सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १४९
कारण, उसमें प्रवेशकर, परमाणु के समान पतली कमरवाली सुन्दरी सखियों को--
जिनकी चाल स्वभावतः सुन्दर है उन्हें हम अधिक और विशेष प्रकार की
( स्वर्गीय, दिव्य ) चाल सिखाते हैं ( अर्थात् स्पेशल ट्रेनिङ्ग देते हैं ) ॥४१॥
पीयूषधारानधराभिरन्तस्तासां रसोदन्वति मज्जयामः ।
रम्भादिसौभाग्यरहःकथाभिः काव्येन काव्यं सृजताहताभिः ॥४२॥
पीयूषेति । किं च, [ पीयूष-धारानधराभिः ] पीयूषधाराभ्यः अनधरा-
भिरन्यूनाभिः, अमृतसमानाभिः, काव्यं सृजता = स्वयं प्रबन्धकर्त्रा । [ काव्येन ]
कवेरपत्यं पुमान् काव्यः तेन शुक्रेण । 'शुक्रो दैत्यगुरुः काव्यः'इत्यमरः । 'कुर्वादिभ्यो
ण्यः'इति ण्यप्रत्ययः । आहताभिः = तस्यापि विस्मयकरीभिरित्यर्थः । [ रम्भादि-
सौभाग्यरहःकथाभिः ] रम्भादीनां दिव्यस्त्रीणां सौभाग्यं पतिवाल्लभ्यं, तत्प्रयुक्ताभिः
रहःकथाभिः, रहस्यवृत्तान्तवर्णनाभिः, तासां = नलान्तःपुरस्त्रीणाम् अन्तः = अन्तः-
करणं, रसोदन्वति = शृङ्गाररससागरे, मज्जयामः = अवगाहयामः ॥४२॥
अमृत-धारा के तुल्य ( अर्थात् अमृत-प्रवाह से किसी प्रकार भी न्यून न होने
वाली ) और ( रसात्मक वाक्य वाले ) काव्य के रचयिता शुक्राचार्य से आदर-
पूर्वक पुरस्कृत-रम्भा आदि ( देवाङ्गनाओं ) के सौभाग्य ( जनता के वशीकरण
करने के सामर्थ्य ) की एकान्त-जीवन ( सम्भोग ) वाली कथाओं से,-हम उनकी
रानियों के अन्तःकरण को, शृङ्गार रस के उदधि में, अवगाहन कराते रहते हैं ॥
काभिर्न तत्राभिनवस्मराज्ञा-विश्वास-निक्षेप-वणिक्क्रियेऽहम् ।
जिह्वेति यन्नैव कुतोऽपि तिर्यक् कश्चित्तिरश्चात्रपते न तेन ॥४३॥
काभिरिति । किञ्च, यत्=यस्मात्, तिर्यक्=पक्षी, कुतोऽपि=जनात्, न जिह्वेति
= न लज्जत एव । 'ह्री लज्जायाम्'इति धातोर्लट् । 'श्लौः'इति द्विर्भावः । तिरश्चोऽपि
कश्चिज्जनो न त्रपते = न लज्जते । तेन = कारणेन, तत्र=अन्तःपुरे, काभिः =
स्त्रीभिः अहम् [ अभिनव-स्मराज्ञा-विश्वास-निक्षेप-वणिक् ] अभिनवा अपूर्वा
स्मराज्ञा रतिरहस्यवृत्तान्तः, सैव विश्वासनिक्षेपो विश्वासेन गोप्यार्थः । तस्य वणिक्
गोप्ता, न क्रिये = न कृतोऽस्मि । सर्वासामप्यहमेव विस्रम्भकथापात्रमस्मीत्यर्थः ॥
नल के रनिवास में, किन महिलाओं ने मुझे-कामदेव के नये-नये आदेश
के विश्वास से, धरोहर रखनेवाला महाजन-न बनाया हो ? ( जैसे किसी साहूकार
के पास धरोहर की वस्तु विश्वासपूर्वक रख दी जाती है, उसी प्रकार वे युवतियाँ

१५० नैषधचरितम् । [ तृतीयः
रति-रहस्य के वृत्तान्तों को निःशङ्क होकर मेरे पास रख देती थीं;
अर्थात् कामवासना के बारे में सभी बातें स्पष्टतः मुझसे कह देती थीं ) यतः
पक्षी ( जानवर ) किसी भी मनुष्य से लज्जा नहीं करता, अतः कोई भी व्यक्ति
चिड़ियों से नहीं लजाता ॥४३॥
वार्त्ता च साऽसत्यपि नान्यमेति योगादरन्ध्रे हृदि यां निरुन्धे ।
विरिञ्चि-नानानन-वाद-धौत-समाधि-शास्त्र-श्रुति-पूर्ण-कर्णः ॥४४॥
अथ स्वस्य एवंविधविश्वासहेतुत्वमाह—वार्तेति । [ विरिञ्चि-नानानन-
बाद-धौत-समाधि-शास्त्र-श्रुति-पूर्ण-कर्णः ] विरिञ्चेर्ब्रह्मणः नानाननैर्बहुमुखैः,
वादेन व्याख्यानेन, धौतस्य शोधितस्य, समाधिशास्त्रस्य संयमविद्यायाः, श्रुत्या श्रव-
णेन पूर्णकर्णः, चतुर्मुखाभ्यस्तवाङ्नियमनविद्य इत्यर्थः । अहमिति शेषः । योगात्
अरन्ध्रे = निरवकाशे, पूर्णे हृदि = हृदये यां = वार्त्ता निरुन्धे = नियच्छामि ।
सा वार्त्ता=लोकवार्त्ता; किमुतारहस्यवार्त्तेति भावः । असत्यपि =विनोदार्थे कथितापि,
किमुत सतीति भावः । असत्यपि अन्यं = पुरुषान्तरं नैति = न गच्छति । यथा
ह्यसती दुश्चरी निरन्ध्रस्थाने निरुद्धा नान्यम् एति, तद्वदिति भावः । अतोऽहमासां
विश्वास्य इति पूर्वेणान्वयः । अत्र वार्त्तानिरोधस्य विरञ्चीत्यादिपदार्थहेतुकत्वात्
काव्यलिङ्गमलङ्कारः ॥४४॥
ब्रह्मा के नाना ( चारों ) मुखों के व्याख्यान-वाक्यों से परिष्कृत हुए समाधि-
( योग ) शास्त्र के सुनने से भरे हुए कर्णेन्द्रिय वाला मैं योग ( चित्त-वृत्ति-निरोध
के अभ्यास ) द्वारा अरन्ध्र ( निरवकाश ) हृदय ( चित्त ) में जो ( बात ) रोक
( रख ) लेता हूँ, वह असली ( परिहास में कही हुई मिथ्या ) वार्त्ता ( बात ) होने
पर भी, अन्य पुरुष को उस प्रकार प्राप्त नहीं होती ( अर्थात् कहीं से न निकलने
वाले मेरे हृदय रूपी भवन में निरुद्ध रहने के कारण किसी दूसरे मनुष्य के कान
में उस प्रकार न पड़ती ) जिस प्रकार योग ( खिड़की दरवाजा बन्द करने आदि
उपाय ) द्वारा अरन्ध्र ( छिद्ररहित ) हृदय ( घर ) में जो असती ( व्यभिचा-
रिणी ) रोक ली जाती है, वह मकान में बन्द रहने के कारण, रमण करने के
अभिप्राय से अन्य पुरुष के पास नहीं पहुँच सकती । ( तात्पर्य यह है कि मैं
दम्पति के परिहास, रति-आलिंगनादिविषयीय सन्देश को, उन दोनों के अतिरिक्त किसी

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १५१
तीसरे व्यक्ति से नहीं कहती; इसी प्रकार तुम भी जो गुप्त बात कहोगी उसे नल के
अतिरिक्त किसी अन्य से नहीं कहूँगा—यह विश्वास रखो ) ॥ ४४ ॥
नलाश्रयेण त्रिदिवोपभोगं तवानवाप्यं लभते बतान्या ।
कुमुद्वतीवेन्दुपरिग्रहेण ज्योत्स्नोत्सवं दुर्लभमम्बुजिन्याः ॥४५॥
अथ श्लोकद्वयेन अस्या नलानुरागमूद्दीपयति—नलेत्यादि । तवानवाप्यं
नलपरिग्रहाभावात् त्वया दुरापम् । 'कृत्यानां कर्त्तरि वा' इति षष्ठी तृतीयार्थे ।
[त्रिदिवोपभोगं] त्रिदिवः स्वर्गः । पृषोदरादित्वात् साधुः । तस्य उपभोगं,
तादृग् भोगमित्यर्थः । तस्येन्द्रसदृशैश्वर्यत्वादिति भावः । अम्बुजिन्या दुर्लभं =
इन्दुपरिग्रहाभावात्तया दुरापं ज्योत्स्नोत्सवं = चन्द्रिकाभोगं, [इन्दुपरिग्रहेण]
इन्दोः कर्त्तुः परिग्रहेण, कुमुदान्यस्यां सन्तीति कुमुद्वती = कुमुदिनी इव । 'कुमुद-
नडवेतसेभ्यो डमतुप्' । 'मादुपधायाश्च' इत्यादिना मकारस्य वकारः । [नलाश्रयेण]
नलस्य कर्त्तुराश्रयेण नलस्वीकरणेन, अन्या लभते । 'बत' इति खेदे । ईदृग्भोगो-
पेक्षिणी त्वं बुद्धिमान्द्यात् न शोचसि, इति भावः ॥४५॥
अन्य युवती---नल के ( पतिरूप ) आश्रय के कारण तुमसे ( नल के आश्रय
के अभाव के कारण ) दुष्प्राप्य—( हमारे जैसे दिव्य पक्षियों के पङ्खा झलने आदि
के ) स्वर्गीय सुखोपभोग को उसी प्रकार लूट रही है; जिस प्रकार कुमुदिनी
नायिका—निशानायक चन्द्र द्वारा पत्नीरूप में स्वीकार कर लिये जाने के कारण—
कमलिनी को दुर्लभ, प्रकाश ( चन्द्रिका ) रूप आनन्द को लूटती है । यह बड़े
खेद की बात है ( अतः तुम नल को पतिरूप में स्वीकार कर लो ) ॥ ४५ ॥
तन्नैषधानूढतया दुरापं शर्म त्वयास्मत्कृतचाटुजन्म ।
रसालवल्ल्या मधुपानुविद्धं सौभाग्यमप्राप्तवसन्तयेव ॥ ४६ ॥
तदिति । किञ्च, तत्=प्रसिद्धम्, [अस्मत्कृत-चाटु-जन्म] अस्माभिः
कृतेभ्यः प्रयुक्तेभ्यश्चाटुभ्यः प्रियवाक्येभ्यो जन्म यस्य तस्य तत्तज्जन्यमित्यर्थः ।
चाटुग्रहणं पूर्वोक्तनिजपक्षवीजनाद्युपलक्षणम् । शर्म = सुखं, त्वया [अवाप्त-
वसन्ततया] अप्राप्तो वसन्तो यया तया, वसन्तानधिष्ठितयेत्यर्थः। रसालवल्ल्या =
सहकारश्रेण्या, मधुपानुविद्धं सौभाग्यं - रामणीयकम् इव [ नैषधानूढतया ]
नैषधेन नलेन, अनूढतया, अपरिणीतत्वेन हेतुना, दुरापं = दुष्प्रापम् । तस्मात्ते नल-
परिग्रहाय यत्नः कार्य इति भावः ॥ ४६ ॥

२९२ नैषधचरितम् । [ तृतीयः
यदि आप नल के साथ मिलें, तो आपके कान हमारे द्वारा कहे गये—मीठे
और मधुरजन्य सुख उसी प्रकार दुर्लभ होंगे; जिस प्रकार वसन्तऋतु के आगमन
के पूर्व फलनेवाली आम्र-वाटिका,—भौरों की (मीठी और मधुर) गुञ्जार से
उत्पन्न सुख को नहीं प्राप्त करतीं ॥ ४६ ॥
तस्यैव वा यास्यसि किं न हस्तं दृष्टं विधेः केन मनः प्रविश्य ।
अजातपाणिग्रहणासि तावद्रूपस्वरूपातिशयाश्रयश्च ॥४७॥
अथ पुनरस्या नलप्राप्त्याशां जनयन्नाह—तस्येत्यादि । यद् वा, । तस्य =
नलस्य एव हस्तं किं न यास्यसि = यास्यस्येवेत्यर्थः । केन विधेर्मन एव प्रविश्य
दृष्टं विध्यनुकूल्यमपि सम्भावितमिति भावः । कुतस्तावद् अद्यापि अजातपाणि-
ग्रहणा = अकृतविवाहा असि । तवायं विवाहविलम्बोऽपि नलपरिग्रहणार्थमेव किं न
स्यादिति भावः । [रूप-स्वरूपातिशयाश्रयः] रूपं सौन्दर्यं, स्वरूपं स्वभावः, शील-
मिति यावत् । तयोरतिशयः प्रकर्षः, तस्याश्रयश्चासि । योग्यगुणाश्रयत्वाच्च तद्धस्त-
मेव गमिष्यसीति भावः ॥ ४७ ॥
अथवा कौन जानता है कि उनके साथ तुम्हारा पाणिग्रहण होगा ही नहीं ?
क्योंकि ब्रह्मा के अन्तःकरण में घुसकर, किसने पता लगाया है (कि आपका
विवाह कहाँ होगा) ? (पर, सम्भावना इस बात से होती है कि उन्हीं के भाग्य
से तुम कुँवारी रह गयीं) अब तक तुम्हारा पाणिग्रहण नहीं हुआ; और (दूसरे)
रूपलावण्य के स्वभाव से तुम (बिना आभूषण धारण किए) असाधारण उत्कृष्टता
की आधार-स्वरूपा हो ॥ ४७ ॥
निशा शशाङ्कं शिवया गिरीशं श्रिया हरिं योजयतः प्रतीतः ।
विधेरपि स्वारसिकः प्रयासः परस्परं योग्यसमागमाय ॥ ४८ ॥
सत्यं, विधिसङ्कल्पस्तु दुर्ज्ञेय इत्यत आह-निशेति । निशा=निशया । 'पद्न्'
इत्यादिना निशादेशः । शशाङ्कम् । शिवया = गौर्या गिरीशं = शिवं, श्रिया =
लक्ष्म्या हरिं च योजयतो विधेः, प्रयासः = यत्नोऽपि परस्परं योग्यसमा-
गमाय = योग्यसङ्घटनायैव, स्वारसिकः=स्वरसप्रवृत्तः प्रतीतः = प्रसिद्धः ज्ञातः ।
निशाशशाङ्कादिदृष्टान्ताद्विधिसङ्कल्पोऽपि सुज्ञेय इति भावः ॥ ४८ ॥
रात्रि के साथ चन्द्रमा का, पार्वतीजी के साथ शिवजी का एवं लक्ष्मीजी के
साथ विष्णु भगवान् का परस्पर सम्बन्ध कराने पर, यह बात स्पष्टतया झलक

सर्गः ३ ] जीवतु-मदयन्तिकासहितम् १५३
जाती है कि ब्रह्मा का भी परस्पर योग्य वर-वधू के समागम के निमित्त, स्वेच्छा-
जन्य प्रयत्न होता है ॥ ४८ ॥
वेलातिग-स्त्रैण-गुणाब्धि-वेणी न योग्ययोग्यासि नलेतरेण ।
सन्दर्भ्यते दर्भगुणेन मल्लीमाला न मृद्वी भृशकर्शेन ॥ ४९ ॥
नलान्यासम्बन्धस्तवयोग्य इत्याह — वेलातिगेति । [ वेलातिग-स्त्रैण-गुणाब्धि-
वेणी ] वेलाम तिगच्छन्तीति वेलातिगा निःसीमाः । स्त्रीणामिमे स्त्रैणाः गुणाः ।
'स्त्रीपुंसाभ्यां नञ्-स्नञौ' इति वचनात् नञ्प्रत्ययः । त एवाब्धिस्तस्य वेणी प्रवाह-
भूता । त्वमिति शेषः । 'वेलाब्धिजलबन्धने; काले सीम्नि च, वेणी तु केशबन्धे
जलस्रुतौ' इति वैजयन्ती । [ नलेतरेण ] नलादितरेण योग्ययोग्या = योगार्हा,
नासि, तथाहि — मृद्वी मल्लीमाला भृशकर्शेन दर्भगुणेन = कुशसूत्रेण न
संन्दर्भ्यते = न सङ्गुम्फ्यते । 'दृभि ग्रथने' इति धातोः कर्मणि लट् । व्यतिरेकेण
दृष्टान्तालङ्कारः ॥ ४९ ॥
तुम—तट छोड़कर जानेवाली स्त्री-सम्बन्धि सौन्दर्य आदि गुण रूप समुद्र की
वेणी (प्रवाह) रूपा हो (अर्थात् असाधारण विश्व-सुन्दरी हो) । अतः (असा-
धारण सुन्दर) नल के अतिरिक्त किसी अन्य के साथ विवाह-संयोग के योग्य
नहीं हो; क्योंकि कोमल चमेली की माला—अत्यन्त कठिन, कुशा के बने हुए
तागे में—नहीं पोही जाती है ॥ ४९ ॥
विधिं वधूसृष्टिमपृच्छमेव तद्यानयुग्यो नलकेलियोग्याम् ।
त्वन्नामवर्णा इव कर्णपीता मयास्य संक्रीडति चक्रचक्रे ॥५०॥
विधिमिति । किं च, विधिं = ब्रह्माणं, [ नलकेलियोग्यां ] नलस्य केलेः
क्रीडायाः, योग्यामर्हा, वधूसृष्टिं = स्त्रीनिर्माणं [ तद्यानयोग्यः ] तस्य विधेर्यानस्य
रथस्य, युग्यो रथवोढा, तत्र परिचित इत्यर्थः । 'तद्वहति रथयुगप्रासङ्गम' इति
यत्प्रत्ययः । अहम् अपृच्छमेव । दुहादित्वाद् द्विकर्मकत्वम् । मया अस्य तद्या-
नस्य, चक्रचक्रे = रथाङ्गव्रजे संक्रीडति = कूजति सति 'समोऽकूजने' इति
वक्तव्येऽपि कूजतेरात्मनेपदं । त्वन्नामवर्णा इव मया [ कर्णपीताः ] कर्णेन
पीताः गृहीताः । न केवलं लिङ्गात्, किन्त्वागमादपि ज्ञातोऽयमर्थ इत्यर्थः ॥५०॥
ब्रह्माजी का रथ चलाते हुए, (एक बार) मैं—नल की क्रीडा के योग्य वधू
की सृष्टि के बारे में—ब्रह्मा से पूछ बैठा (कि आपने नल के योग्य कोई रमणी

१५४ नैषधचरितम् । [ तृतीयः
बनायी है ? ) तो उस के पतित होने पर भी तुम्हारे नाम के अक्षरों की तरह
( मिलते-जुलते ) अक्षर, मेरे कानों में सुनायी पड़े ॥ ५० ॥
अन्येन पत्या त्वयि योजितायां विज्ञत्वकीर्त्या गतजन्मनो वा ।
जनापवादार्णवमुत्तरीतुं विधा विधातुः कतमा तरी स्यात् ॥५१॥
अन्येनेति । किं च, अन्येन = नलेतरेण पत्या, त्वयि योजितायां =
घटितायां सत्यां विज्ञत्वकीर्त्या गतजन्मनः = अभिज्ञत्वख्यात्यैव नीतायुषो विधा-
तुर्वा । जनापवादार्णवम् उत्तरीतुं = निस्तरीतुम् । ‘वतो वा’ इति दीर्घः । कतमा
विधा = कः प्रकारः, तरी = तरणिः स्यात् ; न कापीत्यर्थः । ‘स्त्रियां नौस्तरणः
तरिः’ इत्यमरः । अतो दैवगत्यापि स एव ते भर्तेति भावः ॥५१॥
अथवा, तुम्हारा नल के अतिरिक्त अन्य पति के साथ समागम करके, सर्वज्ञता
की ख्याति के साथ जीवन व्यतीत करने वाले ब्रह्मा को, लोकापवाद रूप सागर
के लिए, पार जाने के लिए किस तरह की नाव मिलेगी ? (अर्थात् यदि अन्य
व्यक्ति के साथ तुम्हारा विवाह हुआ तो ब्रह्माजी की जिन्दगी भर की कमाई
नेकनामी--में बट्टा लग जायगा । इस कलङ्क को वे किसी प्रकार भी मिटा
न सकेंगे ) ॥ ५१ ॥
आस्तां तदप्रस्तुतचिन्तयालं मयासि तन्वि ! श्रमितातिवेलम् ।
सोऽहं तदागः परिमार्ष्टकामस्तवेप्सितं किं विदधेऽभिधेहि ॥५२॥
इत्थमाशामुत्पाद्य अस्याश्चित्तवृत्तिपरिज्ञानाय प्रसङ्गान्तरेण निगमयति—
आस्तामिति । तत् = पूर्वोक्तम् , आस्तां = तिष्ठतु; अप्रस्तुतचिन्तया अलं,
तया साध्यं नास्तीत्यर्थः । गम्यमानसाधनक्रियापेक्षया करणत्वात्तृतीया । अत
एवाह ‘न केवलं श्रूयमाणक्रियापेक्षया कारकोत्पत्तिः । किन्तु गम्यमानक्रिया-
पेक्षयाऽपि’ इति न्यासकारः । किन्तु हे तन्वि ! = कृशाङ्गि ! मया अतिवेल =
अत्यर्थं श्रमिता = खेदिता असि । श्रमेण्यन्तात् कर्मणि क्तः । तत् = श्रमणरूपम्
आगः = अपराधं, परिमार्ष्टकामः=परिहर्तुकामः । ‘तुं काममनसोरपि’इति मका-
रलोपः । सोऽहं किं तवेप्सितं = तव मनोरथं विदधे = कुर्वे; अभिधेहि=ब्रूहि ॥
बस, इस प्रसङ्ग को यहीं समाप्त कर देना चाहिए । अप्रासङ्गिक विचार
(विवाह सम्बन्धी चर्चा ) व्यर्थ है ( उससे क्या लाभ ? ) हे कृशोदरी ! मैंने तुम्हें
बहुत देर थकाया है । सो इस (श्रमकष्टरूपी) अपराध के क्षमा कराने के

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १५५
अभिप्राय से, तुम्हारे किसी अभीष्ट को पूरा करना चाहता हूँ । तुम्हारा कौन-सा
मनोरथ पूरा करूँ—सो बतला दीजिए ॥ ५२ ॥
इतीरयित्वा विरराम पत्री स राजपुत्रीहृदयं बुभुत्सुः ।
ह्रदे गभीरे हृदि चावगाढे शसन्ति कार्यावतरं हि सन्तः ॥५३॥
इतीति । स पत्री = हंसः, इति ईरयित्वा [ राजपुत्रीहृदयं ] राजपुत्र्या
भैम्याः, हृदयं बुभुत्सुः = जिज्ञासुः, विरराम = तूष्णीं बभूव । 'व्याङ्परिभ्यो रमः'
इति परस्मैपदं । तथा हि, सन्तः = कार्यज्ञाः, गभीरे = अगाधे, हृदि = परहृदये
ह्रदे च, अवगाढे = प्रविश्य दृष्टे सति, [ कार्यावतारं] कार्यस्य ज्ञानादेः रहस्यो-
न्मेष अवतरं तीर्थं प्रस्तावं च शंसन्ति = कथयन्ति । अन्यथा, अनर्थः स्यादिति
भावः । अवतरो व्याख्यातः । अर्थान्तरन्यासोऽलङ्कारः ॥५३॥
राजकुमारी दमयन्ती के हार्दिक अभिप्राय (नल के सम्बन्ध में उसकी क्या
धारणा है—इस बात ) को जानने की अभिलाषा से, वह हंस इतना कहने के
बाद चुप हो गया । ठीक है, गम्भीर (अत्यन्त गूढ अभिप्राय) हृद (हृदय-सरोवर)
के अवगाहन (अभिप्राय जान लेने) पर ही सज्जन (विज्ञ) पुरुष कार्य (विवाह
आदि कार्य का प्रस्ताव) कहते हैं, जिस प्रकार गम्भीर (खूब गहरे) ह्रद (तालाब)
के अवगाहन (थाह जान लेने) पर ही, सत्पुरुष (स्नान करनेवाले चतुर लोग)
कार्य (स्नान-क्रिया करने) के लिए प्रयास करते हैं ॥ ५३ ॥
किञ्चित्तिरश्चीनविलोळमौलिर्विचिन्त्य बाचं मनसा मुहूर्त्तम् ।
पतत्रिणं सा पृथिवीन्द्रपुत्री जगाद वक्त्रेण तृणीकृतेन्दुः ॥५४॥
किञ्चिदिति । [ किञ्चित्तिरश्चीन-विलोळ-मौळिः ] किञ्चित्तिरश्चीना
स्वाभावादीपत्साचीभूता, विलोला आयासादिखुलिता मौलिः केशबन्धो यस्याः सा ।
'मौल्यः संयताः कचाः' इत्यमरः । वक्त्रेण तृणीकृतेन्दुः = अधःकृतचन्द्रा, सा
पृथिवीन्द्रपुत्री = भैमी, मुहूर्त्तम् = अल्पकालं मनसा वाच्यं = वचनीयं
विचिन्त्य = पर्यालोच्य, पतत्रिण, जगाद ॥ ५४ ॥
कुछ तिरछा और चलायमान शिर करके, अपने (नैसर्गिक सौन्दर्य युक्त तथा
कलङ्कहीन ) मुख से, चन्द्रमा को तिनके के समान तुच्छ बनानेवाली, राजकुमारी
दमयन्ती—क्षणभर, चित्त में, 'क्या कहना चाहिए'--इस पर विचार करके,
पक्षिराज हंस से कहने लगी ॥ ५४ ॥

१२६ नैषधचरितम् । [ तृतीय
धिक् चापले वत्सिम... तरलीभवन्त्या ।
समीरशङ्गादिव नीरभङ्ग्या मया तटस्थस्त्वमुपद्रुतोऽसि ॥५५॥
धिगिति । चापले = चपलकर्मणि, युवादिष्वादण् । [ वत्सिम- वत्सलत्वं,
वत्सस्य भावः वत्सिमा शिशुत्वम् । पृथादित्वादिमनिच् । तेन निमित्तेन वत्सलत्वं
वात्सल्यं, वाल्यत्वप्रयुक्तचापलमित्यर्थः । तत् धिक् कुतः ? [ यत्प्रेरणात् ] यस्य
चापलवात्सल्यस्य, प्रेरणाद् उत्तरलीभवन्त्या = चपलायमानया मया समीरशङ्गात् =
वाताहतेः, उत्तरलीभवन्त्या नीरभङ्ग्या = जलवीची इव तटस्थः = उदासीनः,
कूलं गतश्च त्वमुपद्रुतः = पीडितोऽसि । अतः अधर्महेतुत्वाद्वालचापलं सोढव्यमिति
भावः ॥ ५५ ॥
( तुम्हें पकड़ने की ) चञ्चलता पर, लड़कपन के कारण स्नेह होने को धिक्कार
है; क्योंकि उस ( बाल-चापल्य से प्रेम होने ) की प्रेरणा से ही चञ्चल होकर,
मैंने तुम्हारे जैसे तटस्थ (उदासीन) मनुष्य का उत्पीड़न किया; जैसे हवा के सम्पर्क
(झोंके) से चञ्चल हुई लहरें, तट-स्थ (तट पर स्थित) व्यक्ति को कष्ट पहुँचाती हैं ॥
आदर्शतां स्वच्छतया प्रयासि सतां स तावत् खलु दर्शनीयः ।
आगः पुरस्कुर्वति सागसं मां यस्यात्मनीदं प्रतिबिम्बितं ते ॥५६॥
आदर्शतामिति । स्वच्छतया = नैर्मल्यगुणेन, [ आदर्शतां ] आ दृश्यते
पुरोगतवस्तुरूपमस्मिन्निति आदर्शो दर्पणः, तत्तां प्रयासि । कुतः ? यस्य = स्वच्छस्य,
ते = तव सम्बन्धिाने, सागसं = सापराधं, मां पुरस्कुर्वति = पूजयति, अग्रे
कुर्वाणे च । आत्मनि = बुद्धौ, स्वरूपे च । 'पुरस्कृतः पूजिते स्यादभियुक्तेऽग्रतः
कृते । आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्मवष्मणी'ति चामरः । इदं = मदीयम्
आगः = अपराधः, प्रतिबिम्बितं = प्रतिफलितं । पुरोवर्ति धर्माणामात्मनि संक्रम-
णादादर्शोऽसीत्यर्थः । ततः किमतः आह—सः=आदर्शः, सतां = साधूनां तावत्=
प्रथमं, दर्शनीयः । अथवा पूज्यश्चेति तावच्छन्दार्थः । खलु । 'रोचनं चन्दनं हेम
मृदङ्गं दर्पणं मणिम् । गुरुमग्निं तथा सूर्यं प्रातः पश्येत् सदा बुधः' इति शास्त्रादिति
भावः ॥ ५६ ॥
तुम (स्वर्णमय एवं सुन्दर होने के कारण ) वस्तुतः दर्शनीय जीव हो ।
स्वच्छ ( निष्कपट ) हृदय होने के कारण तुम तो सभी सत्पुरुषों के आदर्श
( दृष्टान्त ) रूप हो। तथापि तुम्हारे पीछे पड़कर, मैंने तुम्हें व्यर्थ

सर्गः ३ ] | जीवातु-मदयन्तिकासहितम् । १५७
हैरान किया तथापि ) मुझ-अपराधिनी-को पुरस्कृत ( सौन्दर्य, गुण शील आदि
की प्रशंसा) करके, तुम्हारी आत्मा (चित्त) में मेरा अपराध उसी प्रकार प्रति-
बिम्बित हो रहा है (अर्थात् मेरे अपराध को अपना अपराध समझकर, क्षमा
करा रहे हो) जैसे स्वच्छ (निर्मल) आदर्श (दर्पण) में जो आत्मा (आकृति)
पुरस्कृत (सामने खड़ी) हो, उसी का प्रतिबिम्ब (पर्रिछाई) दिखाई पड़ता है
(तुम स्वच्छ हृदय हो, इसलिए तुम्हें सभी प्राणी पूजनीय दिखलाई पड़ रहे हैं) ॥
अनार्यमप्याचरितं कुमार्या भवन्मम क्षाम्यतु सौम्य ! तावत् ।
हंसोऽपि देवांशतयाभिवन्द्यः श्रीवत्सलक्ष्मैव हि मत्स्यमूर्तिः ॥५७॥
अनार्यमिति । हे सौम्य ! = साधो ! भवान् कुमार्याः = शिशोर्मम
सम्बन्धि अनार्यमप्याचरितं = त्वदुपद्रवरूपं दुश्चेष्टितं तावत् = प्रथमं क्षाम्यतु =
सहतां । हंसोऽपि = तिर्यगपीत्यर्थः । त्वमिति शेषः । भवानित्यनुषङ्गे असीति
मध्यमपुरुषाप्रयोगात् । देवांशतया मत्स्यमूर्तिः श्रीवत्सलक्ष्मा=विष्णुः इव अभि-
वन्द्यः=वन्द्योऽसि ॥५७॥
हे सौम्य ! तुम मुझ कुमारी कन्या के (तुम्हें तङ्ग करने वाले) अनार्योचित
(अर्थात् अनुचित) आचरण को, पहले क्षमा कर दो । (यदि कहो कि तुम
राजकुमारी हो, किसी के अपराध को क्षमा कर देना या दण्ड देना राजपरिवार के
अधीन होता है और मुझ जैसे साधारण पक्षी से क्यों क्षमा माँग रही हो, तो इसका
उत्तर यह है कि ) हंस पक्षी होने पर भी, तुम देवताओं के अंश से उत्पन्न होने
के कारण, मत्स्य रूप धारण करने वाले, श्रीवत्स लाञ्छन-धारी विष्णु भगवान् के
समान पूजनीय हो (जिस प्रकार भगवान् की मत्स्य मूर्ति की पूजा होती है। उसी
प्रकार तुम्हारी देवांश हंस मूर्ति भी पूजनीय है ) ॥५७॥
मत्प्रीतिमाधित्ससि कां त्वदीक्षामुदं मदक्ष्णोरपि यातिशेताम् ।
निजामृतैर्लोचनसेचनाडुवा पृथक्किमिन्दुः सृजति प्रजानाम् ॥५८॥
अथ यदुक्तं 'त्वयेप्सितं किं विधेहि अभिधेहि' इति तत्रोत्तरमाह-मत्प्रीति-
मिति । कां मत्प्रीतिं = किंवा मदीप्सितमित्यर्थः । आधित्ससि = आधातुं कर्त्तु-
मिच्छसि । दधातेः सन्नन्ताल्लट् । या = प्रीतिर्मदक्ष्णोः त्वदीक्षामुदं = त्वदीक्षण-
प्रीतिम् अपि अतिशेताम् = अतिलंघताम्, त्वद्दर्शनोत्सवादन्यत् किं ममेप्सित-
मित्यर्थः । तथाहि--इन्दुः प्रजानां = जनानां लोचनसेचनातू पृथक्

१५८ नैषधचरितम् । [ तृतीय-
= अमृतपूरैर्मुखमापूरयति न पूरयतीत्यर्थः । किञ्च सृजौत = करोति ? न किञ्चित्
करोतीत्यर्थः । दृष्टान्तालङ्कारः ॥५८॥
मेरी आँखों को-तुम्हारा दर्शन करने से-जो आनन्द प्राप्त हुआ उससे
भी बढ़कर, और कौन-सा विशेष आनन्द ही रहा, जिसे तुम दोगे ? क्योंकि सुधा-
कर चन्द्रमा-अपनी सुधा से, जनता के नयनों को जुड़ाने ( आनन्द देने ) के
अतिरिक्त-और क्या कर सकता है ? ॥५८॥
मनस्तु यं नोज्झति जातु, यातु मनोरथः कण्ठपथं कथं सः ।
का नाम बाला द्विजराजपाणि-ग्रहाभिलाषं कथयेदभिज्ञा ॥५९॥
अथ सर्वथा मनोरथः कथनीयः इत्यभिप्रेत्य, तन्न शक्यमित्याह-मनस्त्विति ।
मनः = मच्चित्तं कर्तृ यं = मनोरथं जातु = कदापि नोज्झति = न जहाति । स
मनोरथः कण्ठपथं = वाग्विषयं, उपकण्ठदेशं च; कथं यातु ? सम्भावनायां
लोट् । सम्भावनापि नास्तीत्यर्थः । केनापि प्रतिबध्दस्य मनोरथस्य कथमन्तिकेऽपि
सञ्चार इति भावः । कुतः ? अभिज्ञा = विवेकिनी, का नाम बाला = का वा
स्त्री [ द्विजराज-पाणि-ग्रहाभिलाषं ] द्विजराजस्य इन्दोः, पाणिना ग्रहे ग्रहणे,
अभिलाषं कथयेत् । तथा द्विज ! = पक्षिन् !, राजपाणिग्रहाभिलाषं = नल-
पाणिग्रहणेच्छामिति च गम्यते । तथा च दुर्लभजनप्रार्थना द्विजराजपाणिग्रहणकल्पा
परिहासास्पदीभूता, कथं लज्जावत्या वक्तुं शक्या इत्यर्थः । पूर्व एवालङ्कारः ॥५९॥
जिस मनोरथ को, मन अपने से कभी अलग नहीं करना चाहता, उस मनो-
भाव को ( मन से अलग करके ) कण्ठरूपी मार्ग तक ( लज्जा के कारण ) कैसे
ले आऊँ ? ( पृथ्वीतल पर रहनेवाली ) कौन ऐसी विवेकिनी ( समझदार )
बाला है, जो ( आकाश में विराजमान ) द्विजराज ( चन्द्रमा ) को पाणि ( हाथ )
से ग्रहण करने ( पकड़ने की ) अभिलाषा को मुँह से कह सकें ? ( यदि भूतल
पर रहनेवाली बालिका, आकाश में रहनेवाले चन्द्र को, अपने हाथ से पकड़ने की
इच्छा करे और किसी से यह बात कहे तो उसका यह प्रयत्न एकदम उपहासास्पद
तथा असम्भव माना जायगा ) उसी प्रकार ( प्रौढा नायिका की बात छोड़ दीजिए)
कौन ऐसी बुद्धिमती बाला है-जो हे द्विज ( हंस ) ! राजा ( नल ) के साथ
पाणिग्रहण की अभिलाषा को, मुँह खोलकर, कह सके ? ॥ ५६ ॥

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १५९
वाचं तदीयां परिपीय मृद्वीं मृद्वीकया तुल्यरसां स हंसः ।
तत्याज तोषं परपुष्टघुष्टे घृणाञ्च वीणाक्वणिते वितेने ॥६०॥
वाचमिति । स हंसः मृद्वीकया=द्राक्षया । 'मृद्वीका गोस्तनी द्राक्षा'इत्यमरः ।
तुल्यरसां = समानस्वादां, मधुरार्थामित्यर्थः । मृद्वीं = मधुराक्षरां, तदीयां वाचं
परिपीय = अत्यादरादाकर्ण्य, परपुष्टघुष्टे = कोकिलकूजिते तोषं = प्रीतिं तत्याज ।
वीणाक्वणिते च घृणां=जुगुप्साम् । 'घृणा जुगुप्सा-कृपयोः' इति विश्वः । वितेने ॥
दमयन्ती की—अंगूर के समान मीठी रसदार ( माधुर्य रस से परिपूर्ण )—
कोमल वाणी का सादर पान करके, उस हंस को कोयल की ( मीठी ) कूक का
आनन्द जाता रहा और वीणा की कुन-कुन की ( मधुर तथा सुरीली ) आवाज़
से भी घृणा हो गयी ( अर्थात् वीणा की झङ्कार तथा कोयल की बोली से भी बढ़
कर, दमयन्ती की वाणी तथा कण्ठध्वनि में मधुरता थी ) ॥६०॥
मन्दाक्ष-मन्दाक्षर-मुद्रमुक्तवा तस्यां समाकुञ्चितवाचि हंसः ।
तच्छंसिते किञ्चन संशयालुर्गीरा मुखाम्भोजमयं युयोज ॥६१॥
मन्दाक्षमिति । तस्यां = भैम्यां, [ मन्दाक्ष-मन्दाक्षर-मुद्रं ] मन्दाक्षेण
हिया, मन्दा सन्दिग्धार्था, अक्षरमुद्रा द्विजराजपाणिग्रहेत्याद्यक्षरविन्यासो यस्मिन्
तत्तथोक्तम् उक्त्वा समाकुञ्चितवाचि = नियमितवचनायां सत्याम् अयं हंसः,
तच्छंसिते = भैमीभाषिते किञ्चन = किञ्चित् संशयालुः = सन्दिहानः सन् ।
'स्पृहिगृहि' इत्यादिना आलुच् प्रत्ययः । मुखाम्भोज = मुखकमलं, गिरा युयोज
=मुखेन गिरमुवाचेत्यर्थः ॥६१॥
दमयन्ती के--लज्जा के कारण अल्प अक्षर ( 'द्विजराज-पाणि-ग्रहाभिलाषं०' )
के विन्यास से—वैसा ( 'मन जिसे चाहता है' ) कहकर 'वाणी' के मौन धारण
कर लेने पर, वह हंस, उसकी कही हुई ( 'मन जिसे चाहता है'—इस ) बात
पर, कुछ संशयालु हुआ ( कि वह नल को चाहती है क्या ? ) । तब इस संशय
को निवारण करने के लिए ) आगे कही जानेवाली 'वाणी' के साथ, उसने अपने
मुख-'कमल' का, संयोग कराया ( अर्थात् प्रश्न किया ) ॥ ६१ ॥
करेण वाञ्छेव विधुं विधातुं यमित्थमात्थादरिणी तमर्थम् ।
पातुं श्रुतिभ्यामपि नाधिकुर्वे वर्णं श्रुतेर्वर्ण इवान्तिमः किम् ॥६२॥
करेणेति । हे भैमि !, करेण विधुं = चन्द्रं, विधातुं = ग्रहीतुं, वाञ्छा इव

४. नल-दमयन्ती विवाह व कलि पराभव (सर्ग १५-२२)

यमर्थम्, ईदृशं = द्विजराजपाणिग्रहणाभिलाषसदृशम्, सादरिणी = आदरवती सती
आत्थ = ब्रवीषि । 'ब्रुवः पञ्चानाम्' इति ब्रुवो लटि सिपि थलादेशः । ब्रुवश्था-
देशः । 'आहस्थः' इति हकारस्य थकारः । तमर्थम् । अन्ते भवोऽन्तिमो वर्णः =
शूद्रः । 'अन्ताच्चेति वक्तव्यम्' इति इमच् । श्रुतेर्वर्णं = वेदाक्षरम् इव, श्रुतिभ्यां
= श्रोत्राभ्यां पातुं = श्रोतुमपीत्यर्थः । नाधिकुर्वे=नाधिकार्यस्मि किं ? = अस्म्ये-
वेत्यर्थः । अतः सोऽर्थो वक्तव्य इति तात्पर्यम् ॥६२॥
बोलने के लिए, मेरे आग्रह करने पर, आपने जो द्विज-राज को पाणि से
ग्रहण करने की वाञ्छा के समान' इस प्रकार वाक्य कहा, उस विषय को श्रुति
( कानों ) से सादर पान करने ( स्पष्ट सुनने ) का क्या मैं उस प्रकार अधिकारी
नहीं हूँ ?; जैसे अन्तिम वर्ण ( शूद्र ) श्रुति ( वेद ) के वर्ण ( अक्षर ) को सुनने
का अधिकारी नहीं होता ( अर्थात् श्लेषमयी साहित्यिक भाषा का प्रयोग न करके,
सर्वसाधारण की समझ में आने वाला सरलार्थ बताइए ) ॥६२॥
अर्थाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि वर्त्तते यः ।
यत्रान्धकारः खलु चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥६३॥
ननु तमर्थमत्यन्तदुर्लभत्वाद्वक्तुं जिह्मेमीत्याशङ्क्याह—अर्थाप्यत इति । हे
भैमि ! भवत्या किंवा, इयत् = एतावद्यथा तथा अर्थाप्यते । किमर्थम् अय-
मर्थो द्विजराजपाणिग्रहवदतिदुर्लभत्वेनाख्यायत इत्यर्थः । अर्थशब्दात्तदाचष्टे इत्यर्थे
णिच् 'अर्थवेदसत्यानामापुग्वक्तव्यः' इत्यापुगागमः । कुतस्तथा नाख्येय इत्यत
आह—योऽर्थः एकः पादो यस्यामित्येकपदी, एकपादसञ्चारयोग्यमार्गः । 'वर्त्त्येक-
पदीति च' इत्यमरः । 'कुम्भपदीषु च' इति निपातनात् साधुः । चित्तैकपद्यां =
मनोमार्गेऽपि वर्तते । चक्षुराद्यविषयत्वेऽपीत्यपिशब्दार्थः । स कथं दुर्लभ इति भावः ।
तथा हि, यत्र=यस्मिन् ब्रह्मणि विषये चेतसोऽप्यन्धकारः प्रतिबन्धः किल तद् ब्रह्म
जिह्मेतरैः = अकुटिलैः, कुशलधीभिरिति यावत् । अवाप्यं = सुप्रापं । अमनोगम्यं
ब्रह्मापि कैश्चिद्गम्यते, किमुत मनोगतोऽयमर्थः । अत एवार्थापत्तिरलंकारः । कैमुत्ये-
नार्थान्तरापतनमर्थापत्तिरिति वचनात् ॥ ६३ ॥
जो मनोरथ आपके चित्त-पथ पर दौड़ रहा है, उसे आप ( 'मनस्तु यं
नोज्झति' कहकर ) क्यों अर्थ ( धन ) के समान गुप्त रख रही हैं ? जिस ( ब्रह्म )
के बारे में ऐसा ( श्रुति प्रोक्त ) सुना गया है कि 'वह मन के विषय से परे है'—

[यः सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १६१
वह भी तो उद्योगी पुरुषों द्वारा ( योगाभ्यास से ) सुलभ हो जाता है ( तब भला,
आपका मनोरथ प्रयत्न करने से क्यों न पूरा होगा ? ) ॥ ६३ ॥
ईशाणिमैश्वर्य-विवर्त-मध्ये ! लोकेश-लोकेशय-लोक-मध्ये ।
तिर्यञ्चमप्यञ्च मृषानभिज्ञ-रसज्ञतोपज्ञ-समज्ञमज्ञम् ॥ ६४ ॥
अथ मयि मृषावादित्वशङ्कया वक्तुं सङ्कोचस्तच्च न शङ्कितव्यमित्याह—
ईशेत्यादिना त्रयेण । [ ईशाणिमैश्वर्य-विवर्त-मध्ये ! ] ईशस्य यदणि-
मैश्वर्यं, तस्य विवर्त्तो रूपान्तरं मध्यो यस्याः सा तथोक्ते । हे कृशोदरीत्यर्थः ।
[ लोकेश-लोकेशय-लोकमध्ये ] लोकेशलोके शेरत इति लोकेशलोकेशयाः ब्रह्म-
लोकवासिनः । 'अधिकरणे शेतेः' इत्यच्प्रत्ययः । 'शयवासवासिष्वकालात्' इत्यलुक् ।
तेषां लोकानां जनानां मध्ये अज्ञं=मूर्ढं, तिर्यञ्च = पक्षिणमपि, मामिति शेषः ।
[ मृषानभिज्ञ-रसज्ञतोपज्ञ-समज्ञं ] मृषा अनृतं, तस्य अनभिज्ञा रसज्ञा रसना,
यस्य तस्य भावस्तत्ता, सत्यवादित्यर्थः । उपजायत इति उपज्ञा, आदावुपज्ञाता ।
'उपज्ञा ज्ञानमाद्यं स्यात्' इत्यमरः । 'आतश्चोपसर्गे' इत्यङ्प्रत्ययः । बहुलग्रहणात्
कर्मार्थत्वम् । तथात्वेन ज्ञातं तदुपशं, 'उपज्ञोपक्रमं तदाद्याचिख्यासायाम्' इति
नपुंसकत्वं, समं साधारणं, सर्वैरज्ञायत इति समज्ञा कीर्तिः । तदुपज्ञं तथात्वेनादौ
ज्ञाता समज्ञा कीर्तिर्येन तं, तथोक्तं मां अञ्च = सत्यवादिनं विद्धीत्यर्थः । अञ्चतेर्ग-
त्यर्थत्वात् ज्ञानार्थत्वम् ॥६४॥
हे महेश के ( अणिमा-लघिमा आदि ८ प्रकार के ) ऐश्वर्यों में पहली अणिमा
के विवर्त के समान सूक्ष्म मध्यभाग वाली (अर्थात् हे पतली कमर वाली) ! लोकेश
ब्रह्मा के लोक ( ब्रह्माण्ड ) में रहने वाले लोगों में यद्यपि मैं केवल मूर्ख पक्षी हूँ;
तथापि मेरी—रस को ग्रहण करने वाली—जीभ असत्य भाषण से अनभिज्ञ होने
के कारण, मैं ( ब्रह्मलोक में सत्यवादियों की श्रेणी में ) सर्व-प्रथम उल्लेख होने
वाली कीर्ति से संयुक्त हूँ ( अर्थात् सम्पूर्ण सत्यवादियों में अग्रणी हूँ )—इसे भली
भाँति समझ लीजिए ॥ ६४ ॥
मध्ये श्रुतीनां प्रतिवेशिनीनां सरस्वती वासवती मुखे नः ।
ह्रियेव ताभ्यश्चलतायमद्यापथान्न संसगगुणेन बद्धा ॥ ६५ ॥
मध्य इति । किं च प्रतिवेशिनीनां=प्रावेश्यानां, श्रुतीनां=वेदानां, ब्रह्म-
मुखस्थानां श्रुतीनां मध्ये वासवती = निवसन्ती, इयं सरस्वती=अस्माकं मुखे, सर-
११

१६२ नैषधचरितम् । [ तृतीयः
स्वती=वाग्देवी, सा, संसर्ग एव गुणः श्लाघ्यधर्मः तन्तुश्च तेन बद्धा
सती, ताभ्यः = श्रुतिभ्यो ह्रिया इव इत्युत्प्रेक्षा । अद्धापथात् = सत्यमार्गात् न
चलति, संसर्गजा दोषगुणा भवन्तीति भावः । 'सत्ये त्वद्धाञ्जसाद्वयम्' इत्यमरः ॥
हमारे मुख में ( किसी भवन में ) रहने वाली, यह सरस्वती ( वाणी; कोई
महिला ) श्रुतियों ( वेदों; सतियों ) की पड़ोसिन है । ( यतः ब्रह्मा के मुख से श्रुतियाँ
निकली हैं और ब्रह्मा के रथ में हंस रहते हैं, अतः वे एक गाँव की रहने वाली
पड़ोसिन हुईं ) । यह—श्रुतियों ( वेदों ) के संसर्ग के गुण से बँधी रहने के कारण,
मानों उन ( श्रुतिरुपी पड़ोसिनों ) की लज्जा से ही,—अद्धापथ ( सत्यमार्ग; सती-
धर्म ) से स्खलित नहीं होती ( झूठ नहीं बोलती; विचलित हो व्यभिचारिणी
नहीं होती ) ॥ ६५ ॥
पर्यङ्कतापत्रसरस्वदङ्कां लङ्कापुरीमप्यभिलाषि चित्तम् ।
कुत्रापि चेद्वस्तुनि ते प्रयाति तदप्यवेहि स्वशये शयालु ॥६६॥
ततः किमित्यत आह-पर्यङ्केति । कुत्रापि वस्तुनि-द्वीपान्तरस्थेऽपीति भावः ।
अभिलाषि=साभिलाषं, ते=तव, चित्तं कर्तृ, [ पर्यङ्कतापत्र-सरस्वदङ्कां ] पर्यङ्क-
तां वाससद्थिकात्वमापन्नः सरस्वान् सागरोऽङ्कश्चिह्नं यस्यास्तामतिदुर्गमामित्यर्थः ।
तां लङ्कापुरीमपि, प्रयाति चेत् । तदपि=तद्दुर्गस्थमपि स्वशये=स्वहस्ते,
शयालु = स्थितम् अवेहि । पर्यस्तमपि पर्यङ्कस्थमिव जानीहि ॥ ६६ ॥
तुम्हारा चित्त—समुद्र के अङ्क ( गोद ) को पर्यङ्क ( पलङ्ग ) बनाने वाली
( अर्थात् समुद्र के बीच में स्थित, अतः दुर्लङ्घ्य )—लङ्कापुरी की भी यदि अभि-
लाषा करे; किंवा उससे भी अधिक दुर्लभ वस्तु के पाने की इच्छा करे तो ( दोनों
ही को ) अपने हाथ में आया ही समझो ॥ ६६ ॥
इतीरिता पत्ररथेन तेन हीणा च हृष्टा च बभाण भैमी ।
चेतो नलं कामयते मदीयं नान्यत्र कुत्रापि च साभिलाषम् ॥६७॥
इतीति । तेन पत्ररथेन = पक्षिणा हंसेन, इति = इत्थम् ईरिता = उक्ता,
भैमी, हीणा = स्वयमेव स्वाकूतकथनसंकोचात् लज्जिता । 'नुदविद' इत्यादिना
विकल्पात्रिष्ठानत्वम् । हृष्टा = उपायलाभान्मुदिता च सती बभाण । किमिति
मदीयं चेतो लङ्कां नायते = नैति किन्तु नलं राजानं कामयत इति श्लेषभङ्ग्या
बभाणेत्यर्थः । अन्यत्र कुत्रापि = वस्तुनि च साभिलाषं न ॥ ६७ ॥

र्गः ३ ] जीवातू-मदयन्तिकासहितम् । १६३
Digitized by Sarayu Trust Foundation and eGangotri
उस पक्षी के ( हंस ) के इस प्रकार कहने पर, ( नल के सम्बन्ध में कहते
ए संकोच के कारण ) लज्जित तथा ( हंस द्वारा अपनी अभीष्ट पूर्ति के बारे में
ल लेने से ) हर्षित हो, दमयन्ती बोली- (तुमने जो लङ्का और अन्य दुर्लभ
स्तु के बारे में कहा, सो ) ( चेतो न लंकामयते मदीयं ) मेरा चित्त लङ्का को
नहीं चाहता और न किसी अन्य वस्तु की अभिलाषा करता है। ( दूसरा अर्थ-
चेतो नलं कामयते मदीयं' = मेरा चित्त नल को चाहता है। तीसरा अर्थ-
चेतोऽनलं कामयते मदीयं न' = मेरा चित्त अ-नल 'नल के अतिरिक्त' नहीं
चाहता है। चौथा अर्थ- 'चेतोऽनलं कामयते मदीयं' = यदि नल नहीं मिले तो
मेरा चित्त अनल 'अग्नि' को चाहेगा; अग्नि की लपट में अपने शरीर की आहुति
चढ़ा दूंगी, पर किसी अन्य पुरुष की अभिलाषा नहीं करूँगी ) ॥६७॥
विचिन्त्य बालाजनशीलशैलं लज्जानदोमज्जदनङ्गनागम् ।
आचष्ट विस्पष्टमभाषमाणांमेनां स चक्राङ्ग-पतङ्ग-शक्रः ॥६८॥
विचिन्त्येति । विस्पष्टमभाषमाणां = श्लेषोक्तिवशात् संदिग्धमेव भाषमाणा-
मित्यर्थः । एनां = दमयन्तीं, सः चक्राङ्गपतङ्गशक्रः = हंसपक्षिश्रेष्ठः, [ बाला-
जन-शील-शैलं ] बालाजनस्य मुग्धाङ्गनाजनस्य, शीलं स्वभावमेव शैलं [ लज्जा-
नदी-मज्जदनङ्ग-नागं ] लज्जायामेव नद्यां, मज्जदनङ्गनागो यस्य तं, विचिन्त्य =
विचार्य आचष्ट । तस्य लज्जाविजितमन्मथत्वं ज्ञात्वा लज्जाविसर्जनार्थं वाक्यमुवा-
चेत्यर्थः ॥६८॥
मुग्धा ( दमयन्ती रूप अल्हड़ ) नायिका के शील-स्वभाव रूपी पर्वत पर,
लज्जा रूपी नदी में, अनङ्ग-नाग ( कामदेव रूपी मत्त गजराज ) को स्नान करते
हुए, विचार ( देख ) कर, हंस पक्षियों में इन्द्र के समान वह राजहंस- ( 'श्लेष'
एवं 'ध्वनि' द्वारा गूढ वाक्य बोलने वाली; किन्तु ) स्पष्टरूप से अपनी अभिलाषा
व्यक्त न करने वाली दमयन्ती से-कहने लगा ॥६८॥
नृपेण पाणिग्रहणे स्पृहेति नलं मनः कामयते ममेति ।
व्याश्लेषि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः 'सुधिया मया किम् ॥६९॥
नृपेणेति । श्लेषकवेः = श्लेषभङ्ग्या कवयित्र्याः श्लिष्टशब्दप्रयोक्त्र्या इत्यर्थः ।
'कविवर्णने' इति धातोरौणादिक इकारप्रत्ययः । भवत्याः = तव सम्बन्धि नृपेण
कर्त्रा, [ पाणिग्रहणस्पृहा ] पाणिग्रहणं पाणिपीडनं । 'उभयप्राप्तौ कर्मणि' इति

विहितायाः शेष इति समासनिषेधोऽपि शेष षष्ठीसमासः । तत्र स्पृहा,
इति मम मनः = द्विजराजपाणिग्रहेति चेतो नलं कामयत इति श्लोकद्वयार्थः ।
सुधिया = विदुषा मया नाश्लेषि = नामाहि किं ?, गृहीत एवेत्यर्थः ॥६६॥
श्लेष शब्द का प्रयोग करने वाली, आप जैसी कवयित्री का—'नृप के साथ
पाणिग्रहण की अभिलाषा है' ( श्लोक ५६ ), और 'मेरा चित्त नल को चाहता
है' ( श्लोक ६७ )—इन दोनों श्लोकों का अभिप्राय, मुझ बुद्धि रखने वाले की
समझ में क्या नहीं आया ? ( अर्थात् आपके तात्पर्य को मैं समझ गया ) ॥६६॥
त्वच्चेतसः स्थैर्यविपर्ययं तु सम्भाव्य भाव्यास्मि तदज्ञ एव ।
लक्ष्ये हि बाळाहृदि लोलशीले दरापराद्धेषुरपि स्मरः स्यात् ॥७०॥
तर्हि किमर्थं करेण वाञ्छेत्यादिकं अज्ञवदुक्तमित्यत आह—त्वच्चेतस इति ।
किं तु त्वच्चेतसः स्थैर्यविपर्ययम् = अस्थिरत्वं संभाव्य = आशङ्क्य, तदज्ञः =
तस्य श्लोकद्वयार्थस्य अज्ञः अनभिज्ञः, भावा = भविष्यन् । 'भविष्यति गम्यादयः'
इति साधुः । अस्मि । त्वच्चित्तनिश्चयपर्यन्तमित्यर्थः । 'धातुसम्बन्धे प्रत्ययाः' इति
भविष्यत्ताया गुणत्वाद्वर्तमाना नुरोधः । नन्वेवमनुरक्तायां मयि कुत इयं शङ्केत्या-
शङ्क्य स्त्रीणां चित्तचाञ्चल्यसम्भवादित्याह— लक्ष्य इति । लोलशीले = चञ्चल-
स्वभावे, बाळाहृदि बालायाः हृदि चित्त एव लक्ष्ये, स्मरोऽपि दरापराद्धेषुः
ईषच्च्युतसायकः स्यात् । कुशलोऽपि धन्वी चललक्ष्यात् कदाचिदपराध्यत इति भावः ।
'अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः' इत्यमरः । अर्थान्तरन्यासोऽलङ्कारः॥७०॥
तो (अर्थात् आप कहें कि यदि मेरे अभिप्राय को जान ही गये हो तो क्यों
मुझे निर्लज्ज बनाकर, उसी बात को मेरे मुँह से कहलवाना चाहते हो तो इसका
उत्तर यह है कि ) आपके चित्त की अस्थिरता की सम्भावना करके, मैं उस
( अभिलाषा ) के बारे में अनभिज्ञ बनकर, पूछ रहा हूँ, क्योंकि ( बाल्यावस्था के
कारण ) चञ्चल शील-स्वभाव वाली, मुग्धा बाला के हृदय को लक्ष्य बनाने में,
( निशाने वाली वस्तु ) हृदय के अस्थिर होने की आशङ्का से, ( अचूक निशाने-
बाज़ ) कामदेव भी कहीं अपना निशाना न चूक जाय । ( यदि लक्ष्य स्थिर है,
तब तो लक्ष्यभेद सरल है; और यदि लक्ष्य स्थिर नहीं है, हिलता-डुलता रहता है,
तब निशाना लगाने में बड़ी कठिनाई होती है और बड़े-बड़े निशानेबाज़ भी चूक
जाते हैं, उसी प्रकार कहीं कामदेव भी न चूक जाय ) ॥७०॥

[सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १६५
महीमहेन्द्रः खलु नैषधेन्दुस्तद्बोधनीयः कथमित्यमेव ।
प्रयोजनं सांशयिकम्प्रतीहक्पृथग्जनेनेव स मद्गिधेन ॥७१॥
महीति । किंच, नैषधः इन्दुरिव नैषधेन्दुर्नैषधचन्द्रः, महीमहेन्द्रः=भूदेवेन्द्रः
खलु तत् = तस्मात्, स = नलः पृथग्जनेन=प्राकृतजनेन इव मद्गिधेन=मादृशा,
विदुषा ईदृक् सांशयिकं = सन्देहदुःस्थं अस्थिरं प्रयोजनं प्रति इत्थमेव =
मुग्धाकारेणैव कथं बोधनीयः, अनर्हमित्यर्थः । 'गतिबुद्धि' इत्यादिना अणिकर्तुं-
र्नलस्य कर्मत्वं ण्यन्ते कर्तुश्च कर्मण इति अभिधानाच्च ॥७१॥
वे निषध देश की जनता के आह्लादकारी निर्मल चन्द्रमा के समान ही नहीं
हैं, प्रत्युत समस्त भूमण्डल के इन्द्र ( एकच्छत्र सम्राट् ) हैं, अतः ऐसे व्यक्ति से
—सर्वसाधारण ( अपढ़ ) जनता की भाँति, मेरे जैसे ( ब्रह्मा के वाहन, उच्च
कुलोत्पन्न, शिक्षित, विद्वान् ) लोग ( आप की कामना उन के सम्बन्ध में है या
किसी अन्य पुरुष के, इसका पता नहीं चलता ) ऐसे संशय से अस्थिर और इस
प्रकार के ( गुरुतर ) प्रयोजन को—किस तरह सूचित कर सकते हैं ? ॥७१॥
पितुर्नियोगेन निजेच्छया वा युवानमन्यं यदि वा वृणीषे ।
त्वदर्थमर्थित्वकृतिप्रतीतिः कीदृङ्मयि स्यान्निषधेश्वरस्य ॥७२॥
अथेत्थमेव बोधने को दोषस्तत्राह—पितुरिति । पितुः नियोगेन = आज्ञया
निजेच्छया = स्वेच्छया वा, अन्यं = नलादन्यं युवानं यदि वृणीषे = वृणोषि
यदि । तदा निषधेश्वरस्य=नलस्य, मयि विषये, त्वदर्थ=तुभ्यं । 'चतुर्थी तदर्थ'
इत्यादिना चतुर्थीसमासः । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या।'
तद्यत्तथा, [ अर्थित्वकृतिप्रतीतिः ] अर्थित्वकृतिः अर्थित्वभजनं, तत्र प्रतीतिर्वि-
श्वासः, कीदृक् स्यात् = न स्यादित्यर्थः । तस्मादसन्दिग्धं वाच्यमिति भावः ॥७२॥
पिता के आदेश से, अथवा स्वेच्छा से, यदि आप किसी अन्य युवक को
वरण कर लेंगी तो आप को पत्नी के रूप में स्वीकार करने के निमित्त, आपकी
ओर से उन्हें विश्वास दिलाने वाले मुझपर—निषधराज नल का कैसे विश्वास बना
रह जायगा ? ( मेरे प्रति उनकी धारणा बदल जायगी और वे मुझे एकदम
झूठा समझेंगे ) ॥ ७२ ॥
त्वयापि किं शङ्कितविक्रियेऽस्मिन्नधिक्रिये वा विषये विधातुम् ।
इतः पृथक् प्रार्थयसे तु यद्यत्कुर्वे तदूढं नृपतेः पुत्रि ! सर्वम् ॥७३॥

१६६ नैषधचरितम् [ तृतीयः
अन्यदाने सत्यहमपि स्वात्मदानेन त्वां कृतार्थं करिष्ये प्रतिज्ञाभङ्गपरिहा-
रायेत्याह—त्वयेति । हे उर्वीपतिपुत्रि ! = भैमि !, त्वयापि किं वा विधातुं
= किं कर्तुं शङ्कितविक्रिये = सम्भावितविपर्यये, अस्मिन् विषये = राजपाणि-
ग्रहणसंघटनकार्ये अहं अधिक्रिये=विनियुज्ये, अनियोज्य इत्यर्थः । करोतेः कर्मणि
लट् । किं तु इतः पृथक् = अस्मादन्यत् यद्यत् प्रार्थयसे तत्सर्वं कुर्वे =
करोमीत्यर्थः ॥ ७३ ॥
आप भी मुझे - स्पष्ट रूप से न कहे हुए, सन्दिग्धपूर्ण (द्विजराजपाणिग्रहा-
मिलाषरूप) कार्य को करने के लिए - क्यों अधिकारी बना (प्रेरणा कर) रही
हैं ? किन्तु हे राजकुमारी ! इस (विवाहकार्य) के अतिरिक्त जो-जो भी कहेंगी,
सो सब करने के लिए तैयार रहूँगा ॥ ७३ ॥
श्रवःप्रविष्टा इव तद्गिरस्ता विधूय वैमत्यधुतेन मूर्ध्ना ।
ऊचे ह्रिया विश्लथितानुरोधा पुनर्धरित्रीपुरुहूतपुत्री ॥७४॥
श्रव इति । धरित्रीपुरुहूतपुत्री = भूमीन्द्रसुता भैमी, श्रवःप्रविष्टा इव, न
तु सम्यक् प्रविष्टाः, तद्गिरः = हंसवाचः । [ वैमत्य-धुतेन ] वैमत्येन असम्म-
त्या धुतेन कम्पितेन, मूर्ध्ना विधूय = प्रतिषिध्य ह्रिया कर्त्र्या विश्लथिता-
नुरोधा = शिथिलितवृत्तिस्त्यक्तलज्जा सती, पुनरप्यूचे = उवाच ॥७४॥
कर्णपुट में गयी हुई, हंस की बातों को - असहमत होने के कारण, सिर
हिलाने से - मानों बाहर निकाल कर और (चिर सहचारिणी प्रबला) लज्जा के
आग्रह को भी शिथिल कर (अर्थात् लज्जा का परित्यागकर), भीम-राजकुमारी
दमयन्ती फिर बोली - ॥ ७४ ॥
मदन्यदानं प्रति कल्पना या वेदस्तवदीये हृदि तावदेषा ।
निशोऽपि सोमेतरकान्तशङ्कामोंकारमग्नेसरमस्य कुर्याः ॥७५॥
मदिति । [ मदन्यदानं ] मम अन्यदानं अन्यस्मै दानं प्रति = दानमुद्दिश्य,
या कल्पना पितुर्निबोगेनेत्यादि श्लोकतर्कः । एषा कल्पना त्वदीये हृदि,
वेदस्तावत् = सत्य एवेत्यर्थः । निशः = निशाया अपि 'पद्मन्' इत्यादिना निशाया
निशादेशः । [ सोमेतरशङ्कां ] सोमाच्चन्द्रादितरकान्तशङ्कां पुरुषान्तरकल्पनामेव,
ओंकारं=प्रणवं, अस्य = वेदस्य अग्रेसरं = आद्यं, कुर्याः = कुरु । सर्वस्यापि वेदस्य

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १६७
प्रणवपूर्वकत्वादिति भावः । यथा निशायाः निशाकरेतरप्रतिग्रहो न शङ्कनीयः, तथा
ममापि नलेतरप्रतिग्रहो न शङ्कनीय इत्यर्थः । रूपकालङ्कारः ॥ ७५ ॥
नल के अतिरिक्त किसी अन्य के साथ (मेरे पिता द्वारा) कन्यादान होने के
सम्बन्ध में यदि यह ('पितृनियोगेन' वाली) धारणा तुम्हारे हृदय में, वेद के
समान बद्धमूल जमी हुई है, तो तुम रात्रि का भी चन्द्रमा के अतिरिक्त कोई अन्य
पति होने की शङ्का को इस प्रकार स्थान दो, जिस प्रकार वेदमन्त्र के पहले ॐ
होता है । (अर्थात् जिस प्रकार वेदमन्त्र के पूर्व ओम् का उच्चारण किया जाता
है, उसी प्रकार चन्द्रमा के अतिरिक्त निशा-नायिका के अन्य पति होने की कल्पना

  • नल के अतिरिक्त मेरे अन्य पति होने की कल्पना के समान - करनी
    चाहिए) ॥ ७५ ॥
    सरोजिनी-मानस-राग-वृत्तेरनर्क-सम्पर्कमतर्कयित्वा ।
    मदन्य-पाणिग्रह-शङ्कितेयमहो महीयस्तव साहसिक्यम् ॥ ७६॥
    सरोजिनीति । [ सरोजिनी-मानस-राग-वृत्तेः ] सरोजिन्याः पद्मिन्याः,
    मानसरागवृत्तेर्मनोऽनुरागस्थितेः, अभ्यन्तरारुण्यप्रवृत्तेश्च; अनर्कसम्पर्कम् = अर्के-
    तरकान्तसंक्रान्तिम् अतर्कयित्वा = अनूहयित्वा, तव, इयं [ मदन्यपाणिग्रह-
    शङ्किता ] मम अन्यस्य नलेतरस्य, पाणिग्रहं शङ्कत इति तच्छङ्कितस्य भाव-
    स्तत्ता । महीयः = महत्तरं साहसिक्यं = साहसिकत्वं, अहो असम्भावितसम्भाव-
    नादाश्चर्यम् ॥ ७६ ॥
    कमलिनी के चित्त के अनुराग की वृत्ति की--सूर्य के अतिरिक्त किसी अन्य
    के साथ तुमने--तर्कना तो नहीं की; पर, मेरे सम्बन्ध में तुम्हारी-नल के अति-
    रिक्त किसी अन्य युवक के साथ पाणिग्रहण होने की-यह शङ्का बनी हुई है।
    तुम्हारा यह साहस बड़ा गुरुतर है, यह बड़े आश्चर्य की बात है ! ॥७६॥
    साधु त्वयाऽतर्कि तदेकमेव स्वेनानलं यत्किल संश्रयिष्ये ।
    विनामुना स्वात्मनि तु प्रहर्तुं मृषा गिरं त्वां नृपतौ न कर्तुम् ॥७७॥
    साध्विति । किं च स्वेन = स्वेच्छया, अनलं=नलमन्यं अग्निं च, संश्रयिष्ये
    = प्राप्स्यामीति किल यत् त्वया अतर्कि ऊहितं, तदेकमेव साधु भतर्कि । किं
    तु, अमुना=नलेन बिना, तदलाभ इत्यर्थः । स्वात्मनि प्रहर्तुं =स्वात्मानं हिंसितुम् ।
    कर्मणो अधिकरणत्वविवक्षायां सप्तमी । अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः ।

१६८ नैषधचरितम् । [ तृतीयः
सर्वदा सर्वतोऽनलेनात्मानं कश्चित् क्वचिद्वेदयेत् ॥' इति वचनात् । अनलं संश्रयिष्ये
इत्यनुषङ्गः । नृपतौ = नले विषये, त्वां मृषा गिरं = असत्यवाचं कर्तुं न । अनल
एव शरणं, अन्यथा मरणमेव शरणमिति भावः ॥ ७७ ॥
तुमने यह सम्भावना ठीक ही की कि मैं ('निजेच्छया वा०' ७२ वाँ श्लोक)
स्वेच्छा से अ-नल (नल के अतिरिक्त अन्य) के साथ विवाह करूँगी ! (अहा हा !
क्या पूछने की बात है ? अर्थात् नल को छोड़कर अन्य के साथ पाणिग्रहण न
करूंगी। यदि तुम पूछो कि नल न मिले तो क्या करोगी ? इसका उत्तर यह है कि)
उन (नल) के बिना (अर्थात् पति रूप से न मिलने पर), अपनी आत्मा पर
आघात (अर्थात् आत्महत्या) करने के अभिप्राय से, अनल (अग्नि) को वरण
करूँगी; परन्तु राजा नल के सामने तुम्हें असत्यवादी बनाने के निमित्त, कभी भी
अ-नल (नल के अतिरिक्त अन्य युवक) को वरण न करूंगी (यह मेरा दृढ़
निश्चय है) ॥७७॥
मद्विप्रलम्भ्यं पुनराह यस्त्वां तर्कः स किं तत्फलवाचि मूकः ? ।
अशक्यशङ्क्यव्यभिचारहेतुर्वाणी न वेदा यदि सन्तु के तु ? ॥ ७८ ॥
मदिति । किञ्च यस्तर्कः = ऊहः, पुनः त्वां मद्विप्रलम्भ्यं = मया विप्रल-
म्भनीयम् । 'पोरदुपधात्' इति यत्प्रत्ययः । आह = बोधयतीत्यर्थः । स तर्कः [ तत्फ-
लवाचि ] तस्य विप्रलम्भस्य, फलवाचि प्रयोजनाभिधाने, मूकः = अशक्तः किं ।
अतो मय्यसत्यवादित्वशङ्का न कार्येत्यर्थः । कथमेतावता सत्यवाक्यत्वनिश्चय अत
आह- [ अशक्यशङ्कव्यभिचारहेतुः ] अशक्या शङ्का यस्य सः अशक्यशङ्कः
शङ्कितुमशक्यः, व्यभिचारहेतुर्विप्रलिप्सालक्षणो यस्याः सा वाणी, न वेदा यदि
= न प्रमाणं चेत्तर्हि के तु वेदाः सन्तु = न केऽपीत्यर्थः । सम्भावनायां लोट् । वेद-
वाचामसत्यत्वे मद्वचोऽप्यसत्यत्वं नान्यथेति भावः ॥ ७८ ॥
जो तर्क (जैसे कोई मुँह से बोले उस तरह) तुम्हें बतलाता है कि तुम मेरे
द्वारा छले जा रहे हो, वह (तर्क) उस छल के फल के कथन में क्यों गूँगा बन
गया है (अर्थात् वह स्पष्ट रूप से क्यों नहीं कह देता कि तुम मेरे द्वारा छले
नहीं जा रहे हो । अब यदि पूछो कि तुम्हारी बात कैसे सत्य मान ली जाय, तो
इसका उत्तर यह है कि) जिस में असत्यता की सम्भावना करने का समावेश
न हो, वह उक्ति यदि वेद (के समान प्रामाणिक) नहीं है, तो फिर वेद किसे कहेंगे?॥