मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 208, कुल 448 में से
संदर्भ में पढ़ें१७८ मृगेन्द्रतन्त्रे । [ १।७
नायाः परमेश्वररोधशक्तेरपगमोन्मुख्याः परि-
च्युतौ किञ्चिच्छिथिलीभावे सति बोद्धृत्व-
धर्मानुवर्तनमात्मनोऽनुग्रहः, परिणामित्वधर्मा-
नुवर्तनं पाशानामिति ॥ २२ ॥
उपसंहरन्नाह
इत्येवं यौगपद्येन
क्रमात्सुघट एव हि ।
मायायाः साधिकारायाः
कर्मणश्चोक्त एव ते ॥ २३ ॥
इत्येवमुक्तया युक्त्या यौगपद्येन चिदचि-
तोरनुग्रहो न विरुद्धः क्रमात् सुघट एव, न
दुरुपपादः । मलवच्च मायायाश्च कलादिक्षि-
त्यन्तस्वाधिकारसहितायाः कलाद्याविर्भावल-
क्षणस्तदुपसंहारात्मकश्च, कर्मणस्तु फलदानौ-
न्मुख्यापादनात्मकः, सोऽयमनुग्रहो मायाकर्म-
णोरनुक्तोऽप्युक्त एव ज्ञेयः
'सर्वथा सर्वदा यस्माच्चित्प्रयोज्यमचेतनम् ।' (१७)
इति सामान्येन सर्वस्यैवोक्तत्वादिति ॥२३॥
इति श्रीमद्भट्टविद्याकण्ठात्मजनारायणकण्ठकृतौ मृगेन्द्र-
टीकायामाणवपाशपरीक्षाप्रकरणं सप्तमम् ॥ ७ ॥