सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 267, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 267

सौभाग्यभास्करव्याख्या । २३९
स्वतन्त्रेण मया नोक्तं तवापि कलशोद्भव ।
ललिताप्रेरणादेव मयोक्तं स्तोत्रमुत्तमम् ॥ ३१८ ॥
कीर्तनीयमिदं भक्त्या कुम्भयोने निरन्तरम् ।
तेन तुष्टा महादेवी तवाभीष्टं प्रदास्यति ॥ ३१९ ॥
सूत उवाच ।
इत्युक्त्वा श्रीहयग्रीवो ध्यात्वा श्रीललिताम्बिकाम् ।
आनन्दमग्नहृदयः सद्यः पुलकितोऽभवत् ॥ ३२० ॥
इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने हयग्रीवागस्त्यसंवादे ललितासहस्रनाम-
स्तोत्रं नाम षट्त्रिंशोऽध्यायः ॥
रहस्यत्वाच्च गोपयेदित्यर्थः ॥ ३१७ ॥ ननु यद्विद्यावतेऽपि गोप्यं तन्मह्यं त्वया कथं
प्रदर्शितमित्याशङ्कमानमगस्त्यं समाधत्ते हयग्रीवः—स्वतन्त्रेणेति । स्वतन्त्रेण पराप्रे-
रितेन । कलशीति जातिलक्षणो ङीष् । तत्प्रयोगश्च श्लेषेण देवीपुत्रबोधनाय । तदप्युपा-
स्तिबलेन देवीपुत्रभावपर्यन्तां पदवीमुपारूढे वात्सल्येन ललिताम्बाप्रेरणावश्यंभावध्व-
ननाय । ‘कलं शुके कलौ जीर्णे कलो नादेऽतिमञ्जुल’ इति यादवबलात्कले शुके नादे
वा शेत इति कलशी देवी । सर्वोत्तमत्वाद्वा । ‘सर्वोत्तमे चोत्तमाङ्गे कुम्भे च कलश-
ध्वनि’रिति रभसः । ललिताप्रेरणादेव तत्प्रवर्तनाया अनुल्लङ्घनीयत्वात् । अधिकारिवि-
षय एव तत्प्रेरणस्य जायमानत्वाच्च । तेनोपासकाभासायैव न प्रदर्श्यमिति भावः
॥ ३१८ ॥ त्वं तु नोपासकाभासः अपितु पूर्णोऽधिकारीति ध्वननाय प्रवर्तयति ।
त्वयेति शेषः । निरन्तरं अभेदानुसंधानपूर्वकम् । नचात्र नामकीर्तनविधिरसकृच्छ्रूय-
माणोऽभ्यासात्कर्माणि भिन्द्यादेवेत्येकस्यैवैतावन्ति फलानीति वर्णनमयुक्तमिति वा-
च्यम् । भावनाभेदमात्रेणापि तदुपपत्तेः फलस्यानुपादेयत्वेन तद्विशेषोद्देशेन कर्मण एव
पुनःपुनर्विधानेऽप्यन्यपरत्वेन तादृशस्य पुनःश्रवणस्याभ्यासरूपत्वाभावात् । ‘अपः प्रण-
यती’ति विधेरर्थवादवैचित्र्यार्थं षड्वारं श्रवणेऽपि कर्मभेदानङ्गीकारात् । अनुपादेयगु-
णसाचिव्येऽप्यसंनिधेरभावेन प्रकरणान्तरस्यापि शङ्कितुमयोगाच्चेति दिक् ॥ ३१९ ॥
प्रहृष्टो वचनं प्राह्नेत्यादिनोपक्रान्तमेकेन श्लोकेनोपसंहरति भगवान्सूतः । आनन्दे
स्वात्मानन्दे मग्नं विषयान्तरसंचारराहित्येन तदेकप्रवणं हृदयं चित्तं यस्य सः । पुलका
आनन्दजन्यो रोमाञ्चा अस्य संजाता इति पुलकितः । तारकादित्वादितच् ॥ ३२० ॥
अथ परिभाषायां स्वग्रन्थमुपसंहरति—इति परिभाषामण्डलमुदितं नरसिं-
हयज्वना विदुषा । सत्संप्रदायगमकं शिवभक्तानन्दनाय शिवम् ॥४०॥
मण्डलशब्दश्चत्वारिंशत्संख्यात्मकसमूहपरः । विदुषा विद्याष्टादशकविदा श्रीविद्योपास-
केन च । शिवयोर्भक्तानां सत्संप्रदायं दुर्लभतरमन्वेषमाणानामानन्दनाय । शिवं मङ्ग-