सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 194, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 194

१७२ न्यायमञ्जर्याम्
कभावः स चायं बाधव्यवहारो विपरीतख्यातिपक्ष एव सामर्थ्यमस्खलितं दधा-
तीति स एव ज्यायान् ।
मीमांसकैकदेशिमतखण्डनम्-
अङ्गः को ऽपि नाम मीमांसकस्त्वाह, येयं शुक्तिकायां रजतप्रतीतिर्विपरी-
तख्यातिरिति तद्वादिनामभिमता सा तथा न भवतीति सत्यरजतप्रतीतिवदत्रा-
प्यवभास्यरजतसद्भावान, लौकिकालौकिकत्वे तु विशेषः, रजतज्ञानावभास्यं
हि रजतमुच्यते तच्च किं चिद्व्यवहारप्रवर्त्तकं किं चिन्नेति, तत्र व्यवहारप्रव-
र्त्तकं लौकिकमुच्यते ततो ऽन्यदलौकिकमिति यच्च शुक्तिकाशकलमिति भवन्तो
वदन्ति तदलौकिकं रजतं रजतज्ञानावभास्यत्वाद्रजतं तद्व्यवहाराप्रवृत्तेरलौकि-
कमिति ।
तदेतदपरामृष्टसंवेदनेतिवृत्तस्याभिनवपदार्थसर्गप्रजापतेरभिधानम् बाधकप्र-
त्ययेन तत्र रजताभावस्य ख्यापनात् , नेदं रजतमिति हि रजतं प्रतिषेधत्येष
प्रत्ययो न विद्यमानरजतस्यालौकिकत्वमवघातयते इति ।
अथ नेदं लौकिकमिति व्याख्यायते हन्त वाक्यशेषः क्रियतां संयजत्रैराङ्गा-
नीतवत , सो ऽयं श्रोत्रियः स्वशास्त्रवर्त्तनीमिहापि न तां त्यजति न तु तस्या
अयमवसरः, अगृह्यमाणे तु रजताख्ये ऽन्यधर्मिणि कथं तद्धर्मत्वेन लौकिक-
त्वं गृह्यते, रजताभावग्रहणे त्वेष न दोषः भावतदभावयोः धर्मधर्मिभावाभा-
वात् , स्मर्यमाणप्रतियोग्यवच्छिन्नो हि अभावो गृह्यते एव, तस्मादत्र नास्त्येव
रजतं न पुनरलौकिकं तदस्ति, न च रजतज्ञानावभास्यत्वमात्रं रजतलक्षणमपि
त्वबाधितरजतज्ञानगम्यत्वम् ।
अपि च लौकिकालौकिकप्रविभागः प्रतिभासनिबन्धनो वा स्याद्व्यवहा-
रसदसद्भावनिबन्धनो वा, न तावत् प्रतिभासनिबन्धनः यथाप्रतीति भावात् क
चिद्धि रजतं क चिच्च तदभावः प्रतीयते न तु लौकिकत्वमलौकिकत्वं वा।
अथ व्यवहारप्रवृत्त्यप्रवृत्तिभ्यां लौकिकालौकिकत्वे व्यवस्थाप्येते तद्वक्तव्यं
को ऽयं व्यवहारो नामेति, ज्ञानाभिधानस्वभावो हि व्यवहारः स तद्विषयो ना-
स्तीत्युक्तम् , तदर्थक्रियानिर्वर्त्तनं व्यवहार इति चेत् तर्हि स्वप्ने परिरभ्यमाणा-
या योषितः कूटकार्षापणस्य च लौकिकत्वं प्राप्नोति, उत्पद्य नष्टे घटे ऽर्थक्रि-
याया निवृत्तेरलौकिकत्वं स्यात् ।
अपि च यः शुक्तिकायां रजतव्यवहारं न करोति स रजताभावमेव बुद्ध्वा
न रजतस्य सतस्तस्यालौकिकताम् , यदि चेदमलौकिकं रजतं तत्किमर्थमिह
तदर्थक्रियार्थं प्रवर्त्तते, अलौकिकं लौकिकत्वेन गृहीत्वेति चेत् सैवेयं तपस्विनी
विपरीतख्यातिरायाता, तस्माद्विपरीतख्यातिद्वेषेण कृतमीदृशा अत्रापि लोकसि-
द्धैव प्रतीतिरनुगम्यताम् ।