मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
360 मानमेयरहस्यश्लोकवार्तिके
विशेषेऽनुगमाभावः सामान्ये सिद्धसाधनम् ।
अनुमाभङ्गपङ्केऽस्मिन् निमग्ना वादिदन्तिनः ॥
विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् ।
तद्द्वयोऽनुपपन्नत्वादनुमानकथा कुतः ॥
व्याप्तिरेवानुमानस्य जीवातुस्सा च सर्वथा ।
न संभवति संबन्धग्रहस्यानुपपत्तितः ॥
अन्वयव्यतिरेकाभ्यां नाविनाभावनिश्चयः ।
त्रैकालिकानां वस्तूनामानन्त्यादतिशङ्कनात् ॥
अतएवेहानुमानशब्दः प्रायेण लौकिकैः ।
प्रयुज्यते संशयार्थः परोक्षं संशयात्मकम् ॥
साहचर्ये च संबन्धे विस्रम्भ इति मुग्धता ।
शतकृत्वोऽपि तद्दृष्टौ व्यभिचारस्य संभवात् ॥
देशकालदशाभेदविचित्रात्मसु वस्तुषु ।
अविनाभावनियमः न संभवति कुत्रचित् ॥
2 भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते ।
जगत्त्रयगताशेषपदार्थालोचनाद्विना ॥
ये तु प्रत्यक्षतो विश्वं प्रपश्यन्ति महाजनाः ।
किं दिव्यचक्षुषामेषां अनुमानप्रयोजनम् ॥
सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः ।
वास्तवं तु न सामान्यं नाम किंचन विद्यते ॥
अनुमानाक्षेपः 361
बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः ।
देशकालादिभेदेन दृश्यते पुनरन्यथा ॥
भूयो दृष्टौ च धूमोऽग्निसहचारीति गम्यताम् ।
अनग्नौ तु स नास्तीति न भूयोदर्शनादृतेः ॥
गत्वागत्वा च तान् देशान् यद्यर्थो नोपलभ्यते ।
ततोऽन्यकारणाभावादसन्नित्यवगम्यते ॥
दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि ।
तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम् ॥
अनग्निश्च कियान् प्रायो जगत् ज्वलनवर्जितम् ।
तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ॥
तदेवं नियमाभावात् सति वा ज्ञप्त्यसंभवात् ।
अनुमानप्रमाणत्वदुराशा प्रतिमुच्यताम् ॥
साध्यानुमितिवेलायां नचास्ति नियमग्रहः ।
नियमग्रहकाले च न साध्यमनुमीयते ॥
३ निरुपाधिकसंबन्धो व्याप्तिरित्यभिधीयते ।
साध्येन यस्समं व्याप्तोऽव्यापकः साधनस्य यः ॥
स उपाधिरिति प्रोक्तः तत्र चात्माश्रयो ध्रुवः ।
अतो व्याप्तिपरिष्कारः शतशः क्रियते बुधैः ॥
४ धर्मे सिषाधयिषिते न हेतोः पक्षधर्मता ।
धूमस्य वह्नयधर्मत्वात्, साध्यं धर्मी यदीष्यते ॥
M.R. 46
62 मानमेयरहस्यश्लोकवार्तिके
न हेतोरन्वयस्तत्र व्यतिरेकोऽपि बाधितः ।
द्वये तु साध्ये द्वयमप्यसिद्धं स्यादसंशयम् ॥
विशिष्टस्य तु साध्यत्वे न प्राक्तद्धर्मताग्रहः ।
अतश्च पक्षधर्मत्वं केचिन्नेच्छन्ति सूरयः ॥
ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्मीभिधीयते ।
व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् ॥
5 अनुमानप्रयोगोऽपि चादौ कर्तुं न शक्यते ।
मिथोविरुद्धाङ्गीकारप्रचुरौ वादिनाविह ॥
शब्दो द्रव्यं वेदविदां गुणो न्यायविदां मतः ।
पञ्चभूतगुणोऽन्येषां परेषां नाभसो गुणः ॥
वृक्षादिशब्दाः स्फोटस्य विवर्त इति शाब्दिकाः ।
गुणद्रव्यविभागं च केचिन्नेच्छन्ति पण्डिताः ॥
एवमेव हि सर्वं च वस्तु तैस्तैर्विकल्प्यते ।
कः पक्षः किंचवा साध्यं को हेतुः द्वयसम्मतः ॥
सर्वत्रान्यतरासिद्धेरनुमानकथा वृथा ।
सामान्येन प्रयोगस्तु केवलं कण्ठशोषकृत् ॥
6 व्यवहारोऽध्यक्षशक्त्या कृतार्थो ह्यानुमानिकः ।
इन्द्रियं धूमसंयुक्तं वह्निं गमयति स्फुटम् ॥
व्याप्तिश्च पक्षधर्मत्वं स्यातां तत्सहकारिणी ।
तथैवापमितिश्शाब्दी सर्वा प्रत्यक्षमिष्यते ॥
अनुमानसमर्थनवादः 36
सहकारिसनाथं चेत् विचित्रं करणं भवेत् ।
अनागतादिलिङ्गांशे सयूथ्यकलहोऽस्ति हि ॥
अत एवानुमानानामपश्यन्तः प्रमाणताम् ।
तद्विस्रम्भनिषेधार्थमिदमाहुर्मनीषिणः ॥
हस्तस्पर्शादिनाऽन्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥
7 द्विविधं ह्यनुमानं स्यादिति प्राहुस्सुशिक्षिताः ।
यथोत्पन्नप्रतीत्येवं तथोत्पाद्यप्रतीति च ॥
तत्र धूमानुमानादेः प्रामाण्यमुपगम्यते ।
यतश्च साध्यं बुद्ध्यन्ते पुरुषाः कोमलाशयाः ॥
यत्त्वात्मेश्वरसर्वज्ञपरलोकादिगोचरम् ।
अनुमानं न तस्येष्टं प्रामाण्यं तत्त्वदर्शिभिः ॥
तस्माद्विदुर्वेदविदः धर्मब्रह्मादिगोचरम् ।
अनुमानं नोर्जितं स्यादिति शब्दं विधान्तरम् ॥
(75) अनुमानसमर्थनवादः.
1 अत्रोच्यते न्यायविद्भिर्युक्तिचिन्ताविशारदैः ।
तानेवानुसरद्भिश्च सर्वैर्दार्शनिकैः परैः ॥
अबलाबालगोपालहालिकप्रमुखा अपि ।
बुद्ध्यन्ते नियतादर्थादर्थान्तरमसंशयम् ॥
अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा ।
लोकयात्रेति लोकास्स्युः चित्रिता इव निश्चलाः॥
२ अत्रानुमानप्रामाण्यवादिनां वाक्यसंग्रहः ।
आदौ सौगतसिद्धान्तवचनं त्ववधार्यताम् ॥
अनुमानं ह्यर्थदृक्स्यात् या च लिङ्गात्त्रिलक्षणात्
इति दिङ्नागकथितं लक्षणं त्वित्यनूदितम् ॥
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥
कार्यकारणभावो हि प्रत्यक्षेणावगम्यते ।
तदुत्पत्त्याख्यसंबन्धादविनाभावनिश्चयः ॥
सहभावित्वमथवा क्रमभावित्वमेववा ।
कार्यकारणभावस्स्यान्नियमो नात्र गर्भितः ॥
यथा धूमज्वलनयोः सुबीजाङ्कुरयोरपि ।
भवेद्यद्यपि चाशङ्का पुरुषस्य विपश्चितः ॥
तदेवाशङ्क्यते लोके यस्य शङ्का न बाधते ।
स्वप्रवृत्त्यादिकं हेतुफलभावनिबन्धनम् ॥
तादात्म्यनिश्चयेनापि क्वचित्तादृशनिश्चयः ।
वृक्षशिंशपयोरेषः सामानाधिकरण्यतः ॥
अनुमानसमर्थनवादः ३६.
यत्र चात्यन्तभेदोऽस्ति गवाश्वादौ न तत्र हि ।
सामानाधिकरण्यं, तत् युगपन्न प्रयुज्यते ॥
अत्यन्ताभेदसत्त्वेन घटकुम्भादिवस्तुषु ।
सह प्रयोगो नैवास्ति नात्र तादात्म्यमिष्यते ॥
वृक्षोऽयं शिंशपेत्येवं प्रयोगो धीमतामपि ।
सामानाधिकरण्यं स्यात्तत्र तादात्म्यलक्षणम् ॥
वृक्षत्वं यद्यतिपतेत् शिंशपा कुत्रचित्तदा ।
स्वात्मानमेव संजह्यात् विपक्षे बाधकं न्विदम् ॥
तदुत्पत्तिः तदात्मत्वं अविनाभावबोधकम् ।
तत्कार्यं कारणं चात्मा स्वात्मानं साधयिष्यतः ॥
अनुमानं न प्रमाणमित्येवं चेत्प्रयुज्यते ।
एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेत् ॥
यदि च त्वाच्छिरस्कस्य प्रयोगः कस्यचित् तदा ।
स्वोक्तेरेव विरोधस्स्यात् माता वन्ध्या ममेतिवत् ॥
प्रमाणं च तदाभास सजातीयत्वहेतुना ।
ब्रुवन् स्वभावानुमानं स्वीकरोति भवानपि ॥
परकीयः संशयादिः ज्ञायते वचनाद्यदि ।
भवता स्वीकृतं तत्रानुमानं कार्यलिङ्गकम् ॥
तथैवानुपलब्ध्याऽपि कंचिदर्थं निषेधता ।
लिङ्गं ह्यनुपलब्ध्याख्यमगत्या स्वीकृतं भवेत् ॥
366 मानमेयरहस्यश्लोकवार्त्तिके
अत्रायं संग्रहश्लोकः तदुक्तः परिपठ्यते ।
प्रमाणान्तरसामान्यस्थितेरन्यधियां गतेः ॥
प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ।
प्रतिषेधः स्वभावान्तर्नीतोऽभावे निरूप्यते ॥
कृत्तिकोदयतः क्वापि रोहिण्युदयनिश्चयः ।
तत्कोष्ठगत्यनुविहितान्वयव्यतिरेकतः ॥
3 द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥
बुद्ध्यारूढेनैव धर्मधर्मिभावे न कल्पितम् ।
अनुमानं नैव बहिसदसत्त्वमपेक्षते ॥
निरुपप्लवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधोऽयत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥
यतश्च सविकल्पस्य प्रत्यक्षत्वं न चेष्यते ।
न तस्मादनुमानादेरुत्पत्तिः परमार्थतः ॥
4 न्यायरत्नाकरकृतामनूक्तिरवधार्यताम् ।
अनुमानं नैवमानमस्माकं परमार्थतः ॥
अवस्तुभूतसामान्यविषयत्वात्तथाऽपि च ।
तत्परंपरया वस्तुप्रभवं मानमिष्यते ॥
वह्निस्वलक्षणाद्धूमस्वलक्षणसमुद्भवः ।
ततश्च धूमप्रत्यक्षं ततो धूमविकल्पना ॥
अनुमानसमर्थनवादः 36
अनुमानं ततश्चं स्यात्तद्वस्तुप्रभवं ततः ।
वन्हेस्तु प्रतिबद्वस्य प्रतिलम्भनमुच्यते ॥
यद्वाष्पविषयाद्धूमविकल्पादुपजायते ।
वह्निज्ञानं, तन्न परंपरया प्रतिबध्यते ॥
वह्निनेति, न मानं तत् आभास इति गीयते ।
प्रतिबन्धपदार्थोऽपि सम्यग्व्युत्पादितोऽमतः ॥
व्यवहारविसंवादान्मानतेन्द्रियलिङ्गयोः ।
आप्तवादाविसंवादाच्छब्दः प्रामाण्यमृच्छति ॥
5 बौद्धाः प्रमेयद्वैविध्यात् प्रमाणं द्विविधं जगुः ।
नान्यः प्रमाणभेदस्य हेतुर्विषयभेदतः ॥
विशेषोऽध्यक्षतो गम्यः सामान्यमनुमानतः ।
नोभयं नोभयग्राह्यं पिष्टं पिष्टं नहीष्यते ॥
अतश्च नोपगच्छन्ति संप्लवं नीतिकोविदाः ।
एकस्मिन् विषयेऽनेकमानवृत्तिर्हि संप्लवः ॥
चोदनालक्षणत्वं च शास्त्रयोनित्वमेव च ।
धर्मस्य ब्रह्मणश्चापि तस्मादेवोपपादितम् ॥
समानविषयत्वे च जायेत सदृशी मतिः ।
नचाध्यक्षधिया साम्यमेति शब्दानुमानधीः ॥
तेजोऽन्यदेव नक्षत्रशशाङ्ककलादिषु ।
368 मानमेयरहस्यश्लोकवार्तिके
अन्यदेवेन्द्रियग्राह्यमन्यत् शब्दादिगोचरम् ।
शब्दात्प्रत्येति भिन्नाक्षः नतु प्रत्यक्षमीक्षते ॥
अन्यथैवाग्निसंसर्गाद्दाहं दग्धोऽनुमन्यते ।
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥
तस्मान्न संप्लवो नापि तृतीयं मानमिष्यते ।
प्रत्यक्षं च परोक्षं च मानं विषयभेदतः ॥
विकल्पविषये वृत्तिमाहुश्शब्दानुमानयोः ।
तेभ्यः संबन्धसिद्धौ च नानवस्था न संप्लवः ॥
यो वादिप्रतिवादिभ्यां निश्चितस्साधनं तु तत् ।
इत्युक्तवद्भिरप्येतैरसत्यात्सत्यधीर्मता ॥
अनुमानस्येत्थमेभिः प्रामाण्यं परिनिश्चितम् ।
तच्च सांवृतिकं वा सांव्यावहारिकमेववा ॥
6 अथ तार्किकसिद्धान्तसंग्रहोऽप्यत्र लिख्यते ।
व्याप्त्यतीचारशङ्केत्थं प्रत्युक्ता कुसुमाञ्जलौ ॥
शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कश्शङ्कावधिर्मतः ॥
अनुमानस्य बाधश्च नाध्यक्षात्किंतु तर्कतः ।
तत्र व्याप्त्याद्युपगमात् स्वव्याघातो दुरुत्तरः ॥
व्याघातो यदि दोषो न को वा दोषः उदीर्यताम् ।
अनुमानसमर्थनवादः ३६९
आशङ्का यदि निर्मूला सर्वत्र सुलभा हि सा ।
उत्प्रेक्षेत च यो मोहादज्ञातमपि बाधकम् ॥
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ।
इति पद्यं विश्रुतं हि यन्न्यायकणिकोदितम् ॥
व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा ।
हेतुर्व्याप्तिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः ॥
व्याघातो यदि शङ्काऽस्ति नचेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कश्शङ्काऽवधिः कुतः ॥
इत्थं खण्डनकारेण कुसृष्टिर्यैह कीर्तिता ।
सर्वार्थसिद्धौ शङ्कैषा प्रत्युक्ता सूरिभिर्यथा ॥
व्याघातनिर्धुता शङ्का व्याघाते सा कथं भवेत् ।
शब्दवैचित्र्यमात्रेण श्लोकस्तु परिवर्त्यते ॥
भूयोदर्शनतस्तत्र भवेच्छङ्कानिराक्रिया ।
तर्कस्तन्मूलभूतस्योपाधेरेव निवर्तकः ॥
निरुपाधिकसंबन्धो व्याप्तिरित्यत उच्यते ।
प्रायेण पक्ष एवैषोऽपूर्वरीत्याऽप्यनूद्यते ॥
न व्याप्तिर्नियमायोगादिति व्याप्तमिदं न वा ।
व्याप्तं चेत्स्वीकृता व्याप्तिः न व्याप्तं चेन्न दूषणम् ।
सर्वस्य व्यभिचारित्वे व्यभिचारो न सिद्ध्यति ।
एकस्याप्यव्यभिचारित्वे न सर्वव्यभिचारिता ॥
M.R. 47
370 मानमेयरहस्यश्लोकवार्तिके
भूयोदर्शनतस्तावदुदेति मतिरीदृशी ।
नियतोऽयमनेनेति सकलप्राणिसाक्षिका ॥
दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणका ।
अत्र च प्रक्रियासारः विश्रुतोऽथापि लिख्यते ॥
7 पञ्चलक्षणकाल्लिङ्गात् गृहीतानियमे स्मृतेः ।
परोक्षे लिङ्गिनि ज्ञानं अनुमानं प्रचक्षते ॥
व्याप्तिज्ञानं तु करणं फलं ह्यनुमितिर्मता ।
व्यापारस्तु परामर्शः जन्योऽपि जनकोऽपि सः ।
असाधारणहेतुर्यः करणं तदिहेष्यते ।
व्यापारवत्त्वं तस्येष्टमित्याहुर्नव्यतार्किकाः ॥
प्राचीनाः ज्ञायमानं तु लिङ्गं करणमूचिरे ।
अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ॥
इति नव्या दोषमाहुः समाधिस्तत्रचेरितः ।
अनागतादिलिङ्गेनानागतादेर्भवेद्धि सा ॥
व्याप्यत्वेन ज्ञायमानं हेतुत्वेनाभ्युपेयते ।
न धूलीपटलज्ञानादपि सा नोपपद्यते ॥
व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते ।
संबन्धग्रहवेलायां प्रथमं लिङ्गदर्शनम् ॥
या पक्षधर्मता सैव द्वितीयं लिङ्गदर्शनम् ।
परामर्शस्तृतीयं स्यात् तेनानुमितिसंभवः ॥
व्याप्तिस्मृतेः पक्षधर्मज्ञानाच्चानुमितिर्भवेत् ।
न विशिष्टपरामर्शादिति प्राभाकरा विदुः ॥
अख्यातिवादभङ्गायान्यथाख्यातिप्रसिद्धये ।
विशिष्टज्ञानजन्यत्वं साध्यते युक्तिवेदिभिः ॥
भेदाग्रहो हि गुरुभिः भ्रमस्थानेऽभिषिच्यते ।
वह्निव्याप्यो धूम एष हृद इत्यादिसंविदोः ॥
भेदाग्रहाच्चेदनुमा साऽन्यथाख्यातिरेव हि ।
विशिष्टबुद्धिः हेतुश्चेत् अयोगोलं च वह्निमत् ॥
इत्याद्यनुमितेर्हेतुः धूमधीरन्यथैव सा ।
सेयं चोभयतःपाशा रज्जुरित्यस्ति धीः भ्रमः ॥
सामान्यव्याप्तिसहितपक्षधर्मत्वधीबलात् ।
सामान्ये पक्षनिष्ठत्वं विशेषः किल साध्यते ॥
साध्यस्य संशयः पक्षतेति प्राचीनलक्षणम् ।
साधनेच्छाशून्यसिद्धेरभावो नव्यलक्षणम् ॥
धूमस्य पक्षता कैश्चित्प्राचीनैरुपवर्णिता ।
धूमोऽग्निमान् पाण्डुतादिविलक्षणगुणादिति ॥
जीमूताः वृष्टिमन्तः स्युः औन्नत्यादिगुणात्तथा
कुमारिलोऽप्यन्ववादीदित्थं हि श्लोकवार्तिके ॥
तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात्प्रमेयता ।
सा देशस्याग्नियुक्तस्य, धूमस्यान्यैश्च कल्पिता
372 मानमेयरहस्यश्लोकवार्तिके
8 शाक्यास्तु सविकल्पस्य प्रत्यक्षत्वं न मन्वते ।
एतेषामनुमानादेरुत्पत्तिर्नैव सिध्यति ॥
सति भावो न कार्यत्वं किंतु सत्येव भाविता ।
तस्माच्चेदविनाभावः स्यादात्माश्रयणं ध्रुवम् ॥
प्रमातुः शिंशपात्वं तु यस्य प्रत्यक्षगोचरः ।
परोक्षं तस्य वृक्षत्वमिति नातीव लौकिकम् ॥
कार्यकारणभावोऽपि क्षणयोर्नैव संभवी ।
संभवन्नपि दुर्लक्षः तन्न हेतुरसावपि ॥
सोपाधिका चेदाशङ्का स्यादुपाधिविधूननात् ।
निर्धुतैव भवेत्तेनोपाधितत्त्वं विमृश्यताम् ॥
(76) उपाधिवादः.
1 साध्येन च समं व्याप्तः साधनाव्यापकश्च यः ।
स उपाधिरिति ह्याहोदयनो न्यायदेशिकः ॥
सिषाधयिषिते शब्दानित्यत्वे हि विशेषणैः ।
घटत्वमश्रावणत्वं सकर्तृत्वं च वार्यते ॥
वह्नौ साध्ये निवार्यन्ते तथैवैतैर्विशेषणैः ।
महानसत्वाद्व्र्व्यत्वतत्सामग्र्य इति क्रमात् ॥
2 साध्यस्य साधनस्यापि व्यापकोऽव्यापकः क्रमात्
उपाधिरिति वादीन्द्रः प्राह शंकरकिंकरः ॥
उपाधिवादः 373
3 उपाधिशब्दप्रवृत्तिनिमित्तमिदमुच्यते ।
अन्यत्र वस्तुनि स्वीयधर्मस्यारोपहेतुता ॥
जपायुपाधिः स्फटिकारुण्यबुद्धेर्हि तादृशः ।
दर्पणो मुखमालिन्यबुद्धेश्चोपाधिरिष्यते ॥
तथा स्वधर्मभूतायाः व्याप्तेः बुद्धिं करोति या ।
मैत्रीसुतत्वे हेतौ सा शाकपाकजता मता ॥
निरुपाधिकसंबन्धरूपव्याप्तिपरिग्रहात् ।
उपाधिशब्दाभिधेयापरित्यागेन दूषणे ॥
तात्पर्यं समशब्दस्य प्रयोक्तॄणां प्रतीयते ।
इतरेषां तु तात्पर्यमेतदध्यवसीयते ॥
व्यापकस्य निवृत्त्यैव व्याप्यं हि विनिवर्तते ।
पक्षे साध्यस्य बाधेनोपाधेर्दूषणता मता ॥
व्यर्थस्स्यात्समशब्दस्य प्रयोग इति निर्णयः ।
4 व्यभिचारोन्नायकत्वेनोपाधेर्दूषकात्मता ॥
नव्यनैयायिकैरुक्ता सा किंचिदुपदर्श्यते ।
हेतुस्त्वसौ साध्यव्यापकोपाधिव्यभिचारतः ॥
साध्येन व्यभिचारी स्यात् यदित्थं तत्तथेष्यते ।
एवं सामान्यमुखतः दोषस्योन्नयनं विदुः ॥
5 स उपाधिशङ्कितश्च निश्चितश्चेति च द्विधा ।
योग्यं चायोग्यमिति च द्वयं चोभयथा मतम् ॥
374 मानमयरहस्यश्लोकवार्तिकं
योग्यं योग्यानुपलब्ध्याऽयोग्यं तर्केण धूयते ।
भूयोदर्शनतश्शक्या दृश्योपाधेः निराक्रिया ॥
अदृश्योपाधिशङ्का तु तर्कैरिति विदुः परे ।
उपाधित्वेन शङ्क्यस्य संबन्धो निरुपाधिकः ॥
अन्यथोपाधिता नास्ति तद्वदन्यत्र गृह्यताम् ।
अप्रयोजकताहेतुरुपाधिरिति निर्णयः ॥
यत्रानुकूलतर्कस्यासंभवस्सोऽप्रयोजकः ।
6 नोपाधिः पक्षतोऽन्यत्वं साधनं च विपक्षतः ॥
बाधनं न सपक्षेभ्यः सर्वानुमितिबाधनात् ।
पक्षाद्भेदः विपक्षाच्च भेदः भेदः सपक्षतः ॥
नोपाधिर्न च हेतुस्स्यात्प्रतिरोधो नचैव हि ।
नोपाधिरिति पद्यस्य फलितार्थस्त्वसौ स्थितः ।
भूयोदर्शनतो व्याप्तिग्रहो न्यायविदीरितः ।
सकृद्दर्शनतो व्याप्तिग्रहस्स्यादेकदेशिनाम् ॥
7 व्याप्याङ्गीकरणेऽनिष्टव्यापकस्य प्रसञ्जनम् ।
तर्कस्स चोभयविधविषयोपेत इष्यते ॥
प्रामाणिकपरित्यागोऽप्रामाणिकपरिग्रहः ।
एष चात्माश्रयान्योन्याश्रयचक्रकभेदतः ॥
प्रतिबन्धनवस्था च तथाऽनिष्टप्रसञ्जनम् ।
इत्येवंभेदतश्चापि प्रोक्तः षड्धा च पञ्चधा ॥
लिङ्गविचारः ३
व्याप्तिः तर्काप्रतिहतिः अवसानं विपर्यये ।
अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ॥
गौरवं लाघवं चेति तर्कः सार्वत्रिकावुभौ ।
गौरवं कल्पनाधिक्यं लाघवं त्वल्पकल्पना ॥
तर्कशब्दं पुनः केचिदनुमाने प्रयुञ्जते ।
अनुमानविशेषोऽयमिति केचित्प्रचक्षते ॥
सहकार्यनुमानस्य मानस्येति विदुः परे ।
तर्कः पृथक् मानमिति प्राहुर्जैनविपश्चितः ॥
४ व्याघातपर्यवसितं सर्वं दूषणमिष्यते ।
उपलम्भे त्ववसितं सर्वं साधनमुच्यते ॥
(77) लिङ्गविचारः.
1 लिङ्गं व्याप्यं च हेतुश्चोपपत्तिर्युक्तिरेवच ।
साधनं स्थापना चेति पर्याय इति निर्णयः ॥
अन्यथाऽनुपपत्त्येकलक्षणं लिङ्गमिष्यते ।
पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताऽनुमा ॥
सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ।
प्रयोगपरिपाटी तु प्रतिपाद्यानुसारतः ॥
प्रतिज्ञा हेतुरेवेति द्वयस्यैव प्रयोज्यता ।
व्युत्पादनाय मन्दानां दृष्टान्तादेरपीष्यते ॥
376 मानमेयरहस्यश्लोकवार्तिके
2 इत्यार्हतानां सिद्धान्तः ह्यथ वेदान्तिभिः परैः ।
व्याप्तिश्च पक्षधर्मत्वं उभयं लिङ्गलक्षणम् ॥
व्याप्त्यभावे पुनर्व्याप्यत्वासिद्धिरिति निश्चिता ।
पक्षधर्मत्वस्य हानौ स्वरूपासिद्धिरिष्यते ॥
अव्याप्तापक्षधर्मौ द्वौ हेत्वाभासौ समासतः ।
तयोरेव प्रपञ्चेन स्यादसिद्धादिकल्पना ॥
इति न्यायपरिशुद्धिकारसिद्धान्तसंग्रहः ।
व्याप्तिस्तथा समुचितदेशवृत्तित्वमेव च ॥
द्वयं प्रमाणपद्धत्यां लिङ्गरूपं निरूपितम् ।
3 अथ त्रिलक्षणविदामेतद्वार्त्सीभुवां मतम् ॥
पक्षे सत्त्वं सपक्षे च सत्त्वं चैव विपक्षतः ।
व्यावृत्तत्वमिति त्रीणि लिङ्गरूपाणि ते विदुः ॥
हेत्वाभासा अपि ततस्त्रय एव हि तन्मताः ।
आभासोऽपि हि सर्वत्र स्वस्वरूपविपर्ययः ॥
4 पञ्चलक्षणकं लिङ्गमाहुर्न्यायविदः पुनः ।
पक्षे सत्त्वं सपक्षे च सत्त्वमेवं विपक्षतः ॥
व्यावृत्तत्वं तथैवासत्प्रतिपक्षत्वमेव च ।
अबाधितत्वमित्येतदत्र लक्षणपञ्चकम् ॥
5 एकैकापायतस्तेषां हेत्वाभासास्तु पञ्चधा ।
अत्रार्हतस्याक्षेपोऽयं देवसूरेर्निशम्यताम् ॥
लिङ्गविचारः 377
अज्ञातस्य हि लिङ्गस्य हेतुता न च कस्यचित् ।
प्रसज्यते तार्किकाणां ज्ञातत्वमधिकं ततः ॥
हेतोश्च ज्ञापकत्वेन ज्ञातत्वं यदि लभ्यते ।
विपक्षव्यावृत्तिमात्रादबाधोप्यत्र लभ्यते ॥
अन्यथानुपपत्त्यैकरूपस्यैतत्प्रपञ्चनम् ।
षड्रूपता तथा पञ्चरूपता वा त्रिरूपता ॥
6 यन्न्यायपरिशुद्धयुक्तमन्यथारूपपञ्चकम् ।
तदप्यत्रावधातव्यं प्रक्रियामात्रभेदतः ॥
असिद्धार्थत्वं च साध्यज्ञापनाय प्रवृत्तता ।
विशिष्यानास्कन्दितता व्याप्तिग्राहकमानतः ॥
संदिह्यमानविषयवत्ता व्यक्तिविभिन्नता ।
पक्षस्थहेतुव्यक्तौ स्यादित्येतद्रूपपञ्चकम् ॥
दृष्टान्तव्यक्तिवृत्तौ तु हेतौ तेषां विपर्ययः ।
सिद्धार्थत्वादिकं रूपपञ्चकं तत्र शाश्वतम् ॥
ततश्च दश रूपाणि सद्धेतोरसतः पुनः ।
न्यूनानीति विदुर्धीराः व्यासाभिरुचयस्तु ते ॥
7 लिङ्गं तु त्रिविधं कार्यस्वभावानुपलब्धयः ।
इति वैभाषिकाः प्राहुरिति सर्वत्र विश्रुतम् ॥
पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः ।
378 मानमेयरहस्यश्लोकवार्तिके
हेतुबिन्दुवचस्त्वेतत्कीर्तितं धर्मकीर्तिना ।
स एव भिक्षुः बहुधा कुमारिलहृदिस्थितः ॥
यद्यप्यनुपलब्धिस्सा स्वभावान्तर्निपातिनी ।
तथापि प्रतिषेधस्य साधनात्पृथगुच्यते ॥
सा चैकादशधेत्येके परे षोडशधेति च ।
प्राहुर्विभागवैचित्र्यात् पृथक्कृतिफलं न्विदम् ॥
तथा प्रसङ्गानुमानं तद्विपर्यय इत्यपि ।
विभागोऽस्ति तदर्थं तु वक्तीत्थं किरणावली ॥
तत्स्वभावानुमानं यत् प्रसङ्ग इति कथ्यते ।
व्यापकानुपलब्धिर्या स विपर्यय इष्यते ॥
8 मात्रानिमित्तसंयोगिविरोधिसहचारिभिः ।
स्वस्वामिवध्यघाताद्यैः सांख्यानां सप्तधाऽनुमा ॥
9 अस्येदं कारणं कार्यं संबन्ध्येकार्थयोगिता ।
विरोधि लैङ्गिकमिति चतुर्धा कणभोजिनाम् ॥
10 इति वाचस्पतिः प्राह नैयायिकमते पुनः ।
पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्त्रिधा ॥
इत्यक्षपादसूत्रोक्तं कार्यं कारणमेवच ।
अकार्यकारणं चेति तस्यार्थः कैश्चिदिष्यते ॥
11 तथैव शाबरे भाष्ये त्वौपवर्षं द्विधेरितम् ।
यथा प्रत्यक्षतोदृष्टसंबन्धं प्रथमं मतम् ॥
परं सामान्यतोदृष्टसम्बन्धमिति कीर्तितम् ।
विशेषतोदृष्टमेव प्रत्यक्षत इतीर्यते ॥
सामान्यतोदृष्टमेव स्याद्वैभाषिकसम्मतम् ।
परोक्षमानं सामान्यगोचरन्विति तन्मतम् ॥
वैशेषिकादयस्तत्र त्वित्थं व्यवहरन्ति हि ।
दृष्टं चादृष्टमिति च शब्दमात्रप्रभेदतः ॥
12 सामान्यतोदृष्टमेव द्वितीयमिह कथ्यते ।
तदेव परिशेषानुमानं व्याख्यातृसम्मतम् ॥
क्रियादिविषयादृष्टस्वलक्षणमितीतरे ।
दृष्टस्वलक्षणं सर्वमिति केचित् विदुः परे ॥
तेन सामान्यतोदृष्टं दृष्टं चापि विशेषतः ।
इति द्विधाऽनुमानं स्यादितरेषां विपश्चिताम् ॥
साङ्ख्या गोहिं विज्ञानं दृष्टमित्यभिधीयते ।
अत्यन्तजात्यभेदेऽपिचानुमानं तदिष्यते ॥
अत्यन्तजातिभेदे तु दृष्टं सामान्यतो मतम् ।
यथा प्रवृत्तिस्सफला वणिक्कर्षकभूभुजाम् ॥
तथा वर्णाश्रमवतां दृष्टार्थानभिलाषिणाम् ।
इति प्रशस्तपादेन द्वयमेतदुदाहृतम् ॥
दृष्टं वह्न्यादिकं तत्रादृष्टं कर्मादिकं त्विति ।
अनुमानप्रमेयं च द्विविधं गुरवो विदुः ॥