as व).
Let's check line 6:
रस्तावदस्तु बाधः -> बाधः has ब with slash.
In line 16: वाधः has no slash, but let's look closely at वाधः:
Actually it's बाधः with a faint diagonal or just बाधः? Let's check बाधः: both are common in these prints. Let's transcribe बाधः.
Everything is verified and solid. Output line by line with markers , ...प्रमाणप्रकरणम् १७१
[
१७२ न्यायमञ्जर्याम्
कभावः स चायं बाधव्यवहारो विपरीतख्यातिपक्ष एव सामर्थ्यमस्खलितं दधा-
तीति स एव ज्यायान् ।
मीमांसकैकदेशिमतखण्डनम्-
अङ्गः को ऽपि नाम मीमांसकस्त्वाह, येयं शुक्तिकायां रजतप्रतीतिर्विपरी-
तख्यातिरिति तद्वादिनामभिमता सा तथा न भवतीति सत्यरजतप्रतीतिवदत्रा-
प्यवभास्यरजतसद्भावान, लौकिकालौकिकत्वे तु विशेषः, रजतज्ञानावभास्यं
हि रजतमुच्यते तच्च किं चिद्व्यवहारप्रवर्त्तकं किं चिन्नेति, तत्र व्यवहारप्रव-
र्त्तकं लौकिकमुच्यते ततो ऽन्यदलौकिकमिति यच्च शुक्तिकाशकलमिति भवन्तो
वदन्ति तदलौकिकं रजतं रजतज्ञानावभास्यत्वाद्रजतं तद्व्यवहाराप्रवृत्तेरलौकि-
कमिति ।
तदेतदपरामृष्टसंवेदनेतिवृत्तस्याभिनवपदार्थसर्गप्रजापतेरभिधानम् बाधकप्र-
त्ययेन तत्र रजताभावस्य ख्यापनात् , नेदं रजतमिति हि रजतं प्रतिषेधत्येष
प्रत्ययो न विद्यमानरजतस्यालौकिकत्वमवघातयते इति ।
अथ नेदं लौकिकमिति व्याख्यायते हन्त वाक्यशेषः क्रियतां संयजत्रैराङ्गा-
नीतवत , सो ऽयं श्रोत्रियः स्वशास्त्रवर्त्तनीमिहापि न तां त्यजति न तु तस्या
अयमवसरः, अगृह्यमाणे तु रजताख्ये ऽन्यधर्मिणि कथं तद्धर्मत्वेन लौकिक-
त्वं गृह्यते, रजताभावग्रहणे त्वेष न दोषः भावतदभावयोः धर्मधर्मिभावाभा-
वात् , स्मर्यमाणप्रतियोग्यवच्छिन्नो हि अभावो गृह्यते एव, तस्मादत्र नास्त्येव
रजतं न पुनरलौकिकं तदस्ति, न च रजतज्ञानावभास्यत्वमात्रं रजतलक्षणमपि
त्वबाधितरजतज्ञानगम्यत्वम् ।
अपि च लौकिकालौकिकप्रविभागः प्रतिभासनिबन्धनो वा स्याद्व्यवहा-
रसदसद्भावनिबन्धनो वा, न तावत् प्रतिभासनिबन्धनः यथाप्रतीति भावात् क
चिद्धि रजतं क चिच्च तदभावः प्रतीयते न तु लौकिकत्वमलौकिकत्वं वा।
अथ व्यवहारप्रवृत्त्यप्रवृत्तिभ्यां लौकिकालौकिकत्वे व्यवस्थाप्येते तद्वक्तव्यं
को ऽयं व्यवहारो नामेति, ज्ञानाभिधानस्वभावो हि व्यवहारः स तद्विषयो ना-
स्तीत्युक्तम् , तदर्थक्रियानिर्वर्त्तनं व्यवहार इति चेत् तर्हि स्वप्ने परिरभ्यमाणा-
या योषितः कूटकार्षापणस्य च लौकिकत्वं प्राप्नोति, उत्पद्य नष्टे घटे ऽर्थक्रि-
याया निवृत्तेरलौकिकत्वं स्यात् ।
अपि च यः शुक्तिकायां रजतव्यवहारं न करोति स रजताभावमेव बुद्ध्वा
न रजतस्य सतस्तस्यालौकिकताम् , यदि चेदमलौकिकं रजतं तत्किमर्थमिह
तदर्थक्रियार्थं प्रवर्त्तते, अलौकिकं लौकिकत्वेन गृहीत्वेति चेत् सैवेयं तपस्विनी
विपरीतख्यातिरायाता, तस्माद्विपरीतख्यातिद्वेषेण कृतमीदृशा अत्रापि लोकसि-
द्धैव प्रतीतिरनुगम्यताम् ।
प्रमाणप्रकरणम् १७३
न वा मीमांसका एते स्वभार्यामपि वेश्मतः ।
निःसारयितुमिच्छन्ति स्वतःप्रामाण्यतृष्णया ॥
न चैवमपि तत्सिद्धिबुद्धिद्वैविध्यदर्शनात् ।
संशये सति संवादसापेक्षत्वं तथैव तत् ॥
क्लेशेन तदमुना ऽपि स्वार्थस्तेषां प्रसिद्धयति न कश्चित् ।
यद्भवति चैव गत्या राजपथेनैव तद्भवतु ॥
नात्मख्यातिर्बाह्यतया ऽर्थप्रतिभासा-
न्नासत्ख्यातिर्न ह्यसतां धीविषयत्वम् ।
उक्तो ऽख्यातौ दूषणमार्गो विपरीत-
ख्यातिस्तस्मादाश्रयणीया मतिमद्भिः ॥
स्थिते च तस्मिन्विपरीतवेदने
तदीयसाधर्म्यकृते ऽस्ति संशयः ।
तदा च संवादमुखप्रतीक्षणा-
द्व्रजन्ति वेदाः परतःप्रमाणताम् ॥
शब्दे परतःप्रमाणसमर्थनम्—
प्रत्यक्षादिप्रमाणानां तथ्यता ऽस्तु तथा ऽस्तु वा ।
शब्दस्य हि प्रमाणत्वं परतो मुक्तसंशयम् ॥
दृष्टे हि विषये प्रामाण्यनिश्चयमन्तरेणैव लघुपरिश्रमेषु कर्मसु प्रवृत्तिरिति
तदुपयोगिप्रत्यक्षादिप्रमाणप्रामाण्यनिश्चये ऽदुरुपपादे को ऽभिनिवेशः, शब्दे
पुनरदृष्टपुरुषार्थपथोपदेशिनि प्रामाण्यमनिश्चित्य महाप्रयत्ननिर्वर्त्यानि ज्यो-
तिष्टोमादीनि न प्रेक्षापूर्वकारिणो यज्वानः प्रयुञ्जीरन् इत्यवश्यं निश्चेतव्यं तत्र
प्रामाण्यम् , तच्च परत एवेति ब्रूमः, शब्दस्य वृद्धव्यवहाराधिगतसंबन्धोपकृतस्य
सतः प्रतीतिजनकत्वं नाम रूपमवधृतम् , तत्तु नैसर्गिकशक्त्यात्मकसंबन्धमहिम्ना
वा पुरुषघटितसमयसम्बन्धबलेन वेति विचारयिष्यामः, प्रकाशकत्वमात्रं तु दी-
पादेरिव तस्य रूपम् , यथा हि दीपः प्रकाशमानः शुचिमशुचि वा यथासन्निहि-
तमर्थमवद्योतयति तथा शब्दो ऽपि पुरुषेण प्रयुज्यमानः श्रवणपथमुपगतः सत्यो
ऽनृतो वा समन्विते ऽसमन्विते वा सफले निष्फले वा सिद्धे कार्ये वा ऽर्थे प्रमि-
तिमुपजनयतीति तावदेवास्य रूपम् , अयं तु दीपाच्छब्दस्य विशेषो यदेष सम्ब-
न्धव्युत्पत्तिमपेक्षमाणः प्रमामुत्पादयतीति दीपस्तु तन्निरपेक्ष इति, तस्याः शब्द-
जनितायाः प्रमितेर्यथार्थेतरत्वं पुरुषाधीनं सम्यग्दर्शिनि शुचौ पुरुषे सति सत्या-
र्था सा भवति प्रतीतिरितरथा तु तद्विपरीतेति, तत्र यथा नैसर्गिकमर्थसंस्पर्शित्वं
शब्दस्य न रूपमिति समर्थितम् एवमस्य स्वाभाविकं सत्यार्थत्वमपि न रूपम्,