मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठ 139, कुल 176 में से
संदर्भ में पढ़ें[पृष्ठम् २४८]
तत्र न कश्चिद्धर्मोऽस्माल्लोकात्परलोकं संक्रामति । अस्ति च कर्मफलप्रतिविज्ञप्तिहेतुप्रत्ययाना-
मवैकल्यात् । तथाथा भिक्षवः सुपरिशुद्धे आदर्शमण्डले मुखप्रतिबिम्बकं दृश्यते, न च तत्रादर्श-
मण्डले मुखं संक्रामति, अस्ति च मुखप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात्, एवमस्माल्लोकान्न
कश्चिच्च्युतो नान्यत्रोत्पन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात् । तथाथा
भिक्षवश्चन्द्रमण्डलं चत्वारिंशद्योजनशतमूर्ध्वं व्रजति, अथ च पुनः परीत्तऽप्युदकभाजने चन्द्रस्य
प्रतिबिम्बं दृश्यते, न च तस्मात्स्थानादूर्ध्वं नभसश्च्युतं परीत्ते उदकस्य भाजने संक्रान्तं भवति,
अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिच्च्युतो
नान्यत्रोत्पन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिहेतुप्रत्ययानामवैकल्यात् ॥
तथाथा—अग्निरुपादानप्रत्यये सति ज्वलति, उपादानवैकल्यान्न ज्वलति, एवमेव भिक्षवः कर्म-
क्लेशजनितं विज्ञानबीजं तत्रतत्रोपपत्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति,
अस्वामिकेषु धर्मेष्वपरिग्रहेषु मायालक्षणस्वभावेषु अममेषु कृत्रिमेषु हेतुप्रत्ययानामवैकल्यात् ॥
तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः । कतमैः पञ्चभिः ? न शाश्वततो
नोच्छेदतो न संक्रान्तितः परीत्तहेतुविपुलफलाभिनिर्वृत्तितस्तत्सदृशानुप्रबन्धतश्चेति । कथं न
शाश्वततः ? यस्मादन्ये मारणान्तिकाः स्कन्धाः, अन्ये औपपत्त्यंशिकाः स्कन्धाः । न तु य एव
मारणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः । अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव
च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति । अतो न शाश्वततः । कथं नोच्छेदतः ? न च
पूर्वनिरुद्धेषु मारणान्तकेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति नाप्यन्निरुद्धेषु । अपि तु
मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति
तुलादण्डोन्नामावनामवत् चन्द्रबिम्बप्रतिबिम्बवत् । अतो नोच्छेदतः । कथं न संक्रान्तितः ?
विसदृशाः सत्त्वनिकायाः सभागयां जात्यां जातिमभिनिर्वर्तयन्ति । अतो न संक्रान्तितः । कथं
परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः ? परीत्तं कर्म क्रियते, विपुलः फलविपाकोऽनुभूयते । अतः
परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः । कथं तत्सदृशानुप्रबन्धतः ? यथावेदनीयं कर्म क्रियते,
तथावेदनियो विपाकोऽनुभूयते । अतस्तत्सदृशानुप्रबन्धतश्च । इति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
द्वादशाङ्गपरीक्षा नाम षड्विंशतितमं प्रकरणम् ॥
[पृष्ठम् २७]
२७
दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम् ।
यश्चैवं प्रतीत्यसमुत्पादं यथाभूतं सम्यक् पश्यति, स न पूर्वान्तं प्रतिसरति, नापरान्तं
प्रतिसरति, —इत्यादि सूत्रे पठ्यते, तत्र कतमः पूर्वान्तः, कतमोऽपरान्तः, कथं न प्रतिसरतीति ?
तद्व्युत्पत्त्यर्थमिदमारभ्यते । तत्र वर्तमानमात्मभावमपेक्ष्य अतीता आत्मभावाः पूर्वान्त इत्युच्यते ।
पूर्वो हि जन्मपरंपराशः पूर्वान्तः । तं न प्रतिसरति, दृष्टिपक्रैरर्नालम्बते । प्रतीत्यसमुत्पादस्य
यथावदवस्थिततत्त्वदर्शनात् नान्यथावस्थितं वस्तु अन्यथा अभिनिविशते । तत्र अष्टौ दृष्टयः
पूर्वान्तमालम्ब्य अन्यथा प्रवृत्ताः । तद्यथा—
अभूमतीतमध्वानं नाभूमिति च दृष्टयः ।
यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः ॥ १ ॥
तत्र इतिशब्दः आद्यर्थः । अथवा दृष्टिश्रोपादानमुपलक्षणार्थम् । चतस्रस्त्वेता दृष्टयः ।
तद्यथा — किं न्वहमभूवमतीतमध्वानम्, नाभूवमतीतमध्वानम्, अभूवं च नाभूवं च, नैवाभूवं न
नाभूवम्, इति । एताश्चतस्रो दृष्टयः पूर्वान्तं समाश्रिताः । अपरा अपि चतस्र इत्याह —
यास्ताः शाश्वतलोकाद्याः
पूर्वं प्रसङ्गेन उपवर्णिताः, ता अपि
पूर्वान्तं समुपाश्रिताः ॥
तत्र यद्यपि पूर्वान्ताद् दृष्टिचतुष्टयादुत्तरं दृष्टिचतुष्टयं नातिभिद्यते, तथापि तावन्मात्र-
विशेषाश्रित्य पृथगुपादीयते । तच्च उत्तरत्र व्याख्यास्यामः । तत्र शाश्वतो लोकः इत्येतत्,
अभूवमतीतमध्वानम्, इत्येतस्मान्नातिभिद्यते । अथवा अयं विशेषः-यच्छाश्वतो लोकः इत्येषा
दृष्टिः सामान्येन पूर्वान्तमाश्रिता । अभूवमतीतमध्वानम्, इत्येषा तु आत्मन एव पूर्वान्तपरामर्शेन
प्रवृत्ता, न सामान्येनेति । एवमन्यास्वपि दृष्टिषु विशेषो वक्तव्यः । इत्येवं तावत् अष्टावेता दृष्टयः
पूर्वान्तं समुपाश्रिताः ॥ १ ॥
उक्तः पूर्वान्तस्तदालम्बिकाभिर्दृष्टिभिः सार्धम् । इदानीमपरान्त उच्यते । तत्र वर्तमान-
मात्मभावमपेक्ष्य भाविनः आत्मभावाः अपरान्त इत्युच्यते । अपरो हि जन्मपरंपराशोऽपरान्तः, तं
न प्रतिसरति, दृष्टिपक्रैरर्नालम्बते । प्रतीत्यसमुत्पादस्य यथावदवस्थिततत्त्वदर्शनात्, नान्यथावस्थितं
वस्तु अन्यथाभिनिविशते । तत्र अष्टौ दृष्टयः अपरान्तमालम्ब्य अन्यथा प्रवृत्ताः । तद्यथा —
दृष्टयो न भविष्यामि किमन्योऽनागतेऽध्वनि ।
भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः ॥ २ ॥
इहापि दृष्टिश्रोपादानमुपलक्षणार्थम् । चतस्रस्त्वेता दृष्टयः । तद्यथा — किं नु भवि-
ष्याम्यनागतमध्वानम्, न भविष्यामि, भविष्यामि च न भविष्यामि च, नैव
[पादटिप्पणी]
1 The Mss. have a lacuna for this line : It is reconstructed on the strength
of T. It is likely that the kārikā may begin with दृष्टयः in which case we may have
दृष्टयोऽभूवं नाभूवं किं न्वतीतेऽध्वनीति च.
म. ३२