मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
प्रत्यक्षवादः 34
. न प्रमा न भ्रमश्चेदमित्यप्यस्ति विनिर्णयः ।
प्रकारतादिशून्यं तत् संबन्धानवगाहि च ॥
संबद्धं वर्तमानं च गृह्यते चक्षुरादिना ।
चक्षुरायत्कविषयं परतन्त्रं बहिर्मनः ॥
इति मण्डनमिश्रीयं वाक्यं विधिविवेकगम् ।
अत्कशब्दोऽन्तिकपरः संप्रयोगस्सतस्ततः ॥
अत्के चेन्मधु विन्देत किमर्थं यत्नमाचरेत् ।
इति शाबरवाक्येऽपि तच्छब्दः तादृशार्थकः ॥
5 अथ कौमारिलादीनामेष तादात्म्यवादिनाम् ।
सांख्यादीनां च सिद्धान्ते विभागोऽत्र निरूप्यते
अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥
संमुग्धं वस्तुमात्रं तु प्राग्गृह्णन्त्यविकल्पितम् ।
तत्सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः ॥
सामान्यं च विशेषश्च स्वरूपेणावगम्यते ।
नच व्यावृत्यनुगतिरूपेणेति विनिर्णयः ॥
ततःपरं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया ।
बुद्ध्याऽवसीयते साऽपि प्रत्यक्षत्वेन संमता ॥
जातिव्यक्त्योरभेदेन ग्रहः प्राथमिके ग्रहे ।
भेदाभेदस्ततस्सिद्धः स च तादात्म्यलक्षणः ॥
350 मानमेयरहस्यश्लोकवार्तिके
तस्माद्यतोयतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः ।
जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥
(72) विकल्पवादः.
1 निर्विकल्पकमेवैकं प्रत्यक्षं, सविकल्पकम् ।
यत्तु तत् स्मृतिरित्याहुः वैभाषिकमुखा बुधाः ॥
सविकल्पकमप्येतत् प्रत्यक्षमिति वैदिकाः ।
प्रत्यक्षवार्तिकश्लोकान् विलिखामि विविक्तये ॥
2 तेनेन्द्रियार्थसंबन्धे विद्यमाने स्मरन्नपि ।
विकल्पयन् स्वधर्मेण वस्तु प्रत्यक्षवान्नरः ॥
नहि प्रविष्टमात्राणामुष्णाद्गर्भगृहादिषु ।
अर्था न प्रतिभान्तीति गृह्यन्ते नेन्द्रियैः पुनः ॥
यथा त्वाभासमात्रेण पूर्वं ज्ञात्वा स्वरूपतः ।
पश्चात्तत्रावबुध्यन्ते तथा जात्यादिधर्मतः ॥
यदि त्वालोच्य संमील्य नेत्रे कश्चिद्विकल्पयेत् ।
न स्यात्प्रत्यक्षता तस्य संबन्धाननुसारतः ॥
वृद्धप्रयोगगम्याश्च शब्दार्थास्सर्व एव नः ।
तेन यत्र प्रयुक्तोऽयं न तस्मादपनीयते ॥
सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः ।
न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥
विकल्पवादः 351
संबद्धं वर्तमानं च गृह्यते चक्षुरादिना ।
सामान्यं वा विशेषो वा ग्राह्यं नात्र विवक्ष्यते ॥
न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते ।
प्राक्शब्दाद्यादृशी बुद्धिः शब्दादपि हि तादृशी ॥
जात्याद्यर्थान्तरं तस्मात्तद्रूपेष्वेव वस्तुषु ।
विकल्प्य जायते बुद्धिरित्याद्यत्रैव विस्तरः ॥
न सोऽस्ति प्रत्ययो लोके यः कालानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं कालेन जायते ॥
न सोऽस्ति प्रत्ययो लोके यो देशानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं देशेन जायते ॥
न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन जायते ॥
न सोऽस्ति प्रत्ययो लोके यस्सत्त्वानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं सत्त्वेन गृह्यते ॥
चतुर्षु चैषु न्यायेषु द्वयं मीमांसकैर्मतम् ।
अतः कालश्च देशश्च सकलेन्द्रियगोचरः ॥
तृतीयस्तु पुनः प्रायो वैयाकरणसम्मतः ।
निर्विकल्पकविज्ञानस्थापनाय स खण्ड्यते ॥
तुरीयस्तु सदद्वैतवादिसिद्धान्तसंमतः ।
निर्विशेषपरब्रह्मापरोक्षत्वाय संश्रितः ॥
352 मानमेयरहस्यश्लोकवार्तिके
३ प्रभाकरगुरूणां तु विशेषोऽत्रावधार्यताम् ।
पूर्वानुभूतसंस्कारसचिवं सविकल्पकम् ॥
केवलेन्द्रियसंसर्गजनितं निर्विकल्पकम् ।
यदैकमेव वस्तु स्यात् प्रत्यभिज्ञेति सोच्यते ॥
सजातीयं यदा तत्स्यात्सविकल्पकमुच्यते ।
तन्निर्विकल्पं प्रथमपिण्डग्रहणमुच्यते ॥
सविकल्पं द्वितीयादिग्रहणं त्विति निर्णयः ।
अनुवृत्तिर्नाम जातेर्नानाव्यक्तिसमन्वयः ॥
तदतद्गोचरत्वाभ्यां विकल्पेऽस्तित्वनास्तिते ।
निरीहादिस्वन इव निर्विकल्पस्वनो मतः ॥
योगेऽपि निर्विकल्पाख्यसमाधिर्योऽनुशिष्यते ।
अर्थमात्रविनिर्भासं स्वरूपविकलं यथा ॥
तत्रापि निर्विशेषार्थग्रहणं नोपदिश्यते ।
किंतु गीर्णस्वस्वरूपा विशिष्टार्थैव सा मतिः ॥
४ परोक्षाणां प्रमाणानां संसर्गांशे प्रमाणता ।
प्रत्यक्षस्य प्रमाणस्य त्रिष्वप्यस्ति प्रमाणता ॥
कालदेशपरिच्छिन्नं प्रत्यक्षमितरत्पुनः ।
सार्वदेशं सार्वकालं तत् त्रिकालादिगोचरम् ॥
शब्दसंसर्गयोग्यार्थप्रतिभासाः विकल्पनाः ।
स्मृतिव्यवहिताः तस्मादनर्थजनिता मताः ॥
विकल्पवादः 35
इत्येवं कल्पनावादिविशेषैकार्थवादिनः ।
विबुधाः प्रत्यवस्थातुं नानावादान्वितन्वते ॥
शब्दासंस्पर्शवादापनोदायैव हि शाब्दिकाः ।
शब्दस्य ज्ञानमात्रे तु भानमिच्छन्त्यनेकधा ॥
यथा विषयभेदेन प्रतीतिर्भिद्यते तथा ।
उपायभेदात्तद्भेदः सर्वानुभवसाक्षिकः ॥
समवायो हि नाध्यक्षः वैशेषिकमते स्थितः ।
तथापि तन्तुष्वेवायं पट इत्यादिबुद्धिकृत् ॥
तथैव च चिराक्षिप्रदूरासन्नादिबुद्धिकृत् ।
कालदेशविशेषः स्यात् सहकारिनियन्त्रितः ॥
निर्विकल्पकमध्यक्षं सविकल्पकमेव तत् ।
उभयात्मकमित्येतत् विलक्षणमितीतरे ॥
सौगतः प्रथमः पक्षः शाब्दिकस्तदनन्तरः ।
मैमांसकः तृतीयः स्यात् तुर्यो नैयायिकस्स्मृत
सामग्र्यास्तु प्रमाणत्वे प्रमा फलमितीष्यते ।
प्रमायास्तु प्रमाणत्वे फलं हानादिबुद्धयः ॥
प्रमाणसामान्यवादे विस्तरोऽस्य कृतोऽधुना ।
विशेषांशा हि सूच्यन्ते विस्तरः तैर्थिकैः कृतः
5 न कदाचित्क्वचिद्दृष्टं निर्व्यापारं तु कारकम् ।
इन्द्रियाणां कारकत्वात्सन्निकर्षपरिग्रहः ॥
M.R. 45
354 मानमेयरहस्यश्लोकवार्तिके
तत्र षोढा सन्निकर्षः लौकिकः परिकीर्तितः ।
ज्ञानसामान्ययोगोत्थभेदेनालौकिकस्त्रिधा ॥
तत्प्रत्यक्षं द्वित्रिचतुस्सन्निकर्षात्प्रवर्तते ।
तत्रात्मसुखरूपादिविषयास्स्युर्यथाक्रमम् ॥
आत्मचित्तेन्द्रियार्थाः स्युः सन्निकर्षस्य चाश्रयाः
इति नैयायिकाः प्राहुः अत्र मीमांसकाः पुनः ॥
चतुर्विधः संप्रयोगः द्रव्ये संयोगलक्षणः ।
गुणे संयुक्ततादात्म्यं गुणत्वे तद्वदात्मता ॥
गुणत्वगतसत्तायां तद्वत्तादात्म्यलक्षणः ।
श्रोत्रेण शब्दग्रहणमजसंयोगजं विदुः ॥
त्रिविधस्संनिकर्षः स्यादिति प्राभाकरा विदुः ।
संयोगस्संयुक्तसमवायश्च तदनन्तरः ॥
समवायस्तृतीयस्स्यात् तैर्हि स्यात्सर्वसंग्रहः ।
अलौकिकः सन्निकर्षः न मीमांसकसंमतः ॥
यच्चालौकिकविज्ञानं स्मरणं वाऽथ लैङ्गिकम् ।
योगस्यानुपगन्तृत्वात् योगी नैवास्ति तन्मते ॥
सर्वज्ञानामभावेन धर्मो वेदैकलक्षणः ।
आभिमुख्यं सन्निकर्ष इति संयोगदूषकाः ॥
यथाकथंचित्संबन्धं विदुस्सर्वेऽपि वादिनः ।
निर्विकल्पस्य विषयविकल्पस्याथ संग्रहः ॥
विकल्पवादः 35:
6 निर्विकल्पस्य विषयं बौद्धाः प्राहुस्स्वलक्षणम् ।
महासामान्यमस्येति सदद्वैतविदो विदुः ॥
वाग्रूपमपरे तत्त्वं प्रमेयं शाब्दिका विदुः ।
केचिद्गुणादिशबलं मन्यन्ते कपिलादयः ॥
केचिच्छकलितं वस्तु विदुः नैयायिकादयः ।
विशिष्टमेव विषयं प्राहुः प्राभाकरादयः ॥
प्रत्यक्षविषयेऽप्येताः चित्रा विप्रतिपत्तयः ।
परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति ॥
प्रत्यक्षे हि समुत्पन्ना विमतिः केन वार्यते ।
इदं भाति न भातीति संविद्विप्रतिपत्तिषु ॥
परप्रत्यायने पुंसां शरणं शपथोक्तयः ।
प्रत्यक्षलक्षणं चापि तादृशार्थानुगुण्यतः ॥
7 विकल्प्य कथितं तत्तु संग्रहादिह कथ्यते ।
कल्पनापोढमभ्रान्तं प्रत्यक्षमिति सौगताः ॥
सत्संप्रयोगे पुरुषस्येति जैमिनिलक्षणम् ।
सन्निकृष्टार्थविज्ञानमिति वृत्तिकृतां मतम् ॥
यत्त्विन्द्रियार्थसंबन्धोत्पन्नमव्यभिचारि च ।
तत्प्रत्यक्षमिति प्रोक्तमक्षपादेन लक्षणम् ॥
साक्षात्प्रतीतिः प्रत्यक्षमिति प्राभाकरा विदुः ।
अर्थाकृत्या परिणतेन्द्रियवृत्त्यनुपातिनी ॥
356 मानमेयरहस्यश्लोकवार्तिके
बुद्धिवृत्तिः चितिच्छायामापन्नाऽध्यक्षमिष्यते ।
पातञ्जलैः कापिलैश्च तथा तन्मार्गगामिभिः ॥
प्रत्यक्षलक्षणं प्राहुः स्पष्टतां पुनरार्हताः ।
अस्पष्टमनुमानादि सद्विशेषाप्रकाशनात् ॥
चार्वाकोऽशक्यकरणं मेने मानस्य लक्षणम् ।
तथैव संख्यानियमं तत्रोदाहरणं त्विदम् ॥
वक्राङ्गुलिः प्रविरलाङ्गुलिरेष करस्त्विति ।
जानाति मीलिताक्षोऽपि तमस्यपि पुमानयम् ।
निशि दीपशिखा दूराद्दृष्टा कुर्यात्प्रभामतिम् ।
अनुवातं दूरगते गन्धे बुद्धिः प्रजायते ॥
शब्दादिविषया बुद्धिः विचित्रा सर्वसम्मता ।
तस्मादनुगमोऽशक्यकरणः हृदयंगमः ॥
सर्वेष्वपि च सिद्धान्तेष्विन्द्रियं क्रियते पुरः ।
ततस्त्वर्थानुगुण्येन परिष्कारो विजृम्भते ॥
8 अथात्र सांख्यप्रत्यक्षे विशेषः श्लोकवार्तिके ।
शब्दनित्यत्वाधिकृतावक्षिप्तस्सोऽभिधीयते ॥
विषयः प्रथमं स्वीयेन्द्रिये ह्यालोचनात्मकम् ।
स्वाकारं वृत्तिपर्यायं विकारं कुरुते स्वयम् ॥
सा च वृत्तिस्समागत्य देशं तं विषयस्य च ।
प्रकाशं विषयाकारं आधत्ते महदात्मनि ॥
बुद्धावध्यवसायाख्यमेतस्मिन्नाहिते सति ।
तस्यां बुद्धौ च चैतन्यं यदाऽभिव्यज्यते तदा ॥
प्रत्यक्षमिति सिद्धान्तः स च नैवोपपद्यते ।
कथं विकाराधानं स्यात् असंबद्धेन चेन्द्रिये ॥
प्राप्तिस्सर्वगतत्वाच्चेत् तुल्या दूरगतेष्वपि ।
विक्रियाऽविक्रिये तत्र सर्वैस्स्यातां न भेदतः ॥
तदौपनिषदाः प्रायस्सर्वे नैयायिकाध्वगाः ।
तत्रापि सन्निकर्षादिः स्वसामग्रीनिबन्धनः ॥
अदृष्टानियमाद्दृष्टनियमे लाघवं मतम् ।
मनोवैभवसिद्धान्ते विपरीतं बलाबलम् ॥
9 अथ चाद्वैतसिद्धान्ते प्रायस्सांख्यमतानुगे ।
प्रत्यक्षविषये किंचिद्विशेषांशोऽत्र सूच्यते ॥
चैतन्यमेव प्रत्यक्षप्रमेति श्रुतिसम्मतम् ।
तदनाद्यपि हृद्वृत्तिविशिष्टं चादिमन्मतम् ॥
संसर्गानवगाहेतज्ज्ञानं स्यान्निर्विकल्पकम् ।
सोऽयं घटः तत्त्वमसीत्यादिवाक्यादपीष्यते ॥
संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् ।
उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥
वृत्त्यवच्छिन्नचैतन्येऽर्थावच्छिन्नचिदेकता ।
ज्ञानस्याध्यक्षत्वमिति नव्यानामिह निर्णयः ॥
358 मानमेयरहस्यश्लोकवार्तिके
चैतन्याभिव्यञ्जकत्वं विषयस्यापरोक्षता ।
अन्तःकरणसम्बन्धादस्वच्छे स्वच्छता भवेत् ॥
प्रमात्रभिन्नत्वमिति परेषां तत्र निर्णयः ।
प्रमातृसत्तातिरिक्तसत्ताशून्यत्वलक्षणम् ॥
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।
आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥
(73) प्रतिबिम्बवादः
1 प्रतिबिम्बविचारोऽस्ति यः पुनश्श्लोकवार्तिके ।
प्रसङ्गात्तस्य सारांशे तज्जिज्ञासुकृते यते ॥
बिम्बान्न प्रतिबिम्बानां भेदः नापि परस्परम् ।
अबाधितप्रत्यभिज्ञा प्रमाणं सार्वलौकिकी ॥
अत्र केन निमित्तेन प्रतिपात्रं पृथक्पृथक् ।
भिन्नानि प्रतिबिम्बानि ज्ञायन्ते युगपत् नरैः ॥
अत्रोच्यते यदा चक्षुः प्रतिस्रोतः प्रवर्तितम् ।
स्वदेश एव गृह्णाति सवितारमनेकधा ॥
ईषन्निमीलितेऽङ्गुल्या यथा चक्षुषि दृश्यते ।
पृथगेकोऽपि भिन्नत्वात् चक्षुर्वृत्तेः तथैव नः ॥
2 ये त्वत्र प्रतिबिम्बानामुत्पत्तिं प्राहुरार्हताः ।
तेषामभिप्राय एषः स्थूलदृष्टिपरिष्कृतः ॥
अनुमानाक्षेपः 359
स एव चेत्प्रतीयेत कस्मान्नोपरि दृश्यते ।
कूपादिषु कुतोऽधस्तात् प्रतिबिम्बेक्षणं भवेत् ॥
प्राङ्मुखो दर्पणं पश्यन् स्याच्चेत्प्रत्यङ्मुखः कथम् ।
तत्र प्रति ब्रुवन्त्यन्ये तेषामेषा परिष्क्रिया ॥
देहप्रदेशे पुंसस्स्यात् चक्षुः ज्ञानस्य कारणम् ।
तेन देहाभिमुख्येन बुद्ध्यमानोऽवबुद्ध्यते ॥
अप्सूर्यदर्शिना नित्यं चक्षुः द्वेधा प्रवर्तते ।
एकमूर्ध्वमधस्ताच्च तत्रोर्ध्वांशप्रकाशितम् ॥
शरीरस्यानृजुस्थत्वात् नात्मा सूर्यं प्रपद्यते ।
ऊर्ध्ववृत्त्यर्पितं बिम्बं अवाग्वृत्त्या तु बुद्ध्यते ॥
ऊर्ध्ववृत्तेस्तदेकत्वात् अवागिव च मन्यते ।
अधस्तादेव तेनार्कः सान्तरालः प्रतीयते ॥
एवं प्राग्भूतया वृत्त्या प्रत्यग्वृत्तिसमर्पितम् ।
बुद्ध्यमानो मुखं भ्रान्त्या प्रत्यगित्यवगच्छति ॥
तेनानुभवसिद्धेन पथा स्यादन्यथा गतिः ।
प्रतिबिम्बेन बिम्बस्यानुमानं क्वचिदभ्यधुः ॥
(74) अनुमानाक्षेपः.
1 अथानुमानप्रमाणविकल्पः महती कथा ।
तथाऽपि शक्यसंक्षेपा स्यादित्यत्र प्रयत्यते ॥
360 मानमेयरहस्यश्लोकवार्तिके
विशेषेऽनुगमाभावः सामान्ये सिद्धसाधनम् ।
अनुमाभङ्गपङ्केऽस्मिन् निमग्ना वादिदन्तिनः ॥
विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् ।
तद्द्वयोऽनुपपन्नत्वादनुमानकथा कुतः ॥
व्याप्तिरेवानुमानस्य जीवातुस्सा च सर्वथा ।
न संभवति संबन्धग्रहस्यानुपपत्तितः ॥
अन्वयव्यतिरेकाभ्यां नाविनाभावनिश्चयः ।
त्रैकालिकानां वस्तूनामानन्त्यादतिशङ्कनात् ॥
अतएवेहानुमानशब्दः प्रायेण लौकिकैः ।
प्रयुज्यते संशयार्थः परोक्षं संशयात्मकम् ॥
साहचर्ये च संबन्धे विस्रम्भ इति मुग्धता ।
शतकृत्वोऽपि तद्दृष्टौ व्यभिचारस्य संभवात् ॥
देशकालदशाभेदविचित्रात्मसु वस्तुषु ।
अविनाभावनियमः न संभवति कुत्रचित् ॥
2 भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते ।
जगत्त्रयगताशेषपदार्थालोचनाद्विना ॥
ये तु प्रत्यक्षतो विश्वं प्रपश्यन्ति महाजनाः ।
किं दिव्यचक्षुषामेषां अनुमानप्रयोजनम् ॥
सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः ।
वास्तवं तु न सामान्यं नाम किंचन विद्यते ॥
अनुमानाक्षेपः 361
बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः ।
देशकालादिभेदेन दृश्यते पुनरन्यथा ॥
भूयो दृष्टौ च धूमोऽग्निसहचारीति गम्यताम् ।
अनग्नौ तु स नास्तीति न भूयोदर्शनादृतेः ॥
गत्वागत्वा च तान् देशान् यद्यर्थो नोपलभ्यते ।
ततोऽन्यकारणाभावादसन्नित्यवगम्यते ॥
दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि ।
तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम् ॥
अनग्निश्च कियान् प्रायो जगत् ज्वलनवर्जितम् ।
तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ॥
तदेवं नियमाभावात् सति वा ज्ञप्त्यसंभवात् ।
अनुमानप्रमाणत्वदुराशा प्रतिमुच्यताम् ॥
साध्यानुमितिवेलायां नचास्ति नियमग्रहः ।
नियमग्रहकाले च न साध्यमनुमीयते ॥
३ निरुपाधिकसंबन्धो व्याप्तिरित्यभिधीयते ।
साध्येन यस्समं व्याप्तोऽव्यापकः साधनस्य यः ॥
स उपाधिरिति प्रोक्तः तत्र चात्माश्रयो ध्रुवः ।
अतो व्याप्तिपरिष्कारः शतशः क्रियते बुधैः ॥
४ धर्मे सिषाधयिषिते न हेतोः पक्षधर्मता ।
धूमस्य वह्नयधर्मत्वात्, साध्यं धर्मी यदीष्यते ॥
M.R. 46
62 मानमेयरहस्यश्लोकवार्तिके
न हेतोरन्वयस्तत्र व्यतिरेकोऽपि बाधितः ।
द्वये तु साध्ये द्वयमप्यसिद्धं स्यादसंशयम् ॥
विशिष्टस्य तु साध्यत्वे न प्राक्तद्धर्मताग्रहः ।
अतश्च पक्षधर्मत्वं केचिन्नेच्छन्ति सूरयः ॥
ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्मीभिधीयते ।
व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् ॥
5 अनुमानप्रयोगोऽपि चादौ कर्तुं न शक्यते ।
मिथोविरुद्धाङ्गीकारप्रचुरौ वादिनाविह ॥
शब्दो द्रव्यं वेदविदां गुणो न्यायविदां मतः ।
पञ्चभूतगुणोऽन्येषां परेषां नाभसो गुणः ॥
वृक्षादिशब्दाः स्फोटस्य विवर्त इति शाब्दिकाः ।
गुणद्रव्यविभागं च केचिन्नेच्छन्ति पण्डिताः ॥
एवमेव हि सर्वं च वस्तु तैस्तैर्विकल्प्यते ।
कः पक्षः किंचवा साध्यं को हेतुः द्वयसम्मतः ॥
सर्वत्रान्यतरासिद्धेरनुमानकथा वृथा ।
सामान्येन प्रयोगस्तु केवलं कण्ठशोषकृत् ॥
6 व्यवहारोऽध्यक्षशक्त्या कृतार्थो ह्यानुमानिकः ।
इन्द्रियं धूमसंयुक्तं वह्निं गमयति स्फुटम् ॥
व्याप्तिश्च पक्षधर्मत्वं स्यातां तत्सहकारिणी ।
तथैवापमितिश्शाब्दी सर्वा प्रत्यक्षमिष्यते ॥
अनुमानसमर्थनवादः 36
सहकारिसनाथं चेत् विचित्रं करणं भवेत् ।
अनागतादिलिङ्गांशे सयूथ्यकलहोऽस्ति हि ॥
अत एवानुमानानामपश्यन्तः प्रमाणताम् ।
तद्विस्रम्भनिषेधार्थमिदमाहुर्मनीषिणः ॥
हस्तस्पर्शादिनाऽन्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥
7 द्विविधं ह्यनुमानं स्यादिति प्राहुस्सुशिक्षिताः ।
यथोत्पन्नप्रतीत्येवं तथोत्पाद्यप्रतीति च ॥
तत्र धूमानुमानादेः प्रामाण्यमुपगम्यते ।
यतश्च साध्यं बुद्ध्यन्ते पुरुषाः कोमलाशयाः ॥
यत्त्वात्मेश्वरसर्वज्ञपरलोकादिगोचरम् ।
अनुमानं न तस्येष्टं प्रामाण्यं तत्त्वदर्शिभिः ॥
तस्माद्विदुर्वेदविदः धर्मब्रह्मादिगोचरम् ।
अनुमानं नोर्जितं स्यादिति शब्दं विधान्तरम् ॥
(75) अनुमानसमर्थनवादः.
1 अत्रोच्यते न्यायविद्भिर्युक्तिचिन्ताविशारदैः ।
तानेवानुसरद्भिश्च सर्वैर्दार्शनिकैः परैः ॥
अबलाबालगोपालहालिकप्रमुखा अपि ।
बुद्ध्यन्ते नियतादर्थादर्थान्तरमसंशयम् ॥
अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा ।
लोकयात्रेति लोकास्स्युः चित्रिता इव निश्चलाः॥
२ अत्रानुमानप्रामाण्यवादिनां वाक्यसंग्रहः ।
आदौ सौगतसिद्धान्तवचनं त्ववधार्यताम् ॥
अनुमानं ह्यर्थदृक्स्यात् या च लिङ्गात्त्रिलक्षणात्
इति दिङ्नागकथितं लक्षणं त्वित्यनूदितम् ॥
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥
कार्यकारणभावो हि प्रत्यक्षेणावगम्यते ।
तदुत्पत्त्याख्यसंबन्धादविनाभावनिश्चयः ॥
सहभावित्वमथवा क्रमभावित्वमेववा ।
कार्यकारणभावस्स्यान्नियमो नात्र गर्भितः ॥
यथा धूमज्वलनयोः सुबीजाङ्कुरयोरपि ।
भवेद्यद्यपि चाशङ्का पुरुषस्य विपश्चितः ॥
तदेवाशङ्क्यते लोके यस्य शङ्का न बाधते ।
स्वप्रवृत्त्यादिकं हेतुफलभावनिबन्धनम् ॥
तादात्म्यनिश्चयेनापि क्वचित्तादृशनिश्चयः ।
वृक्षशिंशपयोरेषः सामानाधिकरण्यतः ॥
अनुमानसमर्थनवादः ३६.
यत्र चात्यन्तभेदोऽस्ति गवाश्वादौ न तत्र हि ।
सामानाधिकरण्यं, तत् युगपन्न प्रयुज्यते ॥
अत्यन्ताभेदसत्त्वेन घटकुम्भादिवस्तुषु ।
सह प्रयोगो नैवास्ति नात्र तादात्म्यमिष्यते ॥
वृक्षोऽयं शिंशपेत्येवं प्रयोगो धीमतामपि ।
सामानाधिकरण्यं स्यात्तत्र तादात्म्यलक्षणम् ॥
वृक्षत्वं यद्यतिपतेत् शिंशपा कुत्रचित्तदा ।
स्वात्मानमेव संजह्यात् विपक्षे बाधकं न्विदम् ॥
तदुत्पत्तिः तदात्मत्वं अविनाभावबोधकम् ।
तत्कार्यं कारणं चात्मा स्वात्मानं साधयिष्यतः ॥
अनुमानं न प्रमाणमित्येवं चेत्प्रयुज्यते ।
एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेत् ॥
यदि च त्वाच्छिरस्कस्य प्रयोगः कस्यचित् तदा ।
स्वोक्तेरेव विरोधस्स्यात् माता वन्ध्या ममेतिवत् ॥
प्रमाणं च तदाभास सजातीयत्वहेतुना ।
ब्रुवन् स्वभावानुमानं स्वीकरोति भवानपि ॥
परकीयः संशयादिः ज्ञायते वचनाद्यदि ।
भवता स्वीकृतं तत्रानुमानं कार्यलिङ्गकम् ॥
तथैवानुपलब्ध्याऽपि कंचिदर्थं निषेधता ।
लिङ्गं ह्यनुपलब्ध्याख्यमगत्या स्वीकृतं भवेत् ॥
366 मानमेयरहस्यश्लोकवार्त्तिके
अत्रायं संग्रहश्लोकः तदुक्तः परिपठ्यते ।
प्रमाणान्तरसामान्यस्थितेरन्यधियां गतेः ॥
प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ।
प्रतिषेधः स्वभावान्तर्नीतोऽभावे निरूप्यते ॥
कृत्तिकोदयतः क्वापि रोहिण्युदयनिश्चयः ।
तत्कोष्ठगत्यनुविहितान्वयव्यतिरेकतः ॥
3 द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥
बुद्ध्यारूढेनैव धर्मधर्मिभावे न कल्पितम् ।
अनुमानं नैव बहिसदसत्त्वमपेक्षते ॥
निरुपप्लवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधोऽयत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥
यतश्च सविकल्पस्य प्रत्यक्षत्वं न चेष्यते ।
न तस्मादनुमानादेरुत्पत्तिः परमार्थतः ॥
4 न्यायरत्नाकरकृतामनूक्तिरवधार्यताम् ।
अनुमानं नैवमानमस्माकं परमार्थतः ॥
अवस्तुभूतसामान्यविषयत्वात्तथाऽपि च ।
तत्परंपरया वस्तुप्रभवं मानमिष्यते ॥
वह्निस्वलक्षणाद्धूमस्वलक्षणसमुद्भवः ।
ततश्च धूमप्रत्यक्षं ततो धूमविकल्पना ॥
अनुमानसमर्थनवादः 36
अनुमानं ततश्चं स्यात्तद्वस्तुप्रभवं ततः ।
वन्हेस्तु प्रतिबद्वस्य प्रतिलम्भनमुच्यते ॥
यद्वाष्पविषयाद्धूमविकल्पादुपजायते ।
वह्निज्ञानं, तन्न परंपरया प्रतिबध्यते ॥
वह्निनेति, न मानं तत् आभास इति गीयते ।
प्रतिबन्धपदार्थोऽपि सम्यग्व्युत्पादितोऽमतः ॥
व्यवहारविसंवादान्मानतेन्द्रियलिङ्गयोः ।
आप्तवादाविसंवादाच्छब्दः प्रामाण्यमृच्छति ॥
5 बौद्धाः प्रमेयद्वैविध्यात् प्रमाणं द्विविधं जगुः ।
नान्यः प्रमाणभेदस्य हेतुर्विषयभेदतः ॥
विशेषोऽध्यक्षतो गम्यः सामान्यमनुमानतः ।
नोभयं नोभयग्राह्यं पिष्टं पिष्टं नहीष्यते ॥
अतश्च नोपगच्छन्ति संप्लवं नीतिकोविदाः ।
एकस्मिन् विषयेऽनेकमानवृत्तिर्हि संप्लवः ॥
चोदनालक्षणत्वं च शास्त्रयोनित्वमेव च ।
धर्मस्य ब्रह्मणश्चापि तस्मादेवोपपादितम् ॥
समानविषयत्वे च जायेत सदृशी मतिः ।
नचाध्यक्षधिया साम्यमेति शब्दानुमानधीः ॥
तेजोऽन्यदेव नक्षत्रशशाङ्ककलादिषु ।
368 मानमेयरहस्यश्लोकवार्तिके
अन्यदेवेन्द्रियग्राह्यमन्यत् शब्दादिगोचरम् ।
शब्दात्प्रत्येति भिन्नाक्षः नतु प्रत्यक्षमीक्षते ॥
अन्यथैवाग्निसंसर्गाद्दाहं दग्धोऽनुमन्यते ।
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥
तस्मान्न संप्लवो नापि तृतीयं मानमिष्यते ।
प्रत्यक्षं च परोक्षं च मानं विषयभेदतः ॥
विकल्पविषये वृत्तिमाहुश्शब्दानुमानयोः ।
तेभ्यः संबन्धसिद्धौ च नानवस्था न संप्लवः ॥
यो वादिप्रतिवादिभ्यां निश्चितस्साधनं तु तत् ।
इत्युक्तवद्भिरप्येतैरसत्यात्सत्यधीर्मता ॥
अनुमानस्येत्थमेभिः प्रामाण्यं परिनिश्चितम् ।
तच्च सांवृतिकं वा सांव्यावहारिकमेववा ॥
6 अथ तार्किकसिद्धान्तसंग्रहोऽप्यत्र लिख्यते ।
व्याप्त्यतीचारशङ्केत्थं प्रत्युक्ता कुसुमाञ्जलौ ॥
शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कश्शङ्कावधिर्मतः ॥
अनुमानस्य बाधश्च नाध्यक्षात्किंतु तर्कतः ।
तत्र व्याप्त्याद्युपगमात् स्वव्याघातो दुरुत्तरः ॥
व्याघातो यदि दोषो न को वा दोषः उदीर्यताम् ।