सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 396, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 396

354 मानमेयरहस्यश्लोकवार्तिके
तत्र षोढा सन्निकर्षः लौकिकः परिकीर्तितः ।
ज्ञानसामान्ययोगोत्थभेदेनालौकिकस्त्रिधा ॥
तत्प्रत्यक्षं द्वित्रिचतुस्सन्निकर्षात्प्रवर्तते ।
तत्रात्मसुखरूपादिविषयास्स्युर्यथाक्रमम् ॥
आत्मचित्तेन्द्रियार्थाः स्युः सन्निकर्षस्य चाश्रयाः
इति नैयायिकाः प्राहुः अत्र मीमांसकाः पुनः ॥
चतुर्विधः संप्रयोगः द्रव्ये संयोगलक्षणः ।
गुणे संयुक्ततादात्म्यं गुणत्वे तद्वदात्मता ॥
गुणत्वगतसत्तायां तद्वत्तादात्म्यलक्षणः ।
श्रोत्रेण शब्दग्रहणमजसंयोगजं विदुः ॥
त्रिविधस्संनिकर्षः स्यादिति प्राभाकरा विदुः ।
संयोगस्संयुक्तसमवायश्च तदनन्तरः ॥
समवायस्तृतीयस्स्यात् तैर्हि स्यात्सर्वसंग्रहः ।
अलौकिकः सन्निकर्षः न मीमांसकसंमतः ॥
यच्चालौकिकविज्ञानं स्मरणं वाऽथ लैङ्गिकम् ।
योगस्यानुपगन्तृत्वात् योगी नैवास्ति तन्मते ॥
सर्वज्ञानामभावेन धर्मो वेदैकलक्षणः ।
आभिमुख्यं सन्निकर्ष इति संयोगदूषकाः ॥
यथाकथंचित्संबन्धं विदुस्सर्वेऽपि वादिनः ।
निर्विकल्पस्य विषयविकल्पस्याथ संग्रहः ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 396, कुल 672 में से · SarvaKosh