ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
सौभाग्यभास्करव्याख्या । २३१
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ।
स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ॥ ३०० ॥
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ।
नामानुकीर्तनं मुक्त्वा नृणां नान्यत्परायणम् ॥ ३०१ ॥
तद्वतेहकः । तदात्मैक्येन कर्माणि कुर्वन्मुक्तिमवाप्स्यसि । एतद्रहस्यमाख्यातं सर्वेषां
हितकाम्यये'ति । अथवा पूर्वश्लोकस्य ब्रह्मज्ञानप्रदत्वव्याख्यापक्षे तत्साधनवैराग्यप्रदल-
मनेन श्लोकेनोच्यते । भोगेभ्यो विषयाभिलाषेभ्यो मोक्षो मोचनं तद्वासनात्यागस्तं
प्रददातीत्यादिरर्थः । उक्तं चाष्टावक्रगीतायाम् 'मुक्तिमिच्छसि चेत्तात विषयान्विषव-
त्त्यजे'ति ॥ २९९ ॥ किं बहुना तन्त्रोक्तकर्मसु भराभावेन ये श्रौतस्मार्तकर्मस्वेवाती-
वाचरणादरणशीलास्तेषामप्येतदुपकारकमित्याह—चतुरिति । ब्रह्मचारिगृहस्थवानप्रस्थ-
यतयस्तत्तदवान्तरभेदाश्चतुराश्रमनिष्ठास्तैः स्वस्वधर्माणां सम्यग्यथाशास्त्रमनुष्ठाने क्रिय-
माणे यदवश्यंभावि वैकल्यं वैगुण्यं तस्य परिपूर्तये समाधानायेति तादर्थ्ये चतुर्थी ।
चतुराश्रमिणां यानि यानि कर्माणि श्रुतिस्मृतिविहितानि तानि तानि सर्वाणि सर्वा-
ङ्गोपसंहारसमर्थस्यैव फलप्रदानि । सर्वाङ्गोपसंहारश्च प्रायेणाधुनिकानामशक्यतमः ।
तदिदमस्माभिः प्रदर्शितं शिवस्तवे 'स्वामिन्नङ्गेषु सर्वेष्वपि सुविरचितेष्वेव कर्माणि
किंचित्तुच्छं यच्छन्ति नो चेन्निरयदुरवटे संशयं वासयन्ति । मन्त्रैर्यन्त्रार्थबोधान्गुरु-
कुलनियमान्देशकालाद्यर्थशोधाद्गाढं गूढं च तत्त्वात्कथमतिकठिनोपेयुषी शेमुषी नः'
इति । ततश्च दुःरवगाहाङ्गलोपस्यावश्यकतया तज्जनितपापनिरासद्वारा साङ्गुण्यसंपाद-
नायेदं सर्वेषामावश्यकमिति भावः । उक्तं च देवीभागवते तृतीयस्कन्धे देवान्प्रति
भगवत्या 'मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च । सदा तृप्ताश्च संतुष्टा भविष्यध्वं सुराः
किले'ति । इत्थंच संयोगपृथक्त्वन्यायेनास्य क्रत्वर्थपुरुषार्थोभयरूपतासिद्धिः ॥ ३०० ॥
अथ परिभाषायां विंशतिश्लोकान्व्याचष्टे ॥ नामस्मरणावश्यकतोक्तिः सार्ध-
त्रयोदशश्लोकैः । उपसंहारः सार्धैः पञ्चभिरेकेन सूतोक्तिः ॥ ३९ ॥
अत्र चरमश्लोकस्यैकस्य सूतोक्तिरूपताकथनेन ततः पूर्वेषां हयग्रीवोक्तिरूपतैवेति
द्योतितम् 'दशभूः सार्धन्नृपाला' इति वक्तृनिर्णायकश्लोके चरमस्थाने हयग्रीवस्यैव कथ-
नात् तत्परत एतदवधिपर्यन्तमन्यस्य कस्यापि वक्तृत्वेन परिगणनाभावाच्च । तत्रैवा-
ध्यष्टमित्युक्तिस्तु पूर्वभागाभिप्रायेणेत्यविरोधः ॥ ३९ ॥ नन्वङ्गलोपप्रतिसमाधानाय
प्रायश्चित्तान्यपि तत्रतत्रैव विहितानीति तैरेव साङ्गुण्यसिद्धौ किमनेन सहस्रनामस्तोत्रेणे-
त्यत आह—कलाविति । पापैकबहुले चतुष्पादस्य धर्मस्य पादत्रये पापेन लुप्ते ।
मुक्त्वावेति विनार्थकमन्वयान्तरमखण्डं नतु क्त्वाप्रत्ययान्तम् । मोचनकर्तृकक्रियान्तरा-
भावेन तथात्वायोगात् । स्थितानामिति शेषपूरणेनायनक्रिययैव वा समाधेयम् । नामा-
१. तद्रहस्यकः इति पाठः ।
२३२ ललितासहस्रनाम ।
न्यनादृत्य स्थितानां स्वस्वसाङ्गकर्मानुष्ठानतः पततामित्यर्थः । अन्यत् श्रुतिस्मृतितन्त्रो-
दितं प्रायश्चित्तं न परायणं नाश्रयः । न वैकल्यपरिपूरकमिति यावत् । नामानुकीर्तनं तु
भवति तथा । 'प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णा-
नुस्मरणं परम् । यत्कृत्यं तन्न कृतं यदकृत्यं कृत्यवत्तदाचरितम् । उभयोः प्रायश्चित्तं
शिव तव नामाक्षरद्वयं कथितम् । किमन्येन मुनिश्रेष्ठाः प्रायश्चित्तेन कर्मणा । प्रायश्चि-
त्तमघौघस्य देवीनामानुकीर्तन'मित्यादिवचनात् । किंच अत्र तृतीयवचने प्रायश्चित्तस्य
कर्मणेति विशेषणेनैतत्सूचितम्-प्रायश्चित्तानामपि कर्मविशेषरूपत्वात्तेषामपि साङ्गा-
नामेव फलजनकत्वं वाच्यम् । साङ्गता तूक्तरीत्या दुःशकैव । तत्रापि प्रायश्चित्तान्तरग-
वेषणेऽनवस्था । नच नामस्मरणस्यापि प्रायश्चित्तरूपकर्मत्वाविशेषात्साङ्गतायै प्रायश्चि-
त्तान्तरगवेषणं तुल्यमिति वाच्यम् । दुरवगाहाङ्गान्तरनिरपेक्षस्यैव नामस्मरणमात्रस्य पापा-
पनोदकत्वात् । तदुक्तं विष्णुभागवते 'सांकेत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदु'रिति । सांकेत्यं पुत्रादिनाम । स्तोभोऽर्थहीनः शब्दः ।
शिवरहस्येऽपि 'अवशेनापि यन्नाम्नः कीर्तनान्मुच्यते नरः । स कथं न महादेवः
सेव्यते बुद्धिशालिभि'रिति । देवीभागवते तृतीयस्कन्धे 'अस्पष्टमपि यन्नाम प्रसङ्गेनापि
भाषितम् । ददाति वाञ्छितार्थान्दुर्लभानपि सर्वथे'ति । शक्तिरहस्येऽपि 'मदात्प्रमा-
दादुन्मादाद्दुःखप्रात्स्खलनादपि । कथितं नाम ते गौरि नृणां पापापनुत्तय' इति । मदः
सुरापानादिजन्यः । प्रमादोऽनवधानता । उन्मादो भूताद्यावेशः । उत्क्षप्रो निद्रादशा-
यामभिलापः । स्खलनं किंचिद्वक्तुं प्रवृत्तस्य मुखात्तदतिरिक्तशब्दनिःसरणम् । किंच
अस्ति हि महाभाष्ये प्रसिद्धः कूपखानकन्यायः-'तृषानिवृत्तिपङ्कलेपनिरासफलकस्य
कूपस्य खननdepthेऽपि जायेत एव तृषापङ्कलेपौ तावपि सिद्धकूपे तज्जन्यजलेन नश्यत
एवेति राजन् ङस् पुरुष सु इत्याकारकापशब्दप्रयोगजन्यं पातकं तज्जन्यराजपुरुषेति
परिनिष्पन्नरूपप्रयोगेन नश्यतीति स्वीकारात् । तेन न्यायेन प्रकृतेऽपि नामस्मरणना-
श्यतावच्छेदकपापत्वावच्छिन्नत्वाविशेषान्नामस्मरणाइ्गलोपजन्यपातकस्यापि तेनैव नाम-
स्मरणेन नाश इति नानवस्था । अनेनैवाशयेन ग्रन्थान्तेऽस्माभिर्वक्ष्यते 'तथाप्यन्तः
सन्तः सदयहृदयानाममहिमाप्यपूर्वस्तस्मान्मे न खलु खलपापोभयभय'मिति । अपूर्वः
स्वाङ्गलोपजनितपातकनिवर्तकरूपः । पूर्वं प्रायश्चित्तादिकर्मसु काप्यदृष्ट इति तदर्थः ।
नच श्रौतस्मार्तादिप्रायश्चित्तसाङ्गतायै नामकीर्तनस्योपयोगोऽस्त्विति वाच्यम् । तद्धेतो-
रेवास्तु तद्धेतुत्वं किं तेनेति न्यायविरोधात् । तदिदं सर्वमुक्तमास्माकीनशिवस्तवे 'वेधा
वैधापराधानपि शिव बहुधा तान्समाधातुमाधात्प्रायश्चित्तानि वित्ताधिपजनसुविधेयानि
वैषम्यभाञ्जि । कच्छेऽपच्छेद्मासे पुनरपि यजनं पूर्णयज्ञान्तराये त्वेकाल्पाज्येन पूर्णाहु-
तिरिति बहुशस्तत्त्वमेतन्न जाने ॥ कृत्यस्याकरणेऽप्यकृत्यकरणेऽप्युक्तं पुराणादिषु प्राय-
श्चित्तगणे परं शिवशिवेत्युच्चारणं भक्तितः । कृत्वा कर्म महेश तत्प्रतिसमाधानाय
चेत्त्वत्स्मृतिः सादावेव कृता न तारयति किं तस्मात्त्यजामि क्रियाः' इति । कर्मणः
Check line 21: कूपस्य खननेऽपि
Check line 24: नामस्मरणाइ्गलोप -> नामस्मरणाङ्गलोप (looks like ङ्गलोप, with broken type possibly reading नामस्मरणाङ्गोप or नामस्मरणाङ्गलोप) -> नामस्मरणाङ्गलोपजन्यपातकस्यापि
Let's zoom into line 21:
"कूपस्य खननेऽपि जायेत" -> खननेऽपि
Line 18: उत्क्षप्रो -> looks like "उत्स्वप्रो" or "उत्क्षप्रो"? Let's read: "निद्रादशायामभिलापः" - talking in sleep is "उत्स्वप्नः" (utsvapna), here spelled "उत्स्वप्रो" or "उत्स्वप्नो"? In old printing: "त्स्व" + "प्रो" or "प्नो"? Looking closely at L18: "उत्स्वप्रो" - the letter has व with hook, wait, उत्स्वप्नो निद्रादशा- / उत्स्वप्रो. It looks like उत्स्वप्रो or उत्स्वप्नो. Usually 'talking in sleep' is उत्स्वप्नः / उत्स्वप्नायते / उत्स्वप्न-प्रलाप. Look at L18: "उत्स्वप्रो निद्रादशा-" (possibly misprint in original for उत्स्वप्नो or typed उत्स्वप्रो). Let's transcribe faithfully: उत्स्वप्रो or उत्स्वप्नो? It has vertical line with loop down: प् + न + ो = प्नो, wait, notice 'प्र' vs 'प्न'. In L18, 'उत्स्वप्रो' - wait, the top has त् + स + व = त्स्व, then प् or प्र? It looks like उत्स्वप्नो. Wait, let's look at the character before 'निद्रादशा': "उत्स्वप्रो"? No, "उत्स्व" - wait, first letter उ, then त्ख? No, look at line 17: "दुःस्वप्नात्स्खलनादपि" -> wait! Line 17: "दादुन्मादाद्दुःखप्रात्स्खलनादपि" - wait, in line 16-17 it quotes a verse:
"मदात्प्रमादादुन्मादाद्दुःस्वप्नात्स्खलनादपि । कथितं नाम ते गौरि नृणां पापापनुत्तये इति ।"
In line 17 it printed: 'दादुन्मादाद्दुःस्वप्नात्स्खलनादपि' where 'स्व' is typeset as 'ख' with loop, or 'स्व', and 'प्ना' has broken type looking like 'प्रा'.
Then the commentary explains each word:
"मदः सुरापानादिजन्यः । प्रमादोऽनवधानता । उन्मादो भूताद्यावेशः । उत्स्वप्नो निद्रादशायामभिलापः ।"
Yes, the word is उत्स्वप्नो! The type for 'स्व' and 'प्न' in this font:
स + व = स्व (has a loop inside, resembles ख sometimes).
प् + न = प्न. Here it is उत्स्वप्नो. Let's write उत्स्वप्नो or what is printed: printed is clearly intended as 'उत्स्वप्नो' (or 'उत्स्वप्रो' if misprinted, but looks like प्नो). Let's write उत्स्वप्नो or match closely. Actually it says 'उत्स्वप्रो' or 'उत्स्वप्नो'. Let's look at 'दुःस्वप्नात्' in L17: "दुःस्वप्रात्" - it has 'प्रा'. In L18: "उत्स्वप्रो" - wait, it has a diagonal stroke like 'प्र'. Let's look closely: "उत्स्वप्रो" - yes, it really looks like उत्स्वप्रो! But wait, could it be उत्स्वप्नो? Let's check: in devanagari, 'प्न' is written as प with horizontal/slanted loop or like न. But here it has a diagonal stroke at the bottom left, which is 'र'-phala! The typesetter likely misread 'प्न' as 'प्र'. Let's preserve what is printed: उत्स्वप्रो (or if it's प्नो, wait: in L17 it is दुःस्वप्रात् or दुःस्वप्नात्? In L17: दादुन्मादाद्दुःस्वप्रात्स्खलनादपि - it clearly has 'प्रा' with a ra-kar). Let's look at L18: उत्स्वप्रो. It has 'प्र'! So both have 'प्र' instead of 'प्न'. I will transcribe what is visible: उत्स्वप्रो / दुःस्वप्रात्. Wait, or is it दुःस्वप्नात्? Actually, looking at 'प्रा' in 'मदात्प्रमादाद्', the 'प्र' in 'प्रमादाद्' has that exact same left slanting stroke. So it is indeed 'प्र'.
Wait, in L24: "नामस्मरणाइ्गलोपजन्य" -> look at "नामस्मरणाइ्ग": it's 'इ' with virama or 'ङ्'? It's an inverted or malformed 'ङ्' that looks like 'इ्' or 'ङ्'. It's "नामस्मरणाङ्गलोपजन्य".
Let's re-verify all lines carefully.२३२ ललितासहस्रनाम ।
न्यनादृत्य स्थितानां स्वस्वसाङ्गकर्मानुष्ठानतः पततामित्यर्थः । अन्यत् श्रुतिस्मृतितन्त्रो-
दितं प्रायश्चित्तं न परायणं नाश्रयः । न वैकल्यपरिपूरकमिति यावत् । नामानुकीर्तनं तु
भवति तथा । 'प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णा-
नुस्मरणं परम् । यत्कृत्यं तन्न कृतं यदकृत्यं कृत्यवत्तदाचरितम् । उभयोः प्रायश्चित्तं
शिव तव नामाक्षरद्वयं कथितम् । किमन्येन मुनिश्रेष्ठाः प्रायश्चित्तेन कर्मणा । प्रायश्चि-
त्तमघौघस्य देवीनामानुकीर्तन'मित्यादिवचनात् । किंच अत्र तृतीयवचने प्रायश्चित्तस्य
कर्मणेति विशेषणेनैतत्सूचितम्—प्रायश्चित्तानामपि कर्मविशेषरूपत्वात्तेषामपि साङ्गा-
नामेव फलजनकत्वं वाच्यम् । साङ्गता तूक्तरीत्या दुःशकैव । तत्रापि प्रायश्चित्तान्तरग-
वेषणेऽनवस्था । नच नामस्मरणस्यापि प्रायश्चित्तरूपकर्मत्वाविशेषात्साङ्गतायै प्रायश्चि-
त्तान्तरगवेषणं तुल्यमिति वाच्यम् । दुरवगाहाङ्गान्तरनिरपेक्षस्यैव नामस्मरणमात्रस्य पापा-
पनोदकत्वात् । तदुक्तं विष्णुभागवते 'सांकेत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदु'रिति । सांकेत्यं पुत्रादिनाम । स्तोभोऽर्थहीनः शब्दः ।
शिवरहस्येऽपि 'अवशेनापि यन्नाम्नः कीर्तनान्मुच्यते नरः । स कथं न महादेवः
सेव्यते बुद्धिशालिभि'रिति । देवीभागवते तृतीयस्कन्धे 'अस्पष्टमपि यन्नाम प्रसङ्गेनापि
भाषितम् । ददाति वाञ्छितार्थान्दुर्लभानपि सर्वथे'ति । शक्तिरहस्येऽपि 'मदात्प्रमा-
दादुन्मादाद्दुःखप्रात्स्खलनादपि । कथितं नाम ते गौरि नृणां पापापनुत्तय' इति । मदः
सुरापानादिजन्यः । प्रमादोऽनवधानता । उन्मादो भूताद्यावेशः । उत्स्वप्रो निद्रादशा-
यामभिलापः । स्खलनं किंचिद्वक्तुं प्रवृत्तस्य मुखात्तदतिरिक्तशब्दनिःसरणम् । किंच
अस्ति हि महाभाष्ये प्रसिद्धः कूपखानकन्यायः—'तृषानिवृत्तिपङ्कलेपनिरासफलकस्य
कूपस्य खननेऽपि जायेत एव तृषापङ्कलेपौ तावपि सिद्धकूपे तज्जन्यजलेन नश्यत
एवेति राजन् ङस् पुरुष सु इत्याकारकापशब्दप्रयोगजन्यं पातकं तज्जन्यराजपुरुषेति
परिनिष्पन्नरूपप्रयोगेन नश्यतीति स्वीकारात् । तेन न्यायेन प्रकृतेऽपि नामस्मरणना-
श्यतावच्छेदकपापत्वावच्छिन्नत्वाविशेषान्नामस्मरणाङ्गलोपजन्यपातकस्यापि तेनैव नाम-
स्मरणेन नाश इति नानवस्था । अनेनैवाशयेन ग्रन्थान्तेऽस्माभिर्वक्ष्यते 'तथाप्यन्तः
सन्तः सदयहृदयानाममहिमाप्यपूर्वस्तस्मान्मे न खलु खलपापोभयभय'मिति । अपूर्वः
स्वाङ्गलोपजनितपातकनिवर्तकरूपः । पूर्वं प्रायश्चित्तादिकर्मसु काप्यदृष्ट इति तदर्थः ।
नच श्रौतस्मार्तादिप्रायश्चित्तसाङ्गतायै नामकीर्तनस्योपयोगोऽस्त्विति वाच्यम् । तद्धेतो-
रेवास्तु तद्धेतुत्वं किं तेनेति न्यायविरोधात् । तदिदं सर्वमुक्तमास्माकीनशिवस्तवे 'वेधा
वैधापराधानपि शिव बहुधा तान्समाधातुमाधात्प्रायश्चित्तानि वित्ताधिपजनसुविधेयानि
वैषम्यभाञ्जि । कच्छेऽपच्छेद्मासे पुनरपि यजनं पूर्णयज्ञान्तराये त्वेकाल्पाज्येन पूर्णाहु-
तिरिति बहुशस्तत्त्वमेतन्न जाने ॥ कृत्यस्याकरणेऽप्यकृत्यकरणेऽप्युक्तं पुराणादिषु प्राय-
श्चित्तगणे परं शिवशिवेत्युच्चारणं भक्तितः । कृत्वा कर्म महेश तत्प्रतिसमाधानाय
चेत्त्वत्स्मृतिः सादावेव कृता न तारयति किं तस्मात्त्यजामि क्रियाः' इति । कर्मणः
: "श्वरीनामेत्याद्या":
- Does it have an ī-kāra on र? Look closely at line 21, first word:
- 'श्व' 'र' 'ना' 'मे' 'त्या' 'द्या' or 'श्व' 'री'?
- Wait! In line 14: "रुद्रेश्वरशिवमहेश्वरसदाशिवानां" -> hierarchy: Vishnu, then Rudra, then Ishvara, then Sadashiva...
- Wait, line 20-21: "तेन विष्णूनाम ततः परं रुद्रनाम ततःपरमी- / श्वरनामेत्याद्या" or "श्वरीनामेत्याद्या"?
- Look at the top of 'र': there is an ī-kāra loop! But wait, does line 20 end in: "ततःपरमी-"?
- If line 20 ends in "ततःपरमी-", then line 21 has "श्वरनामेत्याद्या": ततः परम् ईश्वरनामेत्याद्या!
- Ah! "ततः परम्" + "ईश्वरनामेत्याद्या" = ततःपरमीश्वरनामेत्याद्या!
- At the end of line 20: 'ततःपरमी-'
- At the start of line 21: 'श्वरनामेत्याद्या'!
- Let's verify: does line 21
२३४ ललितासहस्रनाम ।
समस्ताभ्यः स्रष्टा ब्रह्मा परः स्मृतः । ब्रह्मणश्च महाविष्णुर्वरिष्ठः सर्वपालकः । विष्णो-
रपि परः साक्षाद्रुद्रः संहारकारक' इति । सूतगीतायामपि 'त्रिषु रुद्रो वरिष्ठः स्यात्ततो
मायी परः शिवः । मायाविशिष्टात्सर्वज्ञात्साम्बः सत्यादिलक्षणः । वरिष्ठो मुनयः साक्षा-
च्छिवो नात्र विचारणा । शिवाद्वरिष्ठो नैवास्ति मया सत्यमुदीरित' मिति । अत्र मायीति-
पदेनेश्वरशिवमहेश्वरसदाशिवा अभेदेन गृहीताः । 'ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदा-
शिवः । एते पञ्च महाप्रेताः पादमूले व्यवस्थिता' इतीश्वराद्भेदेन मध्ये सदाशिवस्य
कीर्तनात् । 'शिवात्मके महामञ्चे महेशानोपबर्हणे । अतिरम्यतले तत्र कशिपुश्च सदा-
शिवः । मृतकाश्च चतुष्पादा महेशश्च पतद्ग्रहः । तत्रास्ते परमेशानी महात्रिपुरसुन्द-
री'ति भैरवयामले कामेश्वरा
कर्षस्य शक्तिमूलकत्वे सिद्धे 'तद्धेतोरेवास्ति'ति न्यायेनाम्बाया एव सर्वोत्तमत्वं
Wait, in : "शक्तः प्रभवितुं' मित्यादिना" -> wait, is it मित्यादिना or नित्यादिना or मियादिना?
Let's look closely at line 8:
"शक्तः प्रभवितुं' मित्य..."
Wait, after the quote ' there is 'मित्यादिना'. Yes, "मित्यादिना".
In : "शिवोत्कर्षस्य शक्तिमूलकत्वे सिद्धे 'तद्धेतोरेवास्ति'ति न्यायेनाम्बाया एव सर्वोत्तमत्वं"
Let's check: "'तद्धेतोरेवास्ति'ति" - yes!
In : "सिद्ध्यतीत्याशयेनाह—शिवेति । देव्यास्त्रिपुरसुन्दर्याः परशिवाभिन्नाया नामेत्यसम-"
Let's check: dash after नाह: "—शिवेति ।" Yes, em-dash.
In : "स्तोक्तिर्देव्यनन्त्यभ्रमनिरसाय । तेन वातुलशुद्धतन्त्रे 'शिवस्य तु परा शक्तिः सहस्रां-"
Wait, "स्तोक्तिर्देव्यनन्त्यभ्रमनिरसाय":
Let's check: स्तो (sto) क्ति (kti) र्दे (
.`
Let's format line-by-line cleanly with line markers to .२३६ ललितासहस्रनाम ।
तस्मात्संकीर्तयेन्नित्यं कलिदोषनिवृत्तये ।
मुख्यं श्रीमातृनामेति न जानन्ति विमोहिताः ॥ ३०५ ॥
विष्णुनामपराः केचिच्छिवनामपराः परे ।
प्रशस्तम् ॥ ३०४ ॥ उपसंहरति—तस्मादिति । कलिप्रयुक्तो दोषः खखधर्मसमनु-
ष्ठानवैकल्यं तस्य निवृत्तयेऽङ्गादिपरिपूर्तये । वैकल्यं च नाङ्गलोप एव अपितु प्रधानलो-
पोपि । प्रधानविकल्पत्वाविशेषात्, कलिप्रयुक्तदोषत्वाविशेषाच्च । सोऽपिच प्रायेणा-
धुनिकानां सर्वेषां कर्मठंमन्यानामपरिहरणीय एव । देवतोद्देशेन द्रव्यत्यागरूपस्य यागस्य
मानससंकल्पविशेषात्मकत्वेनामय इदं नममेत्यादिस्पष्टतरशब्दाभिलापमात्रेण तस्या
जायमानत्वात् । एवं संध्यावन्दनपदवाच्यं प्रधानं 'असावाद
न कश्चिदपि लोकेषु ललितानामतत्परः ॥ ३०६ ॥
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ।
तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ॥ ३०७ ॥
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ।
नामसाहस्रपाठश्च तथा चरमजन्मनि ॥ ३०८ ॥
यथैव विरला लोके श्रीविद्याचारवेदिनः ।
तथैव विरलो गुह्यनामसाहस्रपाठकः ॥ ३०९ ॥
र्भतरैव । याच दुर्लभतरा सा प्रायेणाविद्यमानप्रायेवेत्याशयेनाह—न कश्चिद-
पीति । लोकेषु मनुष्येषु देवेषु दानवादिषु च ॥ ३०६ ॥ इदानीं गूहितमभिप्रायं
स्फोटयति—येनेति । अन्यासां विष्णुरुद्रेश्वरादीनां देवतानां नाम प्रातिस्विकं जन्म-
कोटिषु येन कीर्तितं तस्यैव कक्ष्याक्रमेणोत्तरोत्तरदेवतातादात्म्याच्चरमशिवतादात्म्या-
पन्नस्यैव विरलतमस्य कस्यचित्पुरुषधौरे
२३८ ललितासहस्रनाम ।
मन्त्रराजजपश्चैव चक्रराजार्चनं तथा ।
रहस्यनामपाठश्च नाल्पस्य तपसः फलम् ॥ ३१० ॥
अपठन्नामसाहस्रं प्रीणयेद्यो महेश्वरीम् ।
स चक्षुषा विना रूपं पश्येदेव विमूढधीः ॥ ३११ ॥
रहस्यनामसाहस्रं त्यक्त्वा यः सिद्धिकामुकः ।
स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ॥ ३१२ ॥
यो भक्तो ललितादेव्याः स नित्यं कीर्तयेदिदम् ।
नान्यथा प्रीयते देवी कल्पकोटिशतैरपि ॥ ३१३ ॥
तस्माद्रहस्यनामानि श्रीमातुः प्रयतः पठेत् ।
इति ते कथितं स्तोत्रं रहस्यं कुम्भसंभव ॥ ३१४ ॥
नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।
यथैव गोप्या श्रीविद्या तथा गोप्यमिदं मुने ॥ ३१५ ॥
पशुतुल्येषु न ब्रूयाज्जनेषु स्तोत्रमुत्तमम् ।
यो ददाति विमूढात्मा श्रीविद्यारहिताय तु ॥ ३१६ ॥
तस्मै कुप्यन्ति योगिन्यः सोऽनर्थः सुमहान्स्मृतः ।
रहस्यनामसाहस्रं तस्मात्संगोपयेदिदम् ॥ ३१७ ॥
त्रयाणामेकत्र मेलनमतीव दुर्लभमिति न्यायसिद्धमेवार्थमाह—मन्त्रेति । अपितु निर-
वधिकस्येति शेषः । नकारैणैवायं समासो नाल्पस्येति नतु नञ् ॥ ३१० ॥ एवं देव-
तात्प्रीतिकरत्वं सर्वकामपूरकत्वं चाव्यानवयमुखेनोक्त्वा व्यतिरेकमुखेन निदर्शनालंका-
राभ्यां द्रढयति—अपठन्निति द्वाभ्याम् । स्पष्टोऽर्थः ॥ ३११ ॥ ३१२ ॥ भक्त-
तावच्छेदकमप्येतदेवेत्यन्वयव्यतिरेकाभ्यामाह—य इति । यो नित्यं संकीर्तयेत्स एव
भक्तो नान्य इत्यर्थः । 'ये यजमानास्त ऋत्विज' इत्यत्रेव यत्तदोर्वैपरीत्येनान्वयः
॥ ३१३ ॥ नामसाहस्रपाठविधिं निगमयंस्तत्फलकथनमुपसंहरति—तस्मादिति ।
प्रयतः शुचिः ॥ ३१४ ॥ उत्तरत्र संप्रदायप्रवर्तनप्रकारं शिक्षयति—नेति । भक्ता-
यापि विद्यावेदनरहिताय तत्सहितायाप्यभक्ताय न ब्रूयात् । तथा गोप्यं श्रीविद्या
यथा तदभाववते न प्रदर्श्यते तथेद् तद्वतेपि न प्रदर्श्यं किमुत तदभाववत इति भावः
॥ ३१५ ॥ अतएव निषेधल्यर्धेन—पश्विति । पशवश्च द्विविधाः पूर्वमुक्ताः ॥ * ॥
निषेधोल्लङ्घने दण्डमाह—यं इति । यश्च गृह्णातीति चकारलभ्योऽर्थः ॥ ३१६ ॥ तस्मै
दात्रे विद्यारहिताय ग्रहीत्रे च । 'क्रुधद्रुहेर्ष्यासूयार्थानां यंप्रति कोप' इति संप्रदान-
संज्ञा ॥ * ॥ गोपनीयंतामुपसंहरत्यर्धेन—रहस्येति । रहस्येत्यादिविशेष्यं हेतुग-
र्भम् । तेन परिकराङ्कुरालंकारः । तस्मात् अनधिकारिणोर्दातृग्रहीत्रोरनर्थप्रदत्वात्
सौभाग्यभास्करव्याख्या । २३९
स्वतन्त्रेण मया नोक्तं तवापि कलशोद्भव ।
ललिताप्रेरणादेव मयोक्तं स्तोत्रमुत्तमम् ॥ ३१८ ॥
कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् ।
तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥ ३१९ ॥
सूत उवाच ।
इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ।
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ३२० ॥
इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने हयग्रीवागस्त्यसंवादे ललितासहस्रनाम-
स्तोत्रं नाम षट्त्रिंशोऽध्यायः ॥
रहस्यत्वाच्च गोपयेदित्यर्थः ॥ ३१७ ॥ ननु यद्विद्यावतेऽपि गोप्यं तन्मह्यं त्वया कथं
प्रदर्शितमित्याशङ्कमानमगस्त्यं समाधत्ते हयग्रीवः—स्वतन्त्रेणेति । स्वतन्त्रेण पराप्रे-
रितेन । कलशीति जातिलक्षणो ङीष् । तत्प्रयोगश्च श्लेषेण देवीपुत्रबोधनाय । तदप्युपा-
स्तिबलेन देवीपुत्रभावपर्यन्तां पदवीमुपारूढे वात्सल्येन ललिताम्बाप्रेरणावश्यंभावध्व-
ननाय । ‘कलं शुके कलौ जीर्णे कलो नादेऽतिमञ्जुल’ इति यादवबलात्कले शुके नादे
वा शेत इति कलशी देवी । सर्वोत्तमत्वाद्वा । ‘सर्वोत्तमे चोत्तमाङ्गे कुम्भे च कलश-
ध्वनि’रिति रभसः । ललिताप्रेरणादेव तत्प्रवर्तनाया अनुल्लङ्घनीयत्वात् । अधिकारिवि-
षय एव तत्प्रेरणस्य जायमानत्वाच्च । तेनोपासकाभासायैव न प्रदर्श्यमिति भावः
॥ ३१८ ॥ त्वं तु नोपासकाभासः अपितु पूर्णोऽधिकारीति ध्वननाय प्रवर्तयति ।
त्वयेति शेषः । निरन्तरं अभेदानुसंधानपूर्वकम् । नचात्र नामकीर्तनविधिरसकृच्छ्रूय-
माणोऽभ्यासात्कर्माणि भिन्द्यादेवेत्येकस्यैवैतावन्ति फलानीति वर्णनमयुक्तमिति वा-
च्यम् । भावनाभेदमात्रेणापि तदुपपत्तेः फलस्यानुपादेयत्वेन तद्विशेषोद्देशेन कर्मण एव
पुनःपुनर्विधानेऽप्यन्यपरत्वेन तादृशस्य पुनःश्रवणस्याभ्यासरूपत्वाभावात् । ‘अपः प्रण-
यती’ति विधेरर्थवादवैचित्र्यार्थं षड्वारं श्रवणेऽपि कर्मभेदानङ्गीकारात् । अनुपादेयगु-
णसाचिव्येऽप्यसंनिधेरभावेन प्रकरणान्तरस्यापि शङ्कितुमयोगाच्चेति दिक् ॥ ३१९ ॥
प्रहृष्टो वचनं प्राह्नेत्यादिनोपक्रान्तमेकेन श्लोकेनोपसंहरति भगवान्सूतः । आनन्दे
स्वात्मानन्दे मग्नं विषयान्तरसंचारराहित्येन तदेकप्रवणं हृदयं चित्तं यस्य सः । पुलका
आनन्दजन्यो रोमाञ्चा अस्य संजाता इति पुलकितः । तारकादित्वादितच् ॥ ३२० ॥
अथ परिभाषायां स्वग्रन्थमुपसंहरति—इति परिभाषामण्डलमुदितं नरसिं-
हयज्वना विदुषा । सत्संप्रदायगमकं शिवभक्तानन्दनाय शिवम् ॥४०॥
मण्डलशब्दश्चत्वारिंशत्संख्यात्मकसमूहपरः । विदुषा विद्याष्टादशकविदा श्रीविद्योपास-
केन च । शिवयोर्भक्तानां सत्संप्रदायं दुर्लभतरमन्वेषमाणानामानन्दनाय । शिवं मङ्ग-
२४० ललितासहस्रनाम ।
लरूपमिति सर्वं शिवम् ॥ ४० ॥
इति भास्कररायेण कृते सौभाग्यभास्करे । जाता फलश्रुतिः श्लोकैः क्षमाह
द्वादशी कला ॥ १२ ॥
ग्रन्थकृतप्रशस्तिः ।
श्रीविश्वामित्रवंश्यः शिवभजनपरो भारतीसोमपीथी
काश्यां गम्भीरराजो बुधमणिरभवद्भास्करस्तस्य सूनुः ।
मोदच्छायामितायां शरदि शरहतावाश्विने कालयुक्ते
शुक्रे सौम्ये नवम्यामतनुत ललितानामसाहस्रभाष्यम् ॥ १ ॥
श्रुतिस्मृतिन्यायपुराणसूत्रकोशागमश्रीगुरुसंप्रदायात् ।
निश्चित्य निर्मथ्य कृतापि टीका शोध्यैव सद्भिर्मयि हार्दवद्भिः ॥ २ ॥
प्रमादो मेऽवश्यं भवति मतिमान्द्यादलसतः
पदार्थन्यायानामपि दुरवगाहलनियमान् ।
परं लन्तः सन्तः सदयहृदया नाममहिमा-
प्यपूर्वस्तस्मान्मे न खलु खलपापोभयभयम् ॥ ३ ॥
अम्ब लत्पदयोः समर्पितमिदं भाध्यं लया कारितं
लन्नामार्थविकासकं तव मुदे भूयादथ लां भजन् ।
यो नैनत्परिशीलयेन्न च पठेद्यः पुस्तकस्यापि वा
संग्राहं न करोति तस्य ललिते माभूद्भवत्यां मतिः ॥ ४ ॥
नामैकं मामनयन्नामसहस्राम्बुधेः परं पारम् ।
जलविन्दुर्भवलजलधेर्येषां ते मे जयन्ति गुरुचरणाः ॥ ५ ॥
इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणसर्वतन्त्रस्वतन्त्र श्रीमद्गम्भीरराय-
दीक्षितसूरिसूनुना भासुरेत्युपाख्येन भास्कररायेण भासुरानन्दनाथेतिदी-
क्षानामशालिना प्रणीतं सौभाग्यभास्कराख्यं ब्रह्माण्डपुराणीयश्री-
ललितारहस्यनामसहस्रभाष्यं संपूर्णम् ।
सम्पूर्णोऽयं ग्रन्थः ।
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह पृष्ठ पूर्णतः रिक्त है।
70495
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है। यह पृष्ठ पूर्णतः रिक्त है।
इस पृष्ठ/जिल्द (cover) पर कोई पाठ (text) अंकित नहीं है। यह रिक्त लाल जिल्द (red cover) है।