सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 179, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 179

बाधवतत्कम्पमानो जायते, अथ निर्विचिकित्सता शुक्तिकायामपि रजतावभासो
निर्विचिकित्स एव किं स्विदिति कोटिद्वयानवमर्शात्, अथ यस्मिन् सति बाधा
न दृश्यते सोऽस्य विशेष इति, नन्वेतदेव पृच्छामि कस्मिन् सति बाधा न दृश्यते
इति सर्वावस्थस्य बाधदर्शनात् , न चासौ चिरमपि चिन्तयित्वा विशेषयितुं
शक्यः, अथ स्वविषयाव्यभिचारित्वमेव विशेषः स तदानीं नावभासते इत्युक्तम्
अपि च यदि तथाविधोऽपि विशेषः समस्ति तर्हि यत्र ज्ञाने ऽसौ न दृश्यते
ततः किमिति प्रवर्त्तते, तद्विशेषदर्शी वा प्रवर्त्तमानः कथं विप्रलभ्येतेत्युक्तम्,
यदयं स्थाणुर्न पुरुषः ।
तेनैव व्यवहारस्य सिद्धत्वात्सर्वदेहिनाम् ।
अतश्च संशयादेव व्यवहारं वितन्वताम् ॥
लौकिकानां प्रयोक्तव्या नाभिशापपरम्पराः ।
न च सर्वथा संशयसमर्थने ऽस्माकमभिनिवेशः, प्रामाण्यं तु ज्ञानोत्पत्ति-
काले ग्रहीतुमशक्यमिति नः पक्षः, प्रामाण्याग्रहणमेवानध्यवसायस्वभावं संश-
यशब्देनेह व्यपदेद्यामः, प्रामाण्याग्रहणं च प्रदर्शितम् , प्रत्यक्षेणानुमानेन वा
सता प्रमाणेनात्मनः प्रमाणत्वपरिच्छेदायोगात् , तस्मात्स्वयं प्रामाण्यं गृह्यते
इत्येष दुर्घटः पक्षः ।
प्रामाण्योत्पत्तौ स्वतस्त्वनिरासः—
अथ स्वतः प्रामाण्यं भवतीत्येष पक्ष आश्रीयते सोऽप्ययुक्तः, का-
र्याणां कारणाधीनजन्मत्वात्प्रामाण्यस्य च कार्यत्वात् , अस्ति च प्रामाण्यं
वस्तु च तद् न च नित्यमिति कार्यमेव तत् कार्यं च कार्यत्वादेव न
स्वतो भवितुमर्हति इति, अथोत्पत्तौ स्वकारकातिरिक्तगुणानपेक्षित्वमेव प्रामा-
ण्यस्य स्वतो भवनमुच्यते न पुनरकार्यत्वमेवेति तदप्यसम्यक् , सम्यग्रूपस्य
कार्यस्य गुणवत्कारकव्यतिरेकेणानिष्पत्तेः, द्विविधं कार्यं भवति सम्यगस-
म्यग्वा तत्र गुणवता कारणेन सम्यक् कार्यमुत्पद्यते दोषवता त्वसम्यगिति ।
निर्दोषं निर्गुणं वापि न समस्त्येव कारणम् ।
अत एव तृतीयस्य न कार्यस्यास्ति सम्भवः ॥
सम्यग्ज्ञानोत्पादकं कारकधर्मि स्वरूपातिरिक्तस्वगतधर्मसापेक्षं कार्यनिर्वर्त्त-
कमिति साध्यो धर्मः कारकत्वात् मिथ्याज्ञानोत्पादककारकवत् , सम्यग्ज्ञानं वा
धर्मिस्वरूपातिरिक्तधर्मसम्बन्धवत्कारकनिष्पाद्यमिति साध्यो धर्मः कार्यत्वान्मि-
थ्याज्ञानवत् , आयुर्वेदाच्चेन्द्रियगुणान् प्रतिपद्यामहे, यदमी वैद्याः स्वस्थवृत्तेरौष-
धोपयोगमुपदिशन्ति तद्गुणोपयोगायैव न दोषशान्तये, दृश्यते च तदुपदिष्टौष-
धोपयोगादिन्द्रियातिशयः, तद्विषय एव च लोके नैर्मल्यव्यपदेशो न दोषाभाव-