सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 169, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 169

सर्गः ३ ] जीवतु-मदयन्तिकासहितम् १५३
जाती है कि ब्रह्मा का भी परस्पर योग्य वर-वधू के समागम के निमित्त, स्वेच्छा-
जन्य प्रयत्न होता है ॥ ४८ ॥
वेलातिग-स्त्रैण-गुणाब्धि-वेणी न योग्ययोग्यासि नलेतरेण ।
सन्दर्भ्यते दर्भगुणेन मल्लीमाला न मृद्वी भृशकर्शेन ॥ ४९ ॥
नलान्यासम्बन्धस्तवयोग्य इत्याह — वेलातिगेति । [ वेलातिग-स्त्रैण-गुणाब्धि-
वेणी ] वेलाम तिगच्छन्तीति वेलातिगा निःसीमाः । स्त्रीणामिमे स्त्रैणाः गुणाः ।
'स्त्रीपुंसाभ्यां नञ्-स्नञौ' इति वचनात् नञ्प्रत्ययः । त एवाब्धिस्तस्य वेणी प्रवाह-
भूता । त्वमिति शेषः । 'वेलाब्धिजलबन्धने; काले सीम्नि च, वेणी तु केशबन्धे
जलस्रुतौ' इति वैजयन्ती । [ नलेतरेण ] नलादितरेण योग्ययोग्या = योगार्हा,
नासि, तथाहि — मृद्वी मल्लीमाला भृशकर्शेन दर्भगुणेन = कुशसूत्रेण न
संन्दर्भ्यते = न सङ्गुम्फ्यते । 'दृभि ग्रथने' इति धातोः कर्मणि लट् । व्यतिरेकेण
दृष्टान्तालङ्कारः ॥ ४९ ॥
तुम—तट छोड़कर जानेवाली स्त्री-सम्बन्धि सौन्दर्य आदि गुण रूप समुद्र की
वेणी (प्रवाह) रूपा हो (अर्थात् असाधारण विश्व-सुन्दरी हो) । अतः (असा-
धारण सुन्दर) नल के अतिरिक्त किसी अन्य के साथ विवाह-संयोग के योग्य
नहीं हो; क्योंकि कोमल चमेली की माला—अत्यन्त कठिन, कुशा के बने हुए
तागे में—नहीं पोही जाती है ॥ ४९ ॥
विधिं वधूसृष्टिमपृच्छमेव तद्यानयुग्यो नलकेलियोग्याम् ।
त्वन्नामवर्णा इव कर्णपीता मयास्य संक्रीडति चक्रचक्रे ॥५०॥
विधिमिति । किं च, विधिं = ब्रह्माणं, [ नलकेलियोग्यां ] नलस्य केलेः
क्रीडायाः, योग्यामर्हा, वधूसृष्टिं = स्त्रीनिर्माणं [ तद्यानयोग्यः ] तस्य विधेर्यानस्य
रथस्य, युग्यो रथवोढा, तत्र परिचित इत्यर्थः । 'तद्वहति रथयुगप्रासङ्गम' इति
यत्प्रत्ययः । अहम् अपृच्छमेव । दुहादित्वाद् द्विकर्मकत्वम् । मया अस्य तद्या-
नस्य, चक्रचक्रे = रथाङ्गव्रजे संक्रीडति = कूजति सति 'समोऽकूजने' इति
वक्तव्येऽपि कूजतेरात्मनेपदं । त्वन्नामवर्णा इव मया [ कर्णपीताः ] कर्णेन
पीताः गृहीताः । न केवलं लिङ्गात्, किन्त्वागमादपि ज्ञातोऽयमर्थ इत्यर्थः ॥५०॥
ब्रह्माजी का रथ चलाते हुए, (एक बार) मैं—नल की क्रीडा के योग्य वधू
की सृष्टि के बारे में—ब्रह्मा से पूछ बैठा (कि आपने नल के योग्य कोई रमणी