सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १७७
पशोरनुग्रहोऽन्यस्य
तादर्थ्यादस्ति कर्मणः ॥ २१ ॥
गतः समाप्तः क्रियादृक्प्रतिरोधकत्वरूपो-
ऽधिकारो यस्य तद्गताधिकारं नीहारस्य तमसो
मलस्य संबन्धि वीर्यं सामर्थ्यं यस्य तस्य तथा-
विधस्य सतः पशोर्बद्धात्मनोऽनुग्रह एधते वर्धते
बहुलीभवति निवृत्ताधिकारायां मलशक्ताविति
यावत् । अन्यस्य तु मलादेः पाशजालस्य, यत्
कर्मणः परिणामितादेस्तादर्थ्यं तत्प्रयोजकत्वं,
तस्मादनुग्रहो भवति । बद्धात्मविमुक्त्यै यत्प-
रिणामिताप्रयोजकत्वं, स एव पाशानामनुग्रह
इत्यर्थः ॥ २१ ॥
एवं च प्रकृते किं व्यवस्थितमित्याह
बोद्धृत्वपरिणामित्व-
धर्मयोरनुवर्तनम् ।
मलस्य साधिकारस्य
निवृत्तेस्तत्परिच्युतौ ॥ २२ ॥
मलस्य साधिकारस्येत्याणवस्याञ्जनस्या-
धिकारनिवृत्तेस्तद्भावभाविन्या अनादिकाली-
२३

१७८ मृगेन्द्रतन्त्रे । [ १।७
नायाः परमेश्वररोधशक्तेरपगमोन्मुख्याः परि-
च्युतौ किञ्चिच्छिथिलीभावे सति बोद्धृत्व-
धर्मानुवर्तनमात्मनोऽनुग्रहः, परिणामित्वधर्मा-
नुवर्तनं पाशानामिति ॥ २२ ॥
उपसंहरन्नाह
इत्येवं यौगपद्येन
क्रमात्सुघट एव हि ।
मायायाः साधिकारायाः
कर्मणश्चोक्त एव ते ॥ २३ ॥
इत्येवमुक्तया युक्त्या यौगपद्येन चिदचि-
तोरनुग्रहो न विरुद्धः क्रमात् सुघट एव, न
दुरुपपादः । मलवच्च मायायाश्च कलादिक्षि-
त्यन्तस्वाधिकारसहितायाः कलाद्याविर्भावल-
क्षणस्तदुपसंहारात्मकश्च, कर्मणस्तु फलदानौ-
न्मुख्यापादनात्मकः, सोऽयमनुग्रहो मायाकर्म-
णोरनुक्तोऽप्युक्त एव ज्ञेयः
'सर्वथा सर्वदा यस्माच्चित्प्रयोज्यमचेतनम् ।' (१७)
इति सामान्येन सर्वस्यैवोक्तत्वादिति ॥२३॥
इति श्रीमद्भट्टविद्याकण्ठात्मजनारायणकण्ठकृतौ मृगेन्द्र-
टीकायामाणवपाशपरीक्षाप्रकरणं सप्तमम् ॥ ७ ॥

अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( अष्टमः पटलः )
अथ पाशपदार्थपरीक्षाधिकारात्समनन्तरप-
टलान्तसूचितकर्मपाशपरीक्षाप्रस्तावः। पदार्था-
दिसंबन्धाश्चास्य प्रोक्तप्रकरणारम्भ एवोक्ताः।
अथेन्द्रियशरीरार्थै-
श्चिद्योगस्यानुमीयते ।
निमित्तमागामिभावा-
द्यतो नागाम्यहेतुमत् ॥ १ ॥
अथेत्याणवरोधशक्त्याख्यपाशद्वयविचारा-
नन्तरम्, इन्द्रियैरन्तःकरणबहिष्करणैः, शरी-
रेण च स्थूलसूक्ष्मरूपेण, अर्थैश्चेन्द्रियार्थैर्विषयै-
र्योऽयं चिदात्मनो योगः, तस्यागामिभावादु-
त्पत्तिमत्त्वात्कारणं निमित्तमनुमीयते, न ह्युत्प-
त्तिमच्चाहेतुकं किंचिद्भवति ॥ १ ॥

१८० मृगेन्द्रतन्त्रे । [ १।८
इत्थं सामान्येन कारणमात्रं प्रसाध्य, तद्वि-
शेषं वक्तुमाह
तस्य प्रदेशवर्तित्वा-
द्वैचित्र्यात्क्षणिकत्वतः ।
प्रतिपुंनियतत्वाच्च
सन्ततत्वाच्च तद्गुणम् ॥ ॥ २ ॥
तस्येन्द्रियशरीरार्थैश्चितां योगस्य यत्सुरनर-
तिर्यगादिनियतस्थानवर्तित्वम् । यच्च वैलक्षण्यं,
विचित्राणि हि प्राणिनां शरीराणीन्द्रियाणि
विषयाश्च दृश्यन्ते, तत्र जातिदिग्देशकाला-
दिवैचित्र्यं तावत्प्रसिद्धम् । इन्द्रियवैचित्र्यमपि
यथा-परावृत्तजिह्वत्वं गजानां, चक्षुःश्रवत्वं भु-
जङ्गमानां, अनालोकालोकित्वमुलूकादीनां,
पुरुषाणां च केषांचिद्विपुलदृशामप्यदर्शनं, अ-
न्धप्रायाणामपि सूक्ष्मार्थदर्शित्वमिति । विष-
यवैचित्र्यं तु यथा-जलधरनिपतजलकणोप-
जीवित्वं चातकानां, मयूराणामवकराहारत्वं,
कुक्कुटादीनां च, कमलकिञ्जल्करसास्वादनं मधु-
करसारसानामित्यादि । यतश्च क्षणिकत्वमनि-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १८१
त्यता देहादेः । यस्माच्च प्रतिपुरुषनैयत्यम्, न
हि शरीरेन्द्रियविषयाणां साधारण्यं भोगसा-
म्यप्रसङ्गात् । यतश्च तत्सन्ततत्वं, तत्तत्प्राणि-
सन्ततत्वेन किल जन्मान्तरेऽपि शरीरेन्द्रि-
यादि स्थितं यथा जात्यायुर्भोगप्रदेभ्यः क-
र्मभ्यः आयुःप्रदस्योपक्षीणत्वात् मृतस्यापि
तस्यैव जातिभोगदे कर्मणी संतत्या त्ववतिष्ठेते,
नत्वन्यमुपसर्पतः, ताभ्यां च तत्तज्जातिदेहे-
न्द्रिययोगः क्रियते । यत एवं तस्मात् कारणा-
त्तत्तदपि कर्म तादृग्गुणं तत्तद्देशवर्तिनो विचि-
त्रान् विनश्वरान् प्रत्यात्मनियतान् भवान्तर-
भाविनश्च देहेन्द्रियार्थान् दातुं क्षममित्येवम-
नुमीयते कारणासंभाविनां गुणानां कार्येष्वनु-
पलब्धेः ॥ २ ॥
किंच
ईशविद्याद्यपेक्षित्वा-
त्सहकारि तदुच्यते ।
कर्म व्यापारजन्यत्वा-
ददृष्टं सूक्ष्मभावतः ॥ ३ ॥

१८२ मृगेन्द्रतन्त्रे । [ ११८
ईशशब्देन लक्षणयोक्तामैश्वरीं रोधशक्तिम-
विद्यां च मललक्षणामादिग्रहणान्मायां च यस्मा-
द्वश्यं फलदानेऽपेक्षते, तस्मात्सहकारित्वमस्य
कर्मणः, नतु स्वातन्त्र्यमाचैतन्यादित्युक्तम् ।
अत एवास्यापेक्षणमौपचारिकं, नतु कुम्भका-
रस्य सूत्रदण्डचक्राद्यपेक्षणतुल्यम् । अन्यथा
कुम्भकारस्यापि सूत्रदण्डाद्यपेक्षित्वात्सहका-
रित्वं स्यात् । किंच व्यापारेण यज्जन्यमतः क्रियत
इति कर्म सौक्ष्म्याच्चादृष्टमित्युच्यते ॥ ३ ॥
तच्च
जनकं धारकं भोग्य-
मध्यात्मादित्रिसाधनम् ।
जनकं निमित्ततया देहेन्द्रियभुवनादेः, यतः
कर्मफलोपभोगायैव तत्तत्तनुकरणादियोगो-
त्पादः। धारकत्वं च तस्यैव प्रतिनियतकालस्य
मातृत्वेन । भोग्यं च तत् फलद्वारेण । किंचाध्या-
त्मादि त्रयं साधनं यस्य, तत्तथा । तत्राध्यात्म-
शब्देनान्तःकरणतया संनिकर्षेणात्मानमधि-
कृत्य यद्वर्तते, तन्मन उच्यते । आदिग्रहणाद्बा-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १८३
क्कायौ गृह्येते । एवं च मनोवाक्कायाः साधनं यस्य
तत् यथाक्रममिष्टदेवतानुध्याननमस्कारस्तो-
त्रपाठयजनादिरूपधर्मात्मकं कर्म, परस्वाजि-
हीर्षातत्प्रवादतदुपघातादयो यथासंख्यं मनो-
वाक्कायकर्मकृताः साधनं यस्य तदधर्मात्मकम् ।
यद्वाध्यात्मभूतदैवानि हेतुतयाधिकृत्याध्यात्म-
मधिभूतमधिदैवतं च यत्सुखदुःखमुत्पद्यते, तस्य
त्रिविधस्यापि साधनम् । कर्मवशाद्धि चेतःप्रसा-
दाद्युद्वेगादि चाध्यात्मिकं सुखदुःखमुदेति,
आधिभौतिकं चाङ्गनासंभोगगजसिंहाद्यभिभ-
वरूपम्, आधिदैविकं चाभिमतानभिमतवात-
वर्षातपादिक्कृतम् ॥
तत्सत्यानृतयोनित्वा-
द्धर्माधर्मस्वरूपकम् ॥ ४ ॥
स्वापे विपाकमभ्येति
तत्सृष्टावुपयुज्यते ।
मायायां वर्तते चान्ते
नाभुक्तं लयमेति च ॥ ५ ॥
तच्च कर्म धर्माधर्मस्वरूपं सत्यानृतप्रकृति-

१८४ मृगेन्द्रतन्त्रे । [ ११८
त्वात्, सत्यप्रकृति कर्म धर्मरूपमनृतप्रकृति
अधर्मात्मकं, स्वापे च सर्वभूतसंहारकाले
विपाकं परिणाममभितः समन्तादेति । सृष्टा-
विति सृष्टिसमनन्तरमेवास्य यथास्वं भोगः
प्रवर्तते, अन्ते च संहारे मायायां संस्काररूप-
तया वर्तते । नचाभुक्तं तद्विनश्यति ॥ ५ ॥
उपसंहारमाह
इति मायादिकालान्त-
प्रवर्तकमनादिमत् ।
कर्म व्यञ्जकमप्येत-
द्रोधि सद्यन्न मुक्तये ॥ ६ ॥
इत्थंप्रतिपादितस्वरूपमेतत्कर्म मायादिका-
लाद्यन्ताध्ववर्तिदेहेन्द्रियार्थप्रवर्तकमित्यत्रैवास्य
प्रभविष्णुता मायोर्ध्वं प्रशमनात् । तच्चैतद्यद्यपि
व्यापारजन्यं, तथापि प्रवाहनित्यत्वादादिमत्त्वं
नास्योपपद्यत इति चर्चितप्रायम् । किंच एत-
त्कर्म शुभस्वरूपत्वात् पुण्यव्यञ्जकमपि सत्
रोधि रोधकं संसारकारणमित्यर्थः । कुत इत्याह
'सद्यन्न मुक्तये' यस्मात्पुण्यात्मकमपि कर्म

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १८४
सत् विद्यमानं न मुक्तये नापवर्गाय, अपितु
तत्प्रतिबन्धायैव कल्पते यत्कर्मक्षयात्तत्सा-
म्याद्वा शक्तिपातानुसारसमासादितानुग्रहाणा-
मेव कैवल्यम् । ननु सचन्न मुक्तये इत्ययुक्त-
मुक्तं सत्यपि कर्मणि तत्साम्यान्मुक्तेराम्ना-
तत्त्वात् । यदुक्तं श्रीमत्किरणे
'समे कर्मणि संजाते कालान्तरवशात्ततः ।
तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा ॥
सर्वज्ञः स शिवो यद्वत्............ ।'
इति । नैष दोषस्तथाविधस्य कर्मणः सतोऽप्य-
सत्त्वं परस्परप्रतिबद्धशक्तित्वेनाफलत्वात् दी-
क्षोत्तरकालकृतकर्मवत् । यदुक्तं खेटकनन्दनेन
'कृतमपि फलाय न स्याद्दीक्षोपर्यूषरोप्तबीजमिव ।
बलवद्विशेषशास्त्रव्यतिकरजातं विहाय कर्मैकम् ॥'
इति ॥ ६ ॥
इति श्रीमद्विद्याकण्ठात्मजभट्टनारायणकण्ठकृतौ मृगेन्द्र-
टीकायां कर्मविचारप्रकरणमष्टमम् ॥ ८ ॥
२४

अथ
श्रीमृगेन्द्रतन्त्रे ।
विद्यापादे ।
( नवमः पटलः )
अथ सर्वज्ञवाक्येन
प्रतिपन्नस्य लक्षणम् ।
कथ्यते ग्रन्थिपाशस्य
किञ्चिद्युक्त्यापि लेशतः ॥ १ ॥
अथशब्दश्चानन्तर्ये, पाशपदार्थपरीक्षाधि-
कारे कर्मपाशविचारानन्तरं ग्रन्थ्यात्मनो मा-
याख्यस्य पाशस्य किञ्चित्संक्षिप्तं लक्षणं कथ्यते ।
अस्य चानन्तरप्रकरणोपसंहारे मायाशब्दोप-
क्षेपात्पाटलिकः संबन्धो ज्ञेयः । पदार्थादिसंब-
न्धचतुष्टयं तु प्रागुक्तम् । सर्वज्ञवाक्येन प्रति-
पन्नस्येति 'प्रावृतीशबले कर्म माया'(१।२।७)
इत्यादिना उद्देशसूत्रेण वक्तुमभ्युपगतस्य किञ्चि-
दिति नहि सकलं मायालक्षणं संक्षेपेणाप्य-

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १८७
भिधातुं शक्यम् । तथा चोक्तं तत्रभवद्बृह-
पतिपादैः
'अपि सर्वसिद्धिवाचः क्षीयेरन्दीर्घकालमुदीर्णाः ।
मायायामानन्त्यान्नोच्येत स्रोतसां संख्या ॥'
इति। युक्त्यापि लेशत इति नागममात्रेण केव-
लेन, अपितु स्तोकादनुमानोपपन्नमपि तल्ल-
क्षणमुच्यत इत्यर्थः ॥ १ ॥
तदेकमशिवं बीजं
जगतश्चित्रशक्तिमत् ।
सहकार्यधिकारान्त-
संरोधि व्याप्यनश्वरम् ॥ २ ॥
तत् ग्रन्थितत्त्वमेकं परमकारणत्वादनेकत्वे
प्रमाणाभावाच्च, अशिवं मोहकत्वात्, बीजं
जगत इत्युपादानकारणं, विविधशक्तियुक्तं च
सहकारिणां कर्मणामधिकारान्तं यावत् संरु-
णद्धि अणून् बध्नाति तच्छीलमिति सहकार्य-
धिकारान्तसंरोधि कर्माभावे ग्रन्थितत्त्वस्याप्र-
वृत्तेः । व्यापि च तत् सर्वगतं स्वकार्यव्याप-
कत्वेन, अनश्वरं नित्यत्वात् महाप्रलयेऽपि

१८८ मृगेन्द्रतन्त्रे । [ ११९
आत्मवदीश्वरवच्च तस्यावस्थानात् । तदुक्तं
तत्त्वत्रयनिर्णये
‘शम्भुः पुरुषो माया नित्यं विभु कर्तृशक्तियुक्तं च ।
सुप्तेऽपि विकृतिजाते त्रितयं जागर्ति तत्त्वानाम् ॥’ (३ का०)
इति ॥ २ ॥
युक्त्यापि लेशत इत्युक्तमतस्तां युक्तिं
दर्शयति
कर्तानुमीयते येन
जगद्धर्मेण हेतुना ।
तेनोपादानमप्यस्ति
न पटस्तन्तुभिर्विना ॥ ३ ॥
संन्निवेशादिमत्त्वादुत्पत्तिमत्त्वं किल जगतः
कर्तारमनुमापयति । तेनैवोत्पत्तिधर्मकत्वेनोपा-
दानमप्यनुमीयते । नहि उत्पत्तिमत्तामुपादान-
कारणं विनोत्पत्तिर्दृष्टा यथा पटादेस्तन्त्वा-
द्यभावे ॥ ३ ॥
किंच
तदचेतनमेव स्या-
त्कार्यस्याचित्त्वदर्शनात् ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १८९
प्राप्तः सर्वहरो दोषः
कारणानियमोऽन्यथा ॥ ४ ॥
तच्च ग्रन्थितत्त्वमचेतनमचेतनस्यैव तत्का-
र्यस्य कलादेरुपलम्भात् , अन्यथेत्यचेतनतत्का-
र्योपलम्भेऽपि तस्य चेतनत्वाभ्युपगमे कारणा-
नियमलक्षणः सर्वहर इति सर्वानुमानोच्छेदकः
सकलव्यवहारहरः कोऽपि दोषः प्राप्तः ॥ ४ ॥
प्रागुद्दिष्टमविनश्वरत्वं व्यापित्वं च साध-
यितुं युक्तिमाह
यद्यनित्यमिदं कार्यं
कस्मादुत्पद्यते पुनः ।
अव्यापि चेत्कुतस्तत्स्या-
त्सर्वेषां सर्वतोमुखम् ॥ ५ ॥
जगत्संहारे यद्युपादानकारणस्य मायाख्य-
स्यापि नाशः स्यात् , तत्पुनः सर्गादौ कस्मादुपा-
दानाज्जगदुत्पद्यते । अतो नास्यानित्यत्वम् । अ-
थोच्यते सर्गादावुपादानमपि देवः स्रक्ष्यतीति ।
नैतद्युक्तम् , एवं हि सति तत्कार्यस्येव तस्याप्यु-

पादानं विनानुत्पत्तेरुपादानान्तरं परिकल्प्यं
तस्याप्यन्यदित्यनवस्था स्यात् । व्याह्युपसंहारेण
शक्तिरूपतया त्ववस्थाने न कश्चिद्दोषः । एवम-
स्याव्यापित्वे सर्वतोमुखस्य कार्यस्यानुत्पादः
स्यात् । अतो व्यापकत्वमवश्यमभ्युपेयम् ॥५॥
तथैकत्वे युक्त्युपन्यासः
यदनेकमचित्तत्तु
दृष्टमुत्पत्तिधर्मकम् ।
न तदुत्पत्तिमत्तस्मा-
देकमभ्युपगम्यताम् ॥ ६ ॥
यद्यदनेकमचेतनं, तत्तत् घटपटादिवदुत्प-
त्तिमत् दृष्टम् । इदं तु नोत्पत्तिमत् न कारणजन्यं
परमकारणत्वात् , अत एकम् । नहि परमकार-
णानि बहुलीभवन्तीति ॥ ६ ॥
ननु जगदुत्पत्तौ परपरिकल्पितपरमाण्वा-
दिवदुपादानकारणबहुत्वं यदि स्यात्, ततः
को दोषः । तथाहि
पटस्तन्तुगणादृष्टः
सर्वमेकमनेकतः ।

श्रीमन्नारायणकण्ठविरचितवृत्त्युपेते । १९१
बहुभ्योऽपि हि तन्तुभ्यः पटस्यैकस्योत्पत्ति-
र्दृष्टा। तद्वच्च जगत्सर्वमनेकस्मात्कारणादुत्पद्यतां,
किं ग्रन्थात्मकपरमकारणकल्पनयेति चोद्यम् ॥
अत्र परिहारः
तदप्यनेकमेकस्मा-
देव बीजात्प्रजायते ॥ ७ ॥
यत्तद्भवतानेकतन्त्वात्मकं कारणं पटस्योक्तं,
तदनेकमप्येकस्मात्तूलकार्पासादिद्रव्यादुत्पन्न-
त्वादेकम् । यथा चैकस्मात्तूलकार्पासादिद्रव्याद-
नेकाकारपटाद्युत्पत्तिः, एवं परमकारणात्सर्ग-
स्थितिलयाधाराख्यात्सर्गादौ मायातत्त्वाज्जगदु-
त्पत्तिरिति न कश्चिद्दोषः ॥ ७ ॥
परमात्मन एव सकाशाच्चिदचिदाविर्भाव-
तिरोभावाविति येषां पक्षस्तान्प्रतिक्षिपति
येषां चिद्धर्मकाद्धेतो-
रचिदप्युपजायते ।
तेषां धूमेन लिङ्गेन
जलं किं नानुमीयते ॥ ८ ॥
चित्स्वभावकाद्धेतोर्यैरचितामप्युद्भवोऽभ्युप-

  • दा - ना ? Wait:
    Look at रणतामभिदधाना:
    र - ण - ता - म - भि - द - धा - ना
    न
    ते
    वा - च्य - ता - म - र्ह - न्ति ।
    प - र - मा -
  1. Check everything line by line:
    Header: १९२ मृगेन्द्रतन्त्रे । [ ११९
    L1: गतः, तैर्धूमाज्जला‌नुमांनं किं न क्रियते कार्य-
    Wait, let's verify तैर्धूमाज्जला‌नुमांनं vs तैर्धूमाज्जला‌नुमानं.
    Is it तैर्धूमाज्जला‌नुमांनं? Yes, there is मां and नं. Let's keep तैर्धूमाज्जला‌नुमांनं.
    Wait, could नु be just न?
    No, it has the loop below.
    L2: कारणप्रतीतिनियमसंभवे सत्यतत्स्वभावादपि
    L3: तत्स्वभावस्योत्पत्तिप्राप्तेः । यथा न दृष्टा धूमा-
    L4: ल्लिङ्गात्कदाचिदपि जलप्राप्तिः, तथा ह्यचित्स्व-
    L5: भावस्य स्वविरुद्धाच्चित्स्वभावान्नोत्पत्तिर्दृष्टा । अ-
    L

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १९३
णूनां कैश्चित्परमाणुकतैव निषिद्धा षट्के युग-
पद्योगात् षडंशत्वस्यापरिहार्यत्वात् । किंच
आचैतन्ये सति अनेकत्वात् घटपटादिवत् ते-
षामपि कारणपूर्वकत्वेन भाव्यमिति च कुतः
परमकारणता। ततश्च न तत्प्रकृतिकत्वं जगतः॥
ननु यतस्तावन्मातापितृसंबन्धिभ्यो दे-
हेन्द्रियादिभ्यस्तत्तत्स्वसदृशशरीरकरणादि उ-
त्पद्यमानमुपलभ्यते, ततः किमदृष्टेन माया-
दिना कारणेन कॢप्तेनेत्याशङ्क्याह
शरीरादेः शरीरादि
यदि तन्निखिलात्यये ।
का वार्ता नाखिलध्वंसो
न सर्वज्ञो मृषा वदेत् ॥१०॥
मातापितृसंश्लेषशरीरेन्द्रियादिकारणकं ज-
न्तूनां शरीरेन्द्रियादि तद्भावे भावात्तदभावे
चाभावादिति यद्यभिमतं, तदस्तु, किंत्वेत-
त्प्रष्टव्यो भवान्-तन्निखिलात्यये सर्वसंहारे
देहेन्द्रियाद्युत्पत्तेः कीदृशी गतिः । अथ सक्रम
एव सर्वभावानां नाशः, नतु युगपत्सर्वसंहार
२५

१९४ मृगेन्द्रतन्त्रे । [ २१९
इत्युच्यते । तदयुक्तं श्रुतिस्मृतीतिहासपुराणा-
दिसदागमगीयमानस्य संहारस्यापह्नोतुमशक्य-
त्वात् । तदपह्नवे च प्रथमसृष्टिरपि नेष्टा । ततश्च
सृष्टिसंहारौ जगतो न संभवत इति ब्रुवाणः
सर्वज्ञतामेव जह्यात् ॥ १० ॥
अथ कथं संहाराभावमभिदधतो मिथ्या-
वादित्वमित्याह
एकदेशोऽपि यो धर्मः
प्रतीतो यस्य धर्मिणः ।
स तस्य सर्वतः केन
जायमानो निवार्यते ॥ ११ ॥
कोटिशो मरणं दृष्ट्वा
संहतानां शरीरिणाम् ।
सोऽपि प्रतीयते कालो
यत्राशेषजनक्षयः ॥ १२ ॥
सर्वज्ञेन हि स्वस्य वचसः प्रमाणोपपन्न-
तया परीक्षणं प्रतिज्ञातम् । यदाह
'तापाच्छेदान्निकर्षाच्च सुवर्णमिव सर्वतः ।
परीक्ष्य भिक्षवो ग्राह्यं मद्वचो नतु गौरवात् ॥'

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १९५
इति । इयंतु संहारसंभवे निर्बाधा तावदुप-
पत्तिः—यदुत यस्य धर्मिणो वह्न्यादेः काप्येकदेशे
धूमप्रकाशदाहादिधर्मो दृष्टः, स तस्य सर्वत्रो-
त्पद्यमानः केन निषिद्ध्यते, ततश्च दुर्भिक्ष-
मारीकृतभङ्गादिना एकदेशे जन्तुसंघातस्य क्र-
मिकां कोटिशो विपत्तिमुपलभ्य कृत्स्नजगत्सं-
हारकालः सदागमोदितोऽपि अनुमानेनो-
ल्लिख्यते ॥ १२ ॥
तदानीं च मायायामुपसंहृतानि सर्वका-
र्याण्यासन्नित्याह
तदाधाराणि कार्याणि
शक्तिरूपाणि संहृतौ ।
विवृतौ व्यक्तिरूपाणि
व्याप्रियन्तेऽर्थसिद्धये ॥१३॥
प्रागुक्ताभिरुपपत्तिभिर्नित्यत्वव्यापकत्वादि-
गुणयुक्तं यत्तु मायाख्यं कारणमुपपादितं, तदा-
श्रयाणि तनुकरणभुवनादीनि संहारकाले श-
क्तिरूपाण्यवतिष्ठन्ते । सृष्टौ तु व्यक्तिस्वरूपाणि
स्वस्वप्रयोजननिष्पत्तये सव्यापाराणि भवन्तीति
सर्वं सुस्थम् ॥ १३ ॥

१९६ मृगेन्द्रतन्त्रे । [ ११९
अत्र मुनिः सत्कार्यवादमसहमानः प्रश्नयति
तन्त्वादिकारकादानं
पटासत्त्वे पटार्थिनः ।
सत्त्वे कारकशब्दोऽपि
व्यपैतीति हतं जगत् ॥१४॥
साफल्यमसदुत्पत्ता-
वस्तु कारकवस्तुनः ।
यदेतच्छक्तिरूपतया मायाख्ये परमका-
रणे जगतोऽवस्थानकारणमुक्तं, तन्नोपपद्यते ।
तथाहि दृष्टवददृष्टकल्पना कर्तव्या, दृश्यते च
तन्तुतुरीवेमादिकारकग्रहणमविद्यमानपटस्या-
र्थिनः, नतु पटसद्भावे सति । पटस्य हि सत्त्वे
सति कारकशब्दोऽपि तन्त्वादेर्नोपपन्नः वि-
द्यमानत्वादेव । असदुत्पत्तौ हि कारकवस्तुनः
साफल्यं, नान्यथेति ॥
अत्र परिहारः
उत्पादयतु सर्वस्मा-
त्सर्वः सर्वमभीप्सितम् ॥१५॥