नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 194, कुल 226 में से
संदर्भ में पढ़ें१७८ नैषधचरितम् । [ तृतीयः
धरेति । तुरं त्वरितं, सहत्यभिभवत्यरीनीति तुराषाडिन्द्रः, महतेश्चौरादि-
कत्वात् क्विप् । 'नहिवृति' इत्यादिना पूर्वपदस्य दीर्घः, प्रकृतिग्रहणे ण्यन्तस्यापि
ग्रहणात् । मुग्धबोधस्तु तुराशब्दं तान्तमाह । तस्मिन् धरातुरासाहि=भूदेवेन्द्रे नले,
अजादिषु असाधुत्वात् 'सहेः साडः सः' इति षत्वं नास्ति । कार्यान्तरचुम्बिचित्ते=
व्यासक्तचित्ते मदर्थयाच्ञा = मत्प्रयोजनप्रार्थना न कार्या । तथाहि, तदा =
व्यासङ्गकाले अर्थितस्य = प्रार्थितार्थस्य [ अनवबोधनिद्रा ] अनवबोध अबोधः,
स एव निद्रा सा, अवज्ञाचरणस्य = अनादरकरणस्य मुद्रां = अभिज्ञानं बिभर्त्ति
= अनादरप्रतीतिं करोतीत्यर्थः । तच्चातिकष्टमिति भावः ॥६५॥
धरा ( पृथ्वी ) तल के इन्द्र राजा नल का चित्त जब किसी दूसरे कार्य में
लगा हो तब भी मेरे लिए प्रार्थना मत करना; क्योंकि ऐसे समय प्रार्थना करने
पर, अ-श्रवण रूप निद्रा मानों अनादर करने ( अनवधानता ) के चिह्न धारण
करती है ॥६५॥
विज्ञेन विज्ञाप्यमिदं नरेन्द्रे तस्मात्त्वयास्मिन् समयं समीक्ष्य ।
आत्यन्तिकासिद्धि-विलम्बसिद्ध्योः कार्यस्य कार्यस्य शुभा विभाति ॥९६॥
विज्ञेनेति । तस्मात् = कारणाद् विज्ञेन = विवेकिना, त्वया समयं
समीक्ष्य, इदं = कार्यम् अस्मिन् नरेन्द्रे = नले विषये विज्ञाप्यम् । नन्वेवं कार्य-
विलम्बः स्यादित्याशङ्क्याह—आत्यन्तिकेति । हे हंस !, कार्यस्य आत्य-
न्तिकासिद्धि-विलम्बसिद्ध्योर्मध्ये, आर्यस्य = विदुषस्ते, का = कतरा शुभा
= समीचीना विभाति = प्रतिभाति । अनवसरविज्ञापने कार्यविघाताद्वरं विलम्ब-
नेनापि कार्यसाधनमिति भावः ॥६६॥
तुम ( अवसर-अनवसर के ) ज्ञाता हो; अतः समय ( अनुकूल अवसर )
देखकर, उन नरपति नल से मेरी प्रार्थना निवेदन कर देना । (अनवसर कहने से)
कार्य का एकदम पूरा न होना और ( अवसर देखकर कहने से ) कार्य का विलम्ब
से सिद्ध होना--इन दोनों में आर्य ( तुम ) को कौनसी भली जँचती है ? ॥६६॥
इत्युक्तवत्या यदलोपि लज्जा सानौचिती चेतसि नश्चकास्तु ।
स्मरस्तु साक्षी तददोषतायामुन्माद्य यस्तत्तदबोधदत्ताम् ॥९७॥
इतीति । इति = इत्थम्, उक्तवत्या भैम्या, यत् = लज्जाया, अलोपि=त्यक्तेति यत्,
सा विधेयप्राधान्यात् स्त्रीलिङ्गता । अनौचिती = अनौचित्यं गतमेतत् नः = अस्माकं