मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
पृष्ठ 211, कुल 448 में से
संदर्भ में पढ़ेंश्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १८१
त्यता देहादेः । यस्माच्च प्रतिपुरुषनैयत्यम्, न
हि शरीरेन्द्रियविषयाणां साधारण्यं भोगसा-
म्यप्रसङ्गात् । यतश्च तत्सन्ततत्वं, तत्तत्प्राणि-
सन्ततत्वेन किल जन्मान्तरेऽपि शरीरेन्द्रि-
यादि स्थितं यथा जात्यायुर्भोगप्रदेभ्यः क-
र्मभ्यः आयुःप्रदस्योपक्षीणत्वात् मृतस्यापि
तस्यैव जातिभोगदे कर्मणी संतत्या त्ववतिष्ठेते,
नत्वन्यमुपसर्पतः, ताभ्यां च तत्तज्जातिदेहे-
न्द्रिययोगः क्रियते । यत एवं तस्मात् कारणा-
त्तत्तदपि कर्म तादृग्गुणं तत्तद्देशवर्तिनो विचि-
त्रान् विनश्वरान् प्रत्यात्मनियतान् भवान्तर-
भाविनश्च देहेन्द्रियार्थान् दातुं क्षममित्येवम-
नुमीयते कारणासंभाविनां गुणानां कार्येष्वनु-
पलब्धेः ॥ २ ॥
किंच
ईशविद्याद्यपेक्षित्वा-
त्सहकारि तदुच्यते ।
कर्म व्यापारजन्यत्वा-
ददृष्टं सूक्ष्मभावतः ॥ ३ ॥