मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 415, कुल 672 में से
संदर्भ में पढ़ेंउपाधिवादः 373
3 उपाधिशब्दप्रवृत्तिनिमित्तमिदमुच्यते ।
अन्यत्र वस्तुनि स्वीयधर्मस्यारोपहेतुता ॥
जपायुपाधिः स्फटिकारुण्यबुद्धेर्हि तादृशः ।
दर्पणो मुखमालिन्यबुद्धेश्चोपाधिरिष्यते ॥
तथा स्वधर्मभूतायाः व्याप्तेः बुद्धिं करोति या ।
मैत्रीसुतत्वे हेतौ सा शाकपाकजता मता ॥
निरुपाधिकसंबन्धरूपव्याप्तिपरिग्रहात् ।
उपाधिशब्दाभिधेयापरित्यागेन दूषणे ॥
तात्पर्यं समशब्दस्य प्रयोक्तॄणां प्रतीयते ।
इतरेषां तु तात्पर्यमेतदध्यवसीयते ॥
व्यापकस्य निवृत्त्यैव व्याप्यं हि विनिवर्तते ।
पक्षे साध्यस्य बाधेनोपाधेर्दूषणता मता ॥
व्यर्थस्स्यात्समशब्दस्य प्रयोग इति निर्णयः ।
4 व्यभिचारोन्नायकत्वेनोपाधेर्दूषकात्मता ॥
नव्यनैयायिकैरुक्ता सा किंचिदुपदर्श्यते ।
हेतुस्त्वसौ साध्यव्यापकोपाधिव्यभिचारतः ॥
साध्येन व्यभिचारी स्यात् यदित्थं तत्तथेष्यते ।
एवं सामान्यमुखतः दोषस्योन्नयनं विदुः ॥
5 स उपाधिशङ्कितश्च निश्चितश्चेति च द्विधा ।
योग्यं चायोग्यमिति च द्वयं चोभयथा मतम् ॥