मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 394, कुल 672 में से
संदर्भ में पढ़ें352 मानमेयरहस्यश्लोकवार्तिके
३ प्रभाकरगुरूणां तु विशेषोऽत्रावधार्यताम् ।
पूर्वानुभूतसंस्कारसचिवं सविकल्पकम् ॥
केवलेन्द्रियसंसर्गजनितं निर्विकल्पकम् ।
यदैकमेव वस्तु स्यात् प्रत्यभिज्ञेति सोच्यते ॥
सजातीयं यदा तत्स्यात्सविकल्पकमुच्यते ।
तन्निर्विकल्पं प्रथमपिण्डग्रहणमुच्यते ॥
सविकल्पं द्वितीयादिग्रहणं त्विति निर्णयः ।
अनुवृत्तिर्नाम जातेर्नानाव्यक्तिसमन्वयः ॥
तदतद्गोचरत्वाभ्यां विकल्पेऽस्तित्वनास्तिते ।
निरीहादिस्वन इव निर्विकल्पस्वनो मतः ॥
योगेऽपि निर्विकल्पाख्यसमाधिर्योऽनुशिष्यते ।
अर्थमात्रविनिर्भासं स्वरूपविकलं यथा ॥
तत्रापि निर्विशेषार्थग्रहणं नोपदिश्यते ।
किंतु गीर्णस्वस्वरूपा विशिष्टार्थैव सा मतिः ॥
४ परोक्षाणां प्रमाणानां संसर्गांशे प्रमाणता ।
प्रत्यक्षस्य प्रमाणस्य त्रिष्वप्यस्ति प्रमाणता ॥
कालदेशपरिच्छिन्नं प्रत्यक्षमितरत्पुनः ।
सार्वदेशं सार्वकालं तत् त्रिकालादिगोचरम् ॥
शब्दसंसर्गयोग्यार्थप्रतिभासाः विकल्पनाः ।
स्मृतिव्यवहिताः तस्मादनर्थजनिता मताः ॥