मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 406, कुल 672 में से
संदर्भ में पढ़ेंअबलाबालगोपालहालिकप्रमुखा अपि ।
बुद्ध्यन्ते नियतादर्थादर्थान्तरमसंशयम् ॥
अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा ।
लोकयात्रेति लोकास्स्युः चित्रिता इव निश्चलाः॥
२ अत्रानुमानप्रामाण्यवादिनां वाक्यसंग्रहः ।
आदौ सौगतसिद्धान्तवचनं त्ववधार्यताम् ॥
अनुमानं ह्यर्थदृक्स्यात् या च लिङ्गात्त्रिलक्षणात्
इति दिङ्नागकथितं लक्षणं त्वित्यनूदितम् ॥
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥
कार्यकारणभावो हि प्रत्यक्षेणावगम्यते ।
तदुत्पत्त्याख्यसंबन्धादविनाभावनिश्चयः ॥
सहभावित्वमथवा क्रमभावित्वमेववा ।
कार्यकारणभावस्स्यान्नियमो नात्र गर्भितः ॥
यथा धूमज्वलनयोः सुबीजाङ्कुरयोरपि ।
भवेद्यद्यपि चाशङ्का पुरुषस्य विपश्चितः ॥
तदेवाशङ्क्यते लोके यस्य शङ्का न बाधते ।
स्वप्रवृत्त्यादिकं हेतुफलभावनिबन्धनम् ॥
तादात्म्यनिश्चयेनापि क्वचित्तादृशनिश्चयः ।
वृक्षशिंशपयोरेषः सामानाधिकरण्यतः ॥