सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 192, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 192

१७० न्यायमञ्जर्याम्
ननूक्तं तत्रासतो ऽर्थस्य कथं ज्ञानजनकत्वमजनकस्य वा कथं प्रतिभासः
उक्तमत्र सदृशपदार्थदर्शनादुद्भूतस्मृत्युपस्थापितस्य रजतस्यात्र प्रतिभासनमिति,
न चास्योपस्थानं पशोरिव रज्ज्वा संयम्य ढौकनम् अपि तु हृदये परिस्फुरतो
ऽर्थस्य बहिरवभासनम्, न चैतावतेयमात्मख्यातिरसतख्यातिर्वेति वक्तव्यं वि-
ज्ञानाद्विच्छेद्रप्रतीतेः अत्यन्तासदर्थप्रतिभासाभावाच्चेति, अत एव पिहितस्वा-
कारा परिगृहीतपराकारा शुक्तिकैवात्र प्रतिभातीति भवतु पक्षः ।
ननूक्तं कृत्यासीतावत्किमिदं वेशभाषापरिवर्तनं कथं च रजतज्ञाने शुक्तिका
ऽवभासितुमर्हति, श्रुतमिदं नाटकं न तु वयमत्रापहासपात्रम् , शुक्तिकेति वस्तु-
स्थितिरैषा कथ्यते पुरोऽवस्थितं धर्मिमात्रं भास्वररूपादिसामृश्योपजनितरजत-
विशेषस्मरणमत्र प्रतिभातीति ब्रूमः, यदेतत्पुरः किमपि वर्त्तते तद्रजतमित्यनु-
भवात् , वस्तुस्थित्या तु शुक्तिरेव सा त्रिकोणत्वादिविशेषग्रहणाभावाच्च निगूहि-
तनिजाकारेत्युच्यते रजतविशेषस्मरणाच्च परिगृहीतरजताकारेति, एतच्च विषये-
न्द्रियादिदोषप्रभवेषु शुक्तिकारजतावभासभास्करकिरणजलावगमजलदगन्धर्वन-
गरनिर्वर्णनरज्जुभुजंगग्रहणरोहिणीरमणद्वयदर्शनशङ्खशर्करापीततिक्ततावसाय-
केशकूर्चकालोकनादिविभ्रमेष्वभ्युपगम्यते मनोदोषनिबन्धनेषु तु मिथ्याप्रत्ययेषु
निरालम्बनेषु स्मृत्युल्लिखितनिराकारः प्रकाशते इति,
यस्तु तृतीयः पक्षः अन्यदालम्बनमन्यच्च प्रतिभातीति कैश्चिदाश्रितः
तत्रापि न सन्निहितस्यालम्बनत्वमुच्यते येन भूप्रदेशस्यापि तथात्वमाशङ्कयेत,
नापि आलम्बनस्याजनकत्वं यच्चक्षुरादावपि प्रसज्येत, किं त्विदमित्यङ्गुल्या
निर्दिश्यमानं कर्मतया यज्ज्ञानस्य जनकं तदालम्बनमित्युच्यमाने न कश्चिद्दोषः।
ननु केशोण्डूकज्ञाने किमालम्बनकारणम्, किं चित्तु तिमिरं रोमराजिरिव
नयनधात्रो- मध्ये एवास्ते तेन द्विधा कृता नयनवृत्तिः द्वित्वेन चन्द्रमसं गृह्णाति,
किं चित्तु तिमिरं तत्र विवरवदन्तराऽन्तरा तिष्ठति चक्षुषः तेन विरलप्रसृता
नयनरश्मयः सूक्ष्माः सूर्य्यांशुभिरभिहन्यमानाः केशकूर्चकाकारा भवन्तीति
तदेवालम्बनम् , अनुदिते ऽस्तमिते वा सवितरि केशोण्डूकप्रत्ययस्यानुत्पादात् ।
गन्धर्वनगरज्ञाने जलदाः पाण्डुरत्विषः ।
आलम्बनं गृहाट्टालप्राकाराकारधारिणः ॥
तस्माद्विपरीतख्यातौ पक्षत्रयमपि निरवद्यम् ।
यः पुनरितरेतरसङ्करः ख्यातीनामुदाहारि तत्रात्मख्यात्यसत्ख्याता अप-
वर्गाह्निके वयमपि विज्ञानाद्वैतमपाकरिष्यन्तः पराकरिष्याम इति किं तच्चिन्तया,
विपरीतख्यातौ तु तत्साङ्कर्यं परिहृतम् ।
यत्पुनरवादि सर्ववादिभिः स्मृतिप्रमोषे ऽभ्युपगत एव प्राभाकरैस्तु यशः
पातमिति तत्र वाद्यन्तराणि तावद्यथा भवन्ति तथा भवन्तु वयं तु स्मृत्युपारू-