मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 397, कुल 672 में से
संदर्भ में पढ़ेंविकल्पवादः 35:
6 निर्विकल्पस्य विषयं बौद्धाः प्राहुस्स्वलक्षणम् ।
महासामान्यमस्येति सदद्वैतविदो विदुः ॥
वाग्रूपमपरे तत्त्वं प्रमेयं शाब्दिका विदुः ।
केचिद्गुणादिशबलं मन्यन्ते कपिलादयः ॥
केचिच्छकलितं वस्तु विदुः नैयायिकादयः ।
विशिष्टमेव विषयं प्राहुः प्राभाकरादयः ॥
प्रत्यक्षविषयेऽप्येताः चित्रा विप्रतिपत्तयः ।
परोक्षार्थे हि विमतिः प्रत्यक्षेणोपशाम्यति ॥
प्रत्यक्षे हि समुत्पन्ना विमतिः केन वार्यते ।
इदं भाति न भातीति संविद्विप्रतिपत्तिषु ॥
परप्रत्यायने पुंसां शरणं शपथोक्तयः ।
प्रत्यक्षलक्षणं चापि तादृशार्थानुगुण्यतः ॥
7 विकल्प्य कथितं तत्तु संग्रहादिह कथ्यते ।
कल्पनापोढमभ्रान्तं प्रत्यक्षमिति सौगताः ॥
सत्संप्रयोगे पुरुषस्येति जैमिनिलक्षणम् ।
सन्निकृष्टार्थविज्ञानमिति वृत्तिकृतां मतम् ॥
यत्त्विन्द्रियार्थसंबन्धोत्पन्नमव्यभिचारि च ।
तत्प्रत्यक्षमिति प्रोक्तमक्षपादेन लक्षणम् ॥
साक्षात्प्रतीतिः प्रत्यक्षमिति प्राभाकरा विदुः ।
अर्थाकृत्या परिणतेन्द्रियवृत्त्यनुपातिनी ॥