मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 404, कुल 672 में से
संदर्भ में पढ़ें62 मानमेयरहस्यश्लोकवार्तिके
न हेतोरन्वयस्तत्र व्यतिरेकोऽपि बाधितः ।
द्वये तु साध्ये द्वयमप्यसिद्धं स्यादसंशयम् ॥
विशिष्टस्य तु साध्यत्वे न प्राक्तद्धर्मताग्रहः ।
अतश्च पक्षधर्मत्वं केचिन्नेच्छन्ति सूरयः ॥
ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्मीभिधीयते ।
व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् ॥
5 अनुमानप्रयोगोऽपि चादौ कर्तुं न शक्यते ।
मिथोविरुद्धाङ्गीकारप्रचुरौ वादिनाविह ॥
शब्दो द्रव्यं वेदविदां गुणो न्यायविदां मतः ।
पञ्चभूतगुणोऽन्येषां परेषां नाभसो गुणः ॥
वृक्षादिशब्दाः स्फोटस्य विवर्त इति शाब्दिकाः ।
गुणद्रव्यविभागं च केचिन्नेच्छन्ति पण्डिताः ॥
एवमेव हि सर्वं च वस्तु तैस्तैर्विकल्प्यते ।
कः पक्षः किंचवा साध्यं को हेतुः द्वयसम्मतः ॥
सर्वत्रान्यतरासिद्धेरनुमानकथा वृथा ।
सामान्येन प्रयोगस्तु केवलं कण्ठशोषकृत् ॥
6 व्यवहारोऽध्यक्षशक्त्या कृतार्थो ह्यानुमानिकः ।
इन्द्रियं धूमसंयुक्तं वह्निं गमयति स्फुटम् ॥
व्याप्तिश्च पक्षधर्मत्वं स्यातां तत्सहकारिणी ।
तथैवापमितिश्शाब्दी सर्वा प्रत्यक्षमिष्यते ॥