सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 262, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 262

२३४ ललितासहस्रनाम ।

समस्ताभ्यः स्रष्टा ब्रह्मा परः स्मृतः । ब्रह्मणश्च महाविष्णुर्वरिष्ठः सर्वपालकः । विष्णो-
रपि परः साक्षाद्रुद्रः संहारकारक' इति । सूतगीतायामपि 'त्रिषु रुद्रो वरिष्ठः स्यात्ततो
मायी परः शिवः । मायाविशिष्टात्सर्वज्ञात्साम्बः सत्यादिलक्षणः । वरिष्ठो मुनयः साक्षा-
च्छिवो नात्र विचारणा । शिवाद्वरिष्ठो नैवास्ति मया सत्यमुदीरित' मिति । अत्र मायीति-
पदेनेश्वरशिवमहेश्वरसदाशिवा अभेदेन गृहीताः । 'ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदा-
शिवः । एते पञ्च महाप्रेताः पादमूले व्यवस्थिता' इतीश्वराद्भेदेन मध्ये सदाशिवस्य
कीर्तनात् । 'शिवात्मके महामञ्चे महेशानोपबर्हणे । अतिरम्यतले तत्र कशिपुश्च सदा-
शिवः । मृतकाश्च चतुष्पादा महेशश्च पतद्ग्रहः । तत्रास्ते परमेशानी महात्रिपुरसुन्द-
री'ति भैरवयामले कामेश्वरा