मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
मन्त्ररामायण
उ पारे समीपेरित अतस्त्वदीयेनैव सामर्थ्येन समुद्रतरणादिकमेते का[रि]...
सामर्थ्येनान्यः करोतीत्यत्र दृष्टान्तः—सुरेति । सुरा मद्यम्, मन्युः क्रोध[ः]
विभीतकः, तत्स्थकलिः अधित्तिः, भूतपित्ताद्यावेशजन्य उन्माद[वान्]...
पुरुषोऽशक्तोऽपि शक्तसाध्यं कर्म करोति तद्वदयमपीत्यर्थः ॥ जायां
स्वप्नश्च नेति । स्वप्न इव इत् अनृतस्यैव भयसुखादेस्तद्धेतोश्च प्रयोक्त[ा]
वियोजयिता च । 'यु मिश्रणामिश्रणयोः, इत्यस्य रूपम् । यः ...
प्रपञ्चं सृजति संहरति च तस्य अस्मदुपवृंहणं कियदि ति भावः ॥ १४[७]
त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा सम[र्ये]
दासं यच्छूष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्ष[न्]
ऋ. ७.
'हे राम ! तुम परोक्ष रूप से ऋषि की रक्षा करते हो अ[पने]
साथ स्पर्धा करते हो। मृत पुत्र को लेकर द्वार पर आये
हुए विप्र के वाक्य को सुनकर यम को जीतकर उसके पुत्र [को]
करते हो । शूद्र के अयोग्य होने के कारण उसको मुनिधर्म [से]
उसको स्वधर्म सेवा में लगाते हो । अर्जुन-पुत्र को जीवित क[रने]
की शिक्षा देते हो ।'
लोकस्थोऽप्यलौकिकं कर्म करोषीत्याह—त्वं हेति । हे इन्द्र त्वं ह[त्य]
इतरेषां परोक्षं कुत्सम् ऋषिम् आवः रक्षितवानसि कदा समर्य कालेन...
सत्याम् । तन्वा मृतस्य पुत्रस्य शरीरेण सहागतस्य पितुर्वाक्यं शुश्रू[षन्]
कुर्वन् मृतं पुत्रमानीय द्वारि शोचतो विप्रस्य वाक्यं श्रुत्वा यममपि [नि]
मानीतवानसीत्यर्थः । कथं मृतमपि रक्षितवानित्यत आह—दासमिति...
शूद्रस्यायोग्येन तपसा शुष्यन्तं कुयवं कुत्सितेन स्वस्य दोषहेतुना मुनि...
स्वधर्मेण च सेवया वियुज्यत इति कुयवम्, अस्मै आर्जुनेयाय अ...
कुत्साय तज्जीवनार्थं न्यरन्धयः नितरां हिंसितवानसि । शिक्षन् ...
मर्यादाम् ॥ १४८ ॥
यत्रौषधीः समग्मत राजानः समिता[विव]
विप्रः स उच्यते भिषग्रक्षोहाऽमीवचातनः ॥ १४[९]
ऋ. १०...
हनुमान के साथ राम जाम्बवान की स्तुति करते हैं [:]
राजा सभा में आता है उसी प्रकार द्रोणाचल से औष[धी]...
१०० मन्त्ररामायण
हनुमान तथा ओषधि के प्रयोग द्वारा रघु आदि को जीवन प्रदान करने
वाले जाम्बवान् से दुष्टों का वध करने की प्रार्थना करते हैं !
एवं रामभद्रं स्तुत्वा हनुमत्ता सह जाम्बवन्तं स्तुवन्ति-यत्रौषधीरिरिति । यत्र
हनुमति जाम्बवति वा द्रोणाचलस्यानेतरि सर्वौषधीस्वरूपगुणाभिज्ञे वा निमित्तभूते
सति ओषधीः सर्वाः ओषधयः सशलययो राघवयोविशल्यकरणार्थाः समग्मत
सङ्गताः । तत्र दृष्टान्तः-यथा राजानः समितौ सभायां संगच्छन्ते, तद्वत् समिता-
विव स विप्रो व्यापकः सर्वौषधीनामानेता प्रयोक्ता वा भिषक् रोगक्षयकृदित्युच्यते,
स एव रक्षोहा रक्षोहन्तॄणां रामादीनां जीवनप्रदानात् अमीवचातनः अमीवान्
दुष्टान् हन्तु घातयते प्रार्थ्यते स तथा दुष्टवधकाम इत्यर्थः ॥ १४१ ॥
ऋक्षवे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्त नाभयः ।
त्रीन्स मूर्ध्नो असुरश्चक्रा आरभे सत्यस्य नावः सुकृतमपीपरन् १५०
ऋ. ६. ७३, १
अम्ल के कारण बुद्बुद् के ऊपर आने के समान रावण संसार को
दुःखी करता है । नाभि में अमृत वाले उस असुर ने अपने मस्तको को
काट कर यज्ञ में चढ़ा दिया, अतः उसके वध के लिए महान प्रयत्न
करना चाहिए । धर्म की नौका के समान सुन्दर कर्म वाले राम समुद्र
के पार उतरे ।
अथ सीतादींन्स्तुवन्ति-ऋषवे इत्यादिना नवर्चेन सूक्तेन । आङ्गिरसः पवित्र
ऋषिः पवमानसोमोदेवता सोम इति विष्णोरेव नाम-"हविरातिथ्यं निरूप्यते
सोमे राजन्यागते" इत्युपक्रम्य “वैष्णवो भवति विष्णुर्वै यज्ञस्तस्मा एतद्धविरा-
तिथ्यं निरूप्यते" इत्युपसंहरन् यथा दध्यादेर्द्रप्सः अत्यम्लतया बुद्बुदाकारेण
उपर्यागतो भागः तद्वदुद्गोतस्य द्रप्सस्य रावणधमतो लोकान् तापयतः कर्मणि
षष्ठी । तं प्रति ऋक्षवः शरणम् अभिसारः तस्मिन्कर्त्तव्ये सति समस्वरन् सम्यग्जय-
शब्दमकुर्वन् योद्धारः । ततश्च शृतस्य योना योनौ शृतस्य योनिरिति पदं जल-
नामसु प्रविष्टम् भाष्ये तु यज्ञस्योत्पत्तिस्थाने इति व्याख्यातम् । नाभयः जलस्य
गर्भे गताः “षडूचः पृथिवी" इति श्रुतेर्जलादुत्पन्ना वा भूमयः कविना दृष्टरूपाः
समरन्त सम्यग् मज्जनं बिना अगच्छन्त । यस्य सम्बन्धे नाभयः जलेऽतरन्त, सः
असुरो रावणाख्यः त्रीन् “कपिञ्जलानालभेत" इतिवत् बहुवचम् । प्रातिपदिकार्थस्य
त्रित्वस्य त्रित्वे पर्यवस्यति, तेन नव संख्यान् मूर्ध्नो मस्तकान् चक्रे छिन्नवान्,
कदा आरभे आरभ्यत इत्यारम्भो यज्ञस्तस्मिन् । रावणेन हि नव शिरांसि वह्नौ
हुतानीत्युपाख्यायते अतस्तस्य वधार्थं महानेव यत्न आस्थेय इत्यर्थः । जले
दृष्टसङ्गस्य किं फलमत आह-सत्यस्येति । सत्यस्य धर्मस्य सम्बन्धिन्यो नाव
इव नावः तारकाः शिलाः सुकृतं शोभनकर्माणं रामं ससहायम् अपीपरन्
अपारयन् समुद्रस्य पारं प्रापितवत्य इत्यर्थः । यथा-सत्यस्य बलेनाग्नेये दिव्ये
तप्तपरशुग्रहणादौ वह्निः शीततां याति, एवं सीतायाः पातिव्रत्यधर्ममाहात्म्यात्
तद्बन्धच्छेदार्थं शिला अपि समुद्रे तीर्णा इत्यर्थः । "धर्मनावः शिला" इति ब्रह्मवैवर्ते
सप्तमाध्याये तृतीयांशे दृष्टम्-“इत्युक्ता सा शिला विप्रैः पातिता तज्जले शुभे ।
चक्रुः शिवकथां पुण्यां काशिवासिजनैर्वृताः ॥ क्षणान्तरे गौस्तृषिता सवत्सा
समुपागमत् ॥ तयापीतं जलं तृप्ता सामवच्छृणु पार्वति ॥ सा शिला मुनिमुख्यानां
प्रभावाज्जलमध्यतः ॥ जलोपर्यभवच्छिन्नं पश्यतां सर्वदेहिनाम् ॥ यथा तुम्बीफलं
शुष्कं गच्छतीतस्ततो जले ॥ तथा लघुतरा जाता तस्या धर्मस्य गौरवम्" ॥
इति ॥ १५० ॥
सम्यक्सम्यञ्चो महिषो अहेषत सिन्धोरूर्मान्वधि वेना अवीवियन् ।
मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्यतन्वमवीवृधन् ॥१५१
ऋ० ९. ७३, २
सुन्दर गति वाले, वृद्धिशाली, महान् वानरों ने समुद्र के ऊपर पुल
बना दिया । रोहितादि अमृत की पञ्च धाराओं से वसु, रुद्र, आदित्य,
विश्वेदेव तथा मरुत ये पाँचगण अर्क के समान स्वयं उपासना के जल से
उन्हें आविष्कृत करते हैं । राम की प्रिय पत्नी सीता को रावण की कैद
से छुड़ाकर जय शब्द से आह्लादित करते हैं ।
वस्वादिरूपेण सर्वान्वानरांस्तुवन्ति-सम्यगिति सम्यञ्चः सुगतयः सम्यक्
चाह अहेषत अवर्द्धन्त, महिषा महान्तो वानराः त एव सिन्धोः समुद्रस्य ऊर्मौ
एकदेशे शतयोजनविस्तीर्णे वेनाः शोभमानाः अधि उपरि अवीवियन् क्षिप्तवन्तः,
सत्यस्य नावः शिलारूपा इत्यनुकृष्यते, मधोः आदित्यस्य-“असौ वा आदित्यो-
यदेतन्मधु” इतिच्छान्दोग्यश्रुतेः । धाराभिः रोहिताद्यमृतपञ्चकधाराभिः वसवो रुद्रा
आदित्या विश्वे देवा मरुत इति पञ्च गणाः अर्कम् अर्कतुल्यमात्मानमेव जनयन्तः
उपासनाबलेनाविष्कुर्वन्तः, इत् एष इन्द्रस्य रामस्य प्रियां तन्वं तनुं सीताम्
अवीवृधन् वर्द्धितवन्तः, रावणागारे निरुद्धां सीतां जयशब्दैराह्लादयन्नित्यर्थः
॥ १५१ ॥
पवित्रवन्तः परिवाचमासते पितैषां प्रत्नो अभिरक्षति व्रतम् ।
१०२ मन्त्ररामायण
महः समुद्रं वरुणस्तिरोधधे धीरा इच्छेकूर्धरुणेष्वारभम् ॥१५२॥
ऋ० ६. ७३, ३
जैसे अध्वर्यु वाणी के अर्थ के अनुसार कार्य करता है और उसका
यजमान यज्ञफल को सर्वस्व समझता है, उसी प्रकार वानरों ने पुल
बनाया। उस महान् वरणीय राम ने समुद्र को शिलाओं से ढँक दिया।
वानरों ने राम स्पृष्ट पत्थरों को समुद्र में तैरा दिया। जो पत्थर समुद्र में
तैर रहे थे वह न तो पत्थर का गुण था न समुद्र का और न ही वानरों
का, वह तो श्रीराम का प्रताप था।
अत्रावीधियन्नित्येतद्विवृणोति-पवित्रवन्त इति । यथा पवित्रवन्तः अध्वर्यवः
वाचं पर्यासवे विध्यर्थं कृष्णमनुतिष्ठन्ति, एषां पिता भृतिदानेन पालयिता यजमानः
व्रतं यज्ञं फलम् अभिरक्षति सर्वस्वीकृत्यास्ते, एवं यत्प्रयुक्ता वानराः सेतुं चक्रुः ।
स महो महान् वरुणो वरणीयः रामः समुद्रं तिरोदधे शिलाभिराच्छादितवान् ।
धीराश्च वानराः धरणेषु भूमिधारणसमर्थेषु धरणेषु पर्वतेषु आरभितुं स्पर्शमेव शेकुः
कर्तुमिति शेषः । न तु तान्वोढुं सलिले वा तारयितुं शेकुरिति भावः ।
यथोक्तमभियुक्तैः "ये मज्जन्ति निमज्जयन्ति च परान्स्ते प्रस्तरा दुस्तरे वार्धौ तीरं
तरन्ति वानरभटान्सन्तारयन्ते च वै । नैते ग्रावगुणा वारिधिगुणा नो वानराणां
गुणाः । श्रीमद्दाशरथेः प्रतापमहिमारम्भः समुज्जृम्भते" ॥ १५२ ॥
सहस्रधारे यते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः ।
अस्य स्पशो न निमिषन्ति भूर्णयः पदे पदे पाशिनः सन्ति सेतवः
ऋ०. ६. ७३, ४
स्वर्ग में सोमाभिषवण के लिए वे प्रसिद्ध देवर्षि मन्त्र पढ़ते हैं
और कर्मभूमि में हितैषी सोमाभिषवण के बिना ही तीनों वर्णों के प्रति
मधुर बोलते हैं। सेतु बन्धनकर्ता अन्तर्यामी तुम्हारे द्वारा प्रेरित देवता
राम के सेवक की पग-पग पर रक्षा करें।
अथ प्रतिष्ठासवः सर्वत्र निग्रहानुग्रहकर्त्ता त्वमेवासि अतः स्वस्थानस्थाने
वास्मान्पाहीत्याशयेनाहुः-सहस्रधारे इति । सहस्रधारे सोमे अभिषवणीये निमित्तं
ते प्रसिद्धाः देवर्षयः समस्वरन् अवश्यं सोमः सोतव्य इति शब्दमकुर्वन् कुत्र दिवो
नाके स्वर्गे कर्मभूमौ मधुजिह्वाः मधुरभाषिणो हितैषिण इति यावत् असश्चतः
सोमाभिषवणं विना गतिहीनान् त्रैवर्णिकान् प्रति समस्वरन्निति योजना ।
फलितमाह-अस्येति अस्य सोमाभिमानिनो विष्णोः समुद्रतीरे धातुः रामस्य
स्पशाश्चाराः पदेपदे सन्ति न च ते निमिषन्ति अत्यन्तावहिताः सन्तीत्यर्थः ।
अनिमेषणोपलक्षिता देवा एवास्य धारास्ते च भूर्णयः बहुवद्धाः पाशिनः पाशवन्तश्च
सेतवो बन्धनकारिणश्च स्यमन्तस्योवो त्वत्प्रेरिताश्च देवाः सर्वस्मास्मान्पान्त्वित्यर्थः ।
इतः परं सूक्तशेषः प्रागेवोपोद्घाते व्याख्यातः ॥ १५३ ॥
अष्टौ पुत्रासो अदितेर्ये जातास्तन्व१स्परि ।
देवां उपप्रैत्सप्तभिः परामात्तण्डमास्यत् ॥ १५४ ॥
ऋ० १०. ७२, ८
जैसे लक्ष्मणादि राम के अनन्य हैं वैसे उनकी पत्नी सीता राम की
अनन्य है । रामादि चारों भाइयों के आठ पुत्र विभिन्न स्थानों के राजा
हुए । वह जगन्माता द्युलोक में पुत्रों के साथ गयीं । वे चारों गार्हस्थ्य
वर्णाश्रम धर्म का पालन करते हुए ब्रह्मलोक में गये ।
एवं स्तुत्वा गतेषु मुनिषु शेषमवतारकृत्यं “वम्वस्य मध्ये मिथुनाविवती,
अश्नम्भीर्यारोदयन्मुषायन्” इति उपोद्घाते एव किंचिद्व्याख्यातं ततोप्य
१०४ मन्त्ररामायण
सीता भूमि में चली गयी। माता भूमि को शिर पर धारण करने
वाले शेष नाग रूपी लक्ष्मण अपनी प्रकृति के अनुसार अनन्त में लीन हो
गये। हम लोग पुत्र और पशुओं के साथ रहें। जो भी द्वेष और मृत्यु है
वह नष्ट हो।
इतः प्रागेव सीतालक्ष्मणौ स्वं विग्रहमुपसंजह्रतुरित्याह—भूमिरिति । भूमिं
सीता भूमिम् अगात् प्रविवेश, माता भूमेस्तोलयिता शिरसा धर्त्ता शेषरूपी लक्ष्मणः
मातरं स्वप्रकृतिमनन्तम् अप्यगात् अपि गतः, वयं च पुत्रैः पशुभिश्च सङ्गता
भूयास्म, यो नो द्वेष्टि रजकादिर्निन्दको वा मृत्युर्वा स भिद्यतां नश्यतु ॥ १५६ ॥
नावान क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा ।
स्वांप्रजां बृहदुक्थो महित्वावरेऽदधादापरेषु ॥ १५७ ॥
ऋ. १०. ५६, ७
प्रजा का कल्याण करने वाले, पृथिवी को जीतकर प्रजा को सङ्कट
से पार कराने वाले, महान कर्म करने वाले राम अपनी महिमा से
अपनी प्रजा को उसी प्रकार ब्रह्मलोक में ले जायेंगे। जैसे नौका के
द्वारा महानदी पार की जाती है।
उपाधिपक्षपाती मायावी मायाकृतं सर्वमनुचहारेत्याह—नावानेति । नावान
नौकया यथा क्षोदो महाह्रद आक्रम्यते, एवं स्वस्तिभिः कल्याणैः पुष्षकादिभिः
पृथिव्याः प्रदिशः प्रदेशान् आक्रम्य स्वां प्रजां विश्वा सर्वाणि दुर्गाणि सङ्कटानि
अतिपारयित्वा बृहदुक्थो महाकर्मा रामः महित्वा स्वमाहात्म्येन सन्ततिरूपां
प्रजाम् अवरेषु भूलोकेषु जनरूपां प्रजां परेषु ब्रह्मलोकेषु य अदधात् । एतेन
पौरजनपदानात्मलोकं प्रापयन् महाकारुणिको रामभद्र एव शरणी करणीय इति
दर्शितम् ॥ १५७ ॥
लक्ष्मणार्यधुरतां गिरामिमां लक्ष्मणार्यपुरुषेण दर्शिताम् ॥ साङ्गवेदपदवाक्य-
मानवित्कोपि वीक्ष्य सुमतिः प्रमोदताम् ॥ १ ॥ श्रीरामरक्षाख्यानं मन्त्र-
रामायणाभिधम् ॥ व्याख्यातं राघवस्तेन प्रीयतां करुणानिधिः ॥ २ ॥ दर्शितः
सीतयाऽध्वायं वेदारण्ये निरध्वनि ॥ सन्तो विपुलयन्त्वेनं यास्कभाष्यानुयायिनः
॥ ३ ॥
इति श्रीमत्पदवाक्यप्रमाणमर्यादाधुरन्धरचतुर्धरवंशावतंसगोविन्द-
सूरिसूनोः श्रीनीलकण्ठस्य कृतिः स्वोद्धृतमन्त्ररामायण-
व्याख्या मन्त्ररहस्यप्रकाशिकाख्या समाप्तिमगमत् ॥
इस पृष्ठ पर कोई मुद्रित पाठ (टेक्स्ट) उपलब्ध नहीं है; यह एक रिक्त (blank) पृष्ठ है।
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है; यह एक रिक्त पृष्ठ (blank page) है।
इस पृष्ठ पर कोई पाठ (text) अंकित नहीं है; यह एक रिक्त (blank) पृष्ठ है।
हमारे प्रमुख प्रकाशन
तन्त्र मन्त्र सम्बन्धी
१. हिन्दी मन्त्र महार्णव ( मूल एवं हिन्दी अनुवाद )
देवी खण्ड १७५/-, देवता खण्ड १७५/-, मिश्र खण्ड १००/-
२. श्रीविद्यार्णव तन्त्रम् ( मूलमात्र )
पूर्वार्द्धम् १४०/- उत्तरार्धस्य प्रथमो भागः १५०/-
३. कुब्जार्णव तन्त्र ( मूल एवं अंग्रेजी अनुवाद ) ७५.००
४. नारदपञ्चरात्रम् ( मूल एवं हिन्दी अनुवाद ) मूल्य : १००/-
५. धनदारतिप्रिया तन्त्र ( मूल एवं हिन्दी अनुवाद ) मूल्य : ५/-
६. मातृकाभेद तन्त्र ( मूल एवं संस्कृत टिप्पणी सहित ) १५/-
७. त्रिपुरामहिम्न स्तोत्र ( नागेशभट्टकृत एवं गोविन्दाचार्य की संस्कृत टीका ) ८/-
८. बृहत् तन्त्रसार ( मूलमात्र ) मूल्य : २००/-
९. सप्तशतीसर्वस्वम् मूल्य : ६०/-
१०. त्रिपुरातापिन्युपनिषद् एवं त्रिपुरोपनिषद् मूल्य : ३/-
११. हनुमद्वाडवानल स्तोत्र एवं हनुमल्लाङ्गूलास्त्र स्तोत्र मूल्य : १/-
१२. शिवस्वरोदय ( मूल एवं अंग्रेजी अनुवाद सहित ) १६/-
१३. शनिस्तोत्रावलि ३/-
१४. वामकेश्वरीमतम् ( मूल एवं अंग्रेजी अनुवाद सहित ) १५/-
१५. कौलज्ञाननिर्णय ( मूल एवं अंग्रेजी अनुवाद सहित ) ५०/-
१६. डामर तन्त्र ( मूल एवं अंग्रेजी अनुवाद ) २५/-
१७. डामर तन्त्र ( मूल एवं हिन्दी अनुवाद ) १८/-
१८. मन्त्र रामायण ( मूल एवं हिन्दी अनुवाद ) १५/-
कतिपय अन्य प्रकाशन
शृङ्गार तिलक (रुद्रट) सहृदयलीला (रुय्यक) २०.००
( मूल एवं हिन्दी अनुवाद )
बौद्ध तर्कभाषा ( मूल एवं हिन्दी अनुवाद सहित ) १०.००
स्वप्न कमलाकर ( मूल एवं हिन्दी ) ५.००
अद्भुत रामायण (महर्षि वाल्मीकि कृत) सजिल्द १६.०० पेपर बैक १२.००
सामुद्रिकशास्त्रम् ( मूल एवं भावार्थबोधिनी टीका सहित ) २०/-
Indological Reference Series
- Encyclopedia of Yoga : Ram Kumar Rai 100.00
- Dictionaries of Tantraśāstra ( Tantrābhidhānam) 50.00
- Encyclopedia of Indian Erotics : Ram Kumar Rai 80.00
धन्वन्तरि ग्रन्थमाला
१. बङ्गसेन संहिता ( मूल हिन्दी अनुवाद एवं परिशिष्ट सहित ) १४०.००
२ हारीत संहिता ( मूल एवं हिन्दी अनुवाद ) मूल्य : ७५/-