सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 186, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 186

१६४ न्यायमञ्जर्याम्
असत्ख्यात्यभावाक्षेपः—
तत्किमसत्ख्यातिरेव साधीयसी तामेवाभ्युपगच्छामः मैवम्, सा ऽपि नो-
पपद्यते एव, असत्ख्यातिरिति को ऽर्थः, किमेकान्तासत एवार्थस्य प्रथनम् अथ
देशान्तरादौ विद्यमानस्येति, उत्तरस्मिन् पक्षे विपरीतख्यातिरेवैषा परैरपि तत्र
रजतस्य सत्त्वानभ्युपगमात्, देशान्तरादौ तु तत्सत्तायास्त्वयापि प्रतिपन्नत्वाद्,
एकान्तासतस्त्वर्थस्य ख्यातिरिति न पेशलम् आकाशनलिनीपल्लवादेरप्रतिभास-
नात्, वासनाभ्यासादसतामपि प्रतिभासा भविष्यन्तीति चेद् न, अर्थमन्तरेण
वासनया अप्यनुपपत्तेः, अर्थानुभवसमाहितो हि संस्कारो वासना कथ्यते सा
कथमसदर्थप्रतिभासहेतुः स्यात्, भवत्वन्या वा भवदभिमता का चन वासना
ऽपि त्वसत्त्वाविशेषे किमिति रजतमित्युपजनयति न