सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 167, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 167

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् १५१
तीसरे व्यक्ति से नहीं कहती; इसी प्रकार तुम भी जो गुप्त बात कहोगी उसे नल के
अतिरिक्त किसी अन्य से नहीं कहूँगा—यह विश्वास रखो ) ॥ ४४ ॥
नलाश्रयेण त्रिदिवोपभोगं तवानवाप्यं लभते बतान्या ।
कुमुद्वतीवेन्दुपरिग्रहेण ज्योत्स्नोत्सवं दुर्लभमम्बुजिन्याः ॥४५॥
अथ श्लोकद्वयेन अस्या नलानुरागमूद्दीपयति—नलेत्यादि । तवानवाप्यं
नलपरिग्रहाभावात् त्वया दुरापम् । 'कृत्यानां कर्त्तरि वा' इति षष्ठी तृतीयार्थे ।
[त्रिदिवोपभोगं] त्रिदिवः स्वर्गः । पृषोदरादित्वात् साधुः । तस्य उपभोगं,
तादृग् भोगमित्यर्थः । तस्येन्द्रसदृशैश्वर्यत्वादिति भावः । अम्बुजिन्या दुर्लभं =
इन्दुपरिग्रहाभावात्तया दुरापं ज्योत्स्नोत्सवं = चन्द्रिकाभोगं, [इन्दुपरिग्रहेण]
इन्दोः कर्त्तुः परिग्रहेण, कुमुदान्यस्यां सन्तीति कुमुद्वती = कुमुदिनी इव । 'कुमुद-
नडवेतसेभ्यो डमतुप्' । 'मादुपधायाश्च' इत्यादिना मकारस्य वकारः । [नलाश्रयेण]
नलस्य कर्त्तुराश्रयेण नलस्वीकरणेन, अन्या लभते । 'बत' इति खेदे । ईदृग्भोगो-
पेक्षिणी त्वं बुद्धिमान्द्यात् न शोचसि, इति भावः ॥४५॥
अन्य युवती---नल के ( पतिरूप ) आश्रय के कारण तुमसे ( नल के आश्रय
के अभाव के कारण ) दुष्प्राप्य—( हमारे जैसे दिव्य पक्षियों के पङ्खा झलने आदि
के ) स्वर्गीय सुखोपभोग को उसी प्रकार लूट रही है; जिस प्रकार कुमुदिनी
नायिका—निशानायक चन्द्र द्वारा पत्नीरूप में स्वीकार कर लिये जाने के कारण—
कमलिनी को दुर्लभ, प्रकाश ( चन्द्रिका ) रूप आनन्द को लूटती है । यह बड़े
खेद की बात है ( अतः तुम नल को पतिरूप में स्वीकार कर लो ) ॥ ४५ ॥
तन्नैषधानूढतया दुरापं शर्म त्वयास्मत्कृतचाटुजन्म ।
रसालवल्ल्या मधुपानुविद्धं सौभाग्यमप्राप्तवसन्तयेव ॥ ४६ ॥
तदिति । किञ्च, तत्=प्रसिद्धम्, [अस्मत्कृत-चाटु-जन्म] अस्माभिः
कृतेभ्यः प्रयुक्तेभ्यश्चाटुभ्यः प्रियवाक्येभ्यो जन्म यस्य तस्य तत्तज्जन्यमित्यर्थः ।
चाटुग्रहणं पूर्वोक्तनिजपक्षवीजनाद्युपलक्षणम् । शर्म = सुखं, त्वया [अवाप्त-
वसन्ततया] अप्राप्तो वसन्तो यया तया, वसन्तानधिष्ठितयेत्यर्थः। रसालवल्ल्या =
सहकारश्रेण्या, मधुपानुविद्धं सौभाग्यं - रामणीयकम् इव [ नैषधानूढतया ]
नैषधेन नलेन, अनूढतया, अपरिणीतत्वेन हेतुना, दुरापं = दुष्प्रापम् । तस्मात्ते नल-
परिग्रहाय यत्नः कार्य इति भावः ॥ ४६ ॥