सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 183, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 183

प्रमाणप्रकरणम् १६१
परतः प्रामाण्यनिरासाय विपरीतख्यातिमाक्षिप्याख्यातिवादेन
प्रत्यवस्थानम्—
सुशिक्षितास्त्वाचक्षते युक्तं यदमी मीमांसकपांशाः काशकुसुमराशय इव
शरदि मरुद्भिरविदूरात्समुत्सार्यन्ते दुष्टतार्किकैः, ये हि किलाभ्युपयन्ति च
विपरीतख्यातिवादमकृतास्त्राः प्रामाण्यं च स्वत इति च वदन्ति तेषां कुतः कौश-
लं विपरीतख्यातावभ्युपगम्यमानायां बाध्यबोधसंदर्भसुभिक्षे सति तत्साधर्म्या-
दनुत्पन्नबाधकेऽपि बोधे दुष्परिहरः संशयः, संशये च संवादाद्यन्वेषणमपि ध्रुव-
मवतरतीति परतः प्रामाण्यमनिवार्यम्,
बाध्यज्ञानाभावस्थापनमुखेन विपरीतख्यातिखण्डनम् ।
यदा तु न बाध्यो नाम जगति कश्चिदपि बोधः तदा किंसाधर्म्यात्संशेरतां
प्रमातारः, असंशयानाश्च किमिति परमपेक्षन्ताम् अनपेक्षमाणाः कथं परतः
प्रामाण्यं प्रतिपद्यन्तामिति निश्चलं स्वत एव प्रामाण्यमवतिष्ठते,
कथं पुनर्बाध्यो नाम नास्ति बोधः शुक्तिकादौ रजतादिप्रत्ययाः प्राचुर्येण
बाध्यमाना दृश्यन्ते, अनभिज्ञो भवान्न हि ते बाध्याः प्रत्ययाः, इदं हि निरूप्यतां
क इवोत्तरज्ञानेन पूर्वज्ञानस्य बाधः, बाधार्थमेव न विद्मः, यदि तावन्नाश
एव बाधः स न तेषामेव बुद्धेर्बुद्ध्यन्तराद्विरोध इति सकलबोधसाधारणत्वात्,
अथ सहानवस्थानं तदपि समानम् अबाधितानामपि ज्ञानानां सहावस्थाना-
संभवात् ।
अथ संस्कारोच्छेदो बाधः सोऽपि तादृगेव सम्यक्प्रत्ययोपजनितसंस्कार-
स्याप्युच्छेददर्शनात्, कश्चिद्भवदभिमतबाध्यबोधाहितोऽपि संस्कारः सत्यपि
बाधकप्रत्यये नोच्छेदमुपगच्छति कालान्तरे तत्कारणकतद्विषयस्मरणदर्शनात् ।
अथ विषयस्यापहारो बाधः सोऽपि दुर्घटः, प्रतिभासत्वेन विषयस्यापहर्तु-
मशक्यत्वात्, न हि बाधकं ज्ञानमित्थमुत्तिष्ठति यत्प्रतिभातं तन्न प्रतिभातमिति ।
अथ तदभावग्रहो बाधः स तात्कालिकः कालान्तरभावी वा, कालान्तर-
भावितदभावग्रहणस्य बाधकत्वे प्रागवगतमुद्गरदलितघटाभावग्राहिणोऽपि
विज्ञानस्य तद्बाधकत्वप्रसङ्गः, तदैव तु तदभावग्रहणे प्रत्ययद्वयसमर्पितरूप-
द्वितययोगादुभयात्मकमेव तदस्तु वस्तु किं कस्य बाध्यं बाधकं वा ।
अथ फलापहारो बाधः सो ऽपि न सम्भवति संविदः प्रमाणफलस्य उत्प-
न्नत्वेनामपहरणीयत्वात्, न हि यदुत्पन्नं तदनुत्पन्नमिति वदति बाधकः ।
अथ हानादिफलापहारो बाधः न तस्य प्रमाणफलत्वाभावात् ।
हानादिव्यवहारो हि पुरुषेच्छानिबन्धनः ।
न तेनापहृतेनापि प्रमाणं बाधितं भवेत् ॥
२१ न्या०