न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 190, कुल 654 में से
संदर्भ में पढ़ें१६८ न्यायमञ्जर्याम्
तस्माद्दोषकलुषितादिन्द्रियात्पुरोऽवस्थितधर्मिगतत्रिकोणत्वादि विशेषावम-
र्शकौशलशून्यात्सामान्यधर्मसहचरितपदार्थान्तरगतविशेषस्मरणोपकृताद्भवति
विपरीतप्रत्ययः, सम्यग्ज्ञानापेक्षया च तद् दुष्टमुच्यते स्वकार्ये तु विपर्ययज्ञाने
तत्कारणमेव न दुष्टम् , तस्माद्रजतमित्यनुभव एव न प्रमुषितस्मृतिः ।
अपि च नेदं रजतमिति बाधकज्ञानं पूर्वानुभवविषयीकृतरजतनिषेधम-
धिगमयदुत्पद्यते नेदं रजतमिति यदहमद्राक्षं तद्रजतं न भवतीति, प्रसक्तस्य
चायं निषेधः अननुभूतं त्वप्रसक्तमपि प्रतिषिध्यमानं रजतमिव कनकमपि कि-
मिति न प्रतिषिध्यते ।
यत्तु व्याख्यातं प्रागनवगतस्मरणानुभवविवेकप्रतिपादकं बाधकज्ञानमि-
ति तद्वाख्यानमात्रमेव तथा ऽननुभवात्, न ह्येवं बाधक उद्घाट्यते यद्वि-
विक्तं तद्विविक्तमिति, अतो यत्किंचिदेतत्, तस्मान्न रजतस्मरणं रजते वा कदा
चिदनुभवो ऽभूदिति स्मरणमभिधीयमानं नात्यन्तमलौकिकम्, स्वप्ने तु स्वशि-
रश्छेदादेरत्यन्ताननुभूतस्य स्मृतिरिति कथ्यमानमेव त्रपाकरम्, जन्मान्तरे
निजमस्तकलवनमनुभूतमनेनेति चेद् इदमपि स्वभाषितमसारम् , यज्जन्मान्त-
रानुभूतं स्मर्यते तत्र च कृतस्य एष नियमो यत्कदा चिदेव स्मर्यते न सर्वदा
सर्वमिति ।
ननु भवता ऽप्यसत्ख्यातिं निरस्यता स्वप्नज्ञानेषु तादृक्षु किं वक्तव्यं यद्व-
क्तव्यं तत्रैव श्रोष्यसि असन्न प्रतिभातीत्युच्यते न त्वननुभूतमिति ।
नन्वननुभूतं सत्कथं जानीषे सदिति चेज् ज्ञानं तदनुभूतमिति, मैवम्, मया
तन्नानुभूतम् अन्येनानुभविष्यते परानुभूतं च सदिति शक्यते वक्तुम्, परानु-
भूते तु स्मरणमघटमानमिति नावयोरत्र वस्तुनि समानयोगक्षेमत्वम् ।
अपि च भवन्मते स्वप्नस्मृतेः स्मृतित्वेनाग्रहणे केन रूपेण ग्रहणमिति चिन्य-
म्, रूपान्तरेण ग्रहणे विपरीतख्यातिः सर्वात्मना त्वग्रहणे स्वप्नसुषुप्तयोरविशे-
षप्रसङ्गः, अनुभवप्रत्ययश्च स्वप्ने संवेद्यते न स्मरणानुल्लेखमात्रमिति दुरभि-
निवेश एव स्मृतिप्रमोषसमर्थनं नामेति, द्विचन्द्रादिप्रत्ययेषु कथमख्यातिः ।
ननूक्तं सुषिरभिन्ना नयनवृत्तिरेकत्वेन ग्रहीतुं न शक्नोति शशाङ्कमिति, भोः
श्रोत्रिय तादृशी दृशो वृत्तिरेकत्वमिन्दोर्मा ग्रहीद् द्वित्वानुभवं तु भ्रान्तं क
प्रच्छादयामः, ननु चक्षुर्वृत्तौ तद् द्वित्वं तद्गतत्वेन तु यत्तस्याग्रहणं स एव
भ्रमः, नैतदेवम्, नेत्रवृत्तेः सर्वत्र परोक्षत्वात् ।
किमेकचन्द्रबोधेऽपि वृत्त्येकत्वं प्रतीयते ।
इयं ह्यगृह्यमाणैव चक्षुर्वृत्तिः प्रकाशिका ॥