मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 421, कुल 672 में से
संदर्भ में पढ़ेंपरं सामान्यतोदृष्टसम्बन्धमिति कीर्तितम् ।
विशेषतोदृष्टमेव प्रत्यक्षत इतीर्यते ॥
सामान्यतोदृष्टमेव स्याद्वैभाषिकसम्मतम् ।
परोक्षमानं सामान्यगोचरन्विति तन्मतम् ॥
वैशेषिकादयस्तत्र त्वित्थं व्यवहरन्ति हि ।
दृष्टं चादृष्टमिति च शब्दमात्रप्रभेदतः ॥
12 सामान्यतोदृष्टमेव द्वितीयमिह कथ्यते ।
तदेव परिशेषानुमानं व्याख्यातृसम्मतम् ॥
क्रियादिविषयादृष्टस्वलक्षणमितीतरे ।
दृष्टस्वलक्षणं सर्वमिति केचित् विदुः परे ॥
तेन सामान्यतोदृष्टं दृष्टं चापि विशेषतः ।
इति द्विधाऽनुमानं स्यादितरेषां विपश्चिताम् ॥
साङ्ख्या गोहिं विज्ञानं दृष्टमित्यभिधीयते ।
अत्यन्तजात्यभेदेऽपिचानुमानं तदिष्यते ॥
अत्यन्तजातिभेदे तु दृष्टं सामान्यतो मतम् ।
यथा प्रवृत्तिस्सफला वणिक्कर्षकभूभुजाम् ॥
तथा वर्णाश्रमवतां दृष्टार्थानभिलाषिणाम् ।
इति प्रशस्तपादेन द्वयमेतदुदाहृतम् ॥
दृष्टं वह्न्यादिकं तत्रादृष्टं कर्मादिकं त्विति ।
अनुमानप्रमेयं च द्विविधं गुरवो विदुः ॥