मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 410, कुल 672 में से
संदर्भ में पढ़ें368 मानमेयरहस्यश्लोकवार्तिके
अन्यदेवेन्द्रियग्राह्यमन्यत् शब्दादिगोचरम् ।
शब्दात्प्रत्येति भिन्नाक्षः नतु प्रत्यक्षमीक्षते ॥
अन्यथैवाग्निसंसर्गाद्दाहं दग्धोऽनुमन्यते ।
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥
तस्मान्न संप्लवो नापि तृतीयं मानमिष्यते ।
प्रत्यक्षं च परोक्षं च मानं विषयभेदतः ॥
विकल्पविषये वृत्तिमाहुश्शब्दानुमानयोः ।
तेभ्यः संबन्धसिद्धौ च नानवस्था न संप्लवः ॥
यो वादिप्रतिवादिभ्यां निश्चितस्साधनं तु तत् ।
इत्युक्तवद्भिरप्येतैरसत्यात्सत्यधीर्मता ॥
अनुमानस्येत्थमेभिः प्रामाण्यं परिनिश्चितम् ।
तच्च सांवृतिकं वा सांव्यावहारिकमेववा ॥
6 अथ तार्किकसिद्धान्तसंग्रहोऽप्यत्र लिख्यते ।
व्याप्त्यतीचारशङ्केत्थं प्रत्युक्ता कुसुमाञ्जलौ ॥
शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कश्शङ्कावधिर्मतः ॥
अनुमानस्य बाधश्च नाध्यक्षात्किंतु तर्कतः ।
तत्र व्याप्त्याद्युपगमात् स्वव्याघातो दुरुत्तरः ॥
व्याघातो यदि दोषो न को वा दोषः उदीर्यताम् ।