मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठ 154, कुल 176 में से
संदर्भ में पढ़ें२७८ मध्यमकशास्त्रे पञ्चमं परिशिष्टम् ।
अथ सस्वभावमेतद्वाक्यं श्रुत्वा हता प्रतिज्ञा ते ।
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ २ ॥
अथापि मन्यसे-मा भूदेष दोष इति सस्वभावमेतद्वाक्यम् । सस्वभावत्वाच्चाशून्यम् ।
तस्मादनेन सर्वभावस्वभावः प्रतिषिद्धः सर्वभावस्वभावो विनिवर्तत इति । अत्र ब्रूमः-यदि ते
प्रतिज्ञा-शून्याः सर्वभावा इति, हता सा । किं चान्यत् । सर्वभावान्तर्गतं च त्वद्वचनम् ।
कस्मात् ? सर्वभावेषु त्वद्वचनमशून्यम् । येन अशून्यत्वात् सर्वभावस्वभावः स्वभावप्रसिद्धः ।
एवं षट्कोतिको वादः प्रसक्तः । स पुनः कथमिति ? (१) हन्त चेत् पुनः शून्याः
सर्वभावाः, तेन त्वद्वचनं शून्यम्, सर्वभावान्तर्गतत्वात् त्वद्वचनस्य, तेन शून्येन
प्रतिषेधानुपपत्तिः । तत्र यः प्रतिषेधः शून्यः सर्वभाव इति, [ सः ] अनुपपन्नः । (२)
उपपन्नश्चेत्, पुनः शून्याः सर्वभावा इति प्रतिषेधः, तेन त्वद्वचनशून्यत्वात् अनेन प्रतिषेधोऽ-
नुपपन्नः । (३) अथ शून्याः सर्वभावाः, त्वद्वचनं चाशून्यम्, येन प्रतिषेधस्तेन त्वद्वचनं
सर्वत्रासंगृहीतम् । तत्र दृष्टान्तविरोधः । (४) सर्वत्र चेत् पुनर्गृहीतं त्वद्वचनं सर्वभावाश्च
शून्याः, तेन तदपि शून्यम् । शून्यत्वाद्नेन नास्ति प्रतिषेधः । (५) अथ शून्यमस्ति चानेन
प्रतिषेधः-शून्याः सर्वभावा इति, तेन शून्या (अ)पि सर्वभावाः कार्यकार्यासामर्थ्या भवेयुः । न
चैतदिष्टम् । (६) अथ शून्याः सर्वभावाः न च कार्यकार्यासामर्थ्या भवन्ति, मा भूद् दृष्टान्तविरोध
इति कृत्वा शून्येन त्वद्वचनेन सर्वभावस्वभावप्रतिषेधो नोपपन्न इति ॥
किं चान्यत् । एवं तदस्तित्वात् वैषमिकत्वप्रसङ्गः, किंचित् शून्यं किंचिदशून्यमिति ।
तस्मिंश्च वैषमिकत्वे विशेषहेतुर्वक्तव्यः, येन हि विशेषहेतुना किंचित् शून्यं किंचिदशून्यं स्यात् ।
स च नोपदिष्टो हेतुः ॥
तत्र यदुक्तं शून्याः सर्वभावा इति, तन्न । किं चान्यत् ।
मा शब्दवदित्येतत् स्यात्ते बुद्धिर्न चैतदुपपन्नम् ।
शब्देनात्र सता भविष्यतो वारर्ण तस्य ॥ ३ ॥
स्यात् ते बुद्धिः-यथा नाम कश्चिद् ब्रूयात्-मा शब्दं कार्षीः, मा शब्दं कार्षीरिति ।
तेन च शब्देन व्यावर्तनं क्रियते । एवमेव शून्याः सर्वभावा इति । शून्येन वचनेन सर्वभावस्व-
भावस्य व्यावर्तनं क्रियत इति ।
अत्र वयं ब्रूमः-एतदप्यनुपपन्नम् । किं कारणम् ? सता ह्यत्र शब्देन भविष्यतः शब्दस्य
प्रतिषेधः क्रियते । न पुनरिह भवतः सता वचनेन सर्वभावस्वभावप्रतिषेधः क्रियते । तव हि
मतेन वचनमप्यसत् । सर्वभावस्वभावोऽप्यसत् । तस्मादयं मा शब्दवदिति विषमोपन्यासोऽसन्निहित ॥
किं च ।
प्रतिषेधः प्रतिषेद्धव्योऽप्येवमिति मतं भवेत् तदसदेव ।
एवं तव प्रतिज्ञा लक्षणतो दूष्यते न मम ॥ ४ ॥
स्यात् ते बुद्धिः- प्रतिषेधः प्रतिषेध्योऽप्येनेनैव कल्पेनानुपपन्नः । तत्र यद् भवान्
सर्वभावस्वभावप्रतिषेधवचनं प्रतिषेधयति, तदनुपपन्नमिति ।
विग्रह-व्यावर्तनी । २७९
अत्र वयं ब्रूमः-एतदशब्देन सदेव । कस्मात् ? तव हि प्रतिज्ञालक्षणप्राप्ते मतम्, न
गम । भवान् ब्रवीति शून्याः सर्वभावा इति, नाहम् । तस्मात् त्वत्प्रतिज्ञां न पयामि (?) पूर्वकः पक्षो
न मम ॥ ४ ॥
तत्र यदुक्तम्-प्रतिषेधः प्रतिषेध्योऽप्येवं मतमुपपन्नमिति ? तन्न ।
किं चान्यत् ।
प्रत्यक्षेण हि तावत् यद्युपलभ्य विनिवर्तयसि भावान् ।
तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ ५ ॥
यदि प्रत्यक्षतः सर्वभावानुपलभ्य भवान् निवर्तयति शून्याः सर्वभावा इति, तदनुपपन्नम् ।
कस्मात् ? प्रत्यक्षमपि हि प्रमाणं सर्वभावान्तर्गतत्वात् शून्यम् । योऽपि सर्वभावानुपलभते, सोऽपि
शून्यः । तस्मात् प्रत्यक्षेण प्रमाणेन नोपलम्भभावः, अनुपलब्धस्य च प्रतिषेधानुपपत्तिः । तत्र
शून्याः सर्वभावा इति यदुक्तम्, तदनुपपन्नम् ॥
स्यात् ते बुद्धिः- अनुमानेन आगमेन उपमानेन वा सर्वभावानुपलभ्य सर्वभावव्यावर्तनं
क्रियत इति, अत्र ब्रूमः-
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च ।
अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥ ६ ॥
अनुमानोपमानागमाश्च प्रत्यक्षेण प्रमाणेन प्रत्युक्ताः । यथा हि प्रत्यक्षं प्रमाणं शून्यम्,
सर्वभावानां शून्यत्वात्, एवमनुमानागमोपमाना अपि शून्याः, सर्वभावानां शून्यत्वात् । येऽप्यनुमान-
साध्या अर्था आगमसाध्या उपमानसाध्याश्च, तेऽपि शून्याः । सर्वभावानां शून्यत्वात् । अनुमानोप-
मानागमैश्च योऽपि भावानुपलभते, सोऽपि शून्यः स्यात् । तस्मात् भावानामनुपलम्भाभावोऽनुप-
लब्धानां च स्वभावप्रतिषेधानुपपत्तिः ॥
तत्र यदुक्तं शून्याः सर्वभावा इति, तन्न । किं चान्यत् ।
कुशलानां धर्माणां धर्मव्यवस्थाविदश्च मन्यन्ते ।
कुशलं जनस्वभावं शेषेष्वप्येष विनियोगः ॥ ७ ॥
इह धर्मव्यवस्थाविदो मन्यन्ते-कुशलानां धर्माणामेकोनविंशं शतम् । तद्यथा-एकदेशो
विज्ञानस्य, वेदनायाः, संज्ञायाश्चेतनायाः, स्पर्शस्य, मनसिकारस्य, छन्दस्याधिमोक्षस्य वीर्यस्य
स्मृतेः समाधेः प्रज्ञायाः उपेक्षायाः प्रयोगस्य संप्रयोगस्य प्राप्तेरव्याशयस्य प्रतिविरतिः व्यवसाया
(?) औत्सुक्यस्य उन्मूरुसाहस्य अव्यवयंर्त्यस्य वसितायाः (?) प्रतिपत्तेरविप्रतीसारस्य
धृतेरव्यवसायस्य अनौध्वेक्त्य अननुमूर्च्य( ? ) नुत्सारस्य । प्रापणायाः प्रणिधेः मदस्य
विषयाणां विप्रयोगस्य अनित्याणि (?) कताया उत्पादस्य स्थितेरनित्यतायाः समर्थगतस्य जरायाः
परित्रास्यतारतेः । वितर्काणां प्रीतेः प्रमादस्य अप्रस्रब्धेः व्यवहारतायाः प्रेष (?) प्रतिकूलस्य
प्रदक्षिणग्राहस्य वैशारद्यगौरवस्य चित्रीकारस्य भक्तेरभक्तेः शुश्रूषायाः सादरस्यानादरस्य प्रस्रब्धेः
हासस्य वाचः विष्पन्दनायाः सिद्ध्रस्याप्रसादस्य अप्रस्रब्धेः व्यवहारतायाः दाक्ष्यस्य सौरत्यस्य
विप्रतिसारस्य शोकस्य । उपायासायासभी( ? )तस्य अप्रदक्षिणग्राहस्य संशयस्य संवराणां