नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १५९
वाचं तदीयां परिपीय मृद्वीं मृद्वीकया तुल्यरसां स हंसः ।
तत्याज तोषं परपुष्टघुष्टे घृणाञ्च वीणाक्वणिते वितेने ॥६०॥
वाचमिति । स हंसः मृद्वीकया=द्राक्षया । 'मृद्वीका गोस्तनी द्राक्षा'इत्यमरः ।
तुल्यरसां = समानस्वादां, मधुरार्थामित्यर्थः । मृद्वीं = मधुराक्षरां, तदीयां वाचं
परिपीय = अत्यादरादाकर्ण्य, परपुष्टघुष्टे = कोकिलकूजिते तोषं = प्रीतिं तत्याज ।
वीणाक्वणिते च घृणां=जुगुप्साम् । 'घृणा जुगुप्सा-कृपयोः' इति विश्वः । वितेने ॥
दमयन्ती की—अंगूर के समान मीठी रसदार ( माधुर्य रस से परिपूर्ण )—
कोमल वाणी का सादर पान करके, उस हंस को कोयल की ( मीठी ) कूक का
आनन्द जाता रहा और वीणा की कुन-कुन की ( मधुर तथा सुरीली ) आवाज़
से भी घृणा हो गयी ( अर्थात् वीणा की झङ्कार तथा कोयल की बोली से भी बढ़
कर, दमयन्ती की वाणी तथा कण्ठध्वनि में मधुरता थी ) ॥६०॥
मन्दाक्ष-मन्दाक्षर-मुद्रमुक्तवा तस्यां समाकुञ्चितवाचि हंसः ।
तच्छंसिते किञ्चन संशयालुर्गीरा मुखाम्भोजमयं युयोज ॥६१॥
मन्दाक्षमिति । तस्यां = भैम्यां, [ मन्दाक्ष-मन्दाक्षर-मुद्रं ] मन्दाक्षेण
हिया, मन्दा सन्दिग्धार्था, अक्षरमुद्रा द्विजराजपाणिग्रहेत्याद्यक्षरविन्यासो यस्मिन्
तत्तथोक्तम् उक्त्वा समाकुञ्चितवाचि = नियमितवचनायां सत्याम् अयं हंसः,
तच्छंसिते = भैमीभाषिते किञ्चन = किञ्चित् संशयालुः = सन्दिहानः सन् ।
'स्पृहिगृहि' इत्यादिना आलुच् प्रत्ययः । मुखाम्भोज = मुखकमलं, गिरा युयोज
=मुखेन गिरमुवाचेत्यर्थः ॥६१॥
दमयन्ती के--लज्जा के कारण अल्प अक्षर ( 'द्विजराज-पाणि-ग्रहाभिलाषं०' )
के विन्यास से—वैसा ( 'मन जिसे चाहता है' ) कहकर 'वाणी' के मौन धारण
कर लेने पर, वह हंस, उसकी कही हुई ( 'मन जिसे चाहता है'—इस ) बात
पर, कुछ संशयालु हुआ ( कि वह नल को चाहती है क्या ? ) । तब इस संशय
को निवारण करने के लिए ) आगे कही जानेवाली 'वाणी' के साथ, उसने अपने
मुख-'कमल' का, संयोग कराया ( अर्थात् प्रश्न किया ) ॥ ६१ ॥
करेण वाञ्छेव विधुं विधातुं यमित्थमात्थादरिणी तमर्थम् ।
पातुं श्रुतिभ्यामपि नाधिकुर्वे वर्णं श्रुतेर्वर्ण इवान्तिमः किम् ॥६२॥
करेणेति । हे भैमि !, करेण विधुं = चन्द्रं, विधातुं = ग्रहीतुं, वाञ्छा इव
४. नल-दमयन्ती विवाह व कलि पराभव (सर्ग १५-२२)
यमर्थम्, ईदृशं = द्विजराजपाणिग्रहणाभिलाषसदृशम्, सादरिणी = आदरवती सती
आत्थ = ब्रवीषि । 'ब्रुवः पञ्चानाम्' इति ब्रुवो लटि सिपि थलादेशः । ब्रुवश्था-
देशः । 'आहस्थः' इति हकारस्य थकारः । तमर्थम् । अन्ते भवोऽन्तिमो वर्णः =
शूद्रः । 'अन्ताच्चेति वक्तव्यम्' इति इमच् । श्रुतेर्वर्णं = वेदाक्षरम् इव, श्रुतिभ्यां
= श्रोत्राभ्यां पातुं = श्रोतुमपीत्यर्थः । नाधिकुर्वे=नाधिकार्यस्मि किं ? = अस्म्ये-
वेत्यर्थः । अतः सोऽर्थो वक्तव्य इति तात्पर्यम् ॥६२॥
बोलने के लिए, मेरे आग्रह करने पर, आपने जो द्विज-राज को पाणि से
ग्रहण करने की वाञ्छा के समान' इस प्रकार वाक्य कहा, उस विषय को श्रुति
( कानों ) से सादर पान करने ( स्पष्ट सुनने ) का क्या मैं उस प्रकार अधिकारी
नहीं हूँ ?; जैसे अन्तिम वर्ण ( शूद्र ) श्रुति ( वेद ) के वर्ण ( अक्षर ) को सुनने
का अधिकारी नहीं होता ( अर्थात् श्लेषमयी साहित्यिक भाषा का प्रयोग न करके,
सर्वसाधारण की समझ में आने वाला सरलार्थ बताइए ) ॥६२॥
अर्थाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि वर्त्तते यः ।
यत्रान्धकारः खलु चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥६३॥
ननु तमर्थमत्यन्तदुर्लभत्वाद्वक्तुं जिह्मेमीत्याशङ्क्याह—अर्थाप्यत इति । हे
भैमि ! भवत्या किंवा, इयत् = एतावद्यथा तथा अर्थाप्यते । किमर्थम् अय-
मर्थो द्विजराजपाणिग्रहवदतिदुर्लभत्वेनाख्यायत इत्यर्थः । अर्थशब्दात्तदाचष्टे इत्यर्थे
णिच् 'अर्थवेदसत्यानामापुग्वक्तव्यः' इत्यापुगागमः । कुतस्तथा नाख्येय इत्यत
आह—योऽर्थः एकः पादो यस्यामित्येकपदी, एकपादसञ्चारयोग्यमार्गः । 'वर्त्त्येक-
पदीति च' इत्यमरः । 'कुम्भपदीषु च' इति निपातनात् साधुः । चित्तैकपद्यां =
मनोमार्गेऽपि वर्तते । चक्षुराद्यविषयत्वेऽपीत्यपिशब्दार्थः । स कथं दुर्लभ इति भावः ।
तथा हि, यत्र=यस्मिन् ब्रह्मणि विषये चेतसोऽप्यन्धकारः प्रतिबन्धः किल तद् ब्रह्म
जिह्मेतरैः = अकुटिलैः, कुशलधीभिरिति यावत् । अवाप्यं = सुप्रापं । अमनोगम्यं
ब्रह्मापि कैश्चिद्गम्यते, किमुत मनोगतोऽयमर्थः । अत एवार्थापत्तिरलंकारः । कैमुत्ये-
नार्थान्तरापतनमर्थापत्तिरिति वचनात् ॥ ६३ ॥
जो मनोरथ आपके चित्त-पथ पर दौड़ रहा है, उसे आप ( 'मनस्तु यं
नोज्झति' कहकर ) क्यों अर्थ ( धन ) के समान गुप्त रख रही हैं ? जिस ( ब्रह्म )
के बारे में ऐसा ( श्रुति प्रोक्त ) सुना गया है कि 'वह मन के विषय से परे है'—
[यः सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १६१
वह भी तो उद्योगी पुरुषों द्वारा ( योगाभ्यास से ) सुलभ हो जाता है ( तब भला,
आपका मनोरथ प्रयत्न करने से क्यों न पूरा होगा ? ) ॥ ६३ ॥
ईशाणिमैश्वर्य-विवर्त-मध्ये ! लोकेश-लोकेशय-लोक-मध्ये ।
तिर्यञ्चमप्यञ्च मृषानभिज्ञ-रसज्ञतोपज्ञ-समज्ञमज्ञम् ॥ ६४ ॥
अथ मयि मृषावादित्वशङ्कया वक्तुं सङ्कोचस्तच्च न शङ्कितव्यमित्याह—
ईशेत्यादिना त्रयेण । [ ईशाणिमैश्वर्य-विवर्त-मध्ये ! ] ईशस्य यदणि-
मैश्वर्यं, तस्य विवर्त्तो रूपान्तरं मध्यो यस्याः सा तथोक्ते । हे कृशोदरीत्यर्थः ।
[ लोकेश-लोकेशय-लोकमध्ये ] लोकेशलोके शेरत इति लोकेशलोकेशयाः ब्रह्म-
लोकवासिनः । 'अधिकरणे शेतेः' इत्यच्प्रत्ययः । 'शयवासवासिष्वकालात्' इत्यलुक् ।
तेषां लोकानां जनानां मध्ये अज्ञं=मूर्ढं, तिर्यञ्च = पक्षिणमपि, मामिति शेषः ।
[ मृषानभिज्ञ-रसज्ञतोपज्ञ-समज्ञं ] मृषा अनृतं, तस्य अनभिज्ञा रसज्ञा रसना,
यस्य तस्य भावस्तत्ता, सत्यवादित्यर्थः । उपजायत इति उपज्ञा, आदावुपज्ञाता ।
'उपज्ञा ज्ञानमाद्यं स्यात्' इत्यमरः । 'आतश्चोपसर्गे' इत्यङ्प्रत्ययः । बहुलग्रहणात्
कर्मार्थत्वम् । तथात्वेन ज्ञातं तदुपशं, 'उपज्ञोपक्रमं तदाद्याचिख्यासायाम्' इति
नपुंसकत्वं, समं साधारणं, सर्वैरज्ञायत इति समज्ञा कीर्तिः । तदुपज्ञं तथात्वेनादौ
ज्ञाता समज्ञा कीर्तिर्येन तं, तथोक्तं मां अञ्च = सत्यवादिनं विद्धीत्यर्थः । अञ्चतेर्ग-
त्यर्थत्वात् ज्ञानार्थत्वम् ॥६४॥
हे महेश के ( अणिमा-लघिमा आदि ८ प्रकार के ) ऐश्वर्यों में पहली अणिमा
के विवर्त के समान सूक्ष्म मध्यभाग वाली (अर्थात् हे पतली कमर वाली) ! लोकेश
ब्रह्मा के लोक ( ब्रह्माण्ड ) में रहने वाले लोगों में यद्यपि मैं केवल मूर्ख पक्षी हूँ;
तथापि मेरी—रस को ग्रहण करने वाली—जीभ असत्य भाषण से अनभिज्ञ होने
के कारण, मैं ( ब्रह्मलोक में सत्यवादियों की श्रेणी में ) सर्व-प्रथम उल्लेख होने
वाली कीर्ति से संयुक्त हूँ ( अर्थात् सम्पूर्ण सत्यवादियों में अग्रणी हूँ )—इसे भली
भाँति समझ लीजिए ॥ ६४ ॥
मध्ये श्रुतीनां प्रतिवेशिनीनां सरस्वती वासवती मुखे नः ।
ह्रियेव ताभ्यश्चलतायमद्यापथान्न संसगगुणेन बद्धा ॥ ६५ ॥
मध्य इति । किं च प्रतिवेशिनीनां=प्रावेश्यानां, श्रुतीनां=वेदानां, ब्रह्म-
मुखस्थानां श्रुतीनां मध्ये वासवती = निवसन्ती, इयं सरस्वती=अस्माकं मुखे, सर-
११
१६२ नैषधचरितम् । [ तृतीयः
स्वती=वाग्देवी, सा, संसर्ग एव गुणः श्लाघ्यधर्मः तन्तुश्च तेन बद्धा
सती, ताभ्यः = श्रुतिभ्यो ह्रिया इव इत्युत्प्रेक्षा । अद्धापथात् = सत्यमार्गात् न
चलति, संसर्गजा दोषगुणा भवन्तीति भावः । 'सत्ये त्वद्धाञ्जसाद्वयम्' इत्यमरः ॥
हमारे मुख में ( किसी भवन में ) रहने वाली, यह सरस्वती ( वाणी; कोई
महिला ) श्रुतियों ( वेदों; सतियों ) की पड़ोसिन है । ( यतः ब्रह्मा के मुख से श्रुतियाँ
निकली हैं और ब्रह्मा के रथ में हंस रहते हैं, अतः वे एक गाँव की रहने वाली
पड़ोसिन हुईं ) । यह—श्रुतियों ( वेदों ) के संसर्ग के गुण से बँधी रहने के कारण,
मानों उन ( श्रुतिरुपी पड़ोसिनों ) की लज्जा से ही,—अद्धापथ ( सत्यमार्ग; सती-
धर्म ) से स्खलित नहीं होती ( झूठ नहीं बोलती; विचलित हो व्यभिचारिणी
नहीं होती ) ॥ ६५ ॥
पर्यङ्कतापत्रसरस्वदङ्कां लङ्कापुरीमप्यभिलाषि चित्तम् ।
कुत्रापि चेद्वस्तुनि ते प्रयाति तदप्यवेहि स्वशये शयालु ॥६६॥
ततः किमित्यत आह-पर्यङ्केति । कुत्रापि वस्तुनि-द्वीपान्तरस्थेऽपीति भावः ।
अभिलाषि=साभिलाषं, ते=तव, चित्तं कर्तृ, [ पर्यङ्कतापत्र-सरस्वदङ्कां ] पर्यङ्क-
तां वाससद्थिकात्वमापन्नः सरस्वान् सागरोऽङ्कश्चिह्नं यस्यास्तामतिदुर्गमामित्यर्थः ।
तां लङ्कापुरीमपि, प्रयाति चेत् । तदपि=तद्दुर्गस्थमपि स्वशये=स्वहस्ते,
शयालु = स्थितम् अवेहि । पर्यस्तमपि पर्यङ्कस्थमिव जानीहि ॥ ६६ ॥
तुम्हारा चित्त—समुद्र के अङ्क ( गोद ) को पर्यङ्क ( पलङ्ग ) बनाने वाली
( अर्थात् समुद्र के बीच में स्थित, अतः दुर्लङ्घ्य )—लङ्कापुरी की भी यदि अभि-
लाषा करे; किंवा उससे भी अधिक दुर्लभ वस्तु के पाने की इच्छा करे तो ( दोनों
ही को ) अपने हाथ में आया ही समझो ॥ ६६ ॥
इतीरिता पत्ररथेन तेन हीणा च हृष्टा च बभाण भैमी ।
चेतो नलं कामयते मदीयं नान्यत्र कुत्रापि च साभिलाषम् ॥६७॥
इतीति । तेन पत्ररथेन = पक्षिणा हंसेन, इति = इत्थम् ईरिता = उक्ता,
भैमी, हीणा = स्वयमेव स्वाकूतकथनसंकोचात् लज्जिता । 'नुदविद' इत्यादिना
विकल्पात्रिष्ठानत्वम् । हृष्टा = उपायलाभान्मुदिता च सती बभाण । किमिति
मदीयं चेतो लङ्कां नायते = नैति किन्तु नलं राजानं कामयत इति श्लेषभङ्ग्या
बभाणेत्यर्थः । अन्यत्र कुत्रापि = वस्तुनि च साभिलाषं न ॥ ६७ ॥
र्गः ३ ] जीवातू-मदयन्तिकासहितम् । १६३
Digitized by Sarayu Trust Foundation and eGangotri
उस पक्षी के ( हंस ) के इस प्रकार कहने पर, ( नल के सम्बन्ध में कहते
ए संकोच के कारण ) लज्जित तथा ( हंस द्वारा अपनी अभीष्ट पूर्ति के बारे में
ल लेने से ) हर्षित हो, दमयन्ती बोली- (तुमने जो लङ्का और अन्य दुर्लभ
स्तु के बारे में कहा, सो ) ( चेतो न लंकामयते मदीयं ) मेरा चित्त लङ्का को
नहीं चाहता और न किसी अन्य वस्तु की अभिलाषा करता है। ( दूसरा अर्थ-
चेतो नलं कामयते मदीयं' = मेरा चित्त नल को चाहता है। तीसरा अर्थ-
चेतोऽनलं कामयते मदीयं न' = मेरा चित्त अ-नल 'नल के अतिरिक्त' नहीं
चाहता है। चौथा अर्थ- 'चेतोऽनलं कामयते मदीयं' = यदि नल नहीं मिले तो
मेरा चित्त अनल 'अग्नि' को चाहेगा; अग्नि की लपट में अपने शरीर की आहुति
चढ़ा दूंगी, पर किसी अन्य पुरुष की अभिलाषा नहीं करूँगी ) ॥६७॥
विचिन्त्य बालाजनशीलशैलं लज्जानदोमज्जदनङ्गनागम् ।
आचष्ट विस्पष्टमभाषमाणांमेनां स चक्राङ्ग-पतङ्ग-शक्रः ॥६८॥
विचिन्त्येति । विस्पष्टमभाषमाणां = श्लेषोक्तिवशात् संदिग्धमेव भाषमाणा-
मित्यर्थः । एनां = दमयन्तीं, सः चक्राङ्गपतङ्गशक्रः = हंसपक्षिश्रेष्ठः, [ बाला-
जन-शील-शैलं ] बालाजनस्य मुग्धाङ्गनाजनस्य, शीलं स्वभावमेव शैलं [ लज्जा-
नदी-मज्जदनङ्ग-नागं ] लज्जायामेव नद्यां, मज्जदनङ्गनागो यस्य तं, विचिन्त्य =
विचार्य आचष्ट । तस्य लज्जाविजितमन्मथत्वं ज्ञात्वा लज्जाविसर्जनार्थं वाक्यमुवा-
चेत्यर्थः ॥६८॥
मुग्धा ( दमयन्ती रूप अल्हड़ ) नायिका के शील-स्वभाव रूपी पर्वत पर,
लज्जा रूपी नदी में, अनङ्ग-नाग ( कामदेव रूपी मत्त गजराज ) को स्नान करते
हुए, विचार ( देख ) कर, हंस पक्षियों में इन्द्र के समान वह राजहंस- ( 'श्लेष'
एवं 'ध्वनि' द्वारा गूढ वाक्य बोलने वाली; किन्तु ) स्पष्टरूप से अपनी अभिलाषा
व्यक्त न करने वाली दमयन्ती से-कहने लगा ॥६८॥
नृपेण पाणिग्रहणे स्पृहेति नलं मनः कामयते ममेति ।
व्याश्लेषि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः 'सुधिया मया किम् ॥६९॥
नृपेणेति । श्लेषकवेः = श्लेषभङ्ग्या कवयित्र्याः श्लिष्टशब्दप्रयोक्त्र्या इत्यर्थः ।
'कविवर्णने' इति धातोरौणादिक इकारप्रत्ययः । भवत्याः = तव सम्बन्धि नृपेण
कर्त्रा, [ पाणिग्रहणस्पृहा ] पाणिग्रहणं पाणिपीडनं । 'उभयप्राप्तौ कर्मणि' इति
विहितायाः शेष इति समासनिषेधोऽपि शेष षष्ठीसमासः । तत्र स्पृहा,
इति मम मनः = द्विजराजपाणिग्रहेति चेतो नलं कामयत इति श्लोकद्वयार्थः ।
सुधिया = विदुषा मया नाश्लेषि = नामाहि किं ?, गृहीत एवेत्यर्थः ॥६६॥
श्लेष शब्द का प्रयोग करने वाली, आप जैसी कवयित्री का—'नृप के साथ
पाणिग्रहण की अभिलाषा है' ( श्लोक ५६ ), और 'मेरा चित्त नल को चाहता
है' ( श्लोक ६७ )—इन दोनों श्लोकों का अभिप्राय, मुझ बुद्धि रखने वाले की
समझ में क्या नहीं आया ? ( अर्थात् आपके तात्पर्य को मैं समझ गया ) ॥६६॥
त्वच्चेतसः स्थैर्यविपर्ययं तु सम्भाव्य भाव्यास्मि तदज्ञ एव ।
लक्ष्ये हि बाळाहृदि लोलशीले दरापराद्धेषुरपि स्मरः स्यात् ॥७०॥
तर्हि किमर्थं करेण वाञ्छेत्यादिकं अज्ञवदुक्तमित्यत आह—त्वच्चेतस इति ।
किं तु त्वच्चेतसः स्थैर्यविपर्ययम् = अस्थिरत्वं संभाव्य = आशङ्क्य, तदज्ञः =
तस्य श्लोकद्वयार्थस्य अज्ञः अनभिज्ञः, भावा = भविष्यन् । 'भविष्यति गम्यादयः'
इति साधुः । अस्मि । त्वच्चित्तनिश्चयपर्यन्तमित्यर्थः । 'धातुसम्बन्धे प्रत्ययाः' इति
भविष्यत्ताया गुणत्वाद्वर्तमाना नुरोधः । नन्वेवमनुरक्तायां मयि कुत इयं शङ्केत्या-
शङ्क्य स्त्रीणां चित्तचाञ्चल्यसम्भवादित्याह— लक्ष्य इति । लोलशीले = चञ्चल-
स्वभावे, बाळाहृदि बालायाः हृदि चित्त एव लक्ष्ये, स्मरोऽपि दरापराद्धेषुः
ईषच्च्युतसायकः स्यात् । कुशलोऽपि धन्वी चललक्ष्यात् कदाचिदपराध्यत इति भावः ।
'अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः' इत्यमरः । अर्थान्तरन्यासोऽलङ्कारः॥७०॥
तो (अर्थात् आप कहें कि यदि मेरे अभिप्राय को जान ही गये हो तो क्यों
मुझे निर्लज्ज बनाकर, उसी बात को मेरे मुँह से कहलवाना चाहते हो तो इसका
उत्तर यह है कि ) आपके चित्त की अस्थिरता की सम्भावना करके, मैं उस
( अभिलाषा ) के बारे में अनभिज्ञ बनकर, पूछ रहा हूँ, क्योंकि ( बाल्यावस्था के
कारण ) चञ्चल शील-स्वभाव वाली, मुग्धा बाला के हृदय को लक्ष्य बनाने में,
( निशाने वाली वस्तु ) हृदय के अस्थिर होने की आशङ्का से, ( अचूक निशाने-
बाज़ ) कामदेव भी कहीं अपना निशाना न चूक जाय । ( यदि लक्ष्य स्थिर है,
तब तो लक्ष्यभेद सरल है; और यदि लक्ष्य स्थिर नहीं है, हिलता-डुलता रहता है,
तब निशाना लगाने में बड़ी कठिनाई होती है और बड़े-बड़े निशानेबाज़ भी चूक
जाते हैं, उसी प्रकार कहीं कामदेव भी न चूक जाय ) ॥७०॥
[सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १६५
महीमहेन्द्रः खलु नैषधेन्दुस्तद्बोधनीयः कथमित्यमेव ।
प्रयोजनं सांशयिकम्प्रतीहक्पृथग्जनेनेव स मद्गिधेन ॥७१॥
महीति । किंच, नैषधः इन्दुरिव नैषधेन्दुर्नैषधचन्द्रः, महीमहेन्द्रः=भूदेवेन्द्रः
खलु तत् = तस्मात्, स = नलः पृथग्जनेन=प्राकृतजनेन इव मद्गिधेन=मादृशा,
विदुषा ईदृक् सांशयिकं = सन्देहदुःस्थं अस्थिरं प्रयोजनं प्रति इत्थमेव =
मुग्धाकारेणैव कथं बोधनीयः, अनर्हमित्यर्थः । 'गतिबुद्धि' इत्यादिना अणिकर्तुं-
र्नलस्य कर्मत्वं ण्यन्ते कर्तुश्च कर्मण इति अभिधानाच्च ॥७१॥
वे निषध देश की जनता के आह्लादकारी निर्मल चन्द्रमा के समान ही नहीं
हैं, प्रत्युत समस्त भूमण्डल के इन्द्र ( एकच्छत्र सम्राट् ) हैं, अतः ऐसे व्यक्ति से
—सर्वसाधारण ( अपढ़ ) जनता की भाँति, मेरे जैसे ( ब्रह्मा के वाहन, उच्च
कुलोत्पन्न, शिक्षित, विद्वान् ) लोग ( आप की कामना उन के सम्बन्ध में है या
किसी अन्य पुरुष के, इसका पता नहीं चलता ) ऐसे संशय से अस्थिर और इस
प्रकार के ( गुरुतर ) प्रयोजन को—किस तरह सूचित कर सकते हैं ? ॥७१॥
पितुर्नियोगेन निजेच्छया वा युवानमन्यं यदि वा वृणीषे ।
त्वदर्थमर्थित्वकृतिप्रतीतिः कीदृङ्मयि स्यान्निषधेश्वरस्य ॥७२॥
अथेत्थमेव बोधने को दोषस्तत्राह—पितुरिति । पितुः नियोगेन = आज्ञया
निजेच्छया = स्वेच्छया वा, अन्यं = नलादन्यं युवानं यदि वृणीषे = वृणोषि
यदि । तदा निषधेश्वरस्य=नलस्य, मयि विषये, त्वदर्थ=तुभ्यं । 'चतुर्थी तदर्थ'
इत्यादिना चतुर्थीसमासः । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या।'
तद्यत्तथा, [ अर्थित्वकृतिप्रतीतिः ] अर्थित्वकृतिः अर्थित्वभजनं, तत्र प्रतीतिर्वि-
श्वासः, कीदृक् स्यात् = न स्यादित्यर्थः । तस्मादसन्दिग्धं वाच्यमिति भावः ॥७२॥
पिता के आदेश से, अथवा स्वेच्छा से, यदि आप किसी अन्य युवक को
वरण कर लेंगी तो आप को पत्नी के रूप में स्वीकार करने के निमित्त, आपकी
ओर से उन्हें विश्वास दिलाने वाले मुझपर—निषधराज नल का कैसे विश्वास बना
रह जायगा ? ( मेरे प्रति उनकी धारणा बदल जायगी और वे मुझे एकदम
झूठा समझेंगे ) ॥ ७२ ॥
त्वयापि किं शङ्कितविक्रियेऽस्मिन्नधिक्रिये वा विषये विधातुम् ।
इतः पृथक् प्रार्थयसे तु यद्यत्कुर्वे तदूढं नृपतेः पुत्रि ! सर्वम् ॥७३॥
१६६ नैषधचरितम् [ तृतीयः
अन्यदाने सत्यहमपि स्वात्मदानेन त्वां कृतार्थं करिष्ये प्रतिज्ञाभङ्गपरिहा-
रायेत्याह—त्वयेति । हे उर्वीपतिपुत्रि ! = भैमि !, त्वयापि किं वा विधातुं
= किं कर्तुं शङ्कितविक्रिये = सम्भावितविपर्यये, अस्मिन् विषये = राजपाणि-
ग्रहणसंघटनकार्ये अहं अधिक्रिये=विनियुज्ये, अनियोज्य इत्यर्थः । करोतेः कर्मणि
लट् । किं तु इतः पृथक् = अस्मादन्यत् यद्यत् प्रार्थयसे तत्सर्वं कुर्वे =
करोमीत्यर्थः ॥ ७३ ॥
आप भी मुझे - स्पष्ट रूप से न कहे हुए, सन्दिग्धपूर्ण (द्विजराजपाणिग्रहा-
मिलाषरूप) कार्य को करने के लिए - क्यों अधिकारी बना (प्रेरणा कर) रही
हैं ? किन्तु हे राजकुमारी ! इस (विवाहकार्य) के अतिरिक्त जो-जो भी कहेंगी,
सो सब करने के लिए तैयार रहूँगा ॥ ७३ ॥
श्रवःप्रविष्टा इव तद्गिरस्ता विधूय वैमत्यधुतेन मूर्ध्ना ।
ऊचे ह्रिया विश्लथितानुरोधा पुनर्धरित्रीपुरुहूतपुत्री ॥७४॥
श्रव इति । धरित्रीपुरुहूतपुत्री = भूमीन्द्रसुता भैमी, श्रवःप्रविष्टा इव, न
तु सम्यक् प्रविष्टाः, तद्गिरः = हंसवाचः । [ वैमत्य-धुतेन ] वैमत्येन असम्म-
त्या धुतेन कम्पितेन, मूर्ध्ना विधूय = प्रतिषिध्य ह्रिया कर्त्र्या विश्लथिता-
नुरोधा = शिथिलितवृत्तिस्त्यक्तलज्जा सती, पुनरप्यूचे = उवाच ॥७४॥
कर्णपुट में गयी हुई, हंस की बातों को - असहमत होने के कारण, सिर
हिलाने से - मानों बाहर निकाल कर और (चिर सहचारिणी प्रबला) लज्जा के
आग्रह को भी शिथिल कर (अर्थात् लज्जा का परित्यागकर), भीम-राजकुमारी
दमयन्ती फिर बोली - ॥ ७४ ॥
मदन्यदानं प्रति कल्पना या वेदस्तवदीये हृदि तावदेषा ।
निशोऽपि सोमेतरकान्तशङ्कामोंकारमग्नेसरमस्य कुर्याः ॥७५॥
मदिति । [ मदन्यदानं ] मम अन्यदानं अन्यस्मै दानं प्रति = दानमुद्दिश्य,
या कल्पना पितुर्निबोगेनेत्यादि श्लोकतर्कः । एषा कल्पना त्वदीये हृदि,
वेदस्तावत् = सत्य एवेत्यर्थः । निशः = निशाया अपि 'पद्मन्' इत्यादिना निशाया
निशादेशः । [ सोमेतरशङ्कां ] सोमाच्चन्द्रादितरकान्तशङ्कां पुरुषान्तरकल्पनामेव,
ओंकारं=प्रणवं, अस्य = वेदस्य अग्रेसरं = आद्यं, कुर्याः = कुरु । सर्वस्यापि वेदस्य
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १६७
प्रणवपूर्वकत्वादिति भावः । यथा निशायाः निशाकरेतरप्रतिग्रहो न शङ्कनीयः, तथा
ममापि नलेतरप्रतिग्रहो न शङ्कनीय इत्यर्थः । रूपकालङ्कारः ॥ ७५ ॥
नल के अतिरिक्त किसी अन्य के साथ (मेरे पिता द्वारा) कन्यादान होने के
सम्बन्ध में यदि यह ('पितृनियोगेन' वाली) धारणा तुम्हारे हृदय में, वेद के
समान बद्धमूल जमी हुई है, तो तुम रात्रि का भी चन्द्रमा के अतिरिक्त कोई अन्य
पति होने की शङ्का को इस प्रकार स्थान दो, जिस प्रकार वेदमन्त्र के पहले ॐ
होता है । (अर्थात् जिस प्रकार वेदमन्त्र के पूर्व ओम् का उच्चारण किया जाता
है, उसी प्रकार चन्द्रमा के अतिरिक्त निशा-नायिका के अन्य पति होने की कल्पना
- नल के अतिरिक्त मेरे अन्य पति होने की कल्पना के समान - करनी
चाहिए) ॥ ७५ ॥
सरोजिनी-मानस-राग-वृत्तेरनर्क-सम्पर्कमतर्कयित्वा ।
मदन्य-पाणिग्रह-शङ्कितेयमहो महीयस्तव साहसिक्यम् ॥ ७६॥
सरोजिनीति । [ सरोजिनी-मानस-राग-वृत्तेः ] सरोजिन्याः पद्मिन्याः,
मानसरागवृत्तेर्मनोऽनुरागस्थितेः, अभ्यन्तरारुण्यप्रवृत्तेश्च; अनर्कसम्पर्कम् = अर्के-
तरकान्तसंक्रान्तिम् अतर्कयित्वा = अनूहयित्वा, तव, इयं [ मदन्यपाणिग्रह-
शङ्किता ] मम अन्यस्य नलेतरस्य, पाणिग्रहं शङ्कत इति तच्छङ्कितस्य भाव-
स्तत्ता । महीयः = महत्तरं साहसिक्यं = साहसिकत्वं, अहो असम्भावितसम्भाव-
नादाश्चर्यम् ॥ ७६ ॥
कमलिनी के चित्त के अनुराग की वृत्ति की--सूर्य के अतिरिक्त किसी अन्य
के साथ तुमने--तर्कना तो नहीं की; पर, मेरे सम्बन्ध में तुम्हारी-नल के अति-
रिक्त किसी अन्य युवक के साथ पाणिग्रहण होने की-यह शङ्का बनी हुई है।
तुम्हारा यह साहस बड़ा गुरुतर है, यह बड़े आश्चर्य की बात है ! ॥७६॥
साधु त्वयाऽतर्कि तदेकमेव स्वेनानलं यत्किल संश्रयिष्ये ।
विनामुना स्वात्मनि तु प्रहर्तुं मृषा गिरं त्वां नृपतौ न कर्तुम् ॥७७॥
साध्विति । किं च स्वेन = स्वेच्छया, अनलं=नलमन्यं अग्निं च, संश्रयिष्ये
= प्राप्स्यामीति किल यत् त्वया अतर्कि ऊहितं, तदेकमेव साधु भतर्कि । किं
तु, अमुना=नलेन बिना, तदलाभ इत्यर्थः । स्वात्मनि प्रहर्तुं =स्वात्मानं हिंसितुम् ।
कर्मणो अधिकरणत्वविवक्षायां सप्तमी । अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः ।
१६८ नैषधचरितम् । [ तृतीयः
सर्वदा सर्वतोऽनलेनात्मानं कश्चित् क्वचिद्वेदयेत् ॥' इति वचनात् । अनलं संश्रयिष्ये
इत्यनुषङ्गः । नृपतौ = नले विषये, त्वां मृषा गिरं = असत्यवाचं कर्तुं न । अनल
एव शरणं, अन्यथा मरणमेव शरणमिति भावः ॥ ७७ ॥
तुमने यह सम्भावना ठीक ही की कि मैं ('निजेच्छया वा०' ७२ वाँ श्लोक)
स्वेच्छा से अ-नल (नल के अतिरिक्त अन्य) के साथ विवाह करूँगी ! (अहा हा !
क्या पूछने की बात है ? अर्थात् नल को छोड़कर अन्य के साथ पाणिग्रहण न
करूंगी। यदि तुम पूछो कि नल न मिले तो क्या करोगी ? इसका उत्तर यह है कि)
उन (नल) के बिना (अर्थात् पति रूप से न मिलने पर), अपनी आत्मा पर
आघात (अर्थात् आत्महत्या) करने के अभिप्राय से, अनल (अग्नि) को वरण
करूँगी; परन्तु राजा नल के सामने तुम्हें असत्यवादी बनाने के निमित्त, कभी भी
अ-नल (नल के अतिरिक्त अन्य युवक) को वरण न करूंगी (यह मेरा दृढ़
निश्चय है) ॥७७॥
मद्विप्रलम्भ्यं पुनराह यस्त्वां तर्कः स किं तत्फलवाचि मूकः ? ।
अशक्यशङ्क्यव्यभिचारहेतुर्वाणी न वेदा यदि सन्तु के तु ? ॥ ७८ ॥
मदिति । किञ्च यस्तर्कः = ऊहः, पुनः त्वां मद्विप्रलम्भ्यं = मया विप्रल-
म्भनीयम् । 'पोरदुपधात्' इति यत्प्रत्ययः । आह = बोधयतीत्यर्थः । स तर्कः [ तत्फ-
लवाचि ] तस्य विप्रलम्भस्य, फलवाचि प्रयोजनाभिधाने, मूकः = अशक्तः किं ।
अतो मय्यसत्यवादित्वशङ्का न कार्येत्यर्थः । कथमेतावता सत्यवाक्यत्वनिश्चय अत
आह- [ अशक्यशङ्कव्यभिचारहेतुः ] अशक्या शङ्का यस्य सः अशक्यशङ्कः
शङ्कितुमशक्यः, व्यभिचारहेतुर्विप्रलिप्सालक्षणो यस्याः सा वाणी, न वेदा यदि
= न प्रमाणं चेत्तर्हि के तु वेदाः सन्तु = न केऽपीत्यर्थः । सम्भावनायां लोट् । वेद-
वाचामसत्यत्वे मद्वचोऽप्यसत्यत्वं नान्यथेति भावः ॥ ७८ ॥
जो तर्क (जैसे कोई मुँह से बोले उस तरह) तुम्हें बतलाता है कि तुम मेरे
द्वारा छले जा रहे हो, वह (तर्क) उस छल के फल के कथन में क्यों गूँगा बन
गया है (अर्थात् वह स्पष्ट रूप से क्यों नहीं कह देता कि तुम मेरे द्वारा छले
नहीं जा रहे हो । अब यदि पूछो कि तुम्हारी बात कैसे सत्य मान ली जाय, तो
इसका उत्तर यह है कि) जिस में असत्यता की सम्भावना करने का समावेश
न हो, वह उक्ति यदि वेद (के समान प्रामाणिक) नहीं है, तो फिर वेद किसे कहेंगे?॥
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १६९
अनैषधायैव जुहोति किं मां तातः कृशानौ न शरीरशेषाम् ।
ईष्टे तनूजन्मतनोस्तथापि मत्प्राणनाथस्तु नलः स एव ॥ ७९ ॥
एवं निजेच्छया नलान्यशङ्कां निरस्य पित्राज्ञायापि तां निरस्यति-अनैषधायेति ।
तातः = मम जनकः । 'तातस्तु जनकः पिता' इत्यमरः । मामनैषधाय = नैषधा-
त्रलादन्यस्मै एव, जुहोति = ददातीति काकुः । तदा शरीरशेषां = मृतां तत्रापि
कृशानौ न किं मा = न तु जीवन्तीं नाग्नेरन्यत्र जुहोतीत्यर्थः । तदङ्गीकर्तव्य-
मेवेति भावः । कुतः ? स = जनकः तनूजन्मतनोः = आत्मजशरीरस्य ईष्टे =
स्वामी भवतीत्यर्थः । 'अधीगर्थदयेशां कर्मणि' इति शेषे षष्ठी । तथापि = शरीरस्य
पितृस्वामिकत्वेऽपीत्यर्थः । मत्प्राणनाथस्तु नल एव, प्राणानामतज्जन्यत्वादिति
भावः । अतो मय्यविश्वासं मा कुर्वित्यर्थः ॥ ७६ ॥
यदि पिता मुझे नल के अतिरिक्त किसी अन्य पुरुष को- ('अङ्गादङ्गात्स-
म्भवसि०' के अनुसार सन्तति के अङ्ग के स्वामी होने के कारण ) स्वेच्छा से दें
तो ( मेरे आत्महत्या कर लेने पर, प्राणों के चले जाने पर ) शरीर मात्र शेष बचे
हुए (अर्थात् निष्प्राण शरीर ) को अनल में दे दें, यही उचित होगा । पिता
तो जन्म देने के कारण, अपनी सन्तान के शरीर के स्वामी होते हैं और ( पति
तो प्राण-नाथ होते हैं इसलिए ) मेरे प्राणों के नाथ तो वे -नल-ही हैं ॥७६॥
तदेकदासीत्वपदादुदग्रे मदीप्सिते साधु विधित्सुता ते ।
अहेलिना किं नलिनी विधत्ते सुधाकरेणापि सुधाकरेण ॥ ८० ॥
फलितमाह--तदेकेति । [ तदेकदासीत्वपदात् ] तस्य नलस्यैकस्यैव
दासीत्वं तदेव पदमधिकारस्तस्मात् , उदग्रे = अधिके, मदीप्सिते = पत्नीत्वरूपे
विषये, ते=तव, विधित्सुता = चिकीर्षुतैव साधु = साध्वी; अविचारेण मन्म-
नोरथपूरणमेव ते युक्तमिति भावः । साध्विति सामान्योपक्रमान्नपुंसकत्वम् । 'शक्यं
श्वमांसेनापि क्षुन्निवर्तयितुम् ' इति भाष्यकारप्रयोगात् । ननु किमत्राभिनिवेशेन
गुणवत्तर चेद्युवान्तरस्वीकारे को दोषस्तत्राह - अहेलिनेति । नलिनी सुधाकरेण
= अमृतदीधितिनापि अहेलिना = असूर्येण, सुधाकरेण = चन्द्रेण किं विधत्ते ?
किं तेन तस्या इत्यर्थः । तद्वन्ममापि किं युवान्तरेणेति भावः । दृष्टान्तालङ्कारः ॥८०॥
उन ( नल ) के एकमात्र दासीरूप पद से भी उत्तम--मेरा मनोरथ कोई
हो तो उसे पूरा करने की तुम्हारी इच्छा है (जैसा कि श्लोक ७३ में तुम कह
१७० नैषधचरितम् । [तृतीयः
चुके हो कि 'इतः पृथक् प्रार्थयसे तु यद्यत्०' ) सो बहुत ठीक है ! ( अर्थात्
एकदम उचित नहीं है; मैं नल की दासी रूप पद से उत्तम किसी की पटरानी
नहीं बनना चाहती, इसे तुम अपने पास ही रखे रहो, मुझे नहीं चाहिए ) ;
क्योंकि सूर्य ( पति ) के अतिरिक्त, कमलिनी को, सुधा के 'आकर' ( अमृत
की खान ) चन्द्रमा से क्या प्रयोजन ? ॥ ८० ॥
तदेकलब्धे हृदि मेऽस्ति लब्धुं चिन्ता न चिन्तामणिमप्यनर्घम् ।
वित्ते ममैकः सकलत्रिलोकी-सारो निधिः पद्ममुखः स एव ॥ ८१ ॥
तदिति । [ तदेकलब्धे ] तस्मिन्नैवैकस्मिन् लुब्धे लोलुपे, मे हृदि, अनर्घ्यं
चिन्तामणिमपि, लब्धुं चिन्ता = विचारो नास्ति तथा वित्ते = धनविषयेऽपि
मम सकलत्रिलोकीसारस्त्रैलोक्यश्रेष्ठः पद्ममुखः = पद्माननः एकः स नल
एव । त्रैलोक्यसारः पद्ममुखो निधिश्च । नलादन्यत्र कुत्रापि मे स्पृहा नास्ति । किमुत
युवान्तर इति भावः ॥ ८१ ॥
मेरा 'चित्त' एकमात्र उन्हीं का लोभी हो रहा है । उस ( चित्त ) को अमूल्य
रत्न चिन्तामणि प्राप्त करने की भी चिन्ता नहीं है । जिस प्रकार 'वित्त' में पद्म
प्रमुख नव निधि ही सकल त्रिलोकी के सारभूत हैं; उसी प्रकार पद्म ( कमल )
के समान मुखवाले नल रूप निधि सम्पूर्ण त्रैलोक्य में श्रेष्ठ हैं । ( नल रूप निधि
मिल जाने पर, मुझे चिन्तामणि रत्न की कौन-सी आवश्यकता रह जायगी ) ॥८१॥
श्रुतश्च दृष्टश्च हरित्सु मोहाद्ध्यातश्च नीरन्ध्रितबुद्धिधारम् ।
ममाद्य तत्प्राप्तिरसुव्ययो वा हस्ते तवास्ते द्वयमेव शेषः ॥ ८२ ॥
श्रुतश्चेति । किं बहुना, स = नलः, श्रुतः = दूतद्विजवन्द्यादिमुखादाकर्णितश्च,
मोहात् = भ्रान्तिवशात्, हरित्सु=दिक्षु, दृष्टः = साक्षात्कृतश्च । तथापि नीरन्ध्रित-
बुद्धिधारं = निरन्तरीकृततदेकविषयबुद्धिप्रवाहं यथा तथा ध्यातः = चिन्तितश्च
अथाद्य मम तत्प्राप्तिः = नलप्राप्तिः असुव्ययः = प्राणत्यागो वा, द्वयमेव =
द्वयोरन्यतर एवेत्यर्थः । शेषः = कार्यशेषः । स च तव हस्ते आस्ते = त्वदायत्तः
तिष्ठतीत्यर्थः । अत्र तत्पदार्थश्रवण-मनन-निदिध्यासनसम्पन्नस्य ब्रह्मप्राप्तिदुःखोच्छे-
दलक्षणमोक्षौ गुर्वायत्त एवेत्यर्थान्तरप्रतीतिर्ध्वनिरेव । अभिधायाः प्रकृतार्थनियन्त्रणा-
दिति सङ्क्षेपः ॥ ८२ ॥
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १७१
नल के बारे में (दूतों, ब्राह्मणों, चारणों आदि की मुँहजबानी) मैने 'श्रवण'
किया है; भ्रान्ति के कारण (उन्मादावस्था में) नल के स्वरूप का 'दर्शन' भी
किया है; और बुद्धि के अजस्र धाराप्रवाह में, बिना किसी प्रतिबन्ध के, (उन्मा-
दावस्था में देखे गये) नल का 'ध्यान' (चिन्तन) भी किया है । इसलिए
आज उन्हें प्राप्त करूंगी या प्राण-परित्याग करूंगी । ये दोनों तुम्हारे हाथ में हैं
(तुम चाहो तो मिलन करा दे सकते हो और न चाहो तो प्राण ले सकते हो)।
(चाहे प्रिय-मिलन हो या प्राण-वियोग हो) इनमें से एक तो शेष रह ही जायगा ॥
सञ्चीयतामाश्रुतपालनॊत्थं मत्प्राणविश्राणनजं च पुण्यम्
निवार्यतामार्य ! वृथा विशङ्का भद्रेऽपि मुद्रेयमये ! भृशं का ॥ ८३ ॥
सञ्चीयतामिति । हे हंस ! आश्रुतपालनॊत्थं = प्रतिज्ञातार्थनिर्वाहणोत्पन्नं ।
'अङ्गीकृतमाश्रुतं प्रतिज्ञातम्' इत्यमरः । [ मत्प्राणविश्राणनजं ] मत्प्राणानां
विश्राणनं दानं तज्जञ्च पुण्यं = सुकृतं, सञ्चीयतां = संगृह्यतां । हे आर्य ! वृथा
विशङ्का = सन्देहो निवार्यताम् । अये ! = अङ्ग ! भद्रे = पूर्वोक्तपुण्यरूपे श्रेयसि
विषये भृशं का इयं मुद्रा = औदासीन्यम् । श्रेयसि नोदासितव्यमिति भावः ॥८३॥
प्रतिज्ञा को पूरी करने से उत्पन्न और मुझे प्राण-दान देने से उत्पन्न पुण्य
को उपार्जन करो । हे आर्य ! तुम्हारे चित्त में ('पिता के आदेश से या स्वेच्छा
से०' श्लोक ७२ में वर्णित ) जो व्यर्थ की आशङ्का घुसी है, उसे दूर कर डालो।
हे हंस ! अतीव कल्याणकारी (प्रिय-मिलन के) विषय में तुम्हारी यह कौन-सी
(मौन) मुद्रा है ? (ऐसे शुभ कार्य में उदासीनता ठीक नहीं ) ॥ ८३ ॥
अलं विलङ्घय प्रिय विज्ञ याच्ञां कृत्वाऽपि वाम्यं विविधं विधेये ।
यशः पथादाश्रवताषदोत्थात् खलु स्खलित्वास्तखलोक्तिखेलात् ॥८४॥
अलमिति । हे प्रिय ! प्रियङ्कर ! विज्ञ ! = विशेषज्ञ !, उभयत्र 'इगुपध'
इत्यादिना कप्रत्ययः । याञ्छां = प्रार्थनां, विलङ्घ्य, अलं = याञ्छाभङ्गो न कार्य
इत्यर्थः । विधेये = विनीतजने विविधं वाम्यं = वक्रतां कृत्वापि अलं = तच्च
न कार्यमित्यर्थः । [ आश्रवताषदोत्थात् ] आश्रवो यथोक्तकारी । 'वचने स्थित
आश्रवः' इत्यमरः । तस्य भावस्तत्ता । सैव पदं पदक्षेपः, तदुत्थात् । [ अस्तखलो-
क्तिखेलात् ] अस्ता निरस्ता खलोक्तिखेला मिथ्यावादविनोदो येन तस्मात्, यशः-
पथात्, स्खलित्वा = चलित्वा खलु = न स्खलितव्यमित्यर्थः । अन्यथा यशो-हानिः
स्यात्। 'निषेधवाक्यालङ्कारजिज्ञासानुनये खलु' इत्यमरः। 'अलं खल्वोः प्रतिषेधयोः'
प्राचां क्त्वा'इति उभयत्रापि क्त्वाप्रत्यय इह 'न पादादौ खल्वादयः' इति निषेधस्यो-
द्धेजकत्वाभिप्रायत्वान्नञर्थस्य खलुशब्दस्यानुद्भाजकत्वान्नञ् देवपादादौ प्रयोगो न
दूष्यत इति अनुसन्धेयम् ॥ ८४ ॥
हे प्रिय ! हे विशेषज्ञ ! (अथवा हे प्रियतम को विशेष रूप से जानने वाले
हंस ! ) मेरी प्रार्थना को विफल मत बनाओ। जो करना है, उसके सम्बन्ध में
तरह-तरह के अ-यत्न आदि अड़चन न पैदा करो। आश्रवता (कही हुई प्रतिज्ञा
को पूरी करने वाले ) के उच्च पद से लड़खड़ा कर नीचे मत गिरो। जिस कार्य
से निन्दकों को मिथ्या उक्ति कहने में विनोद हो उससे दूर रहो (अर्थात् जिस
विषय में दुर्जन भी निन्दा न करें, उससे पथभ्रष्ट न होओ) तथा कीर्ति रूप
मार्ग से विचलित मत होओ ॥ ८४ ॥
स्वजीवमप्यार्तमुदे ददद्भ्यस्तव त्रपा नेदृशबद्धमुष्टेः।
मह्यं मदीयान्यदसूनदित्सोधर्मः कराद् भ्रश्यति कीर्तिधौतः ॥ ८५ ॥
स्वेति। ईदृशबद्धमुष्टेः = ईदृक्कटलुब्धस्य, तव [आर्तमुदे] आर्तानां मुदे
प्रीतयै, स्वजीवं ददद्भ्यः = स्वप्राणव्ययेन परत्राणं कुर्वद्भ्यो जीमूतवाहनादिभ्य
इत्यर्थः । 'जीवं जीमूतवाहनः' इति प्रसिद्धम् । त्रपा न इति काकुः । त्रपाया मनः-
प्रत्यावृत्तिरूपत्वात्तदपेक्षया तेषामपादानत्वात् पञ्चमी। यत् = यस्मात् मदीयाने-
वासून = प्राणान् मह्यम् अदित्सोः तव, [ कीर्तिधौतः ] कीर्त्या धौतः शुद्धः,
धर्मः करात् = हस्ताद् भ्रश्यति। न चैतत्तवार्हमिति भावः ॥ ८५ ॥
मेरे ही प्राण (प्राण-नाथ नल) को मुझे न प्रदान करने की इच्छा से,
तुम (व्यय हो जाने के भय से, मुट्ठी बाँध कर, धन सञ्चय करने वाले अर्थात्)
नितान्त कृपण बनने पीडित व्यक्तियों की प्रसन्नता के निमित्त, अपना जीवन प्रदान
करने वाले (दधीचि, शिवि, जीमूतवाहन आदि) का विचार कर भी-तुम्हें
लज्जा नहीं आ रही है? इसलिए तुम्हारे हाथ से, (धन-दान की) कीर्ति से
धवल हुआ धर्म (परोपकार करने का पुण्य) गिरा जा रहा है ॥ ८५ ॥
दत्त्वात्मजीवं त्वयि जीवदेऽपि शुष्यामि जीवाधिकदे तु केन।
विधेहि तन्मां हलहोलमग्नां मुद्रितेन्द्रिय-समुद्र-मग्नाम् ॥ ८६ ॥
दत्त्वेति । किं च, जीवदे = प्राणदे, त्वयि. विषये, आत्मजीवं = मत्प्राणं,
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १७३
दत्त्वापि, शुध्यामि = आनृण्यं गमिष्यामीत्यर्थः। किंतु [जीवाधिकदे] जीवा-
धिकः प्रियः तद्वै त्वयि केन शुध्यामि, न केनापि तत्तुल्यदेय-वस्त्वभावादित्यर्थः।
सम्प्रति प्राणैः समं तु न किञ्चिदस्तीति भावः। तत् = तस्मादभावादेव मां त्वदृणेषु
विषये अशोध्यं = अनृणग्रस्तां भवितुमेव। [अमुद्र-दारिद्र्य-समुद्र-मग्नाम् ]
अमुद्रे अपरिमिते, दारिद्र्यं त्वद्देयवस्त्वभावरूपं, तस्मिन्नेव समुद्रे, मग्नां विधेहि ।
नलसङ्घटनेन मामृणग्रस्तां कुर्वित्यर्थः। अशोध्यं, मग्नामिति मग्नत्वानुवादेन
अशुद्धिर्विधीयते। दरिद्राणामृणमुक्तिर्नास्तीति भावः ॥ ८६ ॥
जीवन (प्राण) दान देने वाले तुम्हें, अपना जीवन देकर, मैं ऋण चुका
दूंगी (अर्थात् अपनी आत्मा को जीवन पर्यन्त, तुम्हें दान स्वरूप में देकर, मैं
उऋण हो जाऊँगी); किन्तु यदि जीवन से भी अधिक बढ़कर (जीवन-धन नल
को) दोगे, तब भला मैं कैसे ऋण चुका सकूँगी ? (क्योंकि एक नारी के लिए
इस संसार में प्राणाधिक प्रिय पति से भी बढ़कर, कोई दूसरा अमूल्य पदार्थ होता
ही नहीं, जिसके बदले में तत्तुल्य कोई पदार्थ देकर, बदला चुकाया जा सके)।
अतः मुझे (जीवन-धन-नल-दान देकर) अपना ऋण चुकाने के लिए, ऐसी
बना दो कि मैं दरिद्रता के असीम सागर में (सर्वदा के लिए) डूबी (अर्थात्
चिरकृतज्ञ बनी) रहूँ ॥ ८६ ॥
क्रीणीष्व मज्जीवितमेव पण्यमन्यं न चेदस्तु तदस्तु पुण्यम् ।
जीवेशदातर्यदि ते न दातुं यशोऽपि तावत्प्रभवामि गातुम् ॥८७॥
क्रीणीष्वेति। हे जीवेशदातः = प्राणेश्वरद ! मज्जीवितमेव पण्यं =
क्रयं वस्तु क्रीणीष्व = जीवेशरूपमूल्यदानेन स्वीकुरुष्वेत्यर्थः। अन्यत् = एतन्मू-
ल्यानुरूपं वस्त्वन्तरं नास्ति चेत् तत् = तर्हि पुण्यं = सुकृतमस्तु अपि। किंचिद्यदि
ते = तुभ्यं दातुं न प्रभवामि = न शक्नोमि तावत् = तर्हि यशः = कीर्तिं गातुं
प्रभवामि । ख्यातिसुकृतार्थमेवोपकुरुष्वेत्यर्थः ॥८७॥
मेरे जीवनरूप पण्य (बिक्री के सौदे) को (प्रियतम-दानरूपी विनिमय से)
खरीद लो। इससे यदि कोई लौकिक फल न हो (प्रत्यक्षरूप से देखने में न आवे)
तो (कम से कम पारलौकिक) पुण्य तो होगा ही। हे प्राणनाथ-प्रदान-कर्ता !
यद्यपि मैं तुम्हें और कुछ (प्राणनाथ-तुल्य मूल्य हाथों से) देने में समर्थ न हो
सकूँ तथापि (मौखिक रूप से) तुम्हारी कीर्ति तो बखान करती रहूँगी ॥८७॥
१७४ नैषधचरितम् । [ तृतीयः
वराटिकोपक्रिययापि लभ्यानिभ्याः कृतज्ञानथवाद्रियन्ते ।
प्राणैः पणैः स्वं निपुणं भणन्तः क्रीणन्ति तानेव तु हन्त सन्तः ॥८८॥
अथवा साधुस्वभावेनापि परोपकारं कुर्यात्याह—वराटिकेति । अथवा
वराटिकोपक्रियया=कपर्दिकादानेनापि, लभ्यान् = सुलभान्, कृतज्ञान् = तावदेव
बहुमन्यमानान्, उपकारज्ञान्, इभ्याः = धनिकाः । 'इभ्य आढ्यो धनी स्वामी'
इत्यमरः । नाद्रियन्ते = धनलोभान्नोपकुर्वन्तीत्यर्थः । सन्तः=विवेकिनस्तु स्वम्=
आत्मानं निपुणं भणन्तः = व्यवहरन्तः सन्तः । एते वयं त्वदधीना इति साधु
वदन्त इत्यर्थः । तानेव = कृतज्ञान् प्राणैरेव पणैः = मूल्यैः, क्रीणन्ति = आत्म-
सात् कुर्वन्ति; किमुत धनैरित्यर्थः । अतस्त्वयापि सता कृतज्ञाहमुपकर्तव्येति भावः ।
हन्त = हर्षे ॥ ८८ ॥
अथवा—एक कौड़ी के उपकार से भी, सन्तुष्ट हो, कृतज्ञ बनने वाले का
धनी लोग आदर नहीं करते (अर्थात् जो केवल एक कौड़ी पा जाने पर भी,
अपने दाता का चिर-कृतज्ञ बनकर, उसकी जयजयकार मनाता है; उस याचक
को, पैसे के लोभी धनी, एक फूटी कौड़ी न देकर, धुतकार बताते हैं ); पर अपने
को समाज-सेवी कहने वाले सव्यक्ति तो प्राण-पण से (अर्थात् अपने प्राणरूपी
मूल्य देकर) भी उन कृतज्ञ हुए जनों को खरीद लेते हैं (अर्थात् अपने वश में
कर लेते हैं)। यह बड़े हर्ष (सन्तोष) की बात है (और सज्जन तथा दुर्जन
में इतनी ही विभिन्नता है) ॥ ८८ ॥
स भूभृदष्टावपि लोकपालास्तैर्मे तदेकाग्रधियः प्रसेदे ।
न हीतरस्माद्धटते यदेत्य स्वयं तदाप्तिप्रतिभूर्यन्माभूः ॥ ८९ ॥
सेति । किञ्च, स भूभृत् = नलः, अष्टावपि लोकपालाः = तदात्मक इत्यर्थः ।
'अष्टाभिर्लोकपालानां मात्राभिर्निर्मितो नृपः' इति स्मरणात् । अत एव तदेका-
ग्रधियः = नलैकतानबुद्धेः । मे = मम तैः = लोकपालैः प्रसेदे = प्रसन्नम् । भावे
लिट् । देवता ध्यायतः प्रसीदन्तीति भावः । कुतः ? इतरस्मात्=प्रसादादन्यथेत्यर्थः ।
स्वयं = स्वयमेव, आगत्य, मम तदाप्तिप्रतिभू = नलप्राप्तिलम्भकः अभूः इति
यत्, तन्न घटते हि । तत्प्रसादाभावे कुतो ममेदं श्रेय इत्यर्थः ॥ ८९ ॥
वे राजा नल ( इन्द्र, यम, अग्नि आदि ) आठो लोकपालों के अंश-
स्वरूप हैं। अतः उन ( नल ) में एकाग्रचित्ता होने के कारण वे (आठो लोक-
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १७५
Digitized by Sarayu Trust Foundation and eGangotri
पाल, यह समझकर कि दमयन्ती मेरा ध्यान करती है ) मेरे ऊपर प्रसन्न हो
गये हैं; क्योंकि ( यदि ऐसी बात न होती तो ) तुम स्वयं आकर, नल के पाने
के बारे में जमानतदार न बनते और यह (आठो लोकपालों की प्रसन्नता के बिना)
किसी अन्य कारण से सम्भव नहीं था ॥ ८९ ॥
अकाण्डमेवात्मभुवार्जितस्य भूत्वापि मूलं मयि वीरणस्य ।
भवान् मे किं नलदत्वमेत्य कर्ता हृदश्चन्दनलेपकृत्यम् ॥ ९० ॥
अकाण्डेति । हे हंस !, विः = पक्षी । 'विविष्किरपतत्रिणः' इत्यमरः । 'रोरि'
इति रेफलोपे 'ढूलोपे पूर्वस्य' इति दीर्घः । भवान् अकाण्डम् = अनवसर एव ।
अत्यन्तसंयोगे द्वितीया । आत्मभुवा = कामेन, मयि विषये अर्जितस्य = कृतस्य
रणस्य = गाढप्रहारलक्षणस्य, मूलं = हंसानामुद्दीपकत्वेन निदानं भूत्वापि;
अन्यत्र, काण्डो दण्डः, तद्वर्जितमकाण्डं यथा तथा । आत्मभुवा = ब्रह्मणा,
अर्जितस्य सृष्टस्य, वीरणस्य = तृणविशेषस्य, मूलं = मूलावयवो भूत्वा । अत एव
नलदत्वं = नैषधदातृत्वं, अन्यत्र उशीरत्वं चेत्यर्थः । एत्य, मे हृदः । रहः चन्दन-
लेपकृत्यं शैत्योत्पादनं न कर्त्ता = करिष्यत्येव परोपकारशीलत्वादिति भावः ।
'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' । 'स्याद्वीरणं वीरतरुर्मूलेश्योरमस्त्रियां ।
अभयं नलदं सेव्यम्' इति चामरः । वीरणस्येति शब्दश्लेषः । अन्यत्रार्थश्लेषः ।
तथा च नलदत्वमेत्य चेति प्रकृताप्रकृतयोरभेदाध्यवसायेन हंसे आरोप्यमाणस्यो-
शीरस्य प्रकृत्या तादात्म्येन चन्दनकृत्यलक्षणप्रकृतकार्योपयोगात् परिणामालङ्कारः ।
'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् स चोक्तश्लेषप्रतिबिम्बो-
त्थापित इति सङ्करः ॥६०॥
असमय में ही ( इस कुमारावस्था में ही ) आत्म-भू कामदेव के द्वारा, मुझ
में ( 'रणस्य' ) गाढ प्रहार, कराने के कारण हो ( अर्थात् कामवासना के बारे में
इस प्रकार बातचीत करके, कामोद्दीपन कराने के कारण हुए ) । ( 'विः' )
पक्षी होते हुए भी, तुम ( नल-द ) मेरे प्रियतम नल के प्रदानकर्ता बनकर, क्या
मेरे ( काम-सन्तप्त ) हृदय पर ( शीतल ) चन्दन के लेप का कार्य नहीं करोगे ?
( दूसरा अर्थ- ) आत्मभू ब्रह्मा के द्वारा उत्पन्न की गयी, तना रहित
( वीरण ) गोंडर घास की जड़ के रूप में होकर, तुम मेरे लिए (नलद) खस बन
कर कामसन्तप्त हृदय पर, चन्दनात्मक अङ्गराग का लेप न करोगे क्या ? ॥६०॥
१७६ नैषधचरितम् । [ तृतीयः
Digitized by Sarayu Trust Foundation and eGangotri
अलं विलम्ब्य त्वरितुं हि वेला कार्ये किल स्थेयसहे विचारः ।
गुरूपदेशं प्रतिभेव तीक्ष्णा प्रतीक्षते जातु न कालमार्त्तिः ॥६१॥
अलमिति । हे हंस ! विलम्ब्य अलं=न विलम्बितव्यमित्यर्थः । 'अलं खल्वोः
इत्यादिना क्त्वाप्रत्यये ल्यबादेशः । त्वरितुं वेला हि=त्वराकालः खल्वयमित्यर्थः ।
'कालसमयवेलासु तुमुन् ।' कुतः ? स्थैर्यसहे=विलम्बसहे कार्ये, विचारः=विमर्शः
किल=इति प्रसिद्धौ, अन्यथा विपत्स्यत इति भावः । तथा हि तीक्ष्णा=शीघ्रग्राहिणी
प्रतिभा=प्रज्ञा गुरूपदेशमिव आर्त्तिः = आधिः जातु=कदापि काल न प्रतीक्षते
= कालक्षेपं न सहत इत्यर्थः । उपमार्थान्तरन्यासयोः संसृष्टिः ॥६१॥
अब विलम्ब मत करो, क्योंकि यह समय शीघ्रता करने का है । जो कार्य
विलम्ब सहन कर सके उस में ही (शुभ तिथि-नक्षत्र-वार-योगादि का) विचार
किया जाता है । (देखो), जिस प्रकार (शिष्य की) कुशाग्र बुद्धि, आचार्य की
शिक्षा की, प्रतीक्षा नहीं करती, वैसे ही दारुण (काम-) पीडा भी (उपयुक्त)
समय की प्रतीक्षा नहीं करती ॥६१॥
अभ्यर्थनीयः स गतेन राजा त्वया न शुद्धान्तगतो मदर्थम् ।
प्रियास्य-दाक्षिण्य-बलात्कृतो हि तदोदयेदन्यवधूनिषेधः ॥६२॥
अथानन्तरकृत्यं सविशेषमुपदिशति-अभ्यर्थनीय इत्यादि श्लोकपञ्चकेन ।
गतेन=इतो यातेन, त्वया स राजा = नलः शुद्धान्तगतः=अन्तःपुरस्थः,
मदर्थं=मत्प्रयोजनं, नाभ्यर्थनीयः=न वाच्यः । दुहादित्वाद्द्विकर्मकत्वम् । अप्रधाने
दुहादीनामिति राज्ञोऽभिहितकर्मत्वं । कुतः ? हि=यस्मात् तदा=तस्मिन् काले,
[प्रियास्य-दाक्षिण्यबलात्कृतः] प्रियाणाम् आस्यदाक्षिण्यं मुखावलोकनोत्थापितछन्दा-
नुवृत्तिबुद्धिरित्यर्थः । तेन बलात्कृतो बलात्प्रतिवर्त्तितः, अन्यवधूनिषेधः उदयेत्=
उत्पद्येत ॥ ६२ ॥
तुम यहाँ से जाकर, उन राजा नल से (परिणय-) प्रार्थना जब वे रनिवास
की रानियों के साथ बैठे हों, तब मत करना; क्योंकि सम्भव है कि उस समय,
उन प्रेयसी रानियों के मुख की उदारता (मुख के अनुरोध) के कारण, उनके
चित्त में यह भावना उत्पन्न हो जाय (कि अमुक रानी से या इन सभी रानियों
से मेरी कामवासना पूर्ण हो सकती है।) इससे अन्य स्त्री के साथ परिणय करने
को मना कर दें ॥६२॥
सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १७७
शुद्धान्त-सम्भोग-नितान्ततृप्ते न नैषधे कार्यमिदं निगाद्यम् ।
अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा ॥९३॥
शुद्धान्तेति । किञ्च, [ शुद्धान्त-सम्भोग-नितान्ततृप्ते ] शुद्धान्तसम्भोगेन
अन्तःपुरस्त्रीसम्भोगेन, नितान्ततृप्ते अत्यन्तसन्तुष्टे, नैषधे = नलविषये इदं कार्यं,
न निगाद्यं = न निगदितव्यं । 'ऋहलोर्ण्यत्' 'गदमद' इत्यादिना सोपसर्गाद्यतो
निषेधात् । तथा हि-अपां तृप्ताय = अद्भिस्तृप्तायेत्यर्थः । 'पूरणगुण' इत्यादिना
षष्ठीसमासप्रतिषेधादेव ज्ञापकात् षष्ठी । 'रुच्यर्थानां प्रीयमाणः' इति सम्प्रदानत्वा-
च्चतुर्थी । स्वादुः = मधुरा सुगन्धिः = कर्पूरादि वासनया शोभनगन्धा । अत्र
कवीनां निरंकुशत्वाद्गन्धस्येत्वे तदेकांतत्वनियमानादरः । तुषारा = शीतला वारि-
धारा, न स्वदते = न रोचते हि । दृष्टान्तालङ्कारः ॥९३॥
जब राजा नल अपनी रनिवास की रानियों के साथ सम्भोग करके, पूर्ण
सन्तुष्ट हो चुके हों तब भी इस ( परिणय-प्रार्थना ) कार्य को मत कहना, क्योंकि
साधारण जल से सन्तुष्ट हुए व्यक्ति को स्वादिष्ट, सुगन्धित तथा शीतल जल की
धारा भी अच्छी नहीं लगती ॥ ९३ ॥
विज्ञापनीया न गिरो मदर्थाः क्रुधा कदुष्णे हृदि नैषधस्य ।
पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस ! ॥९४॥
विज्ञापनीया इति । हे हंसकुलावतंस !, नैषधस्य = नलस्य, हृदि =
हृदये, क्रुधा = क्रोधेन, कदुष्णे = ईषदुष्णे सति । 'कवं चोष्णे' इति चकारात्कोः
कदादेशः । मह्यमिमाः मदर्थाः । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या ।'
गिरः = वाचो न विज्ञापनीयाः = न विधेयाः, न विज्ञाप्या इत्यर्थः । तथाहि,
पित्तेन = पित्तदोषेण दूने = दूषिते, रसने=रसनेन्द्रिये, सिता = शर्करापि तिक्ता-
यते = तिक्तीभवति । लोहितादित्वात् क्यष् । 'वा क्यषः' इति आत्मनेपदम् ।
अत्रापि दृष्टान्तालङ्कारः ॥ ९४ ॥
हे हंस-वंश के अलङ्कारस्वरूप ! जब नल का हृदय क्रोध के कारण कुछ-
कुछ गरमा गया हो तो तुम मेरे बारे में प्रसङ्ग मत छेड़ना; क्योंकि पित्त से
दूषित हुई जीभ पर चीनी भी कड़वी लगती है ॥ ९४ ॥
धरातुरासाहि मदर्थयाच्ञा कार्या न कार्यान्तरचुम्बिचित्ते ।
तदार्थितस्यानवबोधनिद्रा बिभर्त्यवज्ञाचरणेन मुद्राम् ॥९५॥
२३
१७८ नैषधचरितम् । [ तृतीयः
धरेति । तुरं त्वरितं, सहत्यभिभवत्यरीनीति तुराषाडिन्द्रः, महतेश्चौरादि-
कत्वात् क्विप् । 'नहिवृति' इत्यादिना पूर्वपदस्य दीर्घः, प्रकृतिग्रहणे ण्यन्तस्यापि
ग्रहणात् । मुग्धबोधस्तु तुराशब्दं तान्तमाह । तस्मिन् धरातुरासाहि=भूदेवेन्द्रे नले,
अजादिषु असाधुत्वात् 'सहेः साडः सः' इति षत्वं नास्ति । कार्यान्तरचुम्बिचित्ते=
व्यासक्तचित्ते मदर्थयाच्ञा = मत्प्रयोजनप्रार्थना न कार्या । तथाहि, तदा =
व्यासङ्गकाले अर्थितस्य = प्रार्थितार्थस्य [ अनवबोधनिद्रा ] अनवबोध अबोधः,
स एव निद्रा सा, अवज्ञाचरणस्य = अनादरकरणस्य मुद्रां = अभिज्ञानं बिभर्त्ति
= अनादरप्रतीतिं करोतीत्यर्थः । तच्चातिकष्टमिति भावः ॥६५॥
धरा ( पृथ्वी ) तल के इन्द्र राजा नल का चित्त जब किसी दूसरे कार्य में
लगा हो तब भी मेरे लिए प्रार्थना मत करना; क्योंकि ऐसे समय प्रार्थना करने
पर, अ-श्रवण रूप निद्रा मानों अनादर करने ( अनवधानता ) के चिह्न धारण
करती है ॥६५॥
विज्ञेन विज्ञाप्यमिदं नरेन्द्रे तस्मात्त्वयास्मिन् समयं समीक्ष्य ।
आत्यन्तिकासिद्धि-विलम्बसिद्ध्योः कार्यस्य कार्यस्य शुभा विभाति ॥९६॥
विज्ञेनेति । तस्मात् = कारणाद् विज्ञेन = विवेकिना, त्वया समयं
समीक्ष्य, इदं = कार्यम् अस्मिन् नरेन्द्रे = नले विषये विज्ञाप्यम् । नन्वेवं कार्य-
विलम्बः स्यादित्याशङ्क्याह—आत्यन्तिकेति । हे हंस !, कार्यस्य आत्य-
न्तिकासिद्धि-विलम्बसिद्ध्योर्मध्ये, आर्यस्य = विदुषस्ते, का = कतरा शुभा
= समीचीना विभाति = प्रतिभाति । अनवसरविज्ञापने कार्यविघाताद्वरं विलम्ब-
नेनापि कार्यसाधनमिति भावः ॥६६॥
तुम ( अवसर-अनवसर के ) ज्ञाता हो; अतः समय ( अनुकूल अवसर )
देखकर, उन नरपति नल से मेरी प्रार्थना निवेदन कर देना । (अनवसर कहने से)
कार्य का एकदम पूरा न होना और ( अवसर देखकर कहने से ) कार्य का विलम्ब
से सिद्ध होना--इन दोनों में आर्य ( तुम ) को कौनसी भली जँचती है ? ॥६६॥
इत्युक्तवत्या यदलोपि लज्जा सानौचिती चेतसि नश्चकास्तु ।
स्मरस्तु साक्षी तददोषतायामुन्माद्य यस्तत्तदबोधदत्ताम् ॥९७॥
इतीति । इति = इत्थम्, उक्तवत्या भैम्या, यत् = लज्जाया, अलोपि=त्यक्तेति यत्,
सा विधेयप्राधान्यात् स्त्रीलिङ्गता । अनौचिती = अनौचित्यं गतमेतत् नः = अस्माकं