नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
षष्ठ उच्छ्वासः । १७३
कूजत्क्रौञ्चं चटुलकुररद्वन्द्वमुन्नादिहंसं
क्रीडत्क्रोडं निपतितलतापुष्पकिञ्जल्कहारि ।
अस्याः सान्द्रद्रुमवनतलश्रान्तसुप्ताध्वनीनं
रोधः सिन्धोः स्खलयति भवत्सैनिकानां प्रयाणम् ॥ २५ ॥
राजा तु तदाकर्ण्य 'बाहुक, बहूनां बहुमतो बाहुल्यादिहैव वासः,
तद्ब्रूहि सैनिकान्, अवतरत तापीतीरतरुतलाश्रयान्, आश्रयत श्रम-
च्छिद्दच्छायाः, कुरुत पटकुटीः, कारयत कायमानानि, मुञ्चतामन्द-
मृदुशाद्वलेष्ववलान्वलीवर्दकान्, कूर्दयत कर्द्दमे महिषान्, खादयत
वेसरीभिर्वशकरीराङ्कुरान्, प्रचारयत क्रमेण क्रमेलकान्, अवगाहाव-
साने पृष्ठावकीर्णपुलिनपङ्कपांसवो विहरन्तु स्ववशं वंशस्तम्बेषु स्तम्बे-
रमाः, तरुबुध्नेषु बध्नीत तीव्रवेगान्वेगसेरान्, अवतरन्तु तापीतीरंतर-
ङ्गेषु तुरंगाः, शिशिरतरङ्गानिलान्दोलितविविधविकचमञ्जरीराजिर्ज-
टितेषूत्फुल्लताखण्डमण्डपेषु मध्याह्नसमयमतिवाहयन्तु किंनरमिथु-
नानि' इति सेनापतिमादिदेश ॥ क ॥
स्वयमपि पुष्कराक्षसूचितार्धपथश्रमखिन्नकिंनरमिथुनदिदृक्षया कृ-
तमृगयाविनोदव्यपदेशो दिशि दक्षिणस्यामाप्तस्तोकैःपरिवारपरिवृतो
झरैर्निर्झरझत्कारिवारिरमणायासु विहितविहारहारिहरिणीनेत्रोत्पल-
स्तबकितासु रममाणपुलिन्दनितम्बिनीवदनविम्बचन्द्रितासु सान्द्र-
द्रुमद्रोणीषु विचरितुमारभत ॥ ख ॥
पुरःस्थितश्चास्य वर्त्म दर्शयन् जात्यतरतुरंगमारोपितः पुष्कराक्षो-
ऽप्यभाषत ॥ ग ॥
'देव, मार्कण्डेयप्रमुखमहामुनिनिवासपवित्रीताः पुण्याः खल्वि-
माः पयोष्णीपरिसरवनभूमयः ॥ घ ॥
तथाहि ।
कूजदिति ॥ क्रौञ्चकूजनादीनि विशेषणानि रोधसो रम्यताहेतुत्वात्सैन्यप्रया-
णस्खलनसाधनानि ॥ २५ ॥
राजा त्विति ॥ कायमानानि तृणमयगृहाणि । वंशानां करीराणामङ्कुराः॥क॥
१ 'स्खलयति'. २ 'तरुतलमाश्रयत'. ३ 'श्रमच्छिदच्छायाः'. ४ 'शाद्वले'. ५
'बलीवर्दान्'. ६ 'माहिषकम्'. ७ 'वेसरीः'. ८ 'करीरान्'. ९ 'वेसरान्'. १० 'तीरेति-
नास्ति'. ११ 'जटिलेपूतपल्लवलता'; 'जटिलेषूत्फुल्लतामण्डपेषु'. १२ 'मावाहय'. १३
'व्यपदेशो'. १४ 'स्तोकपरिवृतः'. १५ 'सरिन्'. १६ 'दर्शनीयजात्यतरतुरङ्गतुरङ्ग'.
१७४ नलचम्पूः ।
श्रूयते किलास्मादुद्देशात्पूर्वदिग्भागे भगवतः पुराणपुरुषावतारस्य
परशुरामस्य जनयितुर्जमदग्नेराश्रमः । ततोऽपि १नातिदूरेण सुरासुर-
मौलिमालामुकुलमुक्तमकरन्दबिन्दुस्नपितपादारविन्दस्य भगवतः स्व-
स्वेदप्रसरप्रवर्तितपयोष्णीप्रवाहस्य महावराहस्यायतनम् ॥ क ॥
इतोऽप्यवलोकयतु देवः ।
सैषा चलच्चन्द्रकिचक्रवाक-
चञ्चच्चकोराकुलकूलकच्छा ।
स्वःसीमसोपानसहक्तरङ्गा
गङ्गाप्रतिस्पर्धिपयाः पयोष्णी ॥ २६ ॥
यस्याः पश्यैते
मुक्तास्रैः श्रूयमाणं सिकतिलपुलिनप्रान्तविश्रान्तपान्थै-
रुन्धानं मञ्जुगीतप्रियहरिणकुलान्यम्बुपानागतानि ।
सांध्यध्यानावसाने क्षणमिव मुनयः संनिधौ पङ्कजाना-
मोंकारोच्चाररम्यं मधुकरमधुरध्वानमाकर्णयन्ति' ॥ २७ ॥
राजा तु 'नमस्याः खल्वमी महानुभावाः ॥ ख ॥
तथाहि ।
मृगेषु मैत्री मुदितात्मदृष्टौ
कृपा मुहुः प्राणिषु दुःखितेषु ।
येषां न ते कस्य भवन्ति वन्द्याः
कौशेयकौपीनभृतो मुनीन्द्राः' ॥ २८ ॥
इत्यवधारयँस्तानवन्दे ॥
सैषेति ॥ चन्द्रकी मयूरः । कच्छाः काशादिक्षेत्रप्रदेशाः । खःसीमेत्यत्र खरि-
त्यव्ययं स्वर्गार्थम् ॥ २६ ॥
मुक्तेति ॥ सिकतास्यास्तीत्यर्थे इलच् । मधुकरध्वानस्योत्कण्ठाजनकत्वात्पा-
न्थानां मुक्ताश्रुत्वम् । गीतप्रियत्वाद्वरिणानां रोधः मुनीनां च देवत्रयीवेदत्रयीवा-
चिन्योंकारे लीनत्वात् । तत्प्रतिनिधौ मधुकरध्वाने बहुमानः । तथा च 'त्रयीं ति-
स्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरानकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृति । तुरीयं
ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति प-
दम्' ॥ २७ ॥
मृगेष्विति ॥ मैत्री मुदिता करुणा इति तिस्रोऽपि चेतःप्रसादिन्यो भावनाः ।
कौशेयकौपीनभृत इति निःसङ्गत्वोक्त्या पापकारिषूपेक्षाप्यभिहिता ॥ २८ ॥
१ 'नातिदूरे प्रणतसुरा'.
षष्ठ उच्छ्वासः । १७५
मुनयोऽपि 'सोऽयं सोमपीथी निषधनाथः' इत्यनुध्यानादवगम्यः
प्रयुक्तब्रह्मोक्ताशिषः, अनुगृह्णन्त इवार्द्राईदृष्टिपातैः, आश्वासयन्त इव
प्रियस्वागतप्रश्नालापेन, स्नपयन्त इव दरहसितदन्तज्योत्स्नामृतप्लवेन,
आह्लादयन्त इवादरेण, दत्त्वार्घ्यमनन्तरमिदमवोचन् ॥ क ॥
'आयुष्मन्, अस्मदीयमिह धर्मोपदेशप्रदानमेव प्रथमातिथेयम-
तिथिजेनेष्वतोऽभिधीयसे । पुण्यं पयोऽस्याः सरितः तदेतदवगाह्य कुरु
पुण्यमयमात्मानम् ॥ ख ॥
तथाहि ।
पर्वतभेदिपवित्रं जैत्रं नरकस्य बहुमतङ्गहनम् ।
हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी' ॥ २९ ॥
राजापि 'एवमेतत् ।
महावराहाङ्गविनिर्गतायाः
किमन्यदस्याः पैरतः पवित्रम् ।
यदीयमालोकनमध्यघानि
निहन्ति पुंसां चिरसंचितानि ॥ ३० ॥
तदेष करोमि भवतामादेशम्' इत्यभिधाय यथाविधि स्नानाय
सरिन्मध्यमवातरत् ॥ ग ॥
मुनयोऽपीति ॥ दर अर्धे यद्धसितं तेन दन्तज्योत्स्ना सैवामृतप्लवस्तेन । द-
रित्यव्ययमीषदर्थे ॥ क ॥
पर्वतेति ॥ राजन् । पश्यत यूयमवलोकयत । पर्वतविदारकं पावनं नरकस्य
दुर्गतेजैत्रं पराभविष्णु । अत एव बहुमतं बहुमाननीयम् । गहनमगाधम् । पयः
पाथः । कर्मभूतम् । पयोष्णी वहति धारयति । उपमाने हरिशब्दत्रयमिन्द्रविष्णु-
सिंहार्थम् । तत्क्रमेण विशिष्यते । तथथा पर्वतभेदी गिरिविदारको यः पविर्वज्रं
तं त्रायते धारयति वज्रधरम् । नरकस्य भौमासुरस्य जैत्रमभिभावुकं विष्णुम् । म-
तङ्गान्सुनिविशेषादीपदूना बहुमतङ्गा गजा मतङ्गादुत्पन्नत्वात् । तान् हन्तीत्यच् ।
क्विब्या । अथवा बहून्मतङ्गान्हन्तीति सिंहम् ॥ २९ ॥
महावेति ॥ आदिवराहाद्विनिःसृताया अमुष्याः परतः परमन्यदपरं किं प-
वित्रं न किमपीत्यर्थः ॥ ३० ॥
१ 'निषधाधिपः' । २ 'आर्द्राईदृष्टिपातैः' । ३ 'मेव' । ४ 'विनिर्मितायाः' । ५ 'सरितः' ।
६ 'अथ नृपतिर्यथाविधि'
१७६ नलचम्पूः ।
अवतीर्य च मन्त्रमार्जनप्राणै¹संयमसंध्यासूक्तजपपितृतर्पणादिसमु-
चिताह्निकायसाने रक्तकमलगर्भमर्घ्या²ञ्जलिमुत्क्षिप्य भगवतो भास्कर-
स्य स्तुतिमकरोत् ॥ क ॥
जयति जगदेकचक्षुर्विश्वात्मा वेदै³मन्त्रमयमूर्तिः ।
तरणिस्तरणतरण्डकमघपटलपयोनिधौ पुंसाम् ॥ ३१ ॥
तदनु च चटुलचञ्चरीककुलाकुलितकमलैकुकुङ्गल⁴गलद्बृहन्मकर-
न्दसुरभिततरङ्गतुमुतपतत्कपिञ्जलं जलमवगाह्य चिरमुत्तीर्यतीरमापृ-
च्छथ मुनिजनमभिवाद्य च पुनः पुलिनपालिपर्यटनाय प्रस्थितः प्रण-
यादनुव्रजतो मुनीन्निवर्तयन्निदमवादीत् ॥ ख ॥
'चक्रधरं विषमाक्षं कृतमदकैल⁵राजहंससंचारम् ।
हरिहरविरञ्चिसदृशं भजत पयोष्णीततं मुनयः' ॥ ३२ ॥
एवमुक्तास्तेऽप्यार्द्रहृर्दयाः⁶ स्वल्पपरिचयेनाप्यु॑पचितोचितप्रणयाः
प्रियंवदतथा प्रियमाशशंसुः ॥ ग ॥
'सुगमस्तवास्तु पन्थाः क्षेमा दिग्देवताः शिवाः शकुनाः ।
अभिलषितमर्थमचिरात्साधयतु भवानविघ्नेन' ॥ ३३ ॥
इत्यभिधाय व्यावृत्तेषु मुनिषु कौतुकादितस्ततः संचरच्चटुलषट्चर-
णचक्रचुम्बनाकूततरलितपुष्पपरागपटलपांसुलिततरुतलेषु वहत्सुरभि-
शिशिरकोमलपवनेषु वनेषु, वनेचरमिथुनमन्मथक्रीडानुकूलेषु कूलेषु,
पुलिन्दडिम्भकाध्यासितफलितबदरीषु दरीषु, पुजितकुञ्जरेषु निकु-
ञ्जेषु, दुर्दर्शभानुषु सानुषु, सानुचरश्चरन्नेकस्मिन्नतिनिबिडसंधिसंनि-
अवतीर्येति ॥ मन्त्रमार्जनं मन्त्रस्नानम् । प्राणसंयमः श्वासप्रश्वासरोधने
करन्यासोऽङ्गन्यासश्च विद्यते यत्र तत् संध्यासूक्तम् ॥ क ॥
चक्रेति ॥ चक्रवाकधरम् । विषमविभीतकम् । तथा कृतो मदकलराजहंसा-
नां संचारो येन तथाविधम् । पयोष्णीतटं यूयं भजत । मुनय इति संबोधनम् ।
हरिहरविरञ्चिसादृश्यं विशेषणत्रयेण । तदा चक्रं सुदर्शनं धारयति विष्णुः । विषमा-
ण्यक्षीण्यस्य त्रिनेत्रत्वाद्वरः । कृतो मदकलराजहंसेन कृत्वा संचारो येन स ब्रह्मा,
हंसवाहनत्वात् ॥ ३२ ॥
इत्यभिधायेति ॥ पुलिन्दडिम्भैरध्यासितासु कासु फलवद्बदरीषु, न केवलं
फलवद्बदरीषु, तथा दरीषु । चकारादिमन्तरेणापि समुच्चयः स्यादेव । तथथा (मा-
घे दशमसर्गे, — सावशेषपदमुक्तमुपेक्षा ग्रस्तमाल्यवसनाभरणेषु । गन्तुमुत्थितमका-
१ 'संयमनमायतप्राणं संयम्य संध्यासूक्तं प्रतिजप्य'. २ 'अर्थाञ्जलि'. ३ 'वेदमयमूर्तिः'.
४ 'कमलकुमुदकुड्मल'. ५ 'कलहंससंचारं'. ६ 'आर्द्रहृदयतया'. ७ 'प्युचितोचितप्र'
[Header]
षष्ठ उच्छ्वासः । १७७
वेशे शिलान्तरालप्रदेशे, प्रियतममुद्दिश्य पठन्त्याः किंनर्याः साश्चर्य-
मार्यागीतिमिमामशृणोत् ॥ क ॥
'विपिनोद्देशं सरसं केतकमकरन्दवासितवियत्ककुभम् ।
ग्राममिमं वा सर संकेतकमकरन्दवासितवियत्ककुभम्' ॥३४॥
तदनु पुनस्तत्प्रतिवादिना किंनरेण च पठ्यमानामिमामार्यामाश्रौ-
षीत् ॥ ख ॥
'अजनि रजनिः किमन्यत्तरणिस्तरतीव पश्चिमपयोधौ ।
घनतरुणि तरुणि विपिने क्वचिदस्मिन्नेव निवसामः' ॥ ३५ ॥
एवमन्योन्यालापमाकर्ण्य किंनरमिथुनस्य विस्मितो नरपतिः 'अ-
हो माननीयमहिमोद्दामा दमयन्ती यस्याः परिचारिणः पक्षिणोऽपि
श्रवणस्पृहणीयामेवंविधसुभाषितामृतमुचं वाचमुच्चारयन्ति ॥ ग ॥
प्रथममिह तावदभिजात्यवित्तविद्याविवेकविभवैरनाकुले कुले जन्म
ततोऽप्यनुरूपरूपसंपत्तिस्तदनु श्लाघ्यानुगुणगुणलाभस्ततोऽपिच शुचि-
विदग्धस्निग्धपरिजनवाप्तिरिति महती भाग्यपरम्परा' इति चिन्तय-
न्नातिक्षूरवर्तिनः पुष्कराक्षस्य मुखमवलोकयांचकार ॥ घ ॥
रणतः स्म द्योतयन्ति मदविभ्रममासाम्' । अध्यासितास्विति व्यस्तमेव । न च फ-
लन्त्यो बदर्यो यास्विति दरीविशेषणम् । 'नद्यृतश्च' इति कप्प्रत्ययस्य दुर्निवारत्वात् ।
बाहुलकाश्रयणात्कप्प्रत्ययाभाव इति तु न युक्तम् ॥ क ॥
विपिनेति ॥ सरसं सजलम् । तथा केतकमकरन्देन वासितं वियन्नभः क-
कुभश्च दिशो येन तथाभूतम् । विपिनप्रदेशम् । अथवा इमं पुरोवर्तिनं ग्रामं सर
व्रज । कीदृशं ग्रामम् । संकेतयति निवासयति अनुकूलत्वान्निवासहेतुर्भवतीति सं-
केतकम् । तदेवानुकूल्यमाह—अकरमिति । न विद्यते करो राजग्राह्योऽंशो यत्र ।
पार्वतीयत्वादकरम् । आसनमासितं सद्भावः । दवस्यासिताद्वियन्तो विश्लिष्यन्तः
कंकुभास्तरवो यत्र । यदि वा 'षिञ् बन्धने' आङ्पूर्वस्य आसयनमासितम् । आ-
बन्ध इत्यर्थः । यद्वा सिताः संबद्धाः । दवेन असिता असंबद्धा वयः पक्षिणो यत्र।
तथा यद् वहत् कं पयो यस्यां सा चासौ कुश्च तया भातीति । इणः शतरि यद्-
ह्दित्यर्थः ॥ ३४ ॥
तदिति ॥ किंचिन्नराः किंचित्पक्ष्यादिरूपमिश्राः किंनराः ॥ ख ॥
अजनीति ॥ घनास्तरवो यस्मिन् तस्मिन्विपिने । तरुणीति संबोधनम्॥३५॥
प्रथममिति ॥ आभिजात्यादीनि अहंकारकृतवैकल्यस्य कारणानि । कुले ले-
भिरनाकुले । अनुगुणोऽनुरूपः ॥ घ ॥
१. 'चित्र' २ 'श्लाघ्यान्' ३ 'अदूरवर्तिनः' ; 'नातिदूरव'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
१७८ नलचम्पूः ।
पुष्कराक्षोऽपि पुरःसृत्य तं किंनरमभाषत ॥ क ॥
'सुन्दरक, कान्तामुखावलोकनासक्तः समीपमागतानप्यस्मान्न प-
श्यसि ॥ ख ॥
तदितो दत्तदृष्टिर्भव ॥ ग ॥
स एष निषेधेश्वरः कुसुमचापचक्रं विना
प्रसादितमहेश्वरः स्मर इवागतो मूर्तिमान् ।
विलोकय विलोचनामृतसमुद्रमेनं नृपं
विधेहि नयनोत्सवं कुरु कृतार्थतामात्मनः ॥ ३६ ॥
त्वमपि विहंगवागुरे, परमरहस्यसखी देव्याः सा हि त्वच्चक्षुषा प-
श्यति, त्वत्कर्णाभ्यामाकर्णयति, त्वन्मनसा मनुते ॥ घ ॥
तदिह दमयन्तीमनोरथपान्थपिपासाच्छिदि लावण्यपुण्यह्रदेऽस्मि-
न्राजनि निर्वापय चक्षुः' इति किंनरमिथुनमभिमुखीकृत्य नरपतिम-
वादीत् ॥ ङ ॥
'देव, तदेतत्किंनरमिथुनम्, इदं हि द्वितीयमिव हृदयं देव्याः, प्रियं
प्राणेभ्योऽपि प्रेम्णा प्राभृतमेतत्प्रहितं तुहिनाचलचक्रवर्तिना देवस्य,
देवेन देव्यै दत्तम् । तया च दमयन्त्याः समर्पितं परं पात्रं मन्त्रगी-
तेः ॥ च ॥
तथाहि । जातख्याति जातिषु, गीतयशो गीतकेषु, वर्धितमानं व-
र्धमानेषु, सारमासारितकेषु, निपुणं पाणिकासु, धाम साम्नाम्, आचा-
र्यकमृचाम्, आलयः कलादिभेदानाम्, रसगीतायामपि सुस्वरं स्वरा-
स एषेति ॥ एष निषेधेश्वरो नलः कुसुमचापचक्रं विनाभूतो मूर्तिमान् प्रसा-
दितमहेश्वरः स्मरः । एतावता पूर्वस्मराद्व्यतिरेकोक्तिः । यतः पूर्वः कुसुमचापचक्रं
धत्ते । नच मूर्तिमान् दग्धाङ्गत्वात् । तथा प्रकोपितमहेश्वरः । यदा तु प्रसाधि-
तेति पाठः, तदा प्रसाधिता अलंकृता महान्त ईश्वरा बाणादिना येन तादृग् निष्-
धेश्वरः । स्मरस्तु साधयितुं वशीकर्तुं प्रारब्धो महेश्वरः शिवो येन । कुसुमान्येव
चापचक्रं धनुर्मण्डलम् ॥ ३६ ॥
देवेति ॥ तुहिनाचलस्य हिमाचलस्य चक्रवर्तिना नृपेण प्राभृतं प्रहितमेतत् ।
भीमायेति शेषः । मन्त्रा गीयन्तेऽस्यामिति मन्त्रगीतिः ॥ च ॥
जातेति ॥ जातयो नन्दयन्तीप्रभृतयः । वर्धमानान्यसारितानि पाणिकाः
सामानि ऋचः कलादिभेदा गीतविषया भरतशास्त्राद्गम्याः । मध्यमादयः सप्तस्व-
१ 'उपसृत्य'; 'पुरोऽपसृत्य'. २ 'तदेहि'. ३ 'तया च देव्या'. ४ 'सरसं गीत्यामपि'.
षष्ठ उच्छ्वासः । १७९
लापेषु, अवग्राम्यं ग्रामरागेषु, विचित्रभाषं भाषासु, प्रवर्त्तकं नर्त्तनानाम्,
कारणं करणमार्गस्य, वाद्येष्वपि प्रवीणं वीणावेणुषु, लब्धपाटवं पट-
हेषु, अप्रतिमल्लं झल्लरीषु ॥ क ॥
किंबहुना ।
कालमिव कलावहुलं सर्वरसानुप्रवेशि लवणमिव ।
तव नृप सेवां कर्तुं किंनरयुगलं तया प्रहितम् ॥ ३७ ॥
तदेतदात्मपरिग्रहेणानुगृह्यताम्' इत्यभिधाय विश्रान्तवाचि तस्मि-
न्स किंनरयुवा किमप्युपसृत्य मृगमदमिलन्मलयजरसोल्लासिलेखाला-
ञ्छितललाटपट्टार्पितकरकमलमुकुलं प्रणतिप्रेङ्खितमणिकर्णावतंसया
सह प्रियया प्रणाममकरोत् ॥ ख ॥
उक्तवांश्च ।
'लब्धार्धचन्द्र ईशः कृतकंसभयं च पौरुषं विष्णोः ।
ब्रह्मापि नाभिजानः केनोपमिमीमहे नृप भवन्तम् ॥ ३८ ॥
इदं च ।
अरुणमणिकिरणरञ्जितलिखिताक्षरमङ्गुलीकाभरणम् ।
तस्याः करकिसलयमिव तव करकमले चिरं लगतु ॥ ३९ ॥
अनया च ।
राः। षड्जमध्यमगान्धाराख्ययो ग्रामाः । भाषाः षट्त्रिंशत् । कला गीतवाद्याद्या
मुहूर्त्तभेदाश्च । करणानि तलपुष्पपुटादीन्यष्टोत्तरशतसंख्यानि ॥ क ॥
कालमिति ॥ कला गीतवाद्याद्या मुहूर्त्तभेदाश्च विदन्त्यधीयते वा कालाः
कलाविदः । तेषां समूहः कालम् । तद्यथा । कलाशास्त्रविषये बहुलं तन्निष्ठं भव-
ति । तथेदमपि समग्रकलाप्रवीणम् । रसाः शृङ्गाराद्यास्तिक्ताद्याश्च । समयार्थे तु
कालशब्दे पुंस्त्वं स्यात् । यदा तु 'काल इव कलाबहुलम्' इति पाठः । तदा का-
लः कलाभिर्निमेषोन्मेषाद्यंशरूपाभिर्बहुलो व्यासः । इदं तु कलाभिर्गीतनृत्यादिभि-
र्व्याप्तम् । कालोऽवसरः आत्मसमर्पणायावसर इव प्रेषित इति भावः ॥ ३७ ॥
लब्धेति ॥ अर्धं चन्द्रस्य अर्धचन्द्रः शशिकला गलापहस्तनं च । तत्तु निन्दा-
भासे । तद्युक्त ईश्वरः । कृतं कंसस्य भयं येन तत्पौरुषं विष्णोः । निन्दाभासे तु
कृतकं कृत्रिमम् । सभयं भयान्वितम् । वैष्णवतो नाभेर्जातो ब्रह्मा । निन्दाभासे
तु अभिजातः कुलीनः पश्चान्नञ्योगः ॥ ३८ ॥
अरुणेति ॥ अनयाशिषा पाणिग्रहणं सूचितम् । अरुणमणिः पद्मरागादिः ।
लिखितान्यक्षराणि यस्मिन् । करकिसलयं तरुणम् । तथा मणिकिरणैराभरणरत्न-
कान्तिभिः कलितम् । तथा लिखितान्यक्षराणि येन ॥ ३९ ॥
१७८ नलचम्पूः।
पुष्कराक्षोऽपि पुरःसृत्य तं किंनरमभाषत ॥ क ॥
'सुन्दरक, कान्तामुखावलोकनासक्तः समीपमागतानप्यस्मान्न प-
श्यसि ॥ ख ॥
तदितो दत्तदृष्टिर्भव ॥ ग ॥
स एष निषधेश्वरः कुसुमचापचक्रं विना
प्रसादितमहेश्वरः स्मर इवागतो मूर्त्तिमान् ।
विलोकय विलोचनामृतसमुद्रमेनं नृपं
विधेहि नयनोत्सवं कुरु कृतार्थतामात्मनः ॥ ३६ ॥
त्वमपि विहंगवागुरे, परमरहस्यसखी देव्याः सा हि त्वच्चक्षुषा प-
श्यति, त्वत्कर्णाभ्यामाकर्णयति, त्वन्मनसा मनुते ॥ घ ॥
तदिह दमयन्तीमनोरथपान्थपिपासाच्छिदि लावण्यपुण्यह्रदेऽस्मि-
न्राजनि निर्वापय चक्षुः' इति किंनरमिथुनमभिमुखीकृत्य नरपतिम-
वादीत् ॥ ङ ॥
'देव, तदेतत्किंनरमिथुनम्, इदं हि द्वितीयमिव हृदयं देव्याः, प्रियं
प्राणेभ्योऽपि प्रेम्णा प्राभृतमेतत्प्रहितं तुहिनाचलचक्रवर्तिना देवस्य,
देवेन देव्यै दत्तम् । तयो च दमयन्त्याः समर्पितं परं पात्रं मन्त्रगी-
तेः ॥ च ॥
तथाहि । जातख्याति जातिषु, गीतयशो गीतकेषु, वर्धितमानं व-
र्धमानेषु, सारमासारितकेषु, निपुणं पाणिकासु, धाम साम्नाम्, आचा-
र्यकमृचाम्, आलयः कलादिभेदानाम्, रसगीत्यामपि सुस्वरं स्वरा-
स एषेति ॥ एष निषधेश्वरो नलः कुसुमचापचक्रं विनाभूतो मूर्त्तिमान् प्रसा-
दितमहेश्वरः स्मरः । एतावता पूर्वस्मराद्व्यतिरेकोक्तिः । यतः पूर्वः कुसुमचापचक्रं
धत्ते । नच मूर्त्तिमान् दग्धाङ्गत्वात् । तथा प्रकोपितमहेश्वरः । यदा तु प्रसाधि-
तेति पाठः, तदा प्रसाधिता अलंकृता महान्त ईश्वराश्चाणादिना येन तादृग् निष्-
धेश्वरः । स्मरस्तु साधयितुं वशीकर्तुं प्रारब्धो महेश्वरः शिवो येन । कुसुमान्येव
चापचक्रं धनुर्मण्डलम् ॥ ३६ ॥
देवेति ॥ तुहिनाचलस्य हिमाचलस्य चक्रवर्तिना नृपेण प्राभृतं प्रहितमेतत् ।
भीमायेति शेषः । मन्त्रा गीयन्तेऽस्यामिति मन्त्रगीतिः ॥ च ॥
जातेति ॥ जातयो नन्दयन्तीप्रभृतयः । वर्धमानान्यासारीतकानि पाणिकाः
सामानि ऋचः कलादिभेदा गीतविषया भरतशास्त्राद्गम्याः । मध्यमादयः सप्तस्व-
१ 'उपसृत्य'; 'पुरोऽपसृत्य'. २ 'तदेहि'. ३ 'तया च देव्या'. ४ 'सरसं गीत्यामपि'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
तेन च संवलितानि विजृम्भितुमारभन्त जम्भनिसुम्भनककुभि वि-
पिनंजरत्कृकवाकुकंधरारोमरोचींषि तमांसि ॥ क ॥
ततश्च नष्टचर्याक्रीडयेवादर्शनमायान्तीषु दिक्कन्यकासु, वनमुनि-
होमधूमगन्धेन संतर्प्यमाणासु वनदेवतासु, निद्रान्धसिन्धुरयूथेष्विवो-
न्नातवप्रस्थलीषु परिणमत्सु शनैस्तिमिरेषु, जाते मनागभिन्नाञ्जनपत्र-
स्तवकिते निशामुखे, नरपतिस्तेन किन्नरमिथुनेन सार्धमर्धपथायातप्र-
ज्वलितदीपिकापाणिपरिजनपरिकरितः शरणागतकपोतमुत्पतितोलूक-
कृतशब्दं शिविमिव शिविरसंनिवेशमविशत् ॥ ख ॥
तत्र च क्रमेण कृतकरणीयस्त्वरमाणपाचकवृन्दोपनीतमुत्पतत्पाक-
परिमलस्पृहणीयमत्युष्णमेदुरमांसोपदेशमाज्यप्राज्यमुपभुज्य पुष्करा-
क्षकिन्नरमिथुनाग्रजनैः सह मधुररससारमाहारम्, अनन्तरमाचान्तः
शुचिचन्दनोद्वर्त्तितकरः कर्पूरपारीपरिकरितताम्बूलोज्ज्वलवदनारविन्दः
'सुन्दरक, कमपि प्रस्तारय विद्याविनोदं त्वयापि विहंगवागुरिके,
गीयतां किमपि मधुरम्' इति मृदुमणिपर्यङ्किकासुखासीनः किन्नरमि-
थुनमादिदेश ॥ ग ॥
दर्शिते च वांशिकेन वंशमुखोत्तीर्णगान्धारपञ्चमरागस्थानके स्थिरीकृ-
तमध्यमश्रुतिप्रसन्नप्रेङ्खोलनाप्रयोगमुचितस्थानकृतकांस्यतालमकठो-
रतारस्वरम्, आकर्षन्निव हृदयम्, अभिषिञ्चन्दिवामृतेन श्रवणेन्द्रियम्,
अस्तं नयन्दिवान्यविषयसंधानम्, अनुच्चप्रपञ्चितपञ्चमं विपञ्चीस्वर-
संदर्भिंतमभूत्तत्किमपि गीतम् ॥ घ ॥
यत्र
प्रसरति रणरणकरसः कुण्ठयति हठेन चित्तमुत्कण्ठा ।
स्मरति स्मरोऽपि धनुषः प्रगुणीकृतनिशितवाणस्य ॥ ४३ ॥
एवंविधे च व्यतिकरे वैतालिकः पपाठ ॥
तेन चेति ॥ जम्भनिसुम्भन इन्द्रः ॥ क ॥
ततश्चेति ॥ नष्टचर्या शिशुक्क्रीडाविशेषः । निद्रान्ध्येत्यादौ परिणामः परिपाक-
स्तिर्यक्प्रहारदानं वा । निशासु हि कपोताः पारावताः शरणं नीडमागच्छन्ति,
उलूकाश्च घूका उड्डीयन्ते । उपमाने तु 'नारदकृतां शिविप्रशंसामसूयन्तौ कपोतो-
लूकरूपधारिणौ सुरौ सत्त्वं जिज्ञासमानौ शिविनुपमागतौ' इत्यागमः ॥ ख ॥
तत्र चेति ॥ कर्पूरस्य पारी शकलम् ॥ ग ॥
१ 'विपिनेति नास्ति'. २ 'पाचिकावृन्दारिकोप'. ३ 'दि'. ४ 'माहारमकरोद-
नन्तरं'; 'माहारमाहारयांचकार'. ५ 'संवेदनं'.
१८० नलचम्पूः ।
तव सुभग रम्यदशया तयैव रक्तान्तनेत्रमण्डनया ।
चीनांशुकयुगलिकया क्रियतामङ्गे परिष्वङ्गः ॥ ४० ॥
अयं च ।
उज्ज्वलसुवर्णपदकस्तस्याः संदेशकथनदूत इव ।
रुचिरमणिकर्णपूरः श्रयतु श्रवणान्तिकं भवतः ॥ ४१ ॥
किंचान्यत् ।
आनन्ददायिनस्ते कुण्डिननगरे कदा भविष्यन्ति ।
त्वन्मुखकमलविलोलनागरिकानयनषट्पदा दिवसाः ॥ ४२ ॥
एवमाविर्भावितप्रश्रयमुज्ज्वलितानुरागमुँ¹दीरितादरमो²प्यायितप्रणय-
मभिधाय स्थितवति किंनरे, नरेश्वरो दमयन्तीप्रहितप्राभृतानि स्वयमा-
दरेण गृहीत्वा, 'सुन्दरक, तस्याः संदेश एवास्माकं कर्णपूरः, परिकरोऽयं
मणिकर्णावतंसः । तस्याः सुगृहीतेन नाम्नैव वयं मुद्रिताः प्रपञ्चोऽय-
मङ्गुलिमुद्रालंकारः । तदनुरागेणैव वयमाच्छादिताः पुनरुक्तमाच्छाद-
नयुगलमपरं च युवां प्रेषयन्त्या तया किं न प्रहितमस्माकम्, किम-
न्यत्त्वत्तोऽपि प्रियं प्राभृतं भविष्यतीति । तदेहि शिविरमनुसरामः'
इत्यभिधाय बहु मानयं³न्किंनरमिथुनमतिचपलकपि⁴कुलान्दोलिततरुशि-
खराग्रगलित⁵शिलास्फालनस्फुटत्फलरससुगन्धिना स्रवत्कुसुममकरन्द-
द्रवार्द्रितपांसुपटलेन वर्त्मना निजावासमुदचलत् ॥ क ॥
उच्छलिते च पश्चिमाम्भोनिधिसलिलक्षालितपादपल्लवे वासार्थिनी-
वास्तगिरिगह्वरं विशति वियद्वीथीपान्थे विवस्वति, क्रमेण तस्यां दिशि
दिनकररथचक्रचङ्क्रमणचूर्णनोच्चलन्मन्दरगिरिगैरिकाधूलिपटलोल्लोल
इवोह्लास संध्यारागः ॥ ख ॥
तवेति ॥ दशा वस्त्रान्तसूत्रमवस्था च । नेत्रं चित्रवस्त्रविशेषोऽक्षि च ॥४०॥
उज्ज्वलेति ॥ उज्ज्वलं सुवर्णं पदं यस्य । पक्षे उज्ज्वलान्यग्राम्याणि शोभ-
नवर्णानि पदानि वचनानि यत्र ॥ ४१ ॥
एवमिति ॥ कर्णपूरोऽवतंसः कर्णयोः पूरणं च । मुद्रिता अपरस्त्रीनाम्नो दु-
ष्करप्रवेशा कृता ॥ क ॥
उच्छलित इति ॥ पान्थो हि सलिलेन चरणौ प्रक्षाल्य वासागारं प्रविश-
ति ॥ ख ॥
१ 'मुद्दीपितादर'. २ 'आप्यायितप्राण'. ३ 'मानयंश्च तत्किं'. ४ 'करा'. ५ 'गलि-
ततलशिला'.
पष्ठ उच्छ्वासः । १८१
तेन च संवलितानि विजृम्भितुमारभन्त जम्भनिसुम्भनककुभि वि-
पि॑नजरत्कृकवाकुकंधरारोमरोचींषि तमांसि ॥ क ॥
ततश्च नष्टचर्याक्रीडयेवादर्शनमायान्तीषु दिक्कन्यकासु, वनमुनि-
होमधूमगन्धेन संतर्प्यमाणासु वनदेवतासु, निद्रान्धसिन्धुरयूथेष्विवो-
न्नतवप्रस्थलीषु परिणमत्सु शनैस्तिमिरेषु, जाते मनाग्भिन्नाञ्जनपत्र-
स्तवकिते निशामुखे, नरपतिस्तेन किंनरमिथुनेन सार्धमर्धपथायतातप्र-
ज्वलितदीपिकापाणिपरिजनपरिकरितः शरणागतकपोतमुत्पतितोलूक-
कृतशब्दं शिविमिव शिविरसंनिवेशमविशत् ॥ ख ॥
तत्र च क्रमेण कृतकरणीयस्त्वरमाणपाचैकवृन्दोपनीतमुत्पतत्पाक-
परिमलस्पृहणीयमत्युष्णमेदुरमांसोपदेशमाज्यप्राज्यमुपभुज्य पुष्करा-
क्षकिंनरमिथुनाम्रैर्जनैः सह मधुररससारमाहारंम्, अनन्तरमाचान्तः
शुचिचन्दनोद्वर्तितकरः कर्पूरपारीपरिकरितताम्बूलोज्ज्वलवदनारविन्दः
'सुन्दरक, कमपि प्रस्तारय विद्याविनोदं त्वयापि विहंगवागुरिके,
गीयतां किमपि मधुरम्' इति मृदुमणिपर्यङ्किकासुखासीनः किंनरमि-
थुनमादिदेश ॥ ग ॥
दर्शिते च वांशिकेन वंशमुखोदीर्णगान्धारपञ्चमरागस्थानके स्थिरीकृ-
तमध्यमश्रुतिप्रसन्नप्रेङ्खोलनाप्रयोगमुचितस्थानकृतकांस्यतालमकठो-
रतारस्वरम्, आकर्षदिदव हृदयम्, अभिषिञ्चदिवामृतेन श्रवणेन्द्रियम्,
अस्तं नयदिवान्यविषयसंधा॑नम्, अनुच्चप्रपञ्चितपञ्चमं विपञ्चीस्वर-
संदम्भितमभूत्तत्किमपि गीतम् ॥ घ ॥
यत्र
प्रसरति रणरणकरसः कुण्ठयति हठेन चित्तमुत्कण्ठा ।
स्मरति स्मरोऽपि धनुषः प्रगुणीकृतनिशितवाणस्य ॥ ४३ ॥
एवंविधे च व्यतिकरे वैतालिकः पपाठ ॥
तेन चेति ॥ जम्भनिसुम्भन इन्द्रः ॥ क ॥
ततश्चेति ॥ नष्टचर्या शिशुक्क्रीडाविशेषः । निद्रान्धेत्यादौ परिणामः परिपाक-
स्तिर्यक्प्रहारदानं वा । निशासु हि कपोताः पारावताः शरणं नीडमागच्छन्ति,
उलूकाश्च घूका उड्डीयन्ते । उपमाने तु 'नारदकृतां शिबिप्रशंसामसूयन्तौ कपोतो-
ल्कूकरूपधारिणौ सुरौ सत्त्वं जिज्ञासमानौ शिबिनृपमागतौ' इत्यागमः ॥ ख ॥
तत्र चेति ॥ कर्पूरस्य पारी शकलम् ॥ ग ॥
१ 'विपिनेति नास्ति'. २ 'पाचिकावृन्दारिकोप'. ३ 'दि'. ४ 'माहारमकरोद-
नन्तरं'; 'माहारमाहारयांचकार'. ५ 'संवेदनं'.
१६
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
१८२ नलचम्पूः।
'सकलविषयवृत्तीर्मुद्रयन्निन्द्रियाणां
हृदि विदधदवस्थां कांचिदुन्मादिनीं च।
ध्वनिरनुगतवीणाक्विक्कणः कोमलोऽयं
जयति मदनबाणः पञ्चमः पञ्चमस्य ॥ ४४ ॥
अपिच।
प्रियविरहविषादस्यौषधं प्रोषितानां
विविधविधुरचिन्ताश्रान्तिविश्रान्तिहेतुः।
अयममृततरङ्गः कर्णयोः केन सृष्टो
मधुररसनिधानं निःस्वनः पञ्चमस्य ॥ ४५ ॥
अपिच।
अयं हि प्रथमो रागः समस्तजनरञ्जने।
यस्य नास्ति द्वितीयोऽपि स कथं पञ्चमोऽभवत्' ॥ ४६ ॥
इति विविधमुदञ्चत्पञ्चमोद्गारगर्भं
पठति मधुरकण्ठे धाम्नि वैतालिकेऽस्मिन्।
अपहरति च चित्तं किंनरद्वन्द्वगीते
सुखमय इव निद्रानिःस्पृहो लोक आसीत् ॥ ४७ ॥
एवमनवरतमारोहावरोहमूर्च्छनाभङ्गितरङ्गिते गीतामृतस्रोतसि नि-
मग्नमनसि कठोरितोत्कण्ठे रणरणकारम्भभाजि राजनि 'रजनि, किं
न विरमसि। दिवस, किं नाविर्भवसि । अध्वन्, किं न स्तोकत-
र्ब्रजसि। कुण्डिननगर, किं न नेदीयो भवसि। श्रम, किमन्तरायोऽसि।
विधे, किमुत्क्षिप्य न मां तत्र नयसि' इत्यनेकधा चिन्तयति स
किंनरयुवा प्रक्रमोचितश्लेषमिदमवादीत् ॥
सकलेति ॥ पञ्चमस्य रागस्य ध्वनिर्जयति। कथंभूतः। पञ्चमः पञ्चानां पू-
रणो मदनबाणः ॥ ४४ ॥
प्रियेति ॥ अत्र पञ्चमस्येत्याख्या। न तु पञ्चानां पूरणस्येति व्युत्पत्त्यर्थः ॥ ४५ ॥
अयमिति ॥ प्रथमः प्रधानभूत आद्यश्च । द्वितीयः समानो द्वयोः पूरणश्च ।
स कथं पञ्चानां च पूरणोऽथ च पञ्चम इति संज्ञा ॥ ४६ ॥
इतीति ॥ परब्रह्मालोकनसमयसमुल्लासितसान्द्रानन्दमय इव । रसस्य हि
तलं परब्रह्मास्वादसोदरलं पूर्वाचार्यैर्व्यवार्यत । सुखमय इव निद्रानिमीलित इवे-
त्युभयत्रापीवशब्दो योज्यः । अथवा सुखमयः सन्निद्रानिमीलित इवेतीवशब्धो
भिन्नक्रमे ॥ ४७ ॥
१ 'कृत'. २ 'स्य'. ३ 'मार्गे'. ४ 'यासि'. ५ 'असि'.
षष्ठ उच्छ्वासः । १८३
“वर्धमानोल्लसद्रागा सुजातिमृदुपाणिका ।
दमयन्ती च गीतिश्च कस्य नो हृदयंगमा ॥ ४८ ॥
अपिच ।
साप्यनेककलोपेता साप्यलंकारधारिणी ।
सापि हृद्यस्वरालापा किंत्वसाधारणा तव ॥ ४९ ॥
अपिच ।
संगीतका त्वदौत्सुक्यात्त्वां स्मरन्ती समूर्च्छना ।
किं तु तस्यास्त्वयि स्वामिँल्लयभङ्गो न दृश्यते' ॥ ५० ॥
एवमुक्तवति किंनरेश्वरे किमप्यलीककोपकुटिललोलद्भ्रूवलयावलि-
तकंधरमवलोक्य किंनरी वक्तुमारभत ॥ क ॥
'सुन्दरक, मा मैवं वादीः ॥ ख ॥
शुष्काङ्गी घनचार्श्वङ्ग्याः सुवाचः काकलीस्वरा ।
दमयन्त्याः कथं गीतिः सादृश्यमवगाहते ॥ ५१ ॥
वर्धमानेति ॥ वर्धमानो वर्धिष्णुः । न तु हीयमानः । उल्लसन् रागोऽनुरा-
गो यस्याम् । सुष्ठु शोभना क्षत्रियाख्या यस्याः । पाणिः करः ॥ पक्षे वर्धमाने
तालविशेषे उल्लसन् रागः श्रीरागादिर्यत्र । जातयो नन्दयन्तीप्रभृतयः । पाणयः
समपाण्यादयः ॥ ४८ ॥
सापीति ॥ कला विज्ञानकौशलम् । अलंकार आभरणम् । स्वरः शब्दः ।
आलापो मिथोभाषणम् । गीतिपक्षे 'पताकेनावकृष्टिश्च विरलाङ्गुलिना च या ।
आवाप इति विज्ञेया कलाविद्भिरस्तु सा कला' इत्यावापादयः सप्त कलाः । अलं-
कारा उपमारूपकादयः । स्वराः षड्जादयः सप्त । आलाप आलप्तिः । परं किं नु
दमयन्ती असाधारणा अनन्यविषयत्वादेकाश्रया । गीतिस्तु साधारणा स्वरसाधा-
रणा जातिसाधारणा चेति ॥ ४९ ॥
संगीतेति ॥ त्वय्यौत्सुक्यं त्वदौत्सुक्यं तस्माद्धेतोः । सम्यग् गीतं प्रख्याति-
रस्यानिति सर्वत्र त्वदुत्का गीयत इति भावः । तथा त्वां स्मरन्ती सह मूर्च्छनया
वर्तते इति समोहा ॥ गीतिस्तु संगतं गीतं स्वरगुणदूषणग्रामश्रुतियतिमूर्च्छनालक्षणं
यस्याम् । तथा 'स्वरः संसर्जितो यत्र रागत्त्वं प्रतिपद्यते । मूर्च्छनामिति तां प्राहु-
र्मुनयो ग्रामसंभवाम्' । सा चैकविंशतिविधा । यदुक्तम्-'सप्त स्वरास्त्रयो ग्रामा
मूर्च्छनास्त्वेकविंशतिः' इति । तथोक्तया सह समूर्च्छना । इत्येतावता दमयन्तीगी-
त्योः साम्यमुक्तम् । अधुना तु भेदं निरूपयति—किंत्विति ॥ लयस्तत्परता। द्रुत-
मध्यविलम्बितलक्षणश्च ॥ ५० ॥
शुष्केति ॥ शुष्कमवकृष्टमङ्गमवयवो यस्याः । कु ईषत् कलोऽस्यामिति (गीं-
१८४ नलचम्पूः ।
अपिच ।
गीतेर्ग्रामाः किल द्वित्राः सा तु ग्रामसहस्रभाक् ।
कूटतानघना गीतिः कथं तस्याः समा भवेत् ॥ ५२ ॥
किं१ चान्यत् ।
ज्वरितेव बहुलङ्घनप्रयोगप्रकाशितमूर्च्छना बहुलकम्पा च, उन्मत्तेव
बहुभाषा बहुताला च, वेश्येव बहुगा बहुष्ठरागा च, अटवीव
बहुककुभभेदा बहुलनिषादस्थानका च गीतिरियम् ॥ क ॥
तद्वरमिदमुच्यताम् ।
वेदविद्योपमा देवी मनोहरपदक्रमा ।
उद्योतिता पुराणाङ्गमन्त्रब्राह्मणशिक्षया ॥ ५३ ॥
रादित्वान्डीषि ) काकली निषादसंज्ञः स्वरो यस्याः । वैसादृश्यपक्षे शुष्कमनाद्रंम् ।
काकली श्लेष्मवैगुण्याद्द्विधाभूतः स्वरः ॥ ५१ ॥
गीतेरिति ॥ षड्जमध्यमगान्धाराख्यो ग्रामाः । गान्धारस्य स्वर्गविषयत्वान्ना-
वेवेति द्वित्राः । ग्रामः खेटकं च । कूटतानाः पञ्चत्रिंशत् । तैर्घना । दमयन्ती तु
न कपटविस्तारबहुला ॥ ५२ ॥
ज्वरित इत्यादि ॥ लङ्घनमुद्ग्राहितादधिकोच्चारणम् । पक्षे लङ्घनं शोषणम् ।
अनशनमिति यावत् । प्रयोगे उच्चारणे प्रकाशिता मूर्च्छना उत्तरमन्द्रादिका यस्या-
म् । पक्षे प्रकृष्टा योगाः क्वाथादयः । मूर्च्छना मोहः । कम्पोऽङ्गकृतं स्वरकृतं च
चलनम् । उन्मत्तेति ॥ भैरवीप्रभृतयः षट्त्रिंशद्भाषाः । तालश्चञ्चत्पुटादिः ।
उन्मत्ता तु बहु भाषते तालिकाश्च दत्ते । वेश्येवेति ॥ रागः श्रीरागादिः । तथा
बहुलष्ठकनामा रागो यस्याम् । वेश्या तु बहुषु रागोऽस्या इति वहासक्तिः । प्रभू-
तठकरागामिनी च । ठक्शब्दोपलक्षिता क्रीडया कराहतिः ठक्करा । गमेः प्राप्य-
र्थाड्डः । अटवीति ॥ ककुभो ध्वनिविशेषः । निषादः स्वरविशेषः । स्थानकं म-
न्द्रमध्यमतारलक्षणम् । अटवीपक्षे ककुभोऽर्जुनवृक्षः । निषादाः शवराः । स्थान-
कान्याळवालाः शिविरसंनिवेशश्च । एवं ज्वरिताद्युपमानप्रतिपादितदोषा गीतिः क-
थंकारमिव दमयन्तीसमा ॥ क ॥
वेदेति ॥ पदक्रमः पदन्यासः । पुराणं जीर्णं वपुर्येषाम् । तथा मन्त्रप्रधान-
ब्राह्मणानां पुरोधःप्रभृतीनां च शिक्षयोपदेशेनोद्द्योतिता । वेदविद्या तु पदक्रमा-
भ्यामभिधीयते । पुराणानां मार्कण्डेयादीनाम् । अङ्गानां शिक्षाकल्पादीनाम् । म-
न्त्रब्राह्मणस्य ग्रन्थविशेषस्य शिक्षयाभ्यासेन भूष्यते । अन्तःपुरे हि वृद्धा एवाधि-
क्रियन्ते । यदुक्तम्—'आशीतिकाश्च पुरुषाः पञ्चाशतकाश्च योषितः । युज्येरन्नव-
रोधानां शौचमागारिकाश्च ये' ॥ ५३ ॥
१ 'किं बहुना' ।
षष्ठ उच्छ्वासः । १८५
'किं त्वियमेकपथा, सा तु दृष्टशतपथा' इत्येवमनेकविधवक्रोक्तिवि-
शेषैरभिनन्दयति दमयन्तीकिंनरमिथुने, भूतभूयिष्ठायां विभावर्याम्,
सुरसङ्घ इवादृश्यमानमानुषे निशीथे, स्थगितवति भृङ्गभासि तमसि
भुवनम्, अनन्तरमवसरपाठकः पपाठ ॥ क ॥
'उपरम रमणीयात्किंनरद्वन्द्वगीता-
दभिभवति निशीथो नाथ नेत्राणि पश्य ।
मदनवशविलोलोल्लोचनाम्भोरुहाणां
मिलतु कुलवधूनां सेवको लोक एषः ॥ ५४ ॥
अपिच ।
शतगुणपरिपाट्या पर्यटन्नन्तराले
कमलकुवलयानामर्धरात्रेऽपि खिन्नः ।
उपनदि दयितायाः क्वापि शब्दं निशम्य
भ्रमति पुलिनपृष्ठे चक्रवच्चक्रवाकः ॥ ५५ ॥'
अथ यथाप्रियं प्रैषितपरिज्नो राजा रजनिशेषमतिवाहयितुमनुरूपं
निरूप्य किंनरमिथुनस्य शयनमासन्नैनिद्रागृहे हंसपिच्छच्छायाच्छप्र-
च्छदपटच्छादितहंसतूलैतलपमभजत् ॥ ख ॥
तत्र च दमयन्त्यनुरक्तोऽयमितीर्ष्ययेवानायान्त्यां निद्रायां द्रोणीद्रु-
मान्तरालसुप्रोत्थितविविधविहंगविरुतानि विनिद्रवनदेवतापठ्यमान-
प्राभातिकपुण्यकीर्तनानीवाकर्णयन्नेककालप्रणालिकापर्यायेण पर्यस्ते-
ऽस्तगिरिमस्तके मुक्तास्तबकितनीलवितानपट इव तारातिमिरपटले,
पट्टांशुकवैजयन्तीष्विव र्भविष्यति दिनकरोद्योत्सवे नभस्तलमलंकुर्व-
किंत्वियमिति ॥ इयं दमयन्ती एकमार्गा । वेदविद्या तु दृष्टशतपथाख्यग्र-
न्था । भूयिष्ठं भूता अतिक्रान्ता, भूतभूयिष्ठा । आहिताग्न्यादित्वात् । निशीथे तमो-
ऽतिशयान्मानुषादर्शनम् । सुराणां समूहे च स्वभावात् ॥ क ॥
तत्रेति ॥ द्रोण्यां द्रुमास्तेषामन्तरालं द्रोणीद्रुमान्तरालम् । मध्ये निम्नः प्रान्त-
योश्चोन्नतस्तरुराजिविराजितो नौसदृशः पर्वतादिभूभागो द्रोणी । यदाह मुकुटताडि-
तकनाटके बाणः—'आशाः प्रोषितदिग्गजा इव गुहाः प्रध्वस्तसिंहा इव द्रोण्यः
कृत्तमहाद्रुमा इव भुवः प्रोत्खातशैला इव । बिभ्राणाः क्षयकालरिक्तसकलत्रैलो-
क्यकष्टां दशां जाताः क्षीणमहारथाः कुरुपतेर्देवस्य शून्याः सभाः' ॥ यया प्रणा-
लिकया काल इयानिति ज्ञायते, सा कालप्रणालिका ताम्रमयघटिका । अथवा प्र-
१ 'निशीथे'. २ 'प्यखिन्नः'. ३ 'कोऽपि'. ४ 'ग्रोपित'. ५ 'आसन्नं निद्रा'.
६ 'पटघटिकाच्छादि'. ७ 'तूलतल्पतलममजत्'. ८ 'भविष्यद्दिनकरोत्सवे'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
१८६ नलचम्पूः ।
तीषु पूर्वस्यां दिशि प्रभातप्रभावल्लरीषु, वल्लकीक्वाणरमणीये श्रयति श्र-
वणपथमीषदन्मिषत्कमलमुकुलमुखमुक्तमधुकरैर्मन्द्रध्वनौ, ध्वस्तनिद्रे-
ण प्रभातोचितेष्वङ्गानुविद्धशुद्धभाषामल्पतानेन किन्नरमिथुनेन गीय-
मानमिमं श्लोकमशृणोत् ॥ क ॥
‘धुतरजनिविरामोन्मीलदम्भोजराजि-
स्तनुतुहिनतुषारानुद्गिरन्गन्धवाहः ।
कलितकलभकुम्भभ्रान्तिषूद्घाटितेषु
स्खलति निधुवनान्तश्रान्तकान्ताकुचेषु ॥ ५६ ॥’
तदनु पुनः प्रभातप्रहतप्रयाणभेरीरवविनिद्रितस्यापूरयतः समवि-
षमवनविभागानुत्कल्लोलजलनिधेरिव चलतः सैन्यसमूहस्य कलकल-
माकर्णयन्नुत्थाय कृतोचिताचारश्चारुचर्चितचन्द्रचूडचरणश्चटुलखुर-
चारीप्रचारेणाडम्बरितताण्डवस्य खण्डपरशोः पदलीलामिवाभ्यस्यता
स्फुरद्धुरघुरायमाणघोणाग्रस्खलत्खलीनवशविगलितबहललालालवले-
पेन वनभुवि फेनिलजलनिधिमिवाकारयता जात्यतरङ्गसैन्येन परि-
वृतः पूर्वप्रस्थानस्थित्या प्रतस्थे ॥ ख ॥
स्थपुटस्थलीस्थितं स्थूलमेकमव्यग्रमग्रे राजा गजग्रामण्यमवलोक्य
पुष्कराक्षमभाषत ॥ ग ॥
‘भद्र
सालानकमनालानमत्युन्नतमनुन्नतम् ।
दन्तवन्तमदन्तं च पश्यैनमगजं गजम् ॥ ५७ ॥
कृष्टा नाडिकैव डलयोरैक्ये प्रणालिका। नाडिका कालविशेषः । तथाच ‘अहो-
रात्रं च विद्वद्भिः कथ्यते षष्टिनाडिकम्’ । यथाच—‘ज्ञात्वा तिष्ठति कुन्तलेश्वरसुता
वारोऽङ्गराजस्रखुर्यूते रात्रिरियं जिता कमलया देवी प्रसाद्याय च । इत्यन्तःपुर-
सुन्दरीःप्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडि-
काः ।’ अन्यदपि प्रणालिकया जलपद्धत्या परिक्षिप्यते । ताराणां मुक्ताः, तिमिर-
पटलस्य नीलवितानपट उपमा ॥ क ॥
सालेति ॥ अलीनां समूह आलं तदेव प्रत्यायकत्वात्पटहस्तेन सह । मदवि-
धुरगजे भृङ्गाः समीपीभवन्ति । तेन च मत्तो ज्ञायत इति भावः । तथा अनालानं
वन्यत्वान्निर्गलस्तम्भम् । तथातीवोन्नतमुच्चम् । तथा नास्ति उन्नता प्रेरणास्येति
स्वच्छन्दचरमित्यर्थः । यद्वा अनुन्नेत्यामन्त्रणम् । तमिति गजविशेषणम् । दन्त-
१ 'मधुकरमधुरमन्द्रध्वना'. २ 'चित्तभिन्नषड्जानुबद्धमुग्धभाषाविद्धविशुद्ध'. ३ 'तेन'.
४ 'चारुचर्चिचित'. ५ 'जलाप्लवेन'. ६ 'नास्ति'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
षष्ठ उच्छ्वासः । १८७
अयं हि मन्मथविलासेषु परं वैदग्ध्यमवलम्बते ।
तथाहि ।
मृदुकरपरिरम्भारम्भरोमाञ्चितायाः
सरसकिसलयाग्रग्रासशेषार्पणेन ।
मदमुकुलितचक्षुश्चाटुकारी करीन्द्रः
शिथिलयति रिरंसुः केलिकोपं प्रियायाः ॥ ५८ ॥
अपिच ।
उपनयति करे करेणुकायाः किसलयभङ्गमनङ्गसंगताङ्गः ।
स्पृशति च चलदक्षिपक्ष्मलेखं मुखमखरेण करेण रेणुदिग्धम् ॥ ५९ ॥
अथवा विवेकपूर्वव्यवहारविचारेष्वमी मानुषेभ्यः स्तोकमेवावही-
यन्ते ॥ क ॥
तथाहि ।
श्रूयते पुरा किल नारायणनाभ्यम्भोरुहकुहरकुटीमधिशयानस्य
वेदविद्यां निगदतो भगवतः पितामहस्य बृहद्रथन्तरविकीर्णभासना-
मानि सामानि गायतः सामस्तोभरसनिष्यन्दादुदपद्यन्तैरावतसुप्रती-
ककुमुदवामनाञ्जनप्रभृतयोऽष्टौ दिग्गजेंद्राः ॥ ख ॥
तेभ्योऽभवन्भद्रमन्द्रमृगसंकीर्णजातयो गिरिचरनदीचरोभयचारि-
णः करिणः ॥ ग ॥
प्रसिद्धं चैतत् । ‘सामजा गजाः’ इति ॥ घ ॥
केचित्पुनरन्यथा कथयन्ति
किल सकलसुरासुरकरपरिवर्त्यमानमन्दरमन्थानमथितदुग्धाम्भो-
निधेरजनि जनितजगद्विस्मयो लक्ष्मीमृगाङ्कसुराभिसुरद्रुमधन्वन्तरि-
कौस्तुभोच्चैःश्रवसां सहभूः शशधरकरकान्तिरैरावतः । तत्प्रसूतिरिय-
मशेषवनान्यलंकरोतीति ॥ ङ ॥
दन्तं दन्तुरम् । अदन्तं तृणादिकमश्नन्तम् । अगजं गिरिजं गजं पश्येति संब-
न्धः । अथवा सालांस्तरूनदन्तम् । तथा अकमकुत्सितम् । सर्वलक्षणपरिपूर्णम् ।
तच्च ‘उच्चैः कुम्भः–’ इत्यादिना वक्ष्यति । अत्र ‘किम्’ क्षेपे । शेषं पूर्ववत् ॥ ५७ ॥
श्रूयत इति ॥ सामस्तोभरसनिष्यन्दादिति । सामनि स्तोम आसक्तिस्तस्मा-
द्रसस्य खेदस्य निष्यन्दः स्रावस्तत इत्यर्थः । स्तोकरसपाठे तु रस आसक्तिः । नि-
ष्यन्दः खेदः ॥ ख ॥
१ ‘मनुष्येभ्यः’. २ ‘कुटीर’. ३ ‘सुरभिसुरद्रुमधन्वन्तरिकौस्तुभोच्चैःश्रवःशशधरल-
क्ष्मीसहोदर ऐरावतः’. ४ ‘करोति’.
१८८ नलचम्पूः ।
तदेष भद्रजातिर्भविष्यति ।
तथाहि ।
उच्चैःकुम्भः कपिशदशनो बन्धुरस्कन्धसंधिः
स्निग्धाताम्रद्युतिनखमणिर्लम्बवृत्तोरुहस्तः ।
शूरः सप्तच्छदपरिमलस्पर्धिदानोदकोऽयं
भद्रः सान्द्रद्रुमगिरिसरित्तीरचारी करीन्द्रः ॥ ६० ॥
तन्मोदतामयम्, अनुरागिणोर्दम्पत्योः क्रीडारसविघातः कृतो न
श्रेयान्' इत्यभिधाय, हृतहृदयः, स्वैरं रममाणमृगमिथुनविलासैरुल्ला-
सितपुलकः कुसुमितकाननानिलैरुत्कम्प्यमानः, झरन्निर्झरोपान्तपाद-
पतलचलत्केलिकिलकेकिफेकारवैर्विनोद्यमानः समीपचरसेवकसुभा-
षितैश्च, सममसमं च, निम्नगात्रमनिम्नगात्रं च, ग्रावविषममग्राववि-
षमं च, सश्रापदमश्वापदं च, सपादपमपादपं च, विन्ध्यस्कन्धमुल्लङ्घय,
'देव, विलोक्यतामिह विषमविषाणि पन्नगकुलानि द्रोणीगहनं च, इह
शरासनकरम्बाणि वनानि पार्वार्द्धकपुलिन्दवृन्दं च, इह बहुसुखानि
शवरद्वन्द्वानि रत्नाकरस्थलं च, इह सुमधुराणि फलानि कीचकवनं
तदिति ॥ उच्चैः कुम्भ इत्याद्यभिधाय तेनैव करिणा हृतहृदयो मृगमिथुन-
विलासादिभिः पुलकाद्युपेत ईदृशं विन्ध्यमतिक्रम्य 'देव, वीक्ष्यताम् इह विन्ध्य-
स्कन्धे इदमिदमिति वनप्रदेशान्दर्शयतः पुष्कराक्षस्य वक्रोक्तीर्भावयन्नतिक्रान्तशि-
खरपरम्परः सह्यमयात् । केलये किलतीति केलिकिलः ( 'इगुपध' इति कः ) क्री-
डापात्रम् । केलिकिलानां केकानुकारप्रवृत्तानां केकिनां च केकारवैर्विनोद्यमानः ।
सह मया श्रिया समं सश्रीकम् । असमं विषमम् । न समोऽस्येति कृत्वा उत्कृष्टं
वा । निम्नगा नदीन्नायत इति कः । तथा अनिम्रमुच्चं गात्रं मूर्तिर्यस्य । ग्रावभिर्ह्र-
षद्भिर्विषमम् । अग्रे अवविषमं समम् । अवेति नञर्थे । श्वापदं हिंस्रपशुः । अश्वा-
नामपदमभूमिम् । समनिर्जलो हि देशोऽश्वीयः । अयं च ग्रावविषमो निम्नगाधा-
रश्च । सह पादपैर्वृक्षैः । तथा अपादान् गूढपदः पातीत्यपादपम् । शून्ये हि सर्पा-
दिप्राचुर्यम् । अथवा अतिवैषम्यातसंचरतां पादान् न पातीत्यपादपम् । इह विषे-
ति ॥ विषमं विषं येषु पन्नगकुलेषु । द्रोणीगहनेषु तु विषमा विषाणिनो दन्तिनः
शृङ्गिणो वा शम्बरादयो यत्र । इह शरेति ॥ शरेण मुञ्जेन असनेन बीजकवृक्षेण
च करम्बाणि शबलानि । पुलिन्दवृन्दं तु शरासनं धनुः करे यस्य । तथा बाणाः
सन्त्यस्येति बाणि सशरम् । इह वेति ॥ बहु सुखं येषां तानि बहुसुखानि ।
स्थलं तु बहु विपुलम् । तथा सुष्ठु खानिराकरो यत्र । बहुशब्दो वैपुल्येऽपि ।
इह सुमेति ॥ सुष्ठु मधुराणि । वनं तु सुष्ठु मधु यत्र तत्सुमधु । तथा रणन्त्य-
१ 'तत्सोच्यतामयम्'. २ 'हृष्टहृदयः', 'ह्रतहृदयः'. ३ 'रममाणपामरमिथुन'.
४ 'उल्लासित'. ५ 'केकिफेकारवैः'. ६ 'सेवित'. ७ 'ग्रावविषममप्यग्राव'.
षष्ठ उच्छ्वासः । १८९
च, इहामोदितविश्वककुम्भि कुसुमानि सरित्तीरं च, इह सत्प्रभाव-
न्ध्यानि दवदग्धारण्यानि मुनिमण्डलं च' इति विविधवनप्रदेशान्दर्श-
यतः पुष्कराक्षस्य विचित्रवचनोक्तीर्भावयन् क्रमेणातिक्रम्य शिखरपर-
म्परां परैरसह्यः सह्याचलमवततार ॥ क ॥
रमणीयतया स्निग्धतया च पुनः परिवर्तितमुखो विलोक्य विन्ध्य-
दक्षिणमेखलाशिखरश्रेणीपादपान् पुष्कराक्षमभाषत ॥ ख ॥
'भद्र, दुस्त्यजाः खल्वमी विन्ध्यतटीतरवः ॥ ग ॥
तथाहि ।
आवासाः कुसुमायुधस्य शवरीसङ्केतलीलागृहाः
पुष्पामोदमिलन्मधुव्रतवधूझङ्काररुद्धाध्वगाः ।
सुस्निग्धाः प्रियबान्धवा इव दृशो दूरीभवन्तश्चिरा-
त्कस्यैते न दहन्ति हन्त हृदयं विन्ध्याचलस्य द्रुमाः ॥६१॥
अपिच ।
भ्राम्यद्भृङ्गभरावनम्रकुसुमश्योतन्मधूद्रन्धिषु
च्छायावत्सु तलेषु पान्थनिचया विश्रम्य गेहेष्विव ।
निर्यन्निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलै-
स्ते नन्दन्तु फलन्तु यान्तु च परामभ्युन्नतिं पादपाः ॥६२॥
अपिच ।
यत्र न फलितास्तरवो विकँसितसरसीरुहाः सरस्यो वा ।
न च सज्जनाः सदेशो गच्छतु निधनं श्मशानसमः ॥ ६३ ॥
वश्यं राणि । सच्छिद्रा हि वंशा वायुवशाद्रणन्तीति । इहामविति ॥ आमोदिताः
सुरभिता विश्वाः सर्वाः ककुभो दिशो यैः । तीरं तु आमोदिता हर्षिता वयः पक्षि-
णः श्वाः शुनः संज्ञा वृकाः कुम्भिनश्च गजा यत्र । आमोदो हर्षेऽपि । यद्विश्व-
प्रकाशः-‘आमोदो गन्धहर्षयोः' । यदा तु विश्वा शुण्ठी कुम्भीच वल्लीविशे-
षः । तदा बहुव्रीहौ 'शेषात्-' इति कब्दुर्वारः । सादृश्यवृत्तेः शुनः । संज्ञाप्रति-
कृत्वोः कन् । इह सेति ॥ सती शोभना प्रभा कान्तिस्तया वन्ध्यानि रहितान्यर-
ण्यानि मुनिमण्डलं तु सत्प्रभावम् । तथाध्यानमस्यास्तीति ध्यानि ॥ क ॥
यत्र नेति ॥ देशश्मशानयोः समतायामरतिजनकत्वं हेतुः ॥ ६३ ॥
१ 'परंपराः'.. २ 'पुनःपुनः'.. ३ 'श्रोणी'.. ४ 'हु'; 'क्के'.. ५ 'सुस्निग्धप्रिय'.
६ 'छायावद्वतलेषु'. ७ 'विकासिसरसी'.
१९० नलचम्पूः ।
तत्कथय कदा पुनरिमां विन्ध्यवनवीथीं विचित्रपत्रलकुचां दमय-
न्तीमिव निर्वृत्तिमवलोकयिष्यामः ॥ क ॥
तथाहि ।
पीनोन्नमद्घनपयोधरभारभुग्न-
मध्यप्रदेशरुचिमल्लवलीलतायाः ।
उत्कण्ठितोऽस्मि चलदेणदृशः प्रियाया-
स्तस्याश्च पर्वतभुवो वनवीथिकायाः ॥ ६४ ॥
अपिच ।
सानूनां सानूनां विलोक्य रमणीयतां चै सानूनाम् ।
सालवने सालवने विहरिष्यति सह मयाऽत्र कदा ॥ ६५ ॥
सखे सखेदा इव वयम्, तत्कथय कियददूरेऽद्यापि स विदर्भविषयः,
यत्र ब्रह्माण्डशुक्तिसंपुटमध्यमुक्ताफलगुलिकया तयालंकृतं तत्कुण्डिनं
नगरम्' इत्यभिधाने निषधनाथे तैस्तैरालापैरनुवर्तितोक्तिः पुष्करा-
ऽक्षोप्यभाषत ॥ ख ॥
'देव, प्राप्ता ननु वयम् ॥ ग ॥
इदं हि ।
वीरपुरुषं तदेतद्वरदातटनामकं महाराष्ट्रम् ।
दक्षिणसरस्वती सा वहति विदर्भा नदी यत्र ॥ ६६ ॥
तत्कथेति ॥ विचित्रपत्रा लकुचास्तरवो यस्याम् । दमयन्ती तु विविधपत्र-
वल्लीयुक्तस्तनी । पत्रं लात इति के पत्रलै ॥ क ॥
पीनोन्नेति ॥ कठिनस्तनभरेण भुग्ने नम्रे उदरे रुचिं मल्लन्ते धारयन्ति
इत्यणि तथोक्ता वल्य एव लता यस्याः । वली उदररेखा । तथा चलतामेणाना-
मिव दृशौ यस्याः । वनवीथीपक्षे पयोधरो मेघः । रुचिमती तेजस्विनी लवली-
नाम्नी लता । तथा चलदेणानां दृक् दर्शनं यस्याम् ॥ ६४ ॥
सानूनामिति ॥ सानूनां तटानां संबन्धिनो ये सानवो मार्गास्तेषां रमणीय-
तामनूनां परिपूर्णां विलोक्य अलवनेन सह यत् सालानां सर्जतरूणां वनं तस्मि-
न्मया समं कदा सा विहरिष्यति । अत्र प्राच्यः सानुशब्दस्तटार्थोऽन्यश्चाध्वार्थः ।
यद्विश्वः-'सानुः शृङ्गे बुधे मार्गे पद्यायां पल्लवे वने' । यदि वा 'णू स्तवने' आन-
वनमानूः प्रशंसा तया सह वर्तन्त इति सानूनि तेषां स्तुत्यानामित्यर्थः ॥ ६५ ॥
सखे इति ॥ ब्रह्माण्डमेव शुक्तिसंपुटः । सा च तन्मध्ये मुक्ताफलगुलिका
साधुमुक्ताफलम् गुलिकाकारत्वात् । एतावता स्थूलवृत्तत्वम् ॥ ख ॥
१ 'दमयन्ति च'. २ 'हि'. ३ 'वैदर्भ'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA