सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 265, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 265

न कश्चिदपि लोकेषु ललितानामतत्परः ॥ ३०६ ॥
येनान्यदेवतानाम कीर्तितं जन्मकोटिषु ।
तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ॥ ३०७ ॥
चरमे जन्मनि यथा श्रीविद्योपासको भवेत् ।
नामसाहस्रपाठश्च तथा चरमजन्मनि ॥ ३०८ ॥
यथैव विरला लोके श्रीविद्याचारवेदिनः ।
तथैव विरलो गुह्यनामसाहस्रपाठकः ॥ ३०९ ॥
र्भतरैव । याच दुर्लभतरा सा प्रायेणाविद्यमानप्रायेवेत्याशयेनाह—न कश्चिद-
पीति । लोकेषु मनुष्येषु देवेषु दानवादिषु च ॥ ३०६ ॥ इदानीं गूहितमभिप्रायं
स्फोटयति—येनेति । अन्यासां विष्णुरुद्रेश्वरादीनां देवतानां नाम प्रातिस्विकं जन्म-
कोटिषु येन कीर्तितं तस्यैव कक्ष्याक्रमेणोत्तरोत्तरदेवतातादात्म्याच्चरमशिवतादात्म्या-
पन्नस्यैव विरलतमस्य कस्यचित्पुरुषधौरे