मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पपत्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति । स च Wait,विरोहतorरोहति? वि रो ह ति! Wait, does it have an i-matra on त? Yes, there is a small dot/serif, but wait, look at विरोहत: no, look closely: वि रो ह ति- wait, the top ofतhas no curve? Ah, it saysविरोहत? Wait, no, it's विरोहतorविरोहीत? No, it looks like विरोहत ।wait, orविरोहीत? Actually, looking at it, it says विरोहत ।or is itविरोहीत? No, wait, look at the text: विप्रकीर्णं विरूढिमागच्छत्? In this edition: विप्रूयमानं विरोहत ।wait, maybeविरोहतis a typo forरोहतिorविरोहत? Wait, let's look closely at विरोहत: वि रो ह ति? Wait, there's no imatra, or maybe very faint? It looks likeविरोहत ।Wait, let's checkविरोहत: actually it looks like विरोहत । Wait, next word:
[पृष्ठम् २४८]
तत्र न कश्चिद्धर्मोऽस्माल्लोकात्परलोकं संक्रामति । अस्ति च कर्मफलप्रतिविज्ञप्तिहेतुप्रत्ययाना-
मवैकल्यात् । तथाथा भिक्षवः सुपरिशुद्धे आदर्शमण्डले मुखप्रतिबिम्बकं दृश्यते, न च तत्रादर्श-
मण्डले मुखं संक्रामति, अस्ति च मुखप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात्, एवमस्माल्लोकान्न
कश्चिच्च्युतो नान्यत्रोत्पन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात् । तथाथा
भिक्षवश्चन्द्रमण्डलं चत्वारिंशद्योजनशतमूर्ध्वं व्रजति, अथ च पुनः परीत्तऽप्युदकभाजने चन्द्रस्य
प्रतिबिम्बं दृश्यते, न च तस्मात्स्थानादूर्ध्वं नभसश्च्युतं परीत्ते उदकस्य भाजने संक्रान्तं भवति,
अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिच्च्युतो
नान्यत्रोत्पन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात् ॥
तथाथा—अग्निरुपादानप्रत्यये सति ज्वलति, उपादानवैकल्यान्न ज्वलति, एवमेव भिक्षवः कर्म-
क्लेशजनितं विज्ञानबीजं तत्रतत्रोपपत्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति,
अस्वामिकेषु धर्मेष्वपरिग्रहेषु मायालक्षणस्वभावेषु अममेषु कृत्रिमेषु हेतुप्रत्ययानामवैकल्यात् ॥
तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः । कतमैः पञ्चभिः ? न शाश्वततो
नोच्छेदतो न संक्रान्तितः परीत्तहेतुविपुलफलाभिनिर्वृत्तितस्तत्सदृशानुप्रबन्धतश्चेति । कथं न
शाश्वततः ? यस्मादन्ये मारणान्तिकाः स्कन्धाः, अन्ये औपपत्त्यंशिकाः स्कन्धाः । न तु य एव
मारणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः । अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव
च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति । अतो न शाश्वततः । कथं नोच्छेदतः ? न च
पूर्वनिरुद्धेषु मारणान्तकेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति नाप्यन्निरुद्धेषु । अपि तु
मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति
तुलादण्डोन्नामावनामवत् चन्द्रबिम्बप्रतिबिम्बवत् । अतो नोच्छेदतः । कथं न संक्रान्तितः ?
विसदृशाः सत्त्वनिकायाः सभागयां जात्यां जातिमभिनिर्वर्तयन्ति । अतो न संक्रान्तितः । कथं
परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः ? परीत्तं कर्म क्रियते, विपुलः फलविपाकोऽनुभूयते । अतः
परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः । कथं तत्सदृशानुप्रबन्धतः ? यथावेदनीयं कर्म क्रियते,
तथावेदनियो विपाकोऽनुभूयते । अतस्तत्सदृशानुप्रबन्धतश्च । इति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
द्वादशाङ्गपरीक्षा नाम षड्विंशतितमं प्रकरणम् ॥
[पृष्ठम् २७]
२७
दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम् ।
यश्चैवं प्रतीत्यसमुत्पादं यथाभूतं सम्यक् पश्यति, स न पूर्वान्तं प्रतिसरति, नापरान्तं
प्रतिसरति, —इत्यादि सूत्रे पठ्यते, तत्र कतमः पूर्वान्तः, कतमोऽपरान्तः, कथं न प्रतिसरतीति ?
तद्व्युत्पत्त्यर्थमिदमारभ्यते । तत्र वर्तमानमात्मभावमपेक्ष्य अतीता आत्मभावाः पूर्वान्त इत्युच्यते ।
पूर्वो हि जन्मपरंपराशः पूर्वान्तः । तं न प्रतिसरति, दृष्टिपक्रैरर्नालम्बते । प्रतीत्यसमुत्पादस्य
यथावदवस्थिततत्त्वदर्शनात् नान्यथावस्थितं वस्तु अन्यथा अभिनिविशते । तत्र अष्टौ दृष्टयः
पूर्वान्तमालम्ब्य अन्यथा प्रवृत्ताः । तद्यथा—
अभूमतीतमध्वानं नाभूमिति च दृष्टयः ।
यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः ॥ १ ॥
तत्र इतिशब्दः आद्यर्थः । अथवा दृष्टिश्रोपादानमुपलक्षणार्थम् । चतस्रस्त्वेता दृष्टयः ।
तद्यथा — किं न्वहमभूवमतीतमध्वानम्, नाभूवमतीतमध्वानम्, अभूवं च नाभूवं च, नैवाभूवं न
नाभूवम्, इति । एताश्चतस्रो दृष्टयः पूर्वान्तं समाश्रिताः । अपरा अपि चतस्र इत्याह —
यास्ताः शाश्वतलोकाद्याः
पूर्वं प्रसङ्गेन उपवर्णिताः, ता अपि
पूर्वान्तं समुपाश्रिताः ॥
तत्र यद्यपि पूर्वान्ताद् दृष्टिचतुष्टयादुत्तरं दृष्टिचतुष्टयं नातिभिद्यते, तथापि तावन्मात्र-
विशेषाश्रित्य पृथगुपादीयते । तच्च उत्तरत्र व्याख्यास्यामः । तत्र शाश्वतो लोकः इत्येतत्,
अभूवमतीतमध्वानम्, इत्येतस्मान्नातिभिद्यते । अथवा अयं विशेषः-यच्छाश्वतो लोकः इत्येषा
दृष्टिः सामान्येन पूर्वान्तमाश्रिता । अभूवमतीतमध्वानम्, इत्येषा तु आत्मन एव पूर्वान्तपरामर्शेन
प्रवृत्ता, न सामान्येनेति । एवमन्यास्वपि दृष्टिषु विशेषो वक्तव्यः । इत्येवं तावत् अष्टावेता दृष्टयः
पूर्वान्तं समुपाश्रिताः ॥ १ ॥
उक्तः पूर्वान्तस्तदालम्बिकाभिर्दृष्टिभिः सार्धम् । इदानीमपरान्त उच्यते । तत्र वर्तमान-
मात्मभावमपेक्ष्य भाविनः आत्मभावाः अपरान्त इत्युच्यते । अपरो हि जन्मपरंपराशोऽपरान्तः, तं
न प्रतिसरति, दृष्टिपक्रैरर्नालम्बते । प्रतीत्यसमुत्पादस्य यथावदवस्थिततत्त्वदर्शनात्, नान्यथावस्थितं
वस्तु अन्यथाभिनिविशते । तत्र अष्टौ दृष्टयः अपरान्तमालम्ब्य अन्यथा प्रवृत्ताः । तद्यथा —
दृष्टयो न भविष्यामि किमन्योऽनागतेऽध्वनि ।
भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः ॥ २ ॥
इहापि दृष्टिश्रोपादानमुपलक्षणार्थम् । चतस्रस्त्वेता दृष्टयः । तद्यथा — किं नु भवि-
ष्याम्यनागतमध्वानम्, न भविष्यामि, भविष्यामि च न भविष्यामि च, नैव
[पादटिप्पणी]
1 The Mss. have a lacuna for this line : It is reconstructed on the strength
of T. It is likely that the kārikā may begin with दृष्टयः in which case we may have
दृष्टयोऽभूवं नाभूवं किं न्वतीतेऽध्वनीति च.
म. ३२
२५० मध्यमकशास्त्रे [२७. ३-
भविष्यामि न च न भविष्याम्यनागतमध्वानम्, इत्येताश्चतस्रो दृष्टयः अपरान्तं समाश्रिताः ।
किमेता एव चतस्रो दृष्टयः अपरान्तं समाश्रिताः ? नेत्याह । किं तर्हि अपरा अपि चतस्रो
विद्यन्ते अन्ताद्या अपरान्तं समाश्रिताः । तत्र अन्ताद्याश्चतस्रो दृष्टयः सामान्येन अपरान्तमाश्रित्य
प्रवृत्ताः, किं तु भविष्याम्यनागतमध्वानमित्येतास्तु आत्मन एवापरान्तमाश्रित्य प्रवृत्ताः, इत्येवं
५ दृष्टिचतुष्टयस्य विशेष इति बोद्धव्यम् ॥ २ ॥
तत्र आद्यस्य तावत् पूर्वान्तालम्बिकस्य दृष्टिचतुष्टयस्य यथा न संभवः, तथा
प्रतिपादयन्नाह -
अभूमतीतमध्वानमित्येतन्नोपपद्यते ।
यो हि जन्मसु पूर्वेषु स एव न भवत्ययम् ॥ ३ ॥
B 574 १० तत्र य एव अतीतेषु जन्मसु बभूव, यदि स एवायमधुना स्यात्,
पृष्ठम् २५२
इदानीं यथोपपादितमर्थं निगमयन्नाह -
एवं नान्य उपादानान्न चोपादानमेव सः ।
आत्मा नास्त्यनुपादानः
अथ स्यात् - यदि आत्मा उपादानस्वरूपो न भवति, उपादानोपादात्रोरेकत्वप्रसङ्गात्,
उदयव्ययप्रसङ्गाच्च । स हि अन्योऽपि न भवति उपादानमनपेक्ष्य भेदेन ग्रहणप्रसङ्गात् । न
चाप्यनुपादानः, उपादाननिरपेक्षस्य ग्रहणप्रसङ्गात् । एवं तर्हि नास्ति आत्मेत्यस्तु । उच्यते -
नापि नास्त्येष निश्चयः ॥ ८ ॥
यो हि नाम स्कन्धानुपादाय प्रज्ञप्यते, स कथं नास्तीति स्यात् ? न हि अविद्यमानो
वन्ध्यातनयः स्कन्धानुपादाय प्रज्ञप्यते । कथं सति उपादाने उपादाता नास्तीति युज्यते ?
तस्मान्नास्तित्वमप्यस्य न युज्यते । तस्मान्नास्ति आत्मेति निश्चयोऽप्येष नोपपद्यते । अस्य त्वात्मनो
व्यवस्थानं विस्तरेण मध्यमावतारान्नावसेयम् । इहापि च पूर्वमेव स्थानस्थानेषु कृता व्यवस्थेति न
पुनरिह तद्व्यवस्थाने यत्न आस्थीयते ॥ ८ ॥
एवं तावदभूवमतीतमध्वानमित्येषा कल्पना नोपपद्यते । इदानीं नाभूवमतीतमध्वान-
मित्येदपि यथा नोपपद्यते तथा प्रतिपादयन्नाह -
नाभूमतीतमध्वानमित्येतन्नोपपद्यते ।
यो हि जन्मसु पूर्वेषु ततोऽन्यो न भवत्ययम् ॥ ९ ॥
यदि पूर्वकादात्मनः अस्य अधुनातनस्य आत्मनोऽन्यत्वं स्यात्, तदानीं नाभूमतीत-
मध्वानमिति स्यात् । न चैतदेवं संभवति । तस्मान्नाभूवमतीतमध्वानमित्येतन्नोपपद्यते ॥ ९ ॥
यदि पुनः पूर्वकादात्मनः अस्य अन्यत्वं स्यात्, को दोष इति ? उच्यते -
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् ।
तथैव च स संतिष्ठेत्तत्र जायेत वामृतः ॥ १० ॥
यदि हि अयमधुनातन आत्मा पूर्वकादात्मनः अन्यः स्यात्, तदा तं पूर्वकमात्मानं
प्रत्याख्याय परित्यज्य तन्निरपेक्षः अतद्धेतुक एव स्यात् । किं चान्यत् । तथैव च स संतिष्ठेत्तत्र ।
यदि पूर्वकादात्मनः अस्य अन्यत्वं स्यात्, तदा अन्यत्वाद् घटोत्पादे पटाविनाशवत् पूर्वस्यात्मनः
उत्तरस्मिन्नपि आत्मनि समुत्पद्यमानेऽपि अनिरोधः स्यात् । अनिरुद्धत्वाच्च यत्र पूर्वं देवमनुष्यादि-
जन्मसु उत्पन्नः, येन वर्णसंस्थानादिना पूर्वमुपलभ्यमानः, तेनैव प्रकारेण तथैव स तत्रावतिष्ठेत ।
पूर्वत्र वा अमृत एव इहोत्पद्येत । न चैष संभवोऽस्ति यदस्य मनुष्यभूतस्य पूर्वको देवाद्यात्मा
तथैवावतिष्ठेतेति । तस्मान्नाभूवमतीतमध्वानमित्येतन्नोपपद्यते ॥
अत्राह - तत्र यदुक्तम् -
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् । इति,
पृष्ठम् २५३
यदि पुनः पूर्वकमात्मानं प्रत्याख्याय [ अयमिह भवेत्, को दोषः स्यात् ? तत्र दोषा बहवः
स्युः । कथमिति चेत्, यस्मादेवं सति -
उच्छेदः कर्मणां नाशस्तथान्यकृतकर्मणाम् ।
अन्येन परिभोगः स्यादेवमादि प्रसज्यते ॥ ११ ॥
यदि पूर्वकमात्मानं प्रत्याख्याय अयमात्मा भवेत्, तदा ] पूर्वकस्य आत्मनः तत्र
नष्टत्वाद्, इह च अन्यस्यैव चोत्पादनात्पूर्वकस्यात्मन उच्छेदः स्यात् । तस्मिंश्च आत्मनि उच्छिन्ने
कर्मणामदत्तफलानामेवाश्रयविच्छेदेन विच्छेदात्, भोक्त्रभावाच्च विप्रणाश एव स्यात् । अथ
पूर्वकेनात्मना कृतस्य कर्मणः उत्तरेणात्मना फलपरिभोगः परिकल्प्यते, तथापि अन्येन कृतस्य
कर्मणः फलस्य अन्येनोपभोगः स्यात् । ततश्च -
अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि ।
[ म० शा०-१७-२१ ]
इत्येवमादि अनिष्टमापद्येत ॥ ११ ॥
अपि च । यदि अयमात्मा पूर्वकादात्मनः अन्य एव अत्रोपपन्नः स्यात्, तदा पूर्वमभूत्वा
पश्चादुत्पन्न इति स्यात् । न चैतद्युक्तमिति प्रतिपादयन्नाह -
नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते ।
कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः ॥ १२ ॥
इति । यदि हि आत्मा पूर्वमभूत्वा पश्चादुत्पन्नः स्यात्, तदा कृतक एव आत्मा स्यात् । न च
कृतक आत्मेष्यते, अनित्यत्वप्रसङ्गात् । व्यतिरिक्तस्य च तन्निष्पादकस्य कर्तुरभावात् कुतः
कृतकत्वमात्मनो योज्येत ? कृतके चात्मनि परिकल्प्यमाने आदिमान् संसारः स्यादेव,
अपूर्वसत्त्वस्य प्रादुर्भावश्च । न चैतदेवम् । तस्मान्न कृतक आत्मा । अपि च । संभूतो
वाप्यहेतुकः । अभूत्वा प्रागात्मा समुत्पद्यमानो निर्हेतुक एवोपपद्यते । पूर्वे हि आत्मा नास्तीति
अकृतको निर्हेतुकः स्यात् । वाशब्दो विकल्पे । कृतको वा भवेदात्मा यदि वा नाभूवमतीत-
मध्वानमित्येतन्नाभ्युपेयम् । संभूतो वाप्यहेतुकः, यदि वा -
नाभूमतीतमध्वानमित्येतन्नोपपद्यते ।
इत्यभ्युपगम्यताम् ॥ १२ ॥
इदानीं यथोपवर्णितमेवार्थं निगमयन्नाह -
एवं दृष्टिरतीते या नाभू महमभूमहम् ।
उभयं नोभयं चेति नैषा समुपपद्यते ॥ १३ ॥
एवं यथोपवर्णितेन न्यायेन अभूमतीतमध्वानमिति या दृष्टिः, एषापि नैवोपपद्यते ।
एतद्द्वयस्याभावाच्च उभयमपि नोपपद्यते । किं कारणम् ? यस्माद् द्वयं ह्येतत्समाहृतमुभयमिति
कल्प्यते । एकैकस्य च पृथक्पृथगभावात् कुतस्तत्समाहार इति उभयमपि न संभवति ।
1 The portion in brackets is missing in Mss. It is reconstituted from T.
२५४ मध्यमकशास्त्रे [ २७. १४-
उभयस्याभावात् कुतस्तत्प्रतिषेधेन नोभयं भविष्यतीति ? तस्मान्नैवाभूवं न नाभूमित्येतदपि
नोपपद्यते ॥ १३ ॥
B 582 तदेवं पूर्वान्तं समाश्रित्य दृष्टिचतुष्टयस्य असंभवमुद्भाव्य इदानीमपरान्तसमाश्रित्य
प्रतिषेधमाह –
5 अध्वन्यनागते किं नु भविष्यामीति दर्शनम् ।
न भविष्यामि चेत्येतदतीतेनाध्वना समम् ॥ १४ ॥
यथैव हि अतीतेऽध्वनि दृष्टिचतुष्टयं निषिद्धम्, एवमनागतेऽप्यध्वनि दृष्टिचतुष्टयं
निषेधनीयमुक्तपाठपरिवर्तनेन । तद्यथा –
अध्वन्यनागते किं नु भविष्यामीत्यसंगतम् ।
10 ऐष्यज्जन्मनि यो भावो स एव न भवेत्ययम् ॥
इत्येवमादिना सर्वं समं योज्यमेकत्वप्रतिषेधे । एवमन्यत्वप्रतिषेधेऽपि समं योज्यम् –
न स्या
पृष्ठम् २५६
२५६ मध्यमकशास्त्रे [ २७. २०-
अतश्च, एवं यथोदितन्यायेन —
नास्ति चेच्छाश्वतः कश्चित् को भविष्यत्यशाश्वतः ।
B 587 शाश्वतोऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृतः ॥ २० ॥
यदा चैवं शाश्वत एव पदार्थो न संभवति, तदा कस्य विगमनादशाश्वतः स्यात् ?
शाश्वताशाश्वतानुपलम्भाच्च कुतः उभयं कुतो नोभयमिति ? तस्मादेवं शाश्वतादिदृष्टिचतुष्टयं
पूर्वान्ते संसारस्य न संभवति ॥ २० ॥
इदानीमन्तानन्तादिचतुष्टयमपरान्ते यथा न संभवति, तथा प्रतिपादयन्नाह —
अन्तवान् यदि लोकः स्यात्परलोकः कथं भवेत् ।
अथाप्यनन्तवांल्लोकः परलोकः कथं भवेत् ॥ २१ ॥
10 यदि हि अन्तवान्, विनाशादूर्ध्वं पूर्वलोको न स्यात्, तदा परलोको न स्यात् ।
अस्ति च परलोक इति अन्तवांल्लोक इति नोपपद्यते । अथापि अनन्तवांल्लोकः स्यात्, तदानीमपि
परलोकः कथं भवेत् ? नैव परलोकः स्यादित्यभिप्रायः । न च परलोको नास्ति । अतः
परलोकसद्भावादन्तवानपि लोको न भवति ॥ २१ ॥
इदानीमन्तवत्त्वमनन्तवत्त्वं च उभयमेतल्लोकस्य यथा न संभवति, तथा प्रतिपादयन्नाह —
15 स्कन्धानामेष संतानो यस्माद्दीपार्चिषामिव ।
प्रवर्तते तस्मान्नान्तानन्तवत्त्वं च युज्यते ॥ २२ ॥
B 588 पूर्वोत्तरहेतुफलभावसंबन्धनैरन्तर्याविच्छिन्नक्रमवर्ती यस्मादयं प्रदीपवत् प्रतिक्षणविनाशी
स्कन्धसंतानः प्रवर्तते, तस्माद्धेतुफलप्रवृत्तिदर्शनान्नान्तवत्त्वं नानन्तवत्त्वं च युज्यते ॥ २२ ॥
कथं कृत्वा ?
20 पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोकोऽन्तवान् भवेत् ॥ २३ ॥
यदि पूर्वे मनुष्यस्कन्धा नश्येयुः, तांश्च प्रतीत्य उत्तरे देवगत्युपपत्तिसंगृहीता
नोत्पद्येरन्, तदा अन्तवान् लोको भवेत् तैलवर्त्तिक्षयानिरुद्धप्रदीपवत् । उत्तरात्मभावोत्पादान्नास्ति
अन्तवत्त्वम् ॥ २३ ॥
25 पूर्वे यदि न भज्येरन्नुत्पद्येरन्न चाप्यमी ।
स्कन्धाः स्कन्धान् प्रतीत्येमांल्लोकोऽनन्तो भवेदयम् ॥ २४ ॥
अथ यदि पूर्वकाः स्कन्धा न नश्येयुः, तान् प्रतीत्य उत्तरे फलभूताः स्कन्धा नोत्पद्येरन्,
तदा अनन्तोऽविनाशी लोकः स्यात् स्वरूपादप्रच्युतत्वात् । यदा तु पूर्वकाः स्कन्धा निरुध्यन्ते,
तद्धेतुकाश्यापरे स्कन्धा उत्तरकालं जायन्ते, तदा पूर्वकानामनवस्थानात् कुतोऽनन्तवत्त्वं संसारस्य
30 स्यात् ? ॥ २४ ॥
इदानीं तृतीयमुभयपक्षमात्रं प्रतिपादयन्नाह —
B 589 अन्तवानेकदेशे चेदेकदेशस्त्वनन्तवान् ।
स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते ॥ २५ ॥
१ Tom. पूर्वे०
पृष्ठम् २५७
-२७. २८] दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम् । २५७
यदि हि कस्यचिदेकदेशस्य विनाशः स्यात्, एकदेशस्य च गत्यन्तरगमनं स्यात्,
स्यात्तदानीमन्तवांश्च लोकोऽनन्तांश्च । न चैतदेवं संभवति यदेकदेशो नश्यति, एकदेशो न
नश्यतीति । अतः अन्तवांश्च अनन्तांश्च लोक इति न युज्यते ॥ २५ ॥
कस्मात् पुनरेकदेशस्य विनाशः एकदेशस्य चावस्थानं न युज्यते इति प्रतिपादयन्नाह —
5 कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते ॥ २६ ॥
इह एकदेशस्य विनाशे एकदेशस्य चावस्थाने परिकल्प्यमाने यदि वा उपादातु-
रेकदेशस्य विनाशः अवस्थानं वा परिकल्प्येत, यदि वा उपादानस्य ? तत्र यदि तावदुपादातु-
रेकदेशस्य विनाशः एकदेशस्य चावस्थानं परिकल्प्यते, तन्न युज्यते । किं कारणम् ? यस्मात् —
10 कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेशः
नैव हि अत्र काचिदुपपत्तिरस्ति यया एकदेशस्य विनाशमेकदेशस्य चाविनाशं
परिकल्पयिष्यामः । अत एव उपपत्तिमपश्यन्नाचार्य आह —
एवं चैतन्न युज्यते ॥ इति ।
अथवा । उपादाता हि नाम आत्मा । स च स्कन्धेषु पञ्चधा मृग्यमाणो न संभवति । 15 B 590
यश्च न संभवति, तस्य कथमेकदेशो विनङ्क्ष्यते, एकदेशश्च न नङ्क्ष्यते ? अत एवाह—एवं
चैतन्न युज्यते इति । अथवा । यदि उपादातुरेकदेशो नश्येदैकदेशश्च न नश्येत्, तदा एकस्यैव
उपादातुर्देवनरभेदेनान्येन मनुष्यत्वं स्यात् । न चैतदिष्यते इत्याह—एवं चैतन्न युज्यते इति । एवं
तावदुपादातुरन्तवत्त्वमनन्तवत्त्वं च न युक्तमिति ॥ २६ ॥ 20
इदानीमुपादानस्यापि यथा न संभवति तथा प्रतिपादयन्नाह—
उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते ।
न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते ॥ २७ ॥
उपादानुत्रेदेतदपि व्याख्येयम् ॥ २७ ॥
तदेवमुभयदर्शनासंभवं प्रतिपाद्य इदानीं यथा नोभयमपि न संभवति तथा प्रतिपादयन्नाह— 25
अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि ।
सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि ॥ २८ ॥
प्रतिषेध्यस्य वस्तुनोऽसंभवात् प्रतिषेधस्याप्यसंभव इति । अतः अन्तवत्त्वे च अनन्तवत्त्वे
च उभयस्मिन्नप्रतीते कस्य प्रतिषेधेन नैवान्तवान् नानन्तवान् लोकः इति दृष्टिसंभवः
स्यादिति ॥ २८ ॥
एवं तावत् सांप्रतं प्रतिबिम्बकारमुपादातारमुपादानं चाम्युपेत्यापि शाश्वतादिदृष्ट्यसंभवं 30 B 591
प्रतिपाद्य इदानीं सर्वथा भावस्वभावानुपलम्भेन वन्ध्यापुत्रस्यामगौरतादिवत् शाश्वतादिदृष्टीनामसंभवं
प्रतिपिपादयिषुराह —
म. ३३
[पृष्ठम् २५८]
मध्यमकशास्त्रे
[२७. २९-
अथवा सर्वभावानां शून्यत्वाच्छाश्वतादयः ।
क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः ॥ २९ ॥
इह सर्वभावानां प्रतीत्यसमुत्पन्नत्वात् शून्यत्वं सकलेन शास्त्रेण प्रतिपादितम्। ततश्च
सर्वभावानां शून्यत्वात् कतमास्ताः सर्वभावबाह्याः शाश्वताद्या दृष्टयो भविष्यन्ति, याः कश्चिद्
ग्रहीष्यति यतस्तन्निराकरणमारप्स्यामहे ? तथा किं वा आलम्बनं यत् सर्वभावानन्तर्गतं यत्रैता
दृष्टय उत्पत्स्यन्ते यत्रैता दृष्टीर्निवारयिष्यामः ? कतमश्चासौ भावः पुद्गलो वा सर्वभावबाह्यः
यस्यैता दृष्टयः उत्पत्स्यन्ते यं दृष्टिभ्यो निवारयिष्यामः ? किं वा दृष्टीनामुत्पत्तिकारणमालम्बन-
निमित्तं सर्वभावबाह्यं यस्मानिमित्तादुत्पद्यमानाः शाश्वतादिकाः दृष्टीः वारयिष्यामः ? सर्वेषामेव
हि पदार्थानां सर्वभावान्तर्गतत्वात् शून्यत्वम्, शून्यत्वाच्च सर्वे एव हि ते पदार्था नोपलभ्यन्त इति,
क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः ।
नैव काश्चित्, नैव क्वचित्, नैव कस्यचित्, नापि केनचिदाकारेण संभविष्यन्ती-
त्यभिप्रायः । असंभवे च सति आसां परिकल्पनैव नोपपद्यते इत्युक्ता एवैता दृष्टयः ॥ २९ ॥
तदेवम्—
सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत् ।
अनुकम्पामुपादाय तं नमस्यामि गौतमम् ॥ ३० ॥
तत्र संसारनिर्वाणप्रहाणाधिगमोपलम्भप्रपातापतनसंधारणात् धर्मः। सतामार्याणां कृतकार्याणां
धर्मः सद्धर्मः । यदि वा शोभनो धर्मः सद्धर्मः, सकलसंसारदुःखक्षयकरत्वेन प्रशंसनीयत्वात् ।
यः सद्धर्मम्—
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् ।
अनेकार्थमनानार्थमनागममनिर्गमम् ॥
[ म० शा० - १·१ ]
प्रपञ्चोपशमं शिवं प्रतीत्यसमुत्पादसंज्ञया हि देशितवान् सर्वदृष्टिप्रहाणार्थं जगतामनुकम्पामुपादाय
महाकरुणामेवाश्रित्य प्रियै¹कपुत्राधिकतरप्रेमपात्रसकलत्रिभुवनजनः न लाभसत्कारप्रत्युपकारादि-
लिप्सया, तं नमस्यामि निरन्तरमद्वितीयं शास्तारम्। किंनाम
प्रथमं परिशिष्टम् ।
कारिकासूची ।
अकृताभ्यागमभयं – १७.२३ अप्रतीत्य समुत्पन्नो – २४.१९
अग्नीन्धनभ्यां व्याख्यात – १०.१५ अप्रहीणमसंप्राप्तं – २५.३
अजातमनिरुद्धं च – २४.३८ अप्राप्यैव प्रदीपेन – ७.११
अज्यते केनचित्कश्चित् – ९.५ अभावाचार्यसत्यानां – २४.३
अतश्च प्रत्युदावृत्तं – २४.१२ अभूमतीतमध्वानं – २७.३
अतीतो वर्तमानश्च – १९.८,९ अयमुत्पद्यमानस्ते – ७.७
अत्र ब्रूमः शून्यतायां – २४.७ अलक्षणो न कश्चिच्च – ५.२
अथावृतः फलेनासौ – २०.११ अविद्यमाने ग्राह्ये च – २३.१६
अध्वन्यनागते किं नु – २७.१४ अविद्यमाने च शुभे – २३.१२
अनपेक्ष्य पुनः सिद्धिः – १९.३,७ अविद्यमाने भावे च – ५.६
अनपेक्ष्य शुभं नास्ति – २३.११ अविद्यानिर्वृतो जन्तुः – १७.२८
अनपेक्ष्याशुभं नास्ति – २३.१० अविद्यायां निरुद्धायां – २६.११
अनालम्बन एवायं – १.१० अशाश्वतं शाश्वतं च – २७.१८
अनित्ये नित्य इत्येवं – २३.१३,१४ अशुभं वा शुभं वापि – २३.९
अनिरोधमनुत्पादं – १.१ असतोऽपि न भावस्य – ७.३१
अनुत्पन्नः कथं नाम – २३.१९ असत्यां संगतो हेतुः – २०.१५
अनुत्पन्नेषु धर्मेषु – १.११ असंस्कृतस्य च प्राप्तिः – २४.३९
अनुत्पन्नोऽयमुत्पादः – ७.१३ अस्तित्वं ये तु पश्यन्ति – ५.८
अनेकार्थमनानार्थं – १८.११ अस्ति यद्धि स्वभावेन – १५.११
अन्तवच्चाप्यनन्तं च – २७.२८ अस्तीति शाश्वतग्राहः – १५.१०
अन्तवानेकदेशश्चेद – २७.२५ आगच्छत्यन्यतो नाग्निः – १०.१३
अन्तवान् यदि लोकः स्यात् – २७.२१ आत्मनश्च सतत्त्वं ये – १०.१६
अन्य उत्पादयेद्येन – ७.१९ आत्मनोऽस्तित्वनास्तित्वे – २३.३
अन्य एव पुनर्गन्ता – २.२० आत्मन्यसति चात्मीयं – १८.२
अन्य एवेन्धनादग्निः – १०.६,७ आत्मसंयमकं चेतः – १७.१
अन्यदन्यत्प्रतीत्य – १४.५ आत्मा च शुचि नित्यं च – २३.२१
अन्यः पुनरुपादानात् – २७.७ आत्मा स्कन्धा यदि भवेत् – १८.१
अन्येनान्यस्य संसर्गः – १४.३ आत्मेत्यपि प्रज्ञपितं – १८.६
अन्यो न प्राप्यते – १०.५ इन्धनं पुनरग्निर्न – १०.१४
अपरप्रत्ययं शान्तं – १८.९ इमां पुनः प्रवक्ष्यामि – १७.१३
अपेक्ष्येन्धनमग्निर्न – १०.१२ उत्पद्यन्ते प्रतीत्येमान् – १.७
अप्रतीत्यापि बोधि च – २४.३१ उत्पद्यमानमुत्पत्तौ – ७.१५
अप्रतीत्य समुत्पन्नं – २४.२१ उत्पद्यमानमुत्पादो – ७.१८
पृष्ठम् २६२
| २६२ | मध्यमकशास्त्रे |
|---|
[स्तम्भः १]
उत्पादस्थितिभङ्गानां – ७.४, ३३
उत्पादादाख्यो व्यस्ता – ७.२
उत्पादोत्पाद उत्पादो – ७.४, ५
उदयव्ययसंतानः – २१.१६
उपादानविनिर्मुक्तो – २७.५
उपादानादुपादानं – १६.३
उपादाने सति भवः – २६.७
उपादानैकदेशश्च – २७.२७
एकत्वे फलहेत्वोः स्याद् – २०.२०
एकत्वे सहभावश्चैत् – ६.५
एकीभावेन वा सिद्धिः – २.२१
एतेनैवावशिष्टौ द्वौ – १९.४
एवं विद्यादुपादानं – ८.१३
एवं शून्यमुपादानं – २२.१०
एवं त्रिष्वपि कालेषु – २१.२१
एवं दृष्टिरतीते या – २७.१३
एवं नान्य उपादानात् – २७.८
एवं निरुध्यतेऽविद्या – २३.२३
एवं रक्तेन रागस्य – ६.१०
एवं रागश्च रक्तश्च – १४.२
कथं वा सर्वभावानां – २७.२९
कथं ह्यविद्यमानस्य – ९.२
कथमुत्पत्स्यते शून्यं – २०.१८
कथमुत्पद्यमानेन – ७.१०
कथं तावदुपादातुः – २७.२६
करोति यद्यसद्भूतो – ८.३
करोति सदसद्भूतो – ८.११
कर्मक्लेशामकं चेदं – १७.२६
कर्म क्लेशाश्च देहानां – १७.२७
कर्म चेन्नास्ति कर्ता च – १७.३०
कर्म नोत्पद्यते कस्मात् – १७.२१
कर्म स्वभावतश्चेत् – १७.२२
कर्मक्लेशक्षयान्मोक्षः – १८.५
कर्मणः कर्मणो दृष्टे – १७.१८
कस्य स्यादन्यथाभावः – १३.४
कात्यायनाववादे च – १५.७
[स्तम्भः २]
कारकः सदसद्भूतः – ८.७
कार्यं च कारणं चैव – ११.७ ; २४.१७
कालोऽतीतोऽनागतश्च – १९.६
किं तदेव किमन्यत् – २५.२३
कुतश्चिदागतः कश्चित् – २७.१९
कुतः स्वभावस्याभावे – १५.३
क्रिया न प्रत्ययवती – १.६
क्लेशाः कर्माणि देहाश्च – १७.३३
क्षयस्य संभवो नास्ति – २१.७
गतं न गम्यते तावत् – २.१
गते नारभ्यते गन्तुं – २.१२
गत्या ययोच्यते गन्ता – २.२२, २३
गन्ता तावद्गच्छतीति – २.९
गन्ता तावत्तिष्ठतीति – २.१६
गन्ता न गच्छति तावत् – २.८
गन्ता न तिष्ठति तावत् – २.१५
गन्तारं चेत्तिरस्कृत्य – २.७
गमनं सदसद्भूतं – २.२५
गमने द्वे प्रसज्येते – २.११
गमनं संप्रवृत्तिश्च – २.१७
गम्यमानस्य गमनं – २.३, ४
गम्यमानस्य गमने – २.५
घनग्राहगृहीतस्तु – २२.१३
चक्षुः प्रतीत्य रूपं च – २६.४
चत्वारः प्रत्यया हेतुः – १.४
चरमे न निरुद्धे च – २१.१८
चित्ताच्च यस्मात्संतानः – १७.१०
चेतना चेतयित्वा च – १७.२
चेष्टा यत्र गतिस्तत्र – २.२
जनयेत्फलमुत्पन्नं – २०.१०
जरामरणधर्मेषु – ७.२४
तत्त्वान्यत्वेन यो नास्ति – २२.८
तत्र यच्चैतनोद्युक्तं – १७.३
तत्रैतस्माद्विद्यमानं – १०.४
तथागतो यत्स्वभावः – २२.१६
पृष्ठम् २६३
| कारिकासूची | २६३ |
|---|
[स्तम्भः ३]
तथा निर्मितकाकारः – १७.३२
तदभावान्न विद्यन्ते – २४.३
तद्विपक्षविपाकं च – १७.२५
तन्मृषा मोषधर्मं यद् – १३.१, २
तथैवावस्थयावस्था – ७.२८
तस्मान्न विद्यते लक्ष्यं – ५.५
तस्य चेदन्यथाभावो – १३.६
तस्य तस्य विरोधेन – २६.१२
तस्यैव नान्यथाभावो – १३.५
तिरस्कृत्य द्रष्टा नास्ति – ३.६
तिष्ठत्या पाककालाच्चेत् – १७.६
तिष्ठमानोऽपि भगवान् – २५.१८
त्वमेव दोषानात्मीयान् – २४.१५
दर्शनं श्रवणं घ्राणं – ३.१
दर्शनश्रवणादिभ्यो – ९.३
दर्शनश्रवणादीनि – ९.१, १०, ११
दृष्टयोऽभूदं नाभूवं – २७.१
द्रष्टव्यं दर्शनं द्रष्टा – १४.१
द्रष्टव्यदर्शनाभावात् – ३.८
द्रष्टा स एव स श्रोता – ९.८
द्रष्टान्य एव श्रोतान्यो – ९.९
दिव्यो यथैकदेशः स्यात् – २७.१७
देवादन्यो मनुष्यश्चेत् – २७.१६
दौर्मनस्यमुपायासाः – २६.९
द्वे सत्ये समुपाश्रित्य – २४.८
द्वौ गन्तारौ प्रसज्येते – २.६
धर्मस्य साधनोपायाः – १७.११
धर्माधर्मनिमित्तं वा – २४.३५
धर्माधर्मौ न विद्येते – ८.५
धर्मे चासति संघे च – २४.५
न कर्तव्यं भवेत्किंचित् – २४.३७
न कारणस्य सदृशं – ४.६
न केवलं हि दुःखस्य – १२.१०
न च केवलमन्यत्वं – १४.४
न च धर्ममधर्मं वा – २४.३३
[स्तम्भः ४]
न च प्रत्ययहेतूनां – २०.२३
न च व्यस्तसमस्तेषु – १.१३
न चाजनयमानस्य – २०.२२
न चापि विपरीतस्य – २३.१७
न चेन्निरुध्यमानश्च – २१.२०
न चोपादानमेवात्मा – २७.६
न जरामरणेनैव – ११.५
न जातस्य हि जातेन – २०.१४
न जातस्य ह्यजातेन – २०.१३
न तावत्स्वकृतं दुःखं – १२.८
न तेन तस्य संसर्गो – १४.८
न निरोधः स्वभावेन – २४.२३
न निर्वाणसमारोपो – १६.१०
न पर्यातोऽग्निदृष्टान्तो – ३.३
न पूर्वं गमनाद्रम्भात् – २.१३
न प्रत्ययमयं फलं – १.१६
न प्रत्ययसमुत्पन्नं – १७.२९
न बध्यन्ते न मुच्यन्ते – १६.५
न भवत्यनुपादानं – २२.६
न भावाज्जायते भावो – २१.१२
न विपर्यस्यमानस्य – २३.१८
न संसारस्य निर्वाणात् – २५.१९
न संन्नासन्न सदसत् – १.९
न संभवः स्वभावस्य – १५.१
न सामग्रीकृतं फलं – २०.२४
न स्वतो जायते भावः – २१.१३ ; २३.२०
न स्वतो नापि परतो – १.३
न स्वात्मना निरोधोऽस्ति – ७.३२
न हि स्वभावो भावानां – १.५
नाकाशं विद्यते किंचित् – ५.१
नातीतास्य ह्यतीतेन – २०.१२
नात्मा च शुचि नित्यं च – २३.२२
नान्यस्मिन् विद्यतेऽन्यत्वं – १४.७
नापश्यमानं भवति – ३.४
नाप्यभूत्वा समृद्भूतो – २७.१२
नाभूमतीतमध्वानं – २७.९
पृष्ठ २६४
स्तम्भ १
नालक्षणे लक्षणस्य — ५.३
नासद्भूतं न सद्भूतः — ८.९
नासद्भूतोऽपि सद्भूतं — ८.१०
नास्थितौ गृह्यते कालः — १९.५
नित्यप्रदीप्त एव स्यात् — १०.२
निरुद्धे चेत्फलं हेतौ — २०.९
निरुध्यते नानिरुद्धं — ७.२६
निरुध्यमानस्योत्पत्तिः — ७.२१
निर्ममो निरहंकारः — १८.३
निर्वाणस्य च या कोटिः — २५.२०
निर्वास्याम्यनुपादानः — १६.९
निवृत्तमभिधातव्यं — १८.७
निष्कारणं पुनः रूपं — ४.५
नैकत्वे सहभावोऽस्ति — ६.४
नैव सतो नैवासतः — १.८
नैवाग्रं नावरं यस्य — ११.२
नैवाभावो नैव भावो — २०.१५, १६
नोत्पद्यमानं नोत्पन्नं — ७.१४
पक्षो गन्ता गच्छतीति — २.१०
पञ्च स्कन्धाः स च भवः — २६.८
पत्र यथाविप्रणाशः — १७.१४
परत्र निरपेक्षत्वात् — १०.२
परं निरोधाद्भगवान् — २५.१७
परं निरोधान्नाथायाः — २५.२१
परपुद्गलजं दुःखं — १२.५, ६
परिज्ञा च प्रहाणं च — २४.२
परिभोगान्वयं पुण्यं — १७.५
पश्चाज्जातिर्यदि भवेत् — ११.४
पश्यति दर्शनं नैव — ३.५
पुद्गलः संसरति चेत् — १६.२
पुनर्भवाय संसारान् — २६.१
पूर्वं जातिर्यदि भवेत् — ११.३
पूर्वमेव च सामग्र्याः — २०.८
पूर्वा प्रज्ञायते कोटिः — ११.१, ८
पूर्वे यदि च भवेरन् — २७.२३
पूर्वे यदि न भवेरन् — २७.२४
स्तम्भ २
पृथक्त्वे सहभावश्च — ६.६
पृथङ् न सिध्यतीत्येवं — ६.८
पृथग्भावाप्रसिद्धिश्च — ६.९
प्रकृतौ कस्य चासत्यां — १५.९
प्रतीत्य कारकः कर्म — ८.१२
प्रतीत्य परभावं यः — २२.३
प्रतीत्य मातापितरौ — ३.७
प्रतीत्य यद्यद्भवति — ७.१६; १८.१०
प्रत्युत्पन्नोऽनागतश्च — १९.१, २
प्रदीपः स्वपरात्मानौ — ७.८, १२
प्रदीपे नान्धकारोऽस्ति — ७.९
प्रपञ्चयन्ति ये बुद्धं — २२.१५
प्रहाणं चाब्रवीच्छास्ता — २५.१०
प्रहाणतो न प्रहेयो — १७.१५
प्रहाणसाक्षात्करणे — २४.२७
फलं सहैव सामग्र्या — २०.७
फलं स्वभावासद्भूतं — २०.२१
फलं नोत्पत्स्यतेऽशून्यं — २०.१७
फलं च प्रत्ययमयं — १.१५
फलव्यतिक्रमाद्वा स — १७.१९
फलाभावे फलस्था नो — २४.२९
फलेऽसति न मोक्षस्य — ८.६
बद्धो न मुच्यते तावत् — १६.८
बध्नीयाद्वन्धनं कर्म — १६.७
बंधनं चेदुपादानं — १६.६
बहवश्च महान्तश्च — १७.१२
बीजाच्च यस्मात्संतानः — १७.८
बुद्धः स्कन्धानुपादाय — २२.२
भविष्यति कथं नाम — २१.२, ४
भवेद्भावो भावश्च — २५.११, १२, १३, १४
भावमभ्युपपन्नस्य — २१.१४, १५
भावं प्रतीत्य कालश्चेत् — १९.६
भावश्च यदि निर्वाणं — २५.६
भावस्तान्न निर्वाणं — २५.५
भावस्य चेदप्रसिद्धिः — १५.५
पृष्ठ २६५
स्तम्भ १
भावानां निःस्वभावानां — १.१२; १३.८
ममेत्यहमिति क्षीणे — १८.४
य आजवंनवीभावो — २५.९
यत्र न प्रभवन्त्येते — ११.६
यथा निर्मितकं शास्ता — १७.३१
यथा माया यथा स्वप्नो — ७.३४
यदपीदमुपादानं — २२.९
यदा दुःखं समुदयो — २४.२५
यदिन्धनं स चेदग्निः — १०.१
यदिकश्चिदनुत्पन्नो — ७.७
यदि नास्ति स्वभावश्च — २२.४
यदि भावो न निर्वाणं — २५.७
यदि भूतः स्वभावेन — २३.२४
यदि शून्यमिदं सर्व २४.१; २५.१
यदि संस्कृत उत्पादः — ७.१
यदि ह्ययं भवेद्न्यः — २७.१०
यदिन्धनमपेक्ष्याग्निः — १०.८, ९
यदेव गमनं गन्ता — २.१८, १९
यदैव सर्वधर्माणाम् — ७.२९
यद्यतीतोऽनागतश्च — १९.५
यद्यन्यदन्यदन्यस्मात् — १४.६
यद्यभावश्च निर्वाणं — २५.८
यद्यभूतः स्वभा
२६६ मध्यमकशास्त्रे
स ते मौलेन जनितो – ७.६
स त्वं दोषानात्मनीयान् – २४.१५
स दैवः स मनुष्यश्चेत – २७.१५
संसारमूलान् संस्कारान् – २६.१०
संस्काराः संसरन्ति चेत् – १६.१
संस्काराणां न निर्वाणं – १६.४
संकल्पप्रत्ययो रागो – २३.१
संघो नास्ति न चेत्सन्ति – २४.४
सतश्च तावदुत्पत्तिः – ७.२०
सतश्च तावद्भावस्य – ७.३०
सता च क्रियते नासत् ८.८
सद्भावस्य स्वभावेन – २१.१७
सद्भूतः कारकः कर्म – ८.१
सद्भूतस्य क्रिया नास्ति – ८.२
सद्भूतो गमनं गन्ता – २.२४
सर्वं च युज्यते यस्य – २४.१८
सर्वं तथ्यं न वा तथ्यं – १८.८
सर्वेभ्यो दर्शनादिभ्यः – ९.६,७
सर्वेषां विषभागानां – १७.१७
सर्वदृष्टिप्रहाणाय २७.३०
सर्वसंव्यवहारांश्च – २४.३६
सर्वोपलम्भोपशमः – २५.२४
सहान्योन्येन वा सिद्धिः – २१.६
सदैव पुनरुद्भूतिः – ६.३
संनिपातस्त्रयाणां यो – २६.५
संबुद्धानामनुत्पादे – १८.१२
संभवेनैव विभव – २१.३ः
संभवो विभवश्चैव – २१.८,९,१०
संभवो विभवेनैव – २१.५
सिद्धः पृथक्पृथग्भावो – ६.७
स्कन्धा न नान्यः स्कन्धेभ्यः – २२.१
स्कन्धानामेष संतानः – २७.२३
स्कन्धांश्चाप्यनुपादाय – २२.६
स्कन्धान्यद्यनुपादाय – २२.५
स्थितस्य तावद्भावस्य – ७.२७
स्थितिर्निरुध्यमानस्य – ७.२३
स्थित्यान्यया स्थितेः स्थानं – ७.२५
स्यादुभाभ्यां कृतं दुःखं – १२.९
स्वमात्मानं दर्शनं हि – ३.२
स्वकायदृष्टिविक्लेशाः – २३.५
स्वपुद्गलकृतं दुःखं – १२.४
स्वभावः कृतको नाम – १५.२
स्वभावतश्च शून्येऽस्मिन् – २२.१४
स्वभावतो न विद्यन्ते – २३.६
स्वभावपरभावाभ्यां – १५.४
स्वभावतो विद्यमाने – २४.२२
स्वभावं परभावं च – १५.६
स्वभावेनानधिगतं – २४.२८
स्वभावेनापरिज्ञातं – २४.२६
स्वयं कृतं यदि भवेत् – १२.२
स्वयं कृतं परकृतं – १२.१
स्वयं कृतस्याप्रसिद्धेः – १२.७
स्वाभाव्ये सति मार्गस्य – २४.२४
हेतुः फलेन शून्यश्चेत् – २०.१६
हेतुं फलस्यादत्वा च – २०.६
हेतोः फलस्य चैकत्वं – २०.१९
हेतोश्च प्रत्ययानां च – २०.१,२,३,४
हेतावसति कार्यं च – ८.४
हेतुकं फलस्य दत्वा – २०.५
द्वितीयं परिशिष्टम् ।
टीकाकृतोद्धृतानां पद्यांशानां सूची ।
[ अङ्कः पत्राङ्कं बोधयति ]
अज्ञानकल्पितं पूर्वं – (रत्नावली) – ७९
अथ पण्डितु कश्चि मार्गेते – (ललित०) – ९३
अनक्षरस्य धर्मस्य – (भगवत्) – ११५
अनित्यस्य ध्रुवा पीडा – २०१
अनित्याश्च ते संस्कारा – (भगवत्) – १३
अनिर्वाणं हि निर्वाणं – (भगवत्) – २३७
अनुत्पादधर्मः सततं तथागतः – (हस्तिकक्ष्य) – १९५
अनुत्पाद शान्त अनिमित्तपदं – (समाधिराज) ४२, ८५
अन्यप्रतीत्य यदिनाम – (मध्यमकावतार) – ११
अपरोऽप्यस्य दुर्ज्ञात – (रत्नावली) – २१६
अप्रतीत्यास्तिता नास्ति – (चतुःशतक) – १७१; २२०
अमेदि कायो .... – २२७
अमेध्यपुञ्जप्रच्छन्ने – २०१
अरणि यथ चोत्तराणि – (ललित०) – ९३
अलभन्त फलं तथ प्राप्तिं – (उपालि) – ६३; १७७
अलातचक्रनिर्माणं – (चतुःशतक) – ७२; २४२
अवाचनक्षराः सर्व – २३६
अविद्यया नैव कदाचि विद्यते – २०२
अविनाशमनुत्पन्नं – (आगमसूत्रेषु) – २४०
असंलीनेन कायेन – २२७
अस्तीति नास्तीति उभेऽपि अन्ता – (समाधि०) ५४; ११८
अस्तीति नास्तीति विवाद एष – (समाधि०) ५४; ११८
अस्थिता हि इमे धर्माः – (भगवत् ?) – ६९
अस्मिन् सतीदं भवति – (आचार्य) – ३
अहंकारस्तथा स्कन्धान् – (रत्नावली) – १४७
अहंकारोद्भवाः स्कन्धाः – (रत्नावली) – १४७; २००
आकाशं शशशृङ्गं च – (लङ्का०) – २३१
आकाशादीनि कल्प्यन्ते – (चतुःशतक) – २२०
आकाशनिश्श्रित समारुत आपखन्धो – (गाथासु) – ६९
आत्मा तीर्थ्यैः कल्प्यते नित्यरूपो – (मध्यमकावतार) – १४६
आत्मा हि आत्मनो नाथो – (भगवत् = धम्मपद) – १५१
आत्मोच्छेदो निवृत्तौ स्यादवश्यं – (मध्यमकावतार) – १४६
आदर्शपृष्ठे तथ तैलपात्रे – (समाधि.) – ४१; २०७
आदिमध्यावसानानि – (मध्यमकसिद्धान्त) – २३९
आदित शून्य अनागत धर्मा – (रत्नाकर ?) – ९८
आदिशान्ता ह्यनुत्पन्नाः – (रत्नमेघ) – ९८
आलोकसमाश्रित पश्यति चक्षुः – (उपालि०) – ४६; ११३
इमु ईदृश धर्मलक्षणा – (ललित०) – ९३
इष्टो नात्मा रूपवान्नास्ति यस्मात् – (मध्यमकावतार) – १८८
इह यद्यपि तत्त्वज्ञो – (चतुःशतक) – १६१
इह शासनि सूरमणीये – (उपालि०) – १७६
उत्पादकाले हि तथागतस्य – १६६
उत्पादव्ययं विपश्यते – (ललित०) – १७६
उपसर्गेण धात्वर्थो – २
उह्लापनाः कामगुणा हि पञ्च – १६६
ऊर्णापक्ष्म यथैव हि – २०९
एकत्वान्यत्वरहितं – (निरुपम०) – ९३
एकस्य भाषमाणस्य – (आगम) – १४२
एकस्वरात्तु तव लोकहितो – १५६
एकेन कल्पेन भवेद्धि लोको – १६६
एकेन धर्मेन यु सर्वधर्मान् – (गगनगञ्ज) – ५०
एकेन सर्वं जानाति – (समाधि०) – ५०
एतावानेव पुरुषो – (लोकायत) – १५३
एतेनैव विचारेण – (चतुःशतक) – २४
पृष्ठम् २६८
[वामस्तम्भः]
२६८ मध्यमकशास्त्रे
एवंविधार्थश्रवणात् — (रत्नावली) — १४७
एवं धर्मान्वीक्षमाणे — १३; २४०
एवं पूर्वसुशुद्धत्वात् — (सूत्रे) — १५६
एविमे संखत धम्मा — (गाथा) — ९७
कण्ठोष्ठं प्रतीत्य तालुक — (ललित०) — १७६
करतलसदृशो बालो — २०९
कर्मक्रिया च प्रवर्त्तति एवं — ९८
कल्पवशेन विकल्पितु लोकः — (उपालि०) १८; ८०
कल्पितं बुध्यति कल्पितमात्रं — ९८
काम जानामि ते मूलं — (सूत्र, गाथा) १४९; १९७
कारणं विकृतिं गच्छद् — १७१
कालः पचति भूतानि — १६५
कुर्वतां श्रद्धानानां — (सूत्र) — २१२
कृष्णं शुभं च न नश्यति कर्म —
(समाधि०) — १०३; १५१
केचि स्पृह जनेन्ति तत्र काले — (समाधि०) — १४३
केशोण्डुकं यथा मिथ्या — (लङ्का०) — ११५
केषांचिद्वदद्धर्म — (आचार्य) — १५३
क्रियावान् शाश्वतो नास्ति — (चतुःशतक) — ४४
क्षणिकै सर्वथाभावात् — (मध्यमकसिद्धान्त) — २३९
गीतं न नृत्यमपि वाद्यरुतं न ग्राह्यं — (उपालि०) — ४७
गृहीत नैव च जगद्यदि हेतुशून्यं —
(मध्यमकावतार) — १२
चक्षुश्च प्रतीत्य रूपतः — (ललित०) — ४६
चित्र मनोरम सज्जितपुष्पाः — (उपालि०) — १८; ८०
जन्मोन्मुखं न सदिदं यदि जायमानं —
(मध्यमकावतार) — २३९
जायते च्यवते चापि — (भगवत्) — १८४
जायमानार्थजातत्वात् — २७
ज्ञानं तथा आर्य प्रतीत्य नास्रवं — (रत्नकूट) — ६४
ज्ञानं न कल्पेति अज्ञानु नो भवेत् —
(रत्नकूट) — ६४
ज्ञानेन जानाम्यह स्कन्धशून्यतां — (समाधि०) — २०८
तत्तत्प्राप्य यदुत्पन्नं — (नागार्जुन) — ३
तत्र प्रणष्टु जगं इमं सर्वं — (रत्नाकर) — १०७
तत्रार्थदृष्टिर्विज्ञानं — (मध्यान्तविभङ्ग) — २२
[दक्षिणस्तम्भः]
तथ सर्वभवाङ्गवर्तिनी — (ललित०) — २४१
तथा समानेन समानकालं — (मध्यमकावतार) — २३९
तथागतो हि प्रतिबिम्बभूतः —
(हस्तिकक्ष्य) — १९५; २३६
तस्माद्धि तस्य भवने न गुणोऽस्ति कश्चित् —
(मध्यमकावतार) — ५
तमोऽन्धकारस्य न शक्तिरस्ति — (रत्नकूट) — ६४
तहि कालि सो दशबलो अनघो —
(समाधि०) — ४१; ८४
तेन विजानित बोधिज्ञानं — (रत्नाकर) — १०७
ते परिनिर्वृत लौकिक शूरा — (उपालि?) —
११३; २०८
त्रीषु अध्वसु सत्त्वानां — (पूर्वशैल) — २४०
त्वक्स्नायुमांसास्थिसमुच्चये च — (समाधि०) — ७४
दुन्दुभि वादित शक्रमरुद्भिः — (सूत्र) — १५६
दूरंगमायां तु धियाधिकः — (मध्यमकावतार) — १५१
दूरादालोकितं रूपं — (आचार्य) — १४८
दूरीभूतैस्तथामृतो — (आचार्य) — १४८
दृष्टश्रुतार्थं मुनिना — (रत्नावली) — १५३
देवत चोदयि दुन्दुभि दिव्य — (सूत्र) — १५६
देवा पि सर्वे प्रमुमोचु शब्दं — (समाधि०) — १२१
द्वयानिश्रितमेकेषां — (आचार्य) — १५३
धर्मगणौ सुखं शेते — १३२
धर्मतो बुद्धा द्रष्टव्या — (भगवत्) — १९५
धर्म दशबलप्रभाषितेऽत्र — (समाधि०) — १४३
धर्म स्वभावतु शून्य विविक्तो — १९२
धर्म समासेतो ऽहिंसां — (चतुःशतक) — १५०
धर्मयौतकमिह्यस्मात् — रत्नावली — १२०
न च अस्मिन लोकि मृत्यु कश्चिनरो —
— (समाधि०) — ४१; ८५
न च कारकु कारण सन्ति — (उपालि०) — १८; ८०
न चक्षुः प्रेक्षते रूपं — (भगवत्) — ४६
न च शाश्वतं न च उच्छेद —
(समाधि०) — ४२; ८५
न च संक्रमो न च पुनरागमनं —
(समाधि०) — ४२; ८५
पृष्ठम् २६९
[वामस्तम्भः]
पद्यांशसूची। २६९
न च सत्त्वु लभ्यति न जीवु नरो —
(समाधि०) — ४१; ८५
न चाभावोऽपि निर्वाणं — (रत्नावली) २२९
न प्रणश्यन्ति कर्माणि — (भगवत्) — १३९; १६८
न शून्यं नापि चाशून्यं — (मध्यान्तविभङ्ग) — १९३
न स्थितिनर्नापि चो जातिः — (भगवत्) — ६९
न स्वभावो न विज्ञप्तिः — (लङ्का०) — ११५
नान्यया भाषया म्लेच्छः — (चतुःशतक) — १५७
नास्तिको दुर्गतिं याति — (रत्नावली) — ५४
नास्तीह सत्त्व आत्मा वा — (भगवत्) — १५१
नित्यमरक्त अदुष्ट अमूढाः — (समाधि०) — ७४
निरोधसत्यं सुफिनं यथैव — (समाधि०) — १२६
निर्वाणं निवृत्तिरेव — (समाधि०) — २०८
निर्वृत्ति धर्मोण न अस्ति धर्मा —
(भगवत्) — २२८
नीतार्थसूत्रान्तविशेषजानति — (समाधि०) —
१४, १२०
नैरात्म्याशुभाश्च धर्मि — (ललित०) — ४६
नैवमात्मा न चानात्मा — (रत्नावली) — १५३
नो पि च सत्त्व न जीविह कश्चि —
(उपालि०) — ११३
पटः कारणातः सिद्धः — ३१
परमार्थसत्य सुफिनेन समं — (समाधि०) — १२६
परिनिर्वृत लोकि त शूराः — (भगवत्) — २०८
पारगतोऽसि भवार्णवतीर्णः — (रत्नाकर) — १०७
पृष्टः स देवराजेन — (सूत्रे) — २१२
प्रतिपन्नकाश्चत्वारः — (सूत्रे) — २१२
प्रतिश्रुत्कादयः शब्दाः — (सूत्रे) — १५६
प्रतीत्य धर्मानधिगच्छते — (भगवत्) — २२०
प्रव्रजित्व गृहालिङ्गं जहित्वा — (उपालि०)
— ६३; १७७
प्राणिशतसहस्रं तं शृणित्वा — (समाधि०) — १४२
फेनपिण्डोपमं रूपं — (भगवत्) — १३; २४०
बीजस्य सतो यथाङ्कुरो — (ललित०)
८; ४१; १६०; १८५; २४१
बुद्धसहस्रशता य अतीत — १६६
[दक्षिणस्तम्भः]
बुद्धो यदा भेष्यति धर्मराजो —
(समाधि०) १२१; १५६
भयं दर्शित नैरयिकं — (उपालि०) — ५३; ८०
भाव अभाव विभावयि ज्ञानं —
(समाधि०) — १२१; १८६
भावस्यैकस्य यो द्रष्टा — ५०
भावानभावानिति यः प्रजानति — (समाधि०) —
५३; ११६; १२१
भावितु मार्ग प्रवर्तितु ज्ञान — (उपालि०) — ११३
मरीचितोयसदृशी — (आचार्य) — १४८
मरीचिप्रतिमं लोकं — (रत्नावली) — ७९
मरीचि तोयमित्येतत् — (रत्नावली) — ७९
मायोपमं जगदिदं — (सूत्र) — १९३
मुखस्य संक्रान्ति यदा न विद्यते —
(समाधि०) — ४१; २०७
मुद्राप्रतिमुद्र दृश्यते — (ललित०)
— ४१; १८५; २४१
यः प्रत्ययैर्जायति स ह्यजातो — (अनवतप्त०)
— १०५; २१४; २१८; २१९
यच्छास्ति वः क्लेशरिपुनशेषान् — १
यथ शङ्कितेन विषसंज्ञ अभ्युपेति — २२९
यथ उत्क्षिप्तो लोष्टम्भि (द्वादशारनयचक्र) — ९७
यथ गगण न जातु दग्धपूर्वं — ९३
यथ मुञ्ज प्रतीत्य वल्वजं — (ललित०) २४१
यथ कुमारी सुपिनान्तरस्मि — (समाधि०)
— ७४; २४१
यथा जात स्व्यात्मसंज्ञा — (समाधि०) — ५०
यथादर्शमनादाय — (रत्नावली) — १४७
यथादर्शमुपादाय — (रत्नावली) — १४७
यथा निर्वाणु गम्भीरं — २०७
यथान्तोऽस्ति क्षणस्यैव — (मध्यमकसिद्धान्त)
— २३९
यथा बीजस्य दृष्टोऽन्तः — (चतुःशतक) — ९५
यथा यन्त्रकृतं तूर्यं (सूत्रे) — १५५
यथा हि दीपो लयने चिरस्य — (रत्नकूट) — ६४
यथैव गन्धर्वनगरं — (समाधि०) — ७४
२७० मध्यमकशास्त्रे
यथैव ग्रामान्तरि — (समाधि०) — २४१
यथैव वैयाकरणो — (आचार्य) — १५३
यद् सुगतु कत्थां करोति नाथो — (समाधि०) — १४२
यदि काचन प्रतिज्ञा स्यात् — (विग्रहव्यावर्तनी) — ६
यदि किंचिदुपलभ्यं — (विग्रहव्यावर्तनी) — ६; ९
यदि कोचि धर्मोण भवेत्स्वभावः — (हस्तिकक्ष्य) — १६६; २२४
यद्यस्य प्रियं पूर्वं — (चतुःशतक) — १५७
यस्तवात्मा ममानात्मा — (चतुःशतक) — ८४
यस्मात्प्रवर्तते भावः — (चतुःशतक) १६६
यस्य नैव हि स्वभावु — (रत्नाकर) — ३१
यस्य स्वभाव न विद्यति कश्चि — (रत्नाकर) — ३२; १०६
यं च पभाषति धर्म — ९८
यावन्ति शब्दान्तहि लोकधाती — (समाधि०) — १२२; १५६
ये मां रूपेण अद्राक्षुः — (भगवत्) — १९५
ये रागोदोषमदमोहस्वभावं (समाधि?) — ५८
यो इच्छती सुगतश्रावकु हं भवेयं — १५१
यो न पि जायति नो चुपपद्यी — (रत्नाकर) — ३२; १०६
यो पि च चिन्तयि शून्यक धर्मान् — (भगवत्) — ५३; १४८; १८६
यो ऽपि च श्रूयति शब्दु मनोज्ञ — (उपालि०) — ४६
रथचक्रवद् भ्रमति सर्वजगत् — (सूत्रे) — १९४
रश्मिशतसहस्र अप्रमेयान् — (समाधि०) — १४३
रागादिमिश्र बहुरोगशतैः — (सूत्रे) — १९३
रूपस्याभावमात्रत्वात् — (रत्नावली) — १७९
रूपादिव्यतिरेकेण — २४
रूपेण दर्शिता बोधि — (समाधि०) — २०७
लक्ष्यालक्षणमन्यच्चेत् — (लोकातीतस्तव) — २२
वरशुक्लधर्मगुणसंनिचयो — (समाधि०) — ४२
वाच न विद्यति यां च वदेसि — (रत्नाकर) — १०७
वारणं प्रागपुण्यस्य — (चतुःशतक) — १५३
विज्ञाननिरोधसंभवं — (ललित०) — ४६
विनाशयति दुर्दृष्टो — २१६
विपरीत अभूत् कल्पितै — (ललित०) — ९४
शब्दश्चापि निर्वाणं च — (समाधि०) २०७
शान्त गती कथिता सुगतेन — (रत्नाकर) — ३२; १०६
शान्त प्रजानाति धर्म प्रणीतान् — (रत्नाकर) — १०७
शान्त प्रशान्त य चिन्तयि धर्मान् — (भगवत्) — ५३; १४९; १८६
शुक्रशोणितसंपर्क — (चतुःशतक ?) — २०१
शून्यमाध्यात्मिकं पश्य — (भगवत्) — १४८
शून्यं च शान्तमनुत्पादमन्यं — (सूत्रे) — १९३
शून्यविध न हि विद्यते क्वचि — (रत्नाकर) — ३१
शैलगुहागिरिदुर्गनदीषु — (समाधि०) — १०३
शैलपर्वत यथा अकम्पिया — (रत्नाकर) — ३२
स जातमात्रो गगने स्थितित्वा — (समाधि०) १२१
ससांस्त्योद्भव्यनिर्ग्रन्थ — (रत्नावली) १२०
संवृत्ति भाषितु धर्म जिनेन — (समाधि०) — १०३
संस्कृतासंस्कृतं सर्वं विविक्त — (समाधि०) — ७४
सङ्गु न विद्यति अत्र कदाचि — (उपालि०) — ११३
सत्कायदृष्टिप्रभवानशेषान् — (मध्यमकावतार) १४५
सदसत्सदसच्चेति — (चतुःशतक) — १५८
सदसत्सदसच्चेति यस्य — (चतुःशतक) — ५
सर्वे अनित्य अशाश्वत काम — १५६
सर्व एव घटोऽदृष्टो — (चतुःशतक) — २४
सर्वं धर्म अचला — (रत्नाकर) — ३१
सर्वधर्माः स्वभावेन — (समाधि०) — २०८
सर्वं संयोगि तु पश्यति चक्षुः — (उपालि०) — ४६; ११३
सर्वे भवा अलिका वशिकाश्च — (समाधि०) १०३
सर्वे वदेसि निरात्मक धर्मान् — (रत्नाकर) — १०७
सर्वे हि ज्वलमाणि बुद्धक्षेत्रे — (भगवत्) — ९३
सामग्रि प्रतीत्य तं च सा — (ललित) — १७६
सामन्या दर्शनं यत्र — (भगवत्) — ४६
सिया यदि किंचि अशून्य — (पितापुत्रसमागम) ?
सुपिनोपमा भवगती सकला — (महायानसूत्रेषु) २४०
सुपिनोपमं हि त्रिभवं — (समाधि० ?) ४२
सुसुखिता सद ते नर लोके — (भगवत्) — १८६
पद्यांशसूची। २७१
स्कन्ध स्वभावतु शून्य विविक्त — (भगवत्) १४९
स्कन्धा आत्मा चेदतस्तद्बहुत्वात् — (मध्यमकावतार) — १४६
स्कन्धात्मा लोक आख्यातः — २१५
स्कन्धान्सत्यान् दृष्ट्वैवं — (रत्नावली) १४७; २००
स्कन्धायतनानि धातवः — (ललित०) ९३
स्कन्धेभ्योऽन्यो यदि भवेत् — १८८
स्कन्धेष्वात्मा विद्यते नैवचामी — (मध्यमकावतार) — १८८
स्तम्भादीनामलंकारो — (चतुःशतक) १६९
स्थान मथानु अयुथानु जिनेन — (गाथासु) ६९
स्मराम्यहं पूर्वमतीत अध्वनि — (समाधि०) १२१
स्वयं कृतं परकृतं — (लोकातीतस्तव) — १८; १०३
स्वाध्यायदीपमुद्रा — (नागार्जुन) १८६; २४२
हेतुतः संभवो येषां — (लोकातीतस्तव) — १७९
तृतीयं परिशिष्टम् ।
टीकाकारोद्धृतानामागमस्थगद्यांशानां सूची ।
[ अङ्कः पत्राङ्कं बोधयति ]
अधिगतो मया धर्मो गम्भीरो — २१७
अनवराग्रो हि भिक्षवो जातिजरामरणसंसारः — ९५; २३४
अनात्मानः सर्वधर्माः — २२
अविद्यानिवृताः सत्त्वाः — १४१
अविद्यानुगतो....पुण्यानपि संस्कारान् — ७१
अस्तीति काश्यप अयमेको ऽन्तः — ११८
अस्मिन् सतीदं भवति — ३; १९; ६५
अहमेव स तेन कालेन मांधाता — २५०
आगतिरिति संकर्षणपदमेतत् — ४१
आत्मेति काश्यप अयमेको ऽन्तः — १५३
आध्यात्मिकः प्रतीत्यसमुत्पादः — २४५
इदं पापं कर्म स्वयमेव कृतं — १४१
उच्छेददर्शनं प्रहातव्यं — १८४
उत्पादाद्वा तथागतानां — १३
उपशम उपशम इति भगवन्नुच्यते — १५३
एको धर्मः सत्त्वस्थितये — १३
एतद्धि....परमं सत्यं — १३
कतमः...सम्यक्प्रयोगः — १५९
कतमे सूत्रान्ता नेयार्थाः — १४
कथं ...प्रज्ञापारमिता पर्येषित्वा — १६१
किं...मायोपमास्ते सत्त्वाः — १९६
चक्षुः प्रतीत्य रूपाणि च — २
चक्षुर्विज्ञानसमङ्गी नीलं — २५
चतुर्णामार्यसत्यानां यथाभूतार्था — १२९; २२५
चत्वारः प्रत्ययाः— ?
चित्तं हि काश्यप परिगवेष्यमाणं — १४
चेतनामहं भिक्षवः कर्म वदामि — ?
जरापि द्विविधकार्यप्रत्युपस्थाना — ?
तद्यथा....काण्डं च प्रतीत्य — १६
तद्यथा....मायाकारनाटक — १५
तन्निर्मितबोधिसत्त्वेन — १४३
तन्मृषा मोषधर्म यदिदं संस्कृतं — १०४
तस्मात्तर्हि संसारक्षयाय — ९५
तेन हि कौशिक....न रूपे — १७७
त्रीणीमानि....संस्कृतस्य — ५९
द्वौ धर्मौ लोकं पालयतः — १३
धर्मकाया बुद्धा भगवन्तः — ?
नास्त्यत्र तथता — १३
निर्वाणमप्यायुष्मन्सुभूते मायोपमं — १२६
परमार्थसत्यं कतमत — १५९
पञ्च च भिक्षुशतानि.... — १४४
पञ्चमात्राणि भिक्षुशतानि — १५
प्रतीत्यसमुत्पादं वो भिक्षवः — २
बालो.... चक्षुषा रूपाणि दृष्ट्वा — ५५
बुद्धप्रमुखो भिक्षुसंघः — २१३
बुद्धो ऽपि.... मायोपम — १९२
मरणमपि द्विविधकार्यप्रत्युपस्थापनं — ७३
य इमं प्रतीत्यसमुत्पादं — २५८
यः प्रतीत्यसमुत्पादं पश्यति — ६६
यदनित्यं तद्दुःखं — २२०
यद्भूयसा कात्यायन लोकः — ११८
यन्न शून्यतया शून्यान्धर्मीन्करोति — १०८
यन्मारः पापीयान् — १३१
यन्त्रकारनिर्मिता यन्त्रयुवतिः — १५
यां च रात्रिं तथागतो — १५५; २३६
ये केचिद्द्रवेन — २३२
योऽहं मार्गेण निःसरणं — २०२
गद्यांशसूची । २७३
यो रज्येत यत्र वा रज्येत — २७; २०७
यो हि भगवन् पूर्व — १२०
लोको मया सार्धं विवदति — १५७
शून्याः सर्वधर्माः — १०४; १२२; १९३; २१९
श्रावकबोधिमभिसंबोद्धुकामेन — १५१
षड्धातुरयं महाराज — ५१
सचेदानन्द विज्ञानं मातुः — २४२
स चित्तमसमनुपश्यन् — २१
सत्कायदृष्टिमूलकाः — १४९
सन्त्यस्मिन् काये केशाः — २०
सालम्बना धर्माः कतमे — २९
स्याद्यदि किंचिदशून्यं — २२४
स्वभावानुत्पत्तिं संधाय — २१९
स्वयंङ्कृतस्य कर्मणः — १४२
म. ३५
[पृष्ठ १]
[वाम स्तम्भ]
चतुर्थं परिशिष्टम् ।
ग्रन्थ-ग्रन्थकृन्नामसूची ।
[ अङ्कः पत्राङ्कं बोधयति ]
अक्षपाद – १९१
अक्षयमतिसूत्र [ T १७०; N ७४ ] – १४
अध्याशयसं चोदनासूत्र – [ T ६९; N ३७ ]
दृढाध्या – १५५
अनवतप्तह्रदापक्रमणसूत्र – १०४
अभिधर्मशास्त्र – ४३; २३९
अर्धशतिका, द्वयर्ध – १०४; २१९
अष्टसाहस्रिका – १२६; १५१; १६१; १६२;
१७७; १९६
आगम–२; २९; ६६; ७३; १३३; १४२; १५७
आचार्य = नागार्जुन – ९; ६०; १४८;
१५३; १७९
आनन्द – (आर्य० )– १४७
आर्यदेव – ५; १५३; १६०
उपालिपरिपृच्छा – [ T ६८; N २३ २४,
३६, ९७९ ] १८; ४६;
६३; ८०; १०३; ११३;
१७६; १७७
औलूक्य – १२०
कणभक्ष – १९१; कणाद – २२९
कात्यायनाववाद – १४; ११७
कापिल – २२९
गगनगञ्जसमाधिसूत्र – [ T १४८; N ६१ ] – ५०
गाथासु – ६९; ९७; १९७
चतुःशतक – ५; २४
जैमिनि – १९१, जैमिनीयाः – २२९
तथागतगुह्यसूत्र – १५३; १५४; २३६
तथागतवाग्गुह्यपरिवर्त – २३७
दिगम्बर – १९१
दृढाध्याशयपरिपृच्छासूत्र – १५; २०२
द्वयर्धशतिका – १०४; २१९
ध्यायितमुष्टिसूत्र – १२९; २२२
[दक्षिण स्तम्भ]
नागार्जुन – १; ७; १८४; २४२
नास्तिक – १५६; १५७; २२९
निकाय – ( सर्वानिकायशास्त्रसूत्रेषु ) – २४०
निर्णनय – १२०; १७२
नैयायिक – १९१
पितापुत्रसमागम [ T ६०; N २३, १६ ]
– २२४
पुद्गलस्कन्धवादिन् – १२०
पुरुषादिकारणिन् – १७२
पूर्वाचार्य – १५७
प्रज्ञापारमिता ( अर्धशतिका, द्वयर्धशतिका,
अष्टसाहस्रिका, वज्रच्छेदिका ) –१९२
प्रतीत्यसमुत्पाद – १९७
प्रासङ्गिक – ७; १६६
बुद्धपालित – ५; ६; ८; १२; ८३
बौद्ध – ९; १८४
भव्य = भावविवेक – १२; ८३; १५०
मञ्जुश्रीपरिपृच्छा [ T ९६; N १८४–२०० ]
–२२५
मध्यमकदर्शन – १२०
मध्यमकशास्त्र – १३; २४०
मध्यमकसिद्धान्त – २३९
मध्यमकावतार – ५; १२; १४५; १४६; १५१;
१८४; १८९; २३९
मध्यान्तविभाग – १९३
मध्योद्देशिक – २१३
महायानसूत्रेषु – २४०
महावस्तु – २१३
माध्यमिक – ६; ५०; १४२; १५६; १५७; १७९
मारदमनसूत्र – १३१
रत्नकूट – १४; १५; ६४; १०७; १४४; १५२
रत्नचूडपरिपृच्छा [ T ९१; N २३; ४७; ] २१
[पृष्ठ २]
ग्रन्थग्रन्थकृन्नामसूची । २७५
[वाम स्तम्भ]
रत्नमेघसूत्र – [ T २३१; N ९६४ ] – ९८
रत्नाकरसूत्र – ३१; १०६
रत्नावली – ५४; ७९; १२०; १४७; १५३,
१७९; २००; २१६; २१९
लङ्कावतार – ११५; २१९; २३१
ललितविस्तर – ८;४१; १०८; १७६; १८५;
२४१
लोकायतिक – १५३
वज्रच्छेदिका – १९५
वज्रमण्डधारणी – १६
विग्रहव्यावर्तनी – ६; ८; ९; २०
विज्ञानवाद – १२०; १९३
विनय – १५; १४३
विमलकीर्तिनिर्देश [ T १७६; N १४६;
१४७, १४९ ] – १४३
वैभाषिक – २२९
शतक ( = चतुःशतक ) – ७२; ८४; ९५;
[दक्षिण स्तम्भ]
१५३; १५८; १६१; १६१; १६९;
१७१; २०१; २२०; २२१; २४२;
शालिस्तम्बसूत्र – २४५; २५८
शास्त्र (=अभिधर्म) – २४०
शास्त्र (=मध्यमक) – २४०
सत्यद्वयावतारसूत्र – १५९
समाधिराजसूत्र – १४; ४१; ४२; ५०; ५३;
५४; ५७; ७४; ८४-८५; १०३; १२०;
१२१; १२६; १४२-४३; १५१, १५६;
१८४; २०७-८; २४०-४१
सांख्य – ७; १२०; १५३
सांमितीय – ६०; ८१; १२०
सूत्र – १९६; २३६; २३७
सौत्रान्तिक – १९३
स्कन्धवादिन् – १२०
स्वयूथ्य – २५
हस्तिकक्ष्यसूत्र [ T २०७; N १९३, १९४ ]
पञ्चमं परिशिष्टम्।
आर्य-नागार्जुनविरचिता
विग्रह-व्यावर्तनी
स्वोपज्ञवृत्तिसमेता ।
[ This Appendix contains the text of Nāgārjuna's Vigraha-vyāvartanī with
his own commentary. The text was first published in the Journal of the Bihar
and Orissa Research Society (Vol. xiii. iii. Appendix) and was edited by the late
Dr. K. P. Jayaswal and Rāhula Sāṁkṛtyāyana from a single Ms. procured from
Tibet by the latter. It was also translated from Tibetan by Dr. G. Tucci in GOS.
I have included this text here with slight but obvious improvements for
the simple reason that it is a manual of the methods of reasoning of the Mādhya
mika School of Buddhists, written by Nāgārjuna, the founder and chief master
of the system. Candrakīrti refers not only to this text, but also to its commentary
by Nāgārjuna (vide pp. 6, 8, 9). Thus the work being a genuine work of the
author of Madhyamaka Śāstra, and manual of Mādhyamika methodology, I
thought that it should be in the hands, of the reader of Madhyamaka Śāstra. It
should be noted further that, under Stanza 28 of this work, Nāgārjuna quotes
his own Kārikā from MŚ., viz., MŚ. 14.10 with words यथोक्तम्, indicating thereby
that at least the commentary of Vigraha Vyāvartanī was composed by him after
MŚ., introducing the stanza by the phrase : न हि व्यवहारसत्यमनाश्रित्य शक्या धर्मदेशना
कर्तुम्. ]
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् ।
त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम् ॥ १ ॥
यदि सर्वेषां भावानां हेतौ प्रत्ययेषु च हेतुप्रत्ययसामग्र्यां च पृथक् च यत्र सर्वत्र
स्वभावो न विद्यत इति कृत्वा शून्याः सर्वभावा इति । न हि बीजे हि हेतुभूतेऽङ्कुरोऽस्ति । न
पृथिव्यप्तेजोवाय्वादिनामकैकस्मिन् प्रत्ययसंज्ञेति । न प्रत्ययेषु समग्रेषु । न हेतुप्रत्ययेषु समग्रेषु । न
हेतुप्रत्ययसामग्र्याम् । न हेतुप्रत्ययविनिर्मुक्तः पृथगेव वा । यस्मादत्र स्वभावो नास्ति, तस्मान्नि:-
स्वभावोऽङ्कुरः । यस्मान्निःस्वभावः, तस्मात् शून्यः । यथा चायमङ्कुरो निःस्वभावो निःस्वभावत्वाच्च
शून्यः, तथा सर्वभावा निःस्वभावत्वाच्छून्या इति ।
अत्र वयं ब्रूमः-यद्येवं तवापि वचनं यदेतच्छून्याः सर्वभावा इति, तदपि शून्यम्। किं
कारणम् ? तदपि हेतौ नास्ति, महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु नास्ति । उरःकण्ठौष्ठ-
जिह्वादन्तमूलतालुनासिका मूर्धप्रभृतिषु यत्रैवोभयसामग्र्यमस्ति । हेतुप्रत्ययसामग्रीविनिर्मुक्तं
पृथगेव वा नास्ति । यस्मादत्र सर्वत्र नास्ति, तस्मान्निःस्वभावम् । यस्मान्निःस्वभावम् , तस्मा-
च्छून्यम् । तस्मादनेन सर्वभावस्वभावव्यावर्तनमशक्यं कर्तुम् । किं कारणम् ? न ह्यसदग्निना
शक्यं दग्धुम् । न ह्यसता शस्त्रेण शक्यं छेत्तुम् । नासतीभिरद्भिः शक्यं क्लेदयितुम् । एवमसता
वचनेन न शक्यः सर्वभावस्वभावप्रतिषेधः कर्तुम् । न शक्यः सर्वभावस्वभावो निवर्तयितुम् ॥
तत्र यदुक्तं सर्वभावस्वभावः प्रतिषिद्धः, सर्वत्र भावस्वभावो विनिवर्तत इति, तन्न ।
२७८ मध्यमकशास्त्रे पञ्चमं परिशिष्टम् ।
अथ सस्वभावमेतद्वाक्यं श्रुत्वा हता प्रतिज्ञा ते ।
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ २ ॥
अथापि मन्यसे-मा भूदेष दोष इति सस्वभावमेतद्वाक्यम् । सस्वभावत्वाच्चाशून्यम् ।
तस्मादनेन सर्वभावस्वभावः प्रतिषिद्धः सर्वभावस्वभावो विनिवर्तत इति । अत्र ब्रूमः-यदि ते
प्रतिज्ञा-शून्याः सर्वभावा इति, हता सा । किं चान्यत् । सर्वभावान्तर्गतं च त्वद्वचनम् ।
कस्मात् ? सर्वभावेषु त्वद्वचनमशून्यम् । येन अशून्यत्वात् सर्वभावस्वभावः स्वभावप्रसिद्धः ।
एवं षट्कोतिको वादः प्रसक्तः । स पुनः कथमिति ? (१) हन्त चेत् पुनः शून्याः
सर्वभावाः, तेन त्वद्वचनं शून्यम्, सर्वभावान्तर्गतत्वात् त्वद्वचनस्य, तेन शून्येन
प्रतिषेधानुपपत्तिः । तत्र यः प्रतिषेधः शून्यः सर्वभाव इति, [ सः ] अनुपपन्नः । (२)
उपपन्नश्चेत्, पुनः शून्याः सर्वभावा इति प्रतिषेधः, तेन त्वद्वचनशून्यत्वात् अनेन प्रतिषेधोऽ-
नुपपन्नः । (३) अथ शून्याः सर्वभावाः, त्वद्वचनं चाशून्यम्, येन प्रतिषेधस्तेन त्वद्वचनं
सर्वत्रासंगृहीतम् । तत्र दृष्टान्तविरोधः । (४) सर्वत्र चेत् पुनर्गृहीतं त्वद्वचनं सर्वभावाश्च
शून्याः, तेन तदपि शून्यम् । शून्यत्वाद्नेन नास्ति प्रतिषेधः । (५) अथ शून्यमस्ति चानेन
प्रतिषेधः-शून्याः सर्वभावा इति, तेन शून्या (अ)पि सर्वभावाः कार्यकार्यासामर्थ्या भवेयुः । न
चैतदिष्टम् । (६) अथ शून्याः सर्वभावाः न च कार्यकार्यासामर्थ्या भवन्ति, मा भूद् दृष्टान्तविरोध
इति कृत्वा शून्येन त्वद्वचनेन सर्वभावस्वभावप्रतिषेधो नोपपन्न इति ॥
किं चान्यत् । एवं तदस्तित्वात् वैषमिकत्वप्रसङ्गः, किंचित् शून्यं किंचिदशून्यमिति ।
तस्मिंश्च वैषमिकत्वे विशेषहेतुर्वक्तव्यः, येन हि विशेषहेतुना किंचित् शून्यं किंचिदशून्यं स्यात् ।
स च नोपदिष्टो हेतुः ॥
तत्र यदुक्तं शून्याः सर्वभावा इति, तन्न । किं चान्यत् ।
मा शब्दवदित्येतत् स्यात्ते बुद्धिर्न चैतदुपपन्नम् ।
शब्देनात्र सता भविष्यतो वारर्ण तस्य ॥ ३ ॥
स्यात् ते बुद्धिः-यथा नाम कश्चिद् ब्रूयात्-मा शब्दं कार्षीः, मा शब्दं कार्षीरिति ।
तेन च शब्देन व्यावर्तनं क्रियते । एवमेव शून्याः सर्वभावा इति । शून्येन वचनेन सर्वभावस्व-
भावस्य व्यावर्तनं क्रियत इति ।
अत्र वयं ब्रूमः-एतदप्यनुपपन्नम् । किं कारणम् ? सता ह्यत्र शब्देन भविष्यतः शब्दस्य
प्रतिषेधः क्रियते । न पुनरिह भवतः सता वचनेन सर्वभावस्वभावप्रतिषेधः क्रियते । तव हि
मतेन वचनमप्यसत् । सर्वभावस्वभावोऽप्यसत् । तस्मादयं मा शब्दवदिति विषमोपन्यासोऽसन्निहित ॥
किं च ।
प्रतिषेधः प्रतिषेद्धव्योऽप्येवमिति मतं भवेत् तदसदेव ।
एवं तव प्रतिज्ञा लक्षणतो दूष्यते न मम ॥ ४ ॥
स्यात् ते बुद्धिः- प्रतिषेधः प्रतिषेध्योऽप्येनेनैव कल्पेनानुपपन्नः । तत्र यद् भवान्
सर्वभावस्वभावप्रतिषेधवचनं प्रतिषेधयति, तदनुपपन्नमिति ।
विग्रह-व्यावर्तनी । २७९
अत्र वयं ब्रूमः-एतदशब्देन सदेव । कस्मात् ? तव हि प्रतिज्ञालक्षणप्राप्ते मतम्, न
गम । भवान् ब्रवीति शून्याः सर्वभावा इति, नाहम् । तस्मात् त्वत्प्रतिज्ञां न पयामि (?) पूर्वकः पक्षो
न मम ॥ ४ ॥
तत्र यदुक्तम्-प्रतिषेधः प्रतिषेध्योऽप्येवं मतमुपपन्नमिति ? तन्न ।
किं चान्यत् ।
प्रत्यक्षेण हि तावत् यद्युपलभ्य विनिवर्तयसि भावान् ।
तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ ५ ॥
यदि प्रत्यक्षतः सर्वभावानुपलभ्य भवान् निवर्तयति शून्याः सर्वभावा इति, तदनुपपन्नम् ।
कस्मात् ? प्रत्यक्षमपि हि प्रमाणं सर्वभावान्तर्गतत्वात् शून्यम् । योऽपि सर्वभावानुपलभते, सोऽपि
शून्यः । तस्मात् प्रत्यक्षेण प्रमाणेन नोपलम्भभावः, अनुपलब्धस्य च प्रतिषेधानुपपत्तिः । तत्र
शून्याः सर्वभावा इति यदुक्तम्, तदनुपपन्नम् ॥
स्यात् ते बुद्धिः- अनुमानेन आगमेन उपमानेन वा सर्वभावानुपलभ्य सर्वभावव्यावर्तनं
क्रियत इति, अत्र ब्रूमः-
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च ।
अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥ ६ ॥
अनुमानोपमानागमाश्च प्रत्यक्षेण प्रमाणेन प्रत्युक्ताः । यथा हि प्रत्यक्षं प्रमाणं शून्यम्,
सर्वभावानां शून्यत्वात्, एवमनुमानागमोपमाना अपि शून्याः, सर्वभावानां शून्यत्वात् । येऽप्यनुमान-
साध्या अर्था आगमसाध्या उपमानसाध्याश्च, तेऽपि शून्याः । सर्वभावानां शून्यत्वात् । अनुमानोप-
मानागमैश्च योऽपि भावानुपलभते, सोऽपि शून्यः स्यात् । तस्मात् भावानामनुपलम्भाभावोऽनुप-
लब्धानां च स्वभावप्रतिषेधानुपपत्तिः ॥
तत्र यदुक्तं शून्याः सर्वभावा इति, तन्न । किं चान्यत् ।
कुशलानां धर्माणां धर्मव्यवस्थाविदश्च मन्यन्ते ।
कुशलं जनस्वभावं शेषेष्वप्येष विनियोगः ॥ ७ ॥
इह धर्मव्यवस्थाविदो मन्यन्ते-कुशलानां धर्माणामेकोनविंशं शतम् । तद्यथा-एकदेशो
विज्ञानस्य, वेदनायाः, संज्ञायाश्चेतनायाः, स्पर्शस्य, मनसिकारस्य, छन्दस्याधिमोक्षस्य वीर्यस्य
स्मृतेः समाधेः प्रज्ञायाः उपेक्षायाः प्रयोगस्य संप्रयोगस्य प्राप्तेरव्याशयस्य प्रतिविरतिः व्यवसाया
(?) औत्सुक्यस्य उन्मूरुसाहस्य अव्यवयंर्त्यस्य वसितायाः (?) प्रतिपत्तेरविप्रतीसारस्य
धृतेरव्यवसायस्य अनौध्वेक्त्य अननुमूर्च्य( ? ) नुत्सारस्य । प्रापणायाः प्रणिधेः मदस्य
विषयाणां विप्रयोगस्य अनित्याणि (?) कताया उत्पादस्य स्थितेरनित्यतायाः समर्थगतस्य जरायाः
परित्रास्यतारतेः । वितर्काणां प्रीतेः प्रमादस्य अप्रस्रब्धेः व्यवहारतायाः प्रेष (?) प्रतिकूलस्य
प्रदक्षिणग्राहस्य वैशारद्यगौरवस्य चित्रीकारस्य भक्तेरभक्तेः शुश्रूषायाः सादरस्यानादरस्य प्रस्रब्धेः
हासस्य वाचः विष्पन्दनायाः सिद्ध्रस्याप्रसादस्य अप्रस्रब्धेः व्यवहारतायाः दाक्ष्यस्य सौरत्यस्य
विप्रतिसारस्य शोकस्य । उपायासायासभी( ? )तस्य अप्रदक्षिणग्राहस्य संशयस्य संवराणां
२८० मध्यमकशास्त्रे पञ्चमं परिशिष्टम् ।
परिशुद्धेन्द्रियाशयस्य रूपस्येति । श्रद्धा ह्रीरार्जवमवञ्चनम् । उपशमः अचापलं सप्रमादमार्दवं
प्रतिसंख्यानं निर्वैरपरिदाहः अमदः अलोभः अदोषः अमोहः असङ्गत् अप्रतिनिसर्गः विभवः
अपत्रप्या अपरिश्लच्छदनं माननं कारुण्यं मैत्री अदीनतादिरतम....नं नाहः अलीकचेतसे
उत्पादनं क्षान्तिः व्यवसदु (?) असौरत्यमिति भागान्वयम् । पुण्यम् । असंज्ञी समापत्तिः
नैयाणिकता असंज्ञैज्ञता असंस्कृता धर्माः इति एकोनविंशं शतम् । कुशलानां कुशलः स्वभावः ।
तथा अकुशलानामकुशलः स्वभावः-निवृत्ताव्याकृतः । प्रकृताव्याकृतानां प्रकृताव्याकृतः ।
कामोक्तानां कामोक्तः । रूपोक्तानां रूपोक्तः । आरूप्योक्तानामारूप्योक्तः । अनास्रवाणामनास्रवः ।
दुःखोक्तानां दुःखोक्तः । समुदयोक्तानां समुदयोक्तः । निरोधोक्तानां निरोधोक्तः । मार्गोक्तानां
मार्गोक्तः । भावनाप्रहातव्यानां भावनाप्रहातव्यः । अप्रहातव्यानामप्रहातव्यः । प्रहातव्यानां
प्रहातव्यः ।
यस्मादेवमनेकप्रकारो धर्मस्वभावो दृष्टः, तस्मादिह यदुक्तम्-निःस्वभावाः सर्वभावाः,
निःस्वभावत्वात् शून्या इति, तन्न ॥
किं चान्यत् ।
नैर्याणिकस्वभावो धर्मो नैर्याणिकाश्च ये तेषाम् ।
धर्मोवस्थाक्तानामेव च नैर्याणिकादीनाम् ॥ ८ ॥
इह च धर्मोऽवस्थाक्तानां नैर्याणिकानां धर्माणां नैर्याणिकः स्वभावः । अनैर्याणिकाना-
मनैर्याणिकः । बोध्यङ्गिकानां बोध्यङ्गिकः । अबोध्यङ्गिकानामबोध्यङ्गिकः । बोधिपाक्षिकाणां
बोधिपाक्षिकः । अबोधिपाक्षिकाणामबोधिपाक्षिकः । एवं शेषाणाम् । तद् यस्मादेवमनेकप्रकारो
धर्माणां स्वभावो दृष्टः, तस्मात् यदुक्तम्-निःस्वभावाः सर्वभावाः, निःस्वभावत्वात् शून्या इति, तन्न ।
किं चान्यत् ।
यदि च न भवेत् स्वभावो धर्माणां निःस्वभाव इत्येवम् ।
नामापि भवेन्नैवं नामापि निर्वस्तुकं नास्ति ॥ ९ ॥
यदि धर्माणां स्वभावो भावानां स्वभावानां सद्भावाच्च अशून्याः सर्वभावाः, तत्र
यदुक्तम्-निःस्वभावाः सर्वभावाः, निःस्वभावत्वात् शून्या इति, तन्न । किं चान्यत् ।
अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् ।
धर्मैर्विना स्वभावः स यस्यास्ति तद् युक्तमुपदेष्टुम् ॥ १० ॥
अथ मन्यसे--मा भूद्वस्तुकं नामेति कृत्वा अस्ति स्वभावः । स पुनर्धर्माणां न
संभवति । एवं धर्मशून्यता निःस्वभावत्वं धर्माणां सिद्धं भविष्यति । न च निर्वस्तुकं नामेति ।
अत्र वयं ब्रूमः-एवं कस्येदानीं स स्वभावो धर्मविनिर्मुक्तस्यार्थस्य, तत्र युक्तमुपदेष्टुमर्थः ।
स च नोपदिष्टः । तस्मात् या कल्पना-अस्ति स्वभावो न पुनर्धर्माणामिति, सा हीना ॥
किं चान्यत् ।
सत एव प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् ।
दृष्टः प्रतिषेधोऽयं सतः स्वभावस्य ते तस्मात् ॥ ११ ॥
विग्रह-व्यावर्तनी । २८१
इह च सतोऽर्थस्य प्रतिषेधः क्रियते नासतः । तद्यथा-नास्ति घटो गेहे इति सतो
घटस्य प्रतिषेधः क्रियते नासतः । एवमेव नास्ति भावो धर्माणामिति सतः स्वभावस्य प्रतिषेधः
प्राप्नोति, नासतः ॥
तत्र यदुक्तम्-निःस्वभावाः सर्वभावाः, निस्वभावत्वात् शून्या इति, तन्न । प्रतिषेधसंभवादेव
सर्वभावस्वभावोऽप्रतिषिद्धः । किं चान्यत् ।
अथ नास्ति स स्वभावः किं नु प्रतिषिध्यते त्वयानेन ।
वचनेनर्ते वचनात् प्रतिषेधः सिध्यते ह्यसतः ॥ १२ ॥
नास्त्येव स्वभाव इत्यनेन वचनेन निःस्वभावा भावा इति वचनेन किं भवता प्रति-
षिध्यते ? असतो हि वचनाद् विना सिद्धः प्रतिषेधः । तद्यथा अग्नेः शैत्यस्य, अपामौष्ण्यस्य ॥
किं चान्यत् ।
बालानामिव मिथ्या मृगतृष्णायां यथा जलग्राहः ।
एवं मिथ्याग्राहः स्यात्ते प्रतिषिध्यतो ह्यसतः ॥ १३ ॥
स्यात् ते बुद्धिः-यथा वालानां मृगतृष्णायां मिथ्या जलमिति ग्राहो भवति । ननु निर्जला
सा मृगतृष्णेति तत्र पण्डितजातीयेन पुरुषेणोच्यते तस्य मिथ्याग्राहस्य विनिवर्तनार्थम् । एवं
निःस्वभावेषु यः स्वभावे ग्राहः सत्त्वानाम्, तस्य व्यावर्तनार्थं निःस्वभावाः सर्वभावा इत्युच्यत इति ॥
अत्र ब्रूमः ।
नन्वेवं सत्यस्ति ग्राहो ग्राह्यं च तद्ग्रहीतं च ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कं तत् ॥ १४ ॥
यद्येवम्, नन्वेवं सति अस्ति तावत् सत्त्वानां मिथ्याग्राहः, अस्ति ग्राह्यः, सन्ति सत्त्वा
ग्रहीतारः । अस्ति प्रतिषेधः तस्यापि मिथ्याग्राहस्य, अस्ति प्रतिषेध्यम्-यदिदं मिथ्याग्राह्यं नाम,
सन्ति प्रतिषेद्धारो युष्मदादयोऽस्य मिथ्याग्राहस्येति सिद्धं षट्कम् । षट्कस्याप्यप्रसिद्धत्वात् ॥
यदुक्तम्-अप्रतिषिद्धत्वात् शून्याः सर्वभावा इति, तन्न ।
अथ नैवास्ति ग्राहो न च ग्राह्यं न च ग्रहीतारः ।
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारोऽस्य तु न सन्ति ॥ १५ ॥
अथ मा भूदेष दोष इति कृत्वा नैव ग्राहोऽस्ति, नैव ग्राह्यम्, न च ग्रहीतार इति । एवं
सति ग्राहस्य यः प्रतिषेधः-निःस्वभावाः सर्वभावाः इति, सोऽपि नास्ति, प्रतिषेध्यमपि नास्ति,
प्रतिषेद्धारोऽपि न सन्ति ॥
प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश्च यद्युत न सन्ति ।
सिद्धा हि सर्वभावा येषामेवं स्वभावश्च ॥ १६ ॥
यदि च न प्रतिषेधो न प्रतिषेध्यं न प्रतिषेद्धारः सन्ति, अप्रतिषिद्धाः सर्वभावाः, अस्ति
च सर्वभावानां स्वभावः ॥
मा. ३६
[पृष्ठम् २८२]
२८२ मध्यमदिशास्त्रे पञ्चमं परिशिष्टम् ।
किं चान्यत् ।
हेतोस्ततो न सिद्धिर्निःस्वाभाव्यात् कुतो हि ते हेतुः ।
निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्य ।। १७ ।।
निःस्वभावाः सर्वभावा इत्येतस्मिन्नर्थे ते हेतोरसिद्धिः । किं कारणम् ? निःस्वभावत्वाद्धि
सर्वभावानां शून्यत्वान्न ततो हेतुर्यतः, असति हेतौ निर्हेतुकस्यार्थस्य शून्याः सर्वभावा इति कुत
एव प्रसिद्धिः ?
तत्र यदुक्तं शून्याः सर्वभावा इति, तन्न । किं चान्यत् ।
यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति ।
स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम् ।। १८ ।।
अथ मन्यसे—नैर्हेतुकी सिद्धिः, निःस्वभावत्वस्य भावानामिति । यथा तव स्वभावविनिवर्तनं
निर्हेतुकं सिद्धम्, तथा ममापि स्वभावसद्भावोऽपि निर्हेतुकः सिद्धः ।।
अथ हेतोरस्तित्वं भावनैःस्वाभाव्यमित्यनुपपन्नम् ।
लोके नैःस्वाभाव्यान्न हि कश्चन विद्यते भावः ।। १९ ।।
इह यदि [ भावानां नैःस्वाभाव्यस्य ] हेतोरस्तित्वं मन्यसे, निःस्वभावाः सर्वभावा इति,
तदनुपपन्नम् । किं कारणम् ? न हि लोके निःस्वभावः कश्चिद् भावोऽस्ति ।।
किं चान्यत् ।
पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यमिति च नोपपन्नम् ।
पश्चादनुपपन्नो युगपच्च यतः स्वभावोऽसन् ।। २० ।।
इह पूर्वं चेत् प्रतिषेधः, पश्चाच्च प्रतिषेध्यम्, निःस्वाभाव्यं नोपपन्नम् । असति हि
प्रतिषेध्ये कस्य प्रतिषेधः ? अथ पश्चात् प्रतिषेधः, पूर्वं प्रतिषेध्यमिति च नोपपन्नम् । सिद्धे हि
प्रतिषेध्ये किं प्रतिषेधः करोति ? अथ युगपत् प्रतिषेधप्रतिषेध्ये, तथापि न प्रतिषेधः
प्रतिषेध्यस्यार्थस्य कारणं प्रति, न प्रतिषेध्यः, न प्रतिषेध्यस्य च । यथा युगपदुत्पन्नयोः शश-
विषाणयोः नैव दक्षिणं सव्यस्य कारणम्, सव्यं वा दक्षिणस्य कारणं भवतीति ।।
तत्र यदुक्तं निःस्वभावाः सर्वभावा इति, तन्न । अत्रोच्यते—यत् तावद् भवतोक्तम्—
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् ।
त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम् ।।
इति, अत्र ब्रूमः—
हेतुप्रत्ययसामग्र्यां पृथग्भावेऽपि मद्वचो न यदि ।
ननु शून्यत्वं सिद्धं भावानामस्वभावत्वात् ।। २१ ।।
यदि मद्वचो हेतुः नास्ति, महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा प्रत्ययेषु नास्ति, उरःकण्ठोष्ठ-
जिह्वादन्ततालुनासिकामूर्धप्रभृतिषु प्रयत्नेष्वपि नास्ति, नोभयसामग्र्यामस्ति, हेतुप्रत्यय-
सामग्रीविनिर्मुक्तं पृथग् ( न ) वास्ति । तस्मान्निःस्वभावाः, निःस्वभावत्वाच्छून्यम् । एवं ननु
शून्यत्वं सिद्धं निःस्वभावत्वादस्य मदीयवचसः । यथा चैतन्मद्वचनं निःस्वभावत्वाच्छून्यम्, तथा
सर्वभावा निःस्वभावत्वाच्छून्यमिति ।।
[पृष्ठम् २८३]
विग्रहव्यावर्तनी । २८३
यद् भवतोक्तम् — त्वदीयवचसः शून्यत्वात् शून्यता सर्वभावानां नोपपद्यते इति, तन्न ।
किं चान्यत् ।
यश्च प्रतीत्य भावो भावानां शून्यतेति सा ह्युक्ता ।
यश्च प्रतीत्य भावो भवति हि तस्यास्वभावत्वम् ।। २२ ।।
शून्यतार्थं च भवान् भावानामनवसाय शून्यताधर्ममज्ञात्वा प्रवृत्त उपालम्भं वक्तुम् ।
त्वद्वचनस्य शून्यत्वात् त्वद्वचनस्य निःस्वभावत्वादेवं त्वद्वचनेन निःस्वभावेन भावानां स्वभाव-
प्रतिषेधो नोपपद्यत इति । इह हि यः प्रतीत्य भावानां भावः, सा शून्यता । कस्मात् ?
निःस्वभावत्वात् । ये हि प्रतीत्य समुत्पन्ना भावास्ते न सस्वभावा भवन्ति, स्वभावाभावात् ।
कस्मात् ? हेतुप्रत्ययापेक्षत्वात् । यदि हि स्वभावतो भावा भवेयुः, प्रत्याख्यायापि हेतुं प्रत्ययं च
भवेयुः । न चैवं भवन्ति । तस्मान्निःस्वभावाः, निःस्वभावत्वाच्छून्या इत्यभिधीयन्ते । एवं मदीयपि
वचनं प्रतीत्यसमुत्पन्नत्वान्निःस्वभावम्, निःस्वभावत्वात् शून्यमिति उपपन्नम् । यथा च प्रतीत्य-
समुत्पन्नत्वात् स्वभावशून्या रथपटघटादयः स्वेषु स्वेषु कार्येषु काष्ठाहरणमृत्तिकाहरणे मधूदकपयसां
धारणे शीतवातातपपरित्राणप्रभृतिषु वर्तन्ते, एवमिदं मदीयवचनं प्रत्ययसमुत्पन्नत्वात् निःस्वभावं
निःस्वभावत्वप्रसाधनं प्रत्ययभावानां वर्तते ।।
तत्र यदुक्तम्—निःस्वभावत्वात् त्वदीयवचनस्य शून्यत्वम्, शून्यत्वात् तस्य च तेन सर्व-
भावस्वभावप्रतिषेध उपपन्न इति, तन्न । किं चान्यत् ।
निर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम् ।
प्रतिषेधयेत यद्वत् प्रतिषेधोऽयं तथैव स्यात् ।। २३ ।।
यथा निर्मितकः [ निर्मितकं ]पुरुषमन्यशास्तस्तु कश्चिद्रथेन वर्तमानं प्रतिषेधयेत, माया-
कारण वा सृष्टो मायापुरुषोऽन्यं मायापुरुषं कस्मिंश्चिदर्थे वर्तमानं प्रतिषेधयेत् । तत्र यो निर्मितकः
पुरुषः प्रतिषिध्यते, स शून्यः, यः प्रतिषेधयति सोऽपि शून्यः । योऽपि मायापुरुषः प्रतिषिध्यते,
सोऽपि शून्यः, यः प्रतिषेधयः, सोऽपि शून्यः । मायापुरुषो यः प्रतिषेध्यः, सोऽपि शून्यः । यः
प्रतिषेधः, सोऽपि शून्यः । एवमेव मद्वचनेन शून्येन सर्वभावानां सर्वभावस्वभावशून्येन स्वभाव-
प्रतिषेध उपपन्नः ।।
तत्र यद् भवतोक्तम् — शून्यत्वात् त्वद्वचनस्य सर्वभावस्वभावप्रतिषेधो नोपपन्न इति,
तन्न । तत्र यः षट्कोतिको वाद उक्तः, स एवं प्रतिविद्धः । नैव ह्येवं सति न सर्व-
भावान्तर्गतं मद्वचनं नास्ति शून्यं नापि सर्वभावा अशून्याः ।
यत् पुनर्भवतोक्तम्—
अथ सस्वभावमेतद् वाक्यं पूर्वा हता प्रतिज्ञा ते ।
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ।।
इति, अत्रापि ब्रूमः —
न स्वाभाविकमेतद् वाक्यं तस्मान्न वादहानिर्मे ।
नास्ति च वैषमिकत्वं विशेषहेतुश्च न निगद्यः ।। २४ ।।
न तान्मम वचनं प्रतीत्यसमुत्पन्नत्वात् स्वभावोपपन्नं यथा पूर्वमुक्तम् । स्वभावानुप-
पन्नत्वात् शून्यम् । यस्माच्च इदमपि मद्वचनं शून्यम्, शेषा अपि सर्वभावाः शून्याः, तस्मान्नास्ति
वैषमिकत्वम् । यदि हि वयं ब्रूमः- इदं वचनमशून्यम्, शेषाः सर्वभावाः पुनः शून्याः इति, ततो
वैषमिकत्वं स्यात् । न चैतदेवम् । तस्मान्न वैषमिकत्वम् । यस्माच्च वैषमिकत्वं न संभवति-
इदं वचनमशून्यम्, शेषाः पुनः सर्वभावाः शून्या. इति, तस्मादस्माभिर्विशेषहेतुरपि न वक्तव्यः-
अनेन हेतुना इदं वचनमशून्यम्, सर्वभावाः पुनः शून्या इति ॥
तत्र यद् भवतोक्तम्-वादहानिस्ते वैषमिकत्वं च विशेषहेतुश्च त्वया वक्तव्य इति, तन्न ।
यत् पुनर्भवतोक्तम्-
मा शब्दवदित्येतत् स्यात् ते बुद्धिर्न चैतदुपपन्नम् ।
शब्देन ह्यत्र सता भविष्यतो वारणं तस्य ॥
इति, अत्र ब्रूमः-
मा शब्दवदिति नायं दृष्टान्तो यस्त्वया ममारब्धः ।
शब्देन हि तच्च शब्दस्य वारणं नैव मे वचः ॥ २५ ॥
नायमस्माकं दृष्टान्तः । यथा कश्चित् मा शब्दं कार्षीरिति ब्रुवन् शब्दमेव करोति शब्दं
च प्रतिषेधयति, यद्वा शून्येन वचनेन शून्यतां न प्रतिषेधयति । किं कारणम् ? अत्र हि दृष्टान्ते
शब्देन शब्दस्य व्यावर्तनं क्रियते । न चैतदेवम् । वयं ब्रूमः-निःस्वभावाः सर्वभावाः
निःस्वभावत्वात् तच्छून्यमिति ॥
किं कारणम् ?
नैःस्वाभाव्यानां चेन्निःस्वाभाव्येन वारणं यदि हि ।
नैःस्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात् ॥ २६ ॥
यथा मा शब्दमिति शब्देन शब्दस्य व्यावर्तनं क्रियते, एवं यदि नैःस्वाभाव्येन वचनेन
नैःस्वाभाव्यानां व्यावर्तनं क्रियते, ततोऽयं दृष्टान्त उपपन्नः स्यात् । इह तु नैःस्वाभाव्येन वचनेन
भावानां स्वभावप्रतिषेधः क्रियते । एवं यदि नैःस्वाभाव्येन वचनेन निःस्वभावानां नैःस्वाभाव्य-
प्रतिषेधः क्रियते, नैःस्वाभाव्यप्रतिषेधादेव भावाः सस्वभावा भवेयुः, सस्वभावत्वादशून्याः स्युः ।
शून्यतां च वयं भावानामाचक्ष्महे नाशून्यतामित्यदृष्टान्त एवायामिति ॥
अथवा निर्मिताकायां यथा स्त्रियां स्त्रियमित्सद्ग्राहम् ।
निर्मितकः प्रतिहन्यात् कस्यचिदेवं भवेदेतत् ॥ २७ ॥
अथवा । कस्यचित् पुरुषस्य निर्मिताकायां स्त्रियां स्वभावशून्यायां परमार्थतः स्त्रियमित्सद्ग्राहः
स्यात्, एवं तस्यां तेनासद्ग्राहेण रागमुत्पादयेत् । तद्यथा-तथागतेन वा तच्छ्रावकेण वा निर्मितको
निर्मितः स्यात् । तथागताधिष्ठानेन वा तथागतश्रावकाधिष्ठानेन वा तस्य तमसद्ग्राहं विनिवर्तयेत् ।
एवमेव निर्मितकोपमेन मदीयेन शून्येन वचनेन निर्मितकस्त्रीसादृश्येषु सर्वभावनिःस्वभावेषु योऽयं
स्वभावग्राहः, स निवर्त्यते, स प्रतिषिध्यते । तस्मादयमत्र दृष्टान्तः शून्यताप्रसाधनं प्रत्युपपद्यमानो
नेतरः ॥
विग्रह-व्यावर्तनी । २८५
अथवा साध्यसमोऽयं हेतुर्न हि विद्यते ध्वनेः सत्ता ।
संव्यवहारं च वयं नानभ्युपगम्य कथयामः ॥ २८ ॥
मा शब्दवदिति साध्यसम एवायं हेतुः । कस्मात् ? सर्वभावानां नैःस्वाभाव्येनाविशिष्टत्वात्
न हि तस्य ध्वनेः प्रतीत्यसमुत्पन्नत्वात् स्वभावसत्ता विद्यते । तस्याः स्वभावसत्ताया अविद्य-
मानत्वात् ॥
यदुक्तम्-शब्देन ह्यत्र सता भविष्यतो वारणं तस्येति, तद् व्याहन्यते । अपि च ।
न वयं व्यवहारसत्यं प्रत्याख्याय व्यवहारसत्यमनभ्युपगम्य कथयामः शून्याः सर्वभावा इति ।
न हि व्यवहारसत्यमनागम्य शक्या धर्मदेशना कर्तुम् । यथोक्तम्-
व्यवहारमनाश्रित्य परमार्थो न देश्यते ।
परमार्थमनागम्य निर्वाणं नाधिगम्यते ॥ इति
तस्मात् मद्वचनवत् शून्या सर्वभावाः, सर्वभावानां च निःस्वभावत्वमुभयथोपपद्य-
मानमिति ॥
यत्पुनर्भवतोक्तम्-
प्रतिषेधः प्रतिषेध्योऽप्येवमिति मतं भवेत् तदसदेव ।
एवं तव प्रतिज्ञा लक्षणतो दूष्यते न मम ॥ इति,
अत्र ब्रूमः-
यदि काचन प्रतिज्ञा तत्र स्यादेष मे भवेद्दोषः ।
नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोषः ॥ २९ ॥
यदि च काचित् मम प्रतिज्ञा स्यात्, ततो मम प्रतिज्ञालक्षणप्राप्तत्वात् स पूर्वको दोषः।
यथा त्वयोक्तं तथा मम स्यात् । न मम काचिदस्ति प्रतिज्ञा । तस्मात् सर्वभावेषु शून्येष्वत्यन्तो-
पशान्तेषु प्रकृतिविविक्तेषु कुतः प्रतिज्ञालक्षणप्राप्तिः, कुतः प्रतिज्ञालक्षणताप्राप्तिकृतो दोषः ?
तत्र यद् भवतोक्तम्-प्रतिज्ञालक्षणप्राप्तत्वात् तवैव दोष इति, तन्नास्ति । यत्पुनर्भवतोक्तम्-
प्रत्यक्षेण हि तावत् यद्युपलभ्य निवर्तयसि भावान् ।
तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ इति,
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च ।
अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥ इति,
अत्र वयं ब्रूमः-
यदि किंचिदुपलभ्येयं प्रवर्तयेयं निवर्तयेयं वा ।
प्रत्यक्षादिभिरेर्थैस्तदभावान्मेऽनुपालम्भः ॥ ३० ॥
यद्यहं किंचिदर्थमुपलभेयं प्रत्यक्षानुमानोपमानागमैश्चतुर्भिः प्रमाणैः, चतुर्णां वा प्रमाणाना-
मन्यतमान्यतमेन, अत एवं प्रवर्तयेयं वा निवर्तयेयं वा । अर्थमेवाहं किंचिन्नोपलभे । तस्मान्न