सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 383, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 383

क्षणभङ्गवादनिरासः 341
देशकालविकल्पेऽपि क्षणस्य क्षुण्णता भवेत् ।
स्थिते हि वस्तुसद्भावे क्षणिकत्वं परीक्ष्यते ॥
३ क्षणिकत्वे पदार्थानां कारणत्वं च दुर्ग्रहम् ।
सर्वथा परनिष्पत्तौ निर्व्यापारो न कारणम् ॥
पूर्वक्षणविनाशे च कल्प्यमाने निरन्वये ।
उत्तरस्यानिमित्तत्वात् उत्पत्तिर्नोपपद्यते ॥
अत्यन्तासन्नसौ तस्मिन् न तावद्व्यापृतिक्षमः ।
स्वयं चाभावदृष्टत्वात् कस्मिन् काले करिष्यति ॥
नाशोत्पादसमत्वेऽपि नैरपेक्ष्यात्परस्परम् ।
न कार्यकारणत्वे स्तः तद्व्यापाराननुग्रहात् ॥
न ह्यलब्धात्मकं वस्तु पराङ्गत्व्याय कल्पते ।
तस्मात्प्राक्कार्यनिष्पत्तेः व्यापारो यत्र दृश्यते ।
तदेव कारणं तस्य न त्वानन्तर्यमात्रकम् ।
सव्यापारस्य कर्तृत्वे क्षणिकत्वं तु दुर्घटम् ॥
सत्त्वादक्षणिकत्वस्य सिद्धेर्हेतुर्विरुध्यते ।
एवं च सत्त्वं व्यावृत्तं क्षणिकेभ्यो विशेषतः ॥
अत एव च कार्याणां युगपन्न समुद्भवः ।
न चापि कृत्वा करणं सामग्री हि न सर्वदा ॥
प्राणिकर्मविपाकोऽपि सामग्र्यन्तर्गतो मतः ।
सर्वत्र सुखदुःखादिहेतोस्समुपपादनात् ॥