सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 387, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 387

प्रत्यक्षवादः 34
परीक्षमाणो भावांस्तु विद्वान् बुद्ध्याऽध्यवस्यति
इदमस्ति तथा चेदं नास्तीति निरुपद्रवम् ॥
सर्वभावास्स्वभावास्स्वभिलप्या इति स्थितम्।
एवं क्रमेण प्रायेण सौगताः प्रत्यवस्थिताः ॥
(71) प्रत्यक्षवादः.
1 अथ प्रमाणभेदानां विचारोऽत्र प्रवर्तते ।
प्रत्यक्षस्य च तत्रादौ विकल्पः प्रविभज्यते ॥
अक्षं प्रतिगतं यत्र सा धीः प्रत्यक्षमुच्यते ।
तां हि चक्षुः जनकतासम्बन्धेनानुगच्छति ॥
विषयेऽपि प्रतिगतमक्षं तेनेत्थमुच्यते ।
प्रत्यक्षः पुरुषः योषा प्रत्यक्षेति बुधैरिह ॥
इन्द्रिये संनिकर्षे वा तत्सम्बन्धात्प्रयुज्यते ।
न च युक्तोऽव्ययीभाव इत्याह न्यायमञ्जरी ॥
2 प्रत्यक्षमेवानुभव इति लौकायतं मतम् ।
परोक्षमनुमित्यादिज्ञानं स्मृतिसमुच्चयः ॥
अनुमानं स्मृतिः प्रत्युत्पन्नकारणसंभवा ।
इति प्राभाकराः प्राहुरित्यपि ज्ञायते क्वचित् ॥
परोक्षमेव विज्ञानं तद्धि स्यादानुमानिकम् ।
प्रत्यक्षमेव नास्तीति सौत्रान्तिकमुखा विदुः ॥
M.R. 44