सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

340 मानमेयरहस्यश्लोकवार्तिके
वर्तमानैकनिष्ठं चेत् स्थिरत्वं तर्हि सुस्थिरम् ।
कालत्रयपरीतं चेत् विरोधात्तत्तु दुर्लभम् ॥
परस्परपरित्यागव्यवस्थितनिजात्मनाम् ।
एकत्र न समावेशः कथंचिदुपपद्यते ॥
स्मरणप्रत्यभिज्ञानस्वकर्मफलभोक्तृता ।
क्षणिकत्वेऽपि कथिता कार्यकारणभावतः ॥
2 क्षणभङ्गानुमानं च क्षणवादे निरूपितम् ।
तन्निरासांशसारोऽत्र संक्षिप्य प्रतिपाद्यते ॥
अर्थक्रियासमर्थत्वं सत्त्वं यत्तावदुच्यते ।
तदसत्कूटहेमादौ व्यभिचारावधारणात् ॥
किंत्वबाधितसद्बुद्धिगम्यता सत्त्वमिष्यते ।
क्वचिच्च कालदेशादिनिबन्धनमपीष्यते ॥
अर्थक्रियासमर्थस्य तदुत्थं सत्त्वमस्तु वा ।
तदपि व्याप्तिशून्यत्वात् न हेतुर्गन्धवत्त्ववत् ॥
क्षणिकस्यापि भावस्य सत्त्वं नास्त्येव सोऽपिहि ।
क्रमेण युगपद्वापि न कार्यकारणे क्षमः ॥
क्षणिकस्य क्रमः कीदृक् युगपत्करणे पुनः ।
एकवस्त्वात्मकस्यापि रूपभेदः प्रसज्यते ॥
कार्याण्येकेन रूपेण भिन्नानि जनयेत्कथम् ।
रूपभेदविरोधात्तु वस्तुनो नास्तिता भवेत् ॥

क्षणभङ्गवादनिरासः 341
देशकालविकल्पेऽपि क्षणस्य क्षुण्णता भवेत् ।
स्थिते हि वस्तुसद्भावे क्षणिकत्वं परीक्ष्यते ॥
३ क्षणिकत्वे पदार्थानां कारणत्वं च दुर्ग्रहम् ।
सर्वथा परनिष्पत्तौ निर्व्यापारो न कारणम् ॥
पूर्वक्षणविनाशे च कल्प्यमाने निरन्वये ।
उत्तरस्यानिमित्तत्वात् उत्पत्तिर्नोपपद्यते ॥
अत्यन्तासन्नसौ तस्मिन् न तावद्व्यापृतिक्षमः ।
स्वयं चाभावदृष्टत्वात् कस्मिन् काले करिष्यति ॥
नाशोत्पादसमत्वेऽपि नैरपेक्ष्यात्परस्परम् ।
न कार्यकारणत्वे स्तः तद्व्यापाराननुग्रहात् ॥
न ह्यलब्धात्मकं वस्तु पराङ्गत्व्याय कल्पते ।
तस्मात्प्राक्कार्यनिष्पत्तेः व्यापारो यत्र दृश्यते ।
तदेव कारणं तस्य न त्वानन्तर्यमात्रकम् ।
सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ॥
सत्त्वादक्षणिकत्वस्य सिद्धेर्हेतुर्विरुध्यते ।
एवं च सत्त्वं व्यावृत्तं क्षणिकेभ्यो विशेषतः ॥
अत एव च कार्याणां युगपन्न समुद्भवः ।
न चापि कृत्वा करणं सामग्री हि न सर्वदा ॥
प्राणिकर्मविपाकोऽपि सामग्र्यन्तर्गतो मतः ।
सर्वत्र सुखदुःखादिहेतोस्समुपपादनात् ॥

342 मानमेयरहस्यश्लोकवार्तिके

समर्थत्वासमर्थत्वविकल्पेऽतिप्रसङ्गतः ।
सामग्र्या एव सामर्थ्यं ततः कार्यस्य दर्शनात् ।
विनश्वरस्वभावेति यदुक्तं तत्र चिन्त्यताम् ।
जायमानस्वभावत्वे कृतं जननहेतुभिः ॥
नाजायमानभावेऽपि कर्तुं शक्यो नृशृङ्गवत् ।
तस्मात्स्वभावयोगेऽपि व्यवस्था सहकारिभिः ॥
5 स एवायमिति ज्ञानं प्रत्यभिज्ञेति कीर्त्यते ।
यः पूर्वमासीत्कुम्भादिः सोऽस्तीदानीमपीति हि
अतीतकालवानर्थः तद्बुद्धाववभासते ।
भूतः कालो भूततया विषयीक्रियते तथा ॥
अतीतस्येन्द्रियज्ञाने कथं विषयतेति चेत् ।
शतमाम्रान् बभक्षेति कथमत्र प्रतीयते ॥
अतीतैकोनशतकरसालफलगोचरा ।
यथा तथाऽतीतकालयोगोऽपि प्रतिभासताम् ॥
प्रतिभाससमारूढः प्रत्यभिज्ञायते यदा ।
तदेन्द्रियार्थसंसर्गाच्चैका धीरुपजायताम् ॥
अथवा प्रत्यभिज्ञानं गन्धवत्कुन्दबुद्धिवत् ।
तच्चैकं मानसं ज्ञानं पूर्वज्ञानविशेषिते ॥
अथ सन्तानमाश्रित्य क्रियते तत्समर्थनम् ।
न, तस्य भिन्नाभिन्नत्वविकल्पानुपपत्तितः ॥

क्षणभङ्गवादनिरासः 343
6 सद्यो जातस्य हि शिशोः मुखोल्लासादिहेतुभिः ।
हर्षशोकादियोगश्च भवतीत्यनुमीयते ॥
तस्मान्मुखविकासादेः हर्षादिः तस्य हि स्मृतिः ।
स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः ॥
तस्मात् स्मृतिप्रत्यभिज्ञाप्रामाण्यात् जगतः स्थितिः
न तत्प्रामाण्यसंत्यागी लौकिको नाप्यलौकिकः ॥
सहकारिविशेषस्य सन्निधेरप्यसन्निधेः ।
करणाकरणे स्यातां तौ च कालविभेदतः ॥
कालद्वयविरोधस्तु स्वव्यपेक्षानिबन्धनः ।
अन्यापेक्षौ च तौ पूर्वापरौ संभवतस्सदा ॥
अतत्तामनिदंतां च तत्त्वेदंत्वे निरस्यतः ।
अन्योन्यप्रतिषेधस्तु न ततस्सेद्धुमर्हति ॥
एकस्य भिन्नकालाभ्यां वैशिष्ट्यं विहतं यदि ।
तथा स्याद्भिन्देशाभ्यां पुञ्जसिद्धिविरुध्यते ॥
पूर्वापरबहुव्यक्तिव्याप्तिग्रहणसंभवा ।
न काचिदपि युक्तिस्स्यात् सर्वक्षणिकवादिनेः ॥
न वैजात्यं विना तत्स्यात् न तस्मिन्ननुमा भवेत् ।
विना तेन न तत्सिद्धं नाध्यक्षं निश्चयं विना ॥
7 अत्र केचित् क्षणविदः सत्त्वाख्यं साधनं पुनः ।
नित्यतत्त्वोपदेशेन भवेदागमबाधितम् ॥

344 मानमेयरहस्यश्लोकवार्तिके
तच्च शून्यं तत्त्वमिति मत्वा हेत्वन्तरं विदुः ।
तदेतद्ध्रुवभावित्वं ध्वंसस्य प्राङ्निरूपितम् ॥
ततश्च सर्वभावानां क्षणिकत्वं व्यवस्थितम् ।
तदेतद्ध्रुवभावित्वं विकल्पासहमित्यपि ॥
न्यायसिद्धाञ्जनग्रन्थे विस्तरेण निरूपितम् ।
इति ज्ञानप्रसङ्गेन क्षणभङ्गो निरूपितः ॥
अनिर्वाच्यमनित्यं च क्षणिकं चेति भेदतः ।
विदुः प्रपञ्चं विबुधाः तथाऽन्येऽप्यन्यथा विदुः ॥
सर्वे ते प्रतिषेद्धारः स्थिरतां रागकारिणीम् ।
व्यतिरेकदृशां सर्वमेकस्मिन् पर्यवस्यति ॥
8 बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते ।
अतो निरभिलप्यास्ते निस्स्वभावाश्च दर्शिताः ॥
इति पद्यं गौतमेन न्यायसूत्रे निराकृतम् ।
प्रमाणतोऽर्थोपलब्धेरिति, तद्भाष्यसंग्रहः ॥
बुद्ध्या विवेचनादेव भावयाथात्म्यनिर्णयः ।
यदस्ति च यथा चेति यन्नास्ति च यथा चवा ॥
सर्वं प्रमाणबलतः उपलब्ध्याैव सिद्धयति ।
प्रमाणतो योपलब्धिः सा स्याद्बुद्ध्या विवेचनम्।
तेनैव सर्वशास्त्राणि सर्वकर्माणि देहिनाम् ।
सर्वे च व्यवहारास्स्युर्व्याप्तास्तत्सर्वसाक्षिकम् ॥

प्रत्यक्षवादः 34
परीक्षमाणो भावांस्तु विद्वान् बुद्ध्याऽध्यवस्यति
इदमस्ति तथा चेदं नास्तीति निरुपद्रवम् ॥
सर्वभावास्स्वभावास्स्वभिलप्या इति स्थितम्।
एवं क्रमेण प्रायेण सौगताः प्रत्यवस्थिताः ॥
(71) प्रत्यक्षवादः.
1 अथ प्रमाणभेदानां विचारोऽत्र प्रवर्तते ।
प्रत्यक्षस्य च तत्रादौ विकल्पः प्रविभज्यते ॥
अक्षं प्रतिगतं यत्र सा धीः प्रत्यक्षमुच्यते ।
तां हि चक्षुः जनकतासम्बन्धेनानुगच्छति ॥
विषयेऽपि प्रतिगतमक्षं तेनेत्थमुच्यते ।
प्रत्यक्षः पुरुषः योषा प्रत्यक्षेति बुधैरिह ॥
इन्द्रिये संनिकर्षे वा तत्सम्बन्धात्प्रयुज्यते ।
न च युक्तोऽव्ययीभाव इत्याह न्यायमञ्जरी ॥
2 प्रत्यक्षमेवानुभव इति लौकायतं मतम् ।
परोक्षमनुमित्यादिज्ञानं स्मृतिसमुच्चयः ॥
अनुमानं स्मृतिः प्रत्युत्पन्नकारणसंभवा ।
इति प्राभाकराः प्राहुरित्यपि ज्ञायते क्वचित् ॥
परोक्षमेव विज्ञानं तद्धि स्यादानुमानिकम् ।
प्रत्यक्षमेव नास्तीति सौत्रान्तिकमुखा विदुः ॥
M.R. 44

346 मानमेयरहस्यश्लोकवार्तिके
प्रत्यक्षं च परोक्षं चानुभवद्वितयं परे ।
वैभाषिकं मतं त्वेतद्वैशेषिकमपि स्मृतम् ॥
प्रत्यक्षं च परोक्षं चापरोक्षमिति च त्रिधा ।
मानं विभज्य स्वात्मानमपरोक्षं विदुः परे ॥
कल्पनापोढमभ्रान्तं प्रत्यक्षं तच्चतुर्विधम् ।
आद्यमिन्द्रियजं तादृङ्मनोजातं द्वितीयकम् ॥
इन्द्रियोत्थं निर्विकल्पं मन इत्युच्यते हि तैः ।
अनन्तरप्रत्ययोऽपि संपूर्वस्स हि कथ्यते ॥
आत्मसंवेदनं चित्तचैत्तानां स्यात्तृतीयकम् ।
भावनाबलजं योगिज्ञानं तुर्यं प्रकीर्तितम् ॥
इति वैभाषिकैकान्तः न्यायबिन्दादिषु स्थितः ।
बाह्यमाभ्यन्तरं चेति द्विधा तदिति तार्किकाः ॥
लौकिकं चालौकिकमित्युभयं द्विविधं मतम् ।
लौकिकं षड्विधं ज्ञेयं त्रिविधं स्यादलौकिकम् ॥
3 तत्प्रत्यक्षं निर्विकल्पं सविकल्पमिति द्विधा ।
अलौकिकं स्मृतिर्वाऽनुमानं वा वेदविन्मतम् ॥
मनसा युज्यते ह्यात्माऽथेन्द्रियेण मनस्तथा ।
अर्थेन चेन्द्रियं तस्मात्प्रत्यक्षं न्यायविन्मतम् ॥
सामान्यं वा विशेषो वा किं स्यात्प्रत्यक्षगोचरः ।
इत्यत्रापि विकल्पोऽस्ति प्रसङ्गात्किंचिदुच्यते ॥

प्रत्यक्षवादः 347
विशेषमात्रविषयं निर्विकल्पकमेव तत् ।
प्रत्यक्षमिति ते प्राहुः ये वैभाषिकसौगताः ॥
सामान्यविषयं यत्स्यात् तत्परोक्षमितीर्यते ।
अतः प्रमाणद्वितयं प्रमेयमपि च द्विधा ॥
स विशेषो निर्विकल्पविषयः यत्स्वलक्षणम् ।
स्वतः स्वभिन्नात्सर्वस्माद्व्यावृत्तं हि स्वलक्षणम् ॥
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो न दृष्टो भागस्स्यात् यः प्रमाणैः परीक्ष्यते
यद्यप्यपोहनिर्मुक्ते न वृत्तिश्शब्दलिङ्गयोः ।
युक्ता तथाऽपि बुद्धिस्तु ज्ञातुः वस्त्ववलम्बते ॥
अनादिवासनादोषात् व्यवहारव्यवस्थितिः ।
परीक्षकपरीक्षायामपोहे पर्यवस्यति ॥
सामान्यमात्रविषयं प्राहुस्सन्मात्रवादिनः ।
महासामान्यमेतत्तु द्रव्यं ब्रह्मेति कीर्त्यते ॥
सविकल्पकमेवैकं प्रत्यक्षं न द्विधा मतम् ।
शब्दानुवेधात्सर्वत्र तादृशं हीति शाब्दिकाः ॥
न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन गृह्यते ॥
4 अथ तार्किकसिद्धान्ते तत्स्वरूपपरिष्कृतिः ।
विशेष्यत्वप्रकारत्वसंसर्गत्वाभिधैः त्रिभिः ॥

348 मानमेयरहस्यश्लोकवार्तिके
विषयत्वैर्निरूप्यं यत्तदेव सविकल्पकम् ।
विशिष्टविषयं ज्ञानं सविकल्पकमुच्यते ॥
विशेषणं विकल्पश्च प्रकारश्च समार्थकाः ।
निर्विकल्पकशब्दोऽतो निर्विशेषार्थवाचकः ॥
तुरीया या विषयता तस्या यत्स्यान्निरूपकम् ।
तन्निर्विकल्पकं ह्युक्तं अविशिष्टार्थगोचरम् ॥
व्यवसायात्मकाध्यक्षवादिनो न्यायवेदिनः ।
यः कल्पनाध्यक्षवादः स तु सौगतसम्मतः ॥
तस्माद्य एव वस्त्वात्मा सविकल्पस्य गोचरः ।
स एव निर्विकल्पस्य शब्दोल्लेखविवर्जितः ॥
क्वचिज्जातिः क्वचिद्द्रव्यं क्वचित्कर्म क्वचिद्गुणः ।
यदेव सविकल्पेन निर्विकल्पेन तत्पुरा ॥
गृह्यते नियमेनैवं क्वचिद्दोषाद्भ्रमोदयः ।
तिमिराशुभ्रमणनौयानक्षोभादिसंभवम् ॥
दिमृगाङ्कालातचक्रचलवृक्षादिदर्शनम् ।
जात्यखण्डोपाधिभिन्नं किंचिद्रूपेण भासते ॥
स्वरूपतश्च जात्यादिः प्रकारत्वेन भासते ।
जातिः द्रव्यत्वादिरूपाऽभावत्वादिरनन्तरः ॥
अतीन्द्रियं निर्विकल्पमनुमानेन गृह्यते ।
विशेषणज्ञानपूर्वा प्रसिद्धा हि विशिष्टधीः ॥

प्रत्यक्षवादः 34
. न प्रमा न भ्रमश्चेदमित्यप्यस्ति विनिर्णयः ।
प्रकारतादिशून्यं तत् संबन्धानवगाहि च ॥
संबद्धं वर्तमानं च गृह्यते चक्षुरादिना ।
चक्षुरायत्कविषयं परतन्त्रं बहिर्मनः ॥
इति मण्डनमिश्रीयं वाक्यं विधिविवेकगम् ।
अत्कशब्दोऽन्तिकपरः संप्रयोगस्सतस्ततः ॥
अत्के चेन्मधु विन्देत किमर्थं यत्नमाचरेत् ।
इति शाबरवाक्येऽपि तच्छब्दः तादृशार्थकः ॥
5 अथ कौमारिलादीनामेष तादात्म्यवादिनाम् ।
सांख्यादीनां च सिद्धान्ते विभागोऽत्र निरूप्यते
अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥
संमुग्धं वस्तुमात्रं तु प्राग्गृह्णन्त्यविकल्पितम् ।
तत्सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः ॥
सामान्यं च विशेषश्च स्वरूपेणावगम्यते ।
नच व्यावृत्यनुगतिरूपेणेति विनिर्णयः ॥
ततःपरं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया ।
बुद्ध्याऽवसीयते साऽपि प्रत्यक्षत्वेन संमता ॥
जातिव्यक्त्योरभेदेन ग्रहः प्राथमिके ग्रहे ।
भेदाभेदस्ततस्सिद्धः स च तादात्म्यलक्षणः ॥

350 मानमेयरहस्यश्लोकवार्तिके
तस्माद्यतोयतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः ।
जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥
(72) विकल्पवादः.
1 निर्विकल्पकमेवैकं प्रत्यक्षं, सविकल्पकम् ।
यत्तु तत् स्मृतिरित्याहुः वैभाषिकमुखा बुधाः ॥
सविकल्पकमप्येतत् प्रत्यक्षमिति वैदिकाः ।
प्रत्यक्षवार्तिकश्लोकान् विलिखामि विविक्तये ॥
2 तेनेन्द्रियार्थसंबन्धे विद्यमाने स्मरन्नपि ।
विकल्पयन् स्वधर्मेण वस्तु प्रत्यक्षवान्नरः ॥
नहि प्रविष्टमात्राणामुष्णाद्गर्भगृहादिषु ।
अर्था न प्रतिभान्तीति गृह्यन्ते नेन्द्रियैः पुनः ॥
यथा त्वाभासमात्रेण पूर्वं ज्ञात्वा स्वरूपतः ।
पश्चात्तत्रावबुध्यन्ते तथा जात्यादिधर्मतः ॥
यदि त्वालोच्य संमील्य नेत्रे कश्चिद्विकल्पयेत् ।
न स्यात्प्रत्यक्षता तस्य संबन्धाननुसारतः ॥
वृद्धप्रयोगगम्याश्च शब्दार्थास्सर्व एव नः ।
तेन यत्र प्रयुक्तोऽयं न तस्मादपनीयते ॥
सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः ।
न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥

विकल्पवादः 351
संबद्धं वर्तमानं च गृह्यते चक्षुरादिना ।
सामान्यं वा विशेषो वा ग्राह्यं नात्र विवक्ष्यते ॥
न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते ।
प्राक्शब्दाद्यादृशी बुद्धिः शब्दादपि हि तादृशी ॥
जात्याद्यर्थान्तरं तस्मात्तद्रूपेष्वेव वस्तुषु ।
विकल्प्य जायते बुद्धिरित्याद्यत्रैव विस्तरः ॥
न सोऽस्ति प्रत्ययो लोके यः कालानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं कालेन जायते ॥
न सोऽस्ति प्रत्ययो लोके यो देशानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं देशेन जायते ॥
न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन जायते ॥
न सोऽस्ति प्रत्ययो लोके यस्सत्त्वानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं सत्त्वेन गृह्यते ॥
चतुर्षु चैषु न्यायेषु द्वयं मीमांसकैर्मतम् ।
अतः कालश्च देशश्च सकलेन्द्रियगोचरः ॥
तृतीयस्तु पुनः प्रायो वैयाकरणसम्मतः ।
निर्विकल्पकविज्ञानस्थापनाय स खण्ड्यते ॥
तुरीयस्तु सदद्वैतवादिसिद्धान्तसंमतः ।
निर्विशेषपरब्रह्मापरोक्षत्वाय संश्रितः ॥

352 मानमेयरहस्यश्लोकवार्तिके
३ प्रभाकरगुरूणां तु विशेषोऽत्रावधार्यताम् ।
पूर्वानुभूतसंस्कारसचिवं सविकल्पकम् ॥
केवलेन्द्रियसंसर्गजनितं निर्विकल्पकम् ।
यदैकमेव वस्तु स्यात् प्रत्यभिज्ञेति सोच्यते ॥
सजातीयं यदा तत्स्यात्सविकल्पकमुच्यते ।
तन्निर्विकल्पं प्रथमपिण्डग्रहणमुच्यते ॥
सविकल्पं द्वितीयादिग्रहणं त्विति निर्णयः ।
अनुवृत्तिर्नाम जातेर्नानाव्यक्तिसमन्वयः ॥
तदतद्गोचरत्वाभ्यां विकल्पेऽस्तित्वनास्तिते ।
निरीहादिस्वन इव निर्विकल्पस्वनो मतः ॥
योगेऽपि निर्विकल्पाख्यसमाधिर्योऽनुशिष्यते ।
अर्थमात्रविनिर्भासं स्वरूपविकलं यथा ॥
तत्रापि निर्विशेषार्थग्रहणं नोपदिश्यते ।
किंतु गीर्णस्वस्वरूपा विशिष्टार्थैव सा मतिः ॥
४ परोक्षाणां प्रमाणानां संसर्गांशे प्रमाणता ।
प्रत्यक्षस्य प्रमाणस्य त्रिष्वप्यस्ति प्रमाणता ॥
कालदेशपरिच्छिन्नं प्रत्यक्षमितरत्पुनः ।
सार्वदेशं सार्वकालं तत् त्रिकालादिगोचरम् ॥
शब्दसंसर्गयोग्यार्थप्रतिभासाः विकल्पनाः ।
स्मृतिव्यवहिताः तस्मादनर्थजनिता मताः ॥

विकल्पवादः 35
इत्येवं कल्पनावादिविशेषैकार्थवादिनः ।
विबुधाः प्रत्यवस्थातुं नानावादान्वितन्वते ॥
शब्दासंस्पर्शवादापनोदायैव हि शाब्दिकाः ।
शब्दस्य ज्ञानमात्रे तु भानमिच्छन्त्यनेकधा ॥
यथा विषयभेदेन प्रतीतिर्भिद्यते तथा ।
उपायभेदात्तद्भेदः सर्वानुभवसाक्षिकः ॥
समवायो हि नाध्यक्षः वैशेषिकमते स्थितः ।
तथापि तन्तुष्वेवायं पट इत्यादिबुद्धिकृत् ॥
तथैव च चिराक्षिप्रदूरासन्नादिबुद्धिकृत् ।
कालदेशविशेषः स्यात् सहकारिनियन्त्रितः ॥
निर्विकल्पकमध्यक्षं सविकल्पकमेव तत् ।
उभयात्मकमित्येतत् विलक्षणमितीतरे ॥
सौगतः प्रथमः पक्षः शाब्दिकस्तदनन्तरः ।
मैमांसकः तृतीयः स्यात् तुर्यो नैयायिकस्स्मृत
सामग्र्यास्तु प्रमाणत्वे प्रमा फलमितीष्यते ।
प्रमायास्तु प्रमाणत्वे फलं हानादिबुद्धयः ॥
प्रमाणसामान्यवादे विस्तरोऽस्य कृतोऽधुना ।
विशेषांशा हि सूच्यन्ते विस्तरः तैर्थिकैः कृतः
5 न कदाचित्क्वचिद्दृष्टं निर्व्यापारं तु कारकम् ।
इन्द्रियाणां कारकत्वात्सन्निकर्षपरिग्रहः ॥
M.R. 45

354 मानमेयरहस्यश्लोकवार्तिके
तत्र षोढा सन्निकर्षः लौकिकः परिकीर्तितः ।
ज्ञानसामान्ययोगोत्थभेदेनालौकिकस्त्रिधा ॥
तत्प्रत्यक्षं द्वित्रिचतुस्सन्निकर्षात्प्रवर्तते ।
तत्रात्मसुखरूपादिविषयास्स्युर्यथाक्रमम् ॥
आत्मचित्तेन्द्रियार्थाः स्युः सन्निकर्षस्य चाश्रयाः
इति नैयायिकाः प्राहुः अत्र मीमांसकाः पुनः ॥
चतुर्विधः संप्रयोगः द्रव्ये संयोगलक्षणः ।
गुणे संयुक्ततादात्म्यं गुणत्वे तद्वदात्मता ॥
गुणत्वगतसत्तायां तद्वत्तादात्म्यलक्षणः ।
श्रोत्रेण शब्दग्रहणमजसंयोगजं विदुः ॥
त्रिविधस्संनिकर्षः स्यादिति प्राभाकरा विदुः ।
संयोगस्संयुक्तसमवायश्च तदनन्तरः ॥
समवायस्तृतीयस्स्यात् तैर्हि स्यात्सर्वसंग्रहः ।
अलौकिकः सन्निकर्षः न मीमांसकसंमतः ॥
यच्चालौकिकविज्ञानं स्मरणं वाऽथ लैङ्गिकम् ।
योगस्यानुपगन्तृत्वात् योगी नैवास्ति तन्मते ॥
सर्वज्ञानामभावेन धर्मो वेदैकलक्षणः ।
आभिमुख्यं सन्निकर्ष इति संयोगदूषकाः ॥
यथाकथंचित्संबन्धं विदुस्सर्वेऽपि वादिनः ।
निर्विकल्पस्य विषयविकल्पस्याथ संग्रहः ॥

विकल्पवादः 35:
6 निर्विकल्पस्य विषयं बौद्धाः प्राहुस्स्वलक्षणम् ।
महासामान्यमस्येति सदद्वैतविदो विदुः ॥
वाग्रूपमपरे तत्त्वं प्रमेयं शाब्दिका विदुः ।
केचिद्गुणादिशबलं मन्यन्ते कपिलादयः ॥
केचिच्छकलितं वस्तु विदुः नैयायिकादयः ।
विशिष्टमेव विषयं प्राहुः प्राभाकरादयः ॥
प्रत्यक्षविषयेऽप्येताः चित्रा विप्रतिपत्तयः ।
परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति ॥
प्रत्यक्षे हि समुत्पन्ना विमतिः केन वार्यते ।
इदं भाति न भातीति संविद्विप्रतिपत्तिषु ॥
परप्रत्यायने पुंसां शरणं शपथोक्तयः ।
प्रत्यक्षलक्षणं चापि तादृशार्थानुगुण्यतः ॥
7 विकल्प्य कथितं तत्तु संग्रहादिह कथ्यते ।
कल्पनापोढमभ्रान्तं प्रत्यक्षमिति सौगताः ॥
सत्संप्रयोगे पुरुषस्येति जैमिनिलक्षणम् ।
सन्निकृष्टार्थविज्ञानमिति वृत्तिकृतां मतम् ॥
यत्त्विन्द्रियार्थसंबन्धोत्पन्नमव्यभिचारि च ।
तत्प्रत्यक्षमिति प्रोक्तमक्षपादेन लक्षणम् ॥
साक्षात्प्रतीतिः प्रत्यक्षमिति प्राभाकरा विदुः ।
अर्थाकृत्या परिणतेन्द्रियवृत्त्यनुपातिनी ॥

356 मानमेयरहस्यश्लोकवार्तिके

बुद्धिवृत्तिः चितिच्छायामापन्नाऽध्यक्षमिष्यते ।
पातञ्जलैः कापिलैश्च तथा तन्मार्गगामिभिः ॥
प्रत्यक्षलक्षणं प्राहुः स्पष्टतां पुनरार्हताः ।
अस्पष्टमनुमानादि सद्विशेषाप्रकाशनात् ॥
चार्वाकोऽशक्यकरणं मेने मानस्य लक्षणम् ।
तथैव संख्यानियमं तत्रोदाहरणं त्विदम् ॥
वक्राङ्गुलिः प्रविरलाङ्गुलिरेष करस्त्विति ।
जानाति मीलिताक्षोऽपि तमस्यपि पुमानयम् ।
निशि दीपशिखा दूराद्दृष्टा कुर्यात्प्रभामतिम् ।
अनुवातं दूरगते गन्धे बुद्धिः प्रजायते ॥
शब्दादिविषया बुद्धिः विचित्रा सर्वसम्मता ।
तस्मादनुगमोऽशक्यकरणः हृदयंगमः ॥
सर्वेष्वपि च सिद्धान्तेष्विन्द्रियं क्रियते पुरः ।
ततस्त्वर्थानुगुण्येन परिष्कारो विजृम्भते ॥
8 अथात्र सांख्यप्रत्यक्षे विशेषः श्लोकवार्तिके ।
शब्दनित्यत्वाधिकृतावक्षिप्तस्सोऽभिधीयते ॥
विषयः प्रथमं स्वीयेन्द्रिये ह्यालोचनात्मकम् ।
स्वाकारं वृत्तिपर्यायं विकारं कुरुते स्वयम् ॥
सा च वृत्तिस्समागत्य देशं तं विषयस्य च ।
प्रकाशं विषयाकारं आधत्ते महदात्मनि ॥

बुद्धावध्यवसायाख्यमेतस्मिन्नाहिते सति ।
तस्यां बुद्धौ च चैतन्यं यदाऽभिव्यज्यते तदा ॥
प्रत्यक्षमिति सिद्धान्तः स च नैवोपपद्यते ।
कथं विकाराधानं स्यात् असंबद्धेन चेन्द्रिये ॥
प्राप्तिस्सर्वगतत्वाच्चेत् तुल्या दूरगतेष्वपि ।
विक्रियाऽविक्रिये तत्र सर्वैस्स्यातां न भेदतः ॥
तदौपनिषदाः प्रायस्सर्वे नैयायिकाध्वगाः ।
तत्रापि सन्निकर्षादिः स्वसामग्रीनिबन्धनः ॥
अदृष्टानियमाद्दृष्टनियमे लाघवं मतम् ।
मनोवैभवसिद्धान्ते विपरीतं बलाबलम् ॥
9 अथ चाद्वैतसिद्धान्ते प्रायस्सांख्यमतानुगे ।
प्रत्यक्षविषये किंचिद्विशेषांशोऽत्र सूच्यते ॥
चैतन्यमेव प्रत्यक्षप्रमेति श्रुतिसम्मतम् ।
तदनाद्यपि हृद्वृत्तिविशिष्टं चादिमन्मतम् ॥
संसर्गानवगाहेतज्ज्ञानं स्यान्निर्विकल्पकम् ।
सोऽयं घटः तत्त्वमसीत्यादिवाक्यादपीष्यते ॥
संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् ।
उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥
वृत्त्यवच्छिन्नचैतन्येऽर्थावच्छिन्नचिदेकता ।
ज्ञानस्याध्यक्षत्वमिति नव्यानामिह निर्णयः ॥

358 मानमेयरहस्यश्लोकवार्तिके

चैतन्याभिव्यञ्जकत्वं विषयस्यापरोक्षता ।
अन्तःकरणसम्बन्धादस्वच्छे स्वच्छता भवेत् ॥
प्रमात्रभिन्नत्वमिति परेषां तत्र निर्णयः ।
प्रमातृसत्तातिरिक्तसत्ताशून्यत्वलक्षणम् ॥
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।
आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥

(73) प्रतिबिम्बवादः

1 प्रतिबिम्बविचारोऽस्ति यः पुनश्श्लोकवार्तिके ।
प्रसङ्गात्तस्य सारांशे तज्जिज्ञासुकृते यते ॥
बिम्बान्न प्रतिबिम्बानां भेदः नापि परस्परम् ।
अबाधितप्रत्यभिज्ञा प्रमाणं सार्वलौकिकी ॥
अत्र केन निमित्तेन प्रतिपात्रं पृथक्पृथक् ।
भिन्नानि प्रतिबिम्बानि ज्ञायन्ते युगपत् नरैः ॥
अत्रोच्यते यदा चक्षुः प्रतिस्रोतः प्रवर्तितम् ।
स्वदेश एव गृह्णाति सवितारमनेकधा ॥
ईषन्निमीलितेऽङ्गुल्या यथा चक्षुषि दृश्यते ।
पृथगेकोऽपि भिन्नत्वात् चक्षुर्वृत्तेः तथैव नः ॥
2 ये त्वत्र प्रतिबिम्बानामुत्पत्तिं प्राहुरार्हताः ।
तेषामभिप्राय एषः स्थूलदृष्टिपरिष्कृतः ॥

अनुमानाक्षेपः 359
स एव चेत्प्रतीयेत कस्मान्नोपरि दृश्यते ।
कूपादिषु कुतोऽधस्तात् प्रतिबिम्बेक्षणं भवेत् ॥
प्राङ्मुखो दर्पणं पश्यन् स्याच्चेत्प्रत्यङ्मुखः कथम् ।
तत्र प्रति ब्रुवन्त्यन्ये तेषामेषा परिष्क्रिया ॥
देहप्रदेशे पुंसस्स्यात् चक्षुः ज्ञानस्य कारणम् ।
तेन देहाभिमुख्येन बुद्ध्यमानोऽवबुद्ध्यते ॥
अप्सूर्यदर्शिना नित्यं चक्षुः द्वेधा प्रवर्तते ।
एकमूर्ध्वमधस्ताच्च तत्रोर्ध्वांशप्रकाशितम् ॥
शरीरस्यानृजुस्थत्वात् नात्मा सूर्यं प्रपद्यते ।
ऊर्ध्ववृत्त्यर्पितं बिम्बं अवाग्वृत्त्या तु बुद्ध्यते ॥
ऊर्ध्ववृत्तेस्तदेकत्वात् अवागिव च मन्यते ।
अधस्तादेव तेनार्कः सान्तरालः प्रतीयते ॥
एवं प्राग्भूतया वृत्त्या प्रत्यग्वृत्तिसमर्पितम् ।
बुद्ध्यमानो मुखं भ्रान्त्या प्रत्यगित्यवगच्छति ॥
तेनानुभवसिद्धेन पथा स्यादन्यथा गतिः ।
प्रतिबिम्बेन बिम्बस्यानुमानं क्वचिदभ्यधुः ॥
(74) अनुमानाक्षेपः.
1 अथानुमानप्रमाणविकल्पः महती कथा ।
तथाऽपि शक्यसंक्षेपा स्यादित्यत्र प्रयत्यते ॥