काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
२४ काव्यमीमांसायाम्
आवृत्ताख्यातम्—"जयत्यमलकौस्तुभस्तबकितांसपीठो हरि-
र्जयन्ति च मृगेक्षणाश्चलदपाङ्गदृष्टिक्रमाः ।
ततो जयति मल्लिका तदनु सर्वसंवेदना-
विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः ॥”
एकाभिधेयाख्यातम्—
"हृष्यति चूतेषु चिरं तुष्यति बकुलेषु मोदते मरुति ।
इह हि मधौ कलकूजिषु पिकेषु च प्रीयते रागी ॥”
परिणताख्यातम्—"सोऽस्मिन्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः ।
ते च चैत्रे विचित्रैलाकक्कोलीकेलयोऽनिलाः ॥”
अनुवृत्ताख्यातम्—"चरन्ति चतुरम्भोधिहेलोद्यानेषु दन्तिनः ।
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते ॥”
समुचिताख्यातम्—"परिग्रहभराक्रान्तं दौर्गत्यगतिचोदितम् ।
मनो गन्त्रीव कुपथे चीत्करोति च याति च ॥”
यथा च—"स देवः सा दंष्ट्रा कृतकिटिविलासस्मितसिता
द्वयं दिश्यात्तुभ्यं मुदमिदमुदारं जयति(तु) च ।
उद्वच्छद्भिर्भूयस्तरलनिवेशा वसुमती
यदग्रे यच्छासैर्गिरिगुरुकलीलामुद्वहत् ॥”
अध्याहृताख्यातम्—"दोर्दण्डताण्डवभ्रष्टमुडुषण्डं बिभर्ति यः ।
व्यस्तपुष्पाञ्जलिपदे चन्द्रचूडः श्रिये स वः॥”
कृदभिहिताख्यातम्—"अभिमुखे मयि संहृतमीक्षितं
हसितमन्यनिमित्तकथो(कृतो)दयम् ।
विनयबाधितवृत्तिरतस्तया
न विवृतो मदनो न च संवृतः ॥”
अनपेक्षिताख्यातम्—"कियन्मात्रं जलं विप्र ? जानुदघ्नं नराधिप ।
तथापीयमवस्था ते न सर्वत्र भवादृशाः ॥”
गुणवदलङ्कृतञ्च वाक्यमेव काव्यम् । "असत्यार्थाभिधायित्वा-
न्नोपदेष्टव्यं काव्यम्” इत्येके । यथा—
कवि रहस्ये षष्ठोऽध्यायः । २५
“स्तेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिः
मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं कोऽयमीदृक्प्रकारः ।
इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः
स्तोकावस्थानदुस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः ॥”
यथा च—
“भ्रश्यद्भूभृद्भोगीश्वरफणपवनाध्मातपातालतालुः(मूलः)
त्रुट्यन्नानागिरीन्द्रावलिशिखरखरास्फाललोलाम्बुराशिः ।
उद्यन्नीरन्ध्रधूलीविधुरसुरवधूमूच्यमानोपशल्यः¹
कल्पोद्योगस्य यस्य त्रिभुवनदमनैः² सैन्यसम्मर्द आसीत् ॥”
आहुश्च—“दृष्टं किंचिददृष्टमन्यदपरं वाचालवार्त्तार्पितं
भूयस्तुण्ड(ङ्ग)पुराणतः परिणतं किञ्चिच्च शास्त्रश्रुतम् ।
सूक्त्या वस्तु यदत्र चित्ररचनं तत्काव्यमव्याहतं
रत्नस्येव न तस्य जन्म जलधेर्नो रोहणाद्वा गिरेः ॥”
“न” इति यायावरीयः ।
“नासत्यं नाम किश्चन काव्ये यस्तु स्तुत्येष्वर्थवादः³ (?) ।
स न परं कविकर्मणि श्रुतौ च शास्त्रे च लोके च⁴ ॥”
तत्र श्रौतः—“पुष्पिण्यौ⁵ चरतो जङ्घे भूष्णुरात्मा फलेग्रहिः ।
शेरेऽस्य सर्व्वे⁶ पाप्मानः श्रमेण प्रपथे हताः ॥”
शास्त्रीयः—“आपः पवित्रं प्रथमं पृथिव्या-
मपां पवित्रं परमं च मन्त्राः ।
तेषां च सामर्ग्यजुषां पवित्रं
महर्षयो व्याकरणं निराहुः ॥”
किञ्च—“यस्तु प्रयुङ्क्ते कुशलो विशेषे⁷ शब्दान्यथावद्व्यवहारकाले ।
सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः ॥
१ A explains as उपकण्ठः. २ A ०दसनः. ३ B स्तुत्यर्थवादः. ४ B श्रुतौ शास्त्रे लोके च. ५ A पुष्पिन्वौ. ६ B सर्व्वपाप्मानः. ७ B पैः.
४
“कः ? । वाग्योगविदेव । कुत एतत् ? । यो हि शब्दाज्ञानादपश-
ब्दानप्यसौ जानाति । यथैव हि शब्दज्ञाने धर्म एवमपशब्दज्ञानेऽप्य-
धर्मः । अथवा भूयानधर्मः प्राप्नोति । भूयांसो ह्यपशब्दा अल्पीयांसः
शब्दाः । एकैकस्य हि शब्दस्य बहवोऽपभ्रंशाः । तद्यथा गौरि-
त्यस्य शब्दस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः ।
अथ योऽवाग्योगवित् अज्ञानं तस्य शरणम् । नात्यन्तायाज्ञानं
शरणं भवितुमर्हति । यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबे-
त्सोऽपि, मन्ये पतितः स्यात् । एवं तर्हि सोऽनन्तमाप्नोति जयं
परत्र वाग्योगविद्दुष्यति चापशब्दैः । कः ? । अवाग्योगविदेव । अथ
यो वाग्योगवित् विज्ञानं तस्य शरणम् । क पुनरिदं पठितम् ? ।
भ्राजा नाम श्लोकाः । किञ्च भोः श्लोका अपि प्रमाणम् ? । किञ्चातः ? ।
यदि प्रमाणमयपि श्लोकः प्रमाणं भवितुमर्हति—
‘यद्यु(दु)दुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत् ॥’ इति ।
प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणमेव” इति
गोनर्दीयः ।
लौकिकः—‘‘गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्द्रकुङ्कुमम् ॥’’
“असदुपदेशकत्वात्तर्हि नोपदेष्टव्यं काव्यम्” इत्यपरे। यथा एवं—
“वयं बाल्ये डिम्भास्तरुणिमनि यूनः परिणता-
वपीच्छामो वृद्धानपरिणयविधेस्तु स्थितिरियम् ।
त्वयाऽऽरब्धं जन्म क्षपयितुममार्गेण किमिदं
न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत् ॥”
“अस्त्ययमुपदेशः । किन्तु निषेध्यत्वेन न विधेयत्वेन” इति याया-
वरीयाः । य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबु-
१ C दुष्यति अपशब्दैः कः ? । B कः । अवाग्योगवित् । अथ वाग्योगवित् १ ज्ञानं तस्य
शरणम् । नात्यन्ताय ज्ञानं भवितुमर्हति । योऽह्यजानन् ब्राह्मणं हन्यात् सुरां वा पिबेत् सोऽपि मन्ये
पतितः स्यात् । एवं तर्हि सोऽनन्तमाप्नोति । किञ्चातः । यतः यदि प्रमाणमयपि श्लोकः प्रमाणं
भवितुमर्हति । क पुनरिदं पठितमित्याचार्याः । भ्रान्ता नाम श्लोकास्तेष्विति गोनर्दीयः । किञ्च भोः
श्लोक एव प्रमाणम् । तदनेनापि प्रमाणेन भवितव्यमित्याचार्याः “यद्युदुम्बरवर्णानां घटीनां मण्डलं
महत् । पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत्” प्रमत्तगीतमेतद्भगवतो यस्त्वप्रमत्तगीतं तत्प्रमाण-
मेवेति गोनर्दीयः ॥
कविरहस्ये षष्ठोऽध्यायः । २७
ध्येतेति कवीनां भावः । किञ्च “कविवचनायत्ता लोकयात्रा । सा
च निःश्रेयसमूलम्” इति महर्षयः । यदाहुः—
“काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि ।
तावत्सारस्वतं स्थानं कविरासाद्य मोदते ॥”
किञ्च—“श्रीमन्ति राज्ञां चरितानि यानि
प्रभुत्वलीलाश्च सुधाशिनां याः ।
ये च प्रभावास्तपसामृषीणां
ताः सत्कविभ्यः श्रुतयः प्रसूताः ॥”
उक्तञ्च—“ख्याता नराधिपतयः कविसंश्रयेण
राजाश्रयेण च गताः कवयः प्रसिद्धिम् ।
राज्ञा समोऽस्ति न कवेः परमोपकारी
राज्ञो न चास्ति कविना सदृशः सहायः ॥
वल्मीकजन्मा स कविः पुराणः
कवीश्वरः सत्यवतीसुतश्च ।
यस्य प्रणेता तदिहानवद्यं
सारस्वतं वर्त्म न कस्य वन्द्यम् ? ॥”
“असभ्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्” इति च केचित् ।
यथा—
“प्रसर्पन्प्रग्रीवैर्भृतभुवनकुक्षिर्झणझणा-
करालः प्रागल्भ्यं वदति तरुणीनां प्रणयिषु ।
विलासव्यत्यासाज्जघनफलकास्फालनघन-
स्फुटच्छेदोत्सक्तः कलकनककाञ्चीकलकलः ॥”
अपि च—“नित्यं त्वयि प्रचुरचित्रकपत्रभङ्गी-
ताटङ्कताडनविपाण्डुरगण्डलेखाः ।
स्विद्यन्तु रत्नरशनारणनाभिराम-
कामार्तिनर्तितनितम्बतटास्तरुण्यः ॥”
“प्रक्रमापन्नो निबन्धनीय एवायमर्थः” इति यायावरीयः । तदिदं
श्रुतौ शास्त्रे चोपलभ्यते । तत्र याजुषः—
१ A तंक्ति.
२८ काव्यमीमांसायाम्
“योनिरुदूखलं शिश्नं मुसलं मिथुनमेवैतत् प्रजननं क्रियते ॥”
आर्ष:—“उपोप मे परामृश मा मे दभ्राणि मन्यथाः ।
सर्वाऽहमस्मि रोमशा गन्धारीणामिवाविका ॥”
शास्त्रीय:—“यस्याः प्रसन्नधवलं चक्षुः पर्यन्तपक्ष्मलम् ।
नवनीतोपमं तस्या भवति स्मरमन्दिरम् ॥”
पदवाक्यविवेकोऽयमिति किञ्चित्प्रपञ्चितः ।
अथ वाक्यप्रकारांश्च कांश्चिदन्यान्निबोधत ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
षष्ठोऽध्यायः पदवाक्यविवेकः ॥
सप्तमोऽध्यायः पाठप्रतिष्ठा ।
वाक्यं वचनमिति व्यवहरन्ति । तच्च त्रिधा प्रणेतृभेदेन ब्राह्मं,
शैवं, वैष्णवमिति । तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत
ब्राह्मं वचः पञ्चधा स्वायम्भुवमैश्वरमर्षिमार्षीकमार्षिपुत्रकं च [इति]।
स्वयम्भू्र्ब्रह्मा तस्य स्वायम्भुवम् । तन्मनोजन्मानो भृगुप्रभृतयः पु-
त्रास्ते ईश्वरास्तेषामैश्वरम् । ईश्वराणां सुता ऋषयस्तेषामार्षम् । ऋषी-
णामपत्यानि ऋषीकास्तेषामार्षीकम् । ऋषीकाणां सूनव ऋषिपुत्र-
कास्तेषामार्षिपुत्रकम् । स्वयम्भुवः प्रथमं वचः श्रुतिः । श्रुतेरन्यच्च
स्वायम्भुवम् । तदाहुः—
“सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् ।
क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत् ॥”
तदेव स्तोकरूपान्तरपरिणतमैश्वरं वचः । उक्तञ्च—
“व्यक्तक्रममसङ्क्षिप्तं दीप्तगम्भीरमर्थवत् ।
प्रत्यक्षं च परोक्षं च लक्ष्य्तामैश्वरं वचः ॥”
१ B तस्मै जननं. २ B गान्धारिणा० ३ A omits च. ४ A लिंश्यता०.
कविरहस्ये सप्तमोऽध्यायः । २९
आर्षम्—“यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः ।
प्रत्यक्षाभिहितार्थं च तदृषीणां वचः स्मृतम् ॥”
आर्षीकम्—“नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् ।
न चापि सुमहेद्वाक्यमृषीकाणां वचस्तु तत् ॥”
आर्षिपुत्रकम्—“अविस्पष्टपदप्रायं यच्च स्याद्बहुसंशयम् ।
ऋषिपुत्रवचस्तत्स्यात्ससर्वपरिदेवनम् ॥”
तदुदाहरणानि पुराणेभ्य उपलभेत ।
सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति । ब्रह्मविष्णुरुद्रगु-
हबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरं
क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति
व्यपदिश्यते । देवयोनयस्तु—
“विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।
सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः ॥”
तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनो मर्त्ये तु
भूतभाषया व्यवहरन्तो निबन्धनीयाः । अप्सरसस्तु प्राकृतभाषया ।
तद्दिव्यं वचश्चतुर्द्धा वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च [इति] ।
शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन । तत्र वैबुधम्—
“समासव्याससंदग्धं शृङ्गाराद्भुतसम्भृतम् ।
सानुप्रासमुदारं च वचः स्यादमृताशिनाम् ॥”
यथा—“यच्चन्द्रकोटिकरकोरकभारभाजि
बभ्राम बभ्रुणि जटाकुहरे हरस्य ।
तद्भोः पुनातु हिमशैलशिलानिकुञ्ज-
झत्कारडम्बरविरावि सुरापगाम्भः ॥”
वैद्याधरम्—“स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च ।
द्राघीयसा समासेन विद्धि वैद्याधरं वचः ॥”
१ A सुमहा०. २ A ऋषीणां हि. ३ B उपलभ्येत. ४ B ०वुपदिष्टं.
३० काव्यमीमांसायाम्
यथा— “प्रणतसुरकिरीटप्रांशुर्लांशुवंश-
च्छुरितनखशिखाग्रोद्भासमानारुणाङ्घ्रे ।
उदिततरणिबृन्दोद्दामधामोर्ध्वनेत्र-
ज्वलननिकरदग्धानङ्गमूर्ते नमस्ते ॥”
५ यथा वा— “भ्रमति भ्रमरकरम्बितनन्दनवनचम्पकस्तबकगौरः ।
वात्याहत इव वियति स्फुटलक्ष्मा रोहिणीरमणः ॥”
गान्धर्वम्— “ह्रस्वैः समासैर्भूयोभिर्विभूषितपदोच्चया ।
तत्त्वार्थग्रथनग्राह्या गन्धर्वाणां सरस्वती ॥”
यथा— “नमः शिवाय सोमाय सगणाय ससूनवे ।
१० सवृषव्यालशूलाय सकपालाय सेन्दवे ॥”
योगिनीगतम्— “समासरूपकप्रायं गम्भीरार्थपदक्रमम् ।
सिद्धान्तसमयस्थायि योगिनीनामिदं वचः ॥”
यथा— “दुःखन्धनैकदहनामृतवर्षमेघ
संसारकूपपतनैककरावलम्ब ।
१५ योगीन्द्रदर्पण जगद्गतकृत्स्नतेजः-
प्रत्यक्षचौरवर वीरपते नमस्ते ॥”
महाप्रभावत्वाद्वौजङ्गममपि दिव्यमित्युपचर्यते ।
“प्रसन्नमधुरोदात्तसमासव्यास१भागवत् ।
अनोजस्विपदप्रायं वचो भवति भोगिनाम् ॥”
२० यथा— “सुसर्जि(ञ्जि)तां श्रोत्रसुखां सुरूपा-
मनेकरत्नोज्ज्वलचित्रिताङ्गीम् ।
विद्याधरेन्द्रः प्रतिगृह्य वीणां
पिनाकिने गायति मङ्गलानि ॥”
“किमर्थं पुनरनुपदेश्ययोर्ब्राह्मपारमेश्वरयोर्वाक्यमार्गयोरुपन्या-
२५ सः ?” इत्याचार्याः। “सोऽपि कवीनामुपदेशपरः” इति यायावरीयः ।
————————————————————————
१ Explained in A as समूह.
कविरहस्ये सप्तमोऽध्यायः । ३१
यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वा-
क्यानि विधेयानि । इति दिव्यम् ।
इह हि प्रायोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासु-
देवस्य वचो वैष्णवम् [इति] । तन्मानुषमिति व्यपदिशन्ति । तच्च
त्रिधा रीतिन्त्रयभेदेन । तदाहुः—
“वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः ।
आशु(सु) च साक्षान्निवर्सति सरखती तेन लक्ष्यन्ते॥”
रीतिरूपं वाक्यत्रितयम् । काकुः पुनरनेक्यति । “काकुर्व(व)क्रो-
क्तिर्नाम शब्दालङ्कारोऽयम्” इति रुद्रटः । “अभिप्रायवान्पाठधर्मः
काकुः । स कथमलङ्कारी स्यात् ?” इति यायावरीयः । सा च द्विधा
साकाङ्क्षा निराकाङ्क्षा च । वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा । वाक्यो-
त्तरभाविनी निराकाङ्क्षा । तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् ।
तदेव काक्वन्तरेण निराकाङ्क्षम् । आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा
चेति साकाङ्क्षा । विधिरूपा, उत्तररूपा, निर्णयरूपेति निराकाङ्क्षा ।
तत्राक्षेपगर्भा—
“यदि मे वल्लभा दूती तदाऽहमपि वल्लभा ।
यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः ॥”
एवमेव निर्देष्टुर्विधिरूपा । प्रश्नगर्भा—
“गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु ।
वर्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः ॥”
इयमेवोपदेष्टुरुत्तररूपा । वितर्कगर्भा—
“नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः
सुरधनुरिदं दूराकृष्टं न नाम शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा
कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥”
इयमेवोपदेष्टुर्निर्णयरूपा । ता इमास्तिस्रोऽपि नियतनिबन्धाः ।
तद्विपरीताः पुनरनन्ताः । तत्राभ्युपगमानुनयकाकू—
३२ काव्यमीमांसायाम्
"युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं
प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-
नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥"
5 अभ्यनुज्ञोपहासकाकू— "मथ्नामि कौरवशतं समरे न कोपा-
दुःशासनस्य रुधिरं न पिबाम्युरस्तः।
सञ्चूर्णयामि गदया न सुयोधनोरू
सन्धिं करोतु भवतां नृपतिः पणेन ॥"
एवं त्रिचतुरकाकुयोगोऽपि। तत्र त्रियोगः—
10 “सेयं पश्यति नो कुरङ्गवधूस्त्रस्तैवमुद्वीक्षते
तस्याः पाणिरयं न मारुतचलत्पत्राङ्गुलिः पल्लवः।
तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते
सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति ॥"
चतुर्योगः— "उच्यतां स वचनीयमशेषं
15 नेश्वरे परुषता सखि साध्वी।
आनयैनमनुनीय कथं वा
विप्रियाणि जनयन्ननुनेयः ॥"
“सख्या वा नायिकाया वा सखीनायिकयोरथ।
सखीनां भूयसीनां वा वाक्ये काकुरिह स्थिता ॥
20 पदवाक्यविदां मार्गो योऽन्यथैव व्यवस्थितः।
सत्त्वाङ्गाभिनयो(य)द्योत्या तं काकुः कुरुतेऽन्यथा ॥
अयं काकुकृतो लोके व्यवहारो न केवलम्।
शास्त्रेष्वप्यस्य साम्राज्यं काव्यस्याप्येष जीवितम् ॥
कामं विवृणुते काकुरर्थान्तरमतन्द्रिता।
25 स्फुटीकरोति तु सतां भावाभिनयचातुरीम् ॥
इत्थं कविर्निबध्नीयादित्थं च मतिमान्पठेत् ।
यथा निबन्धनिगडच्छायां काश्चिन्निषिञ्चति ॥
[Header] कविरहस्ये सप्तमोऽध्यायः । ३३
करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा ।
पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती ॥
यथा जन्मान्तराभ्यासात्कण्ठे कस्यापि रक्तता ।
तथैव पाठसौन्दर्यं नैकजन्मविनिर्मितम् ॥
ससंस्कृतमपभ्रंशं लालित्यालिङ्गितं पठेत् । ५
प्राकृतं भूतभाषां च सौष्ठवोत्तरमुद्धरेत् ॥
प्रसन्ने मन्द्रयेद्वाचं तारयेत्तद्विरोधिनि ।
मन्द्रतारौ च रचयेन्निर्वाहिणि यथोत्तरम् ॥
ललितं काकुसमन्वितमुज्जवलमर्थवशकृतपरिच्छेदम् ।
श्रुतिसुखविविक्तवर्णं कवयः पाठं प्रशंसन्ति ॥ १०
अतितूर्णमतिविलम्बितमुल्बणनादं च नादहीनं च ।
अपदच्छिन्नमनावृतमतिमृदु परुषं च निन्दन्ति ॥
गंम्भीरत्वमनैश्व(ष्ठु)र्यं निर्व्यूढिस्तारमन्द्रयोः ।
संयुक्तवर्णलावण्यमिति पाठगुणाः स्मृताः ॥
यथा व्याघ्री हरेत्पुत्रान्दंष्ट्राभिश्च न पीडयेत् । १५
भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥
विभक्तयः स्फुटा यत्र समासश्चाकदर्थितः ।
अम्लानः पदसन्धिश्च तत्र पाठः प्रतिष्ठितः ॥
न व्यस्तपदयोरैक्यं न भिदां तु समस्तयोः ।
न चाख्यातपदम्लानिं विदधीत सुधीः पठन् ॥ २०
आगोपालकमायोषिदास्तामेतस्य लेह्यता ।
इत्थं कविः पठन्काव्यं वाग्देव्या अतिवल्लभः ॥
येऽपि शब्दविदो नैव नैव चार्थविचक्षणाः ।
तेषामपि सतां पाठः सुष्ठु कर्णरसायनम् ॥
पठन्ति संस्कृतं सुष्ठु कुण्ठाः प्राकृतवाचि ते । २५
वाणार(राण)सीतः पूर्वेण ये केचिन्मगधादयः ॥”
आह स—"ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया ।
गौडस्त्यजतु वा गाथामन्या वाऽस्तु सरस्वती ॥
[Footnotes]
१ C गम्भीरत्वमवैखर्यं.
५
३४ काव्यमीमांसायाम्
नातिस्पष्टो न चाश्लिष्टो न रूक्षो नातिकोमलः ।
न मन्द्रो नातितारश्च पाठी(ठो) गौडेषु वाडवः ॥
रसः कोऽप्यस्तु काव्यस्तु रीतिः कोऽप्यस्तु वा गुणः ।
सगर्वं सर्वकर्णाटष्टंकारोत्तरपाठिनः ॥
गद्ये पद्येऽथवा मिश्रे काव्ये काव्यमना अपि ।
गेयगर्भे स्थितः पाठे सर्वोऽपि द्रविडः कविः ॥
पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः ।
जिह्वया ललितोल्लापलब्धसौन्दर्यमुद्रया ॥
सुराष्ट्रत्रावणाद्या ये पठन्त्यर्पितसौष्ठवम् ।
अपभ्रंशावदंशानि ते संस्कृतवचांस्यपि ॥
शारदायाः प्रसादेन काश्मीरः सुकविर्जनः ।
कर्णे गुडूचीगण्डूषस्तेषां पाठक्रमः किमु ! ॥
ततः पुरस्तात्कवयो ये भवन्त्युत्तरापथे ।
ते महत्यपि संस्कारे सानुनासिकपाठिनः ॥
मार्गानुगेन निनदेन निधुर्गुणानां
सम्पूर्णवर्णरचनो यतिभिर्विभक्तः ।
पाञ्चालमण्डलभुवां सुभगः कवीनां
श्रोत्रे मधु क्षरति कश्चन काव्यपाठः ॥
ललल्कारया जिह्वं जर्जरस्फाररेफया ।
गिरा भुजङ्गाः पूज्यन्ते काव्यभव्यधियो न तु ॥
पञ्चस्थानसमुद्भववर्णेषु यथा स्वरूपनिष्पत्तिः ।
अर्थवशेन च विरतिः सर्वस्वमिदं हि पाठस्य ॥”
सकाकुकलना पाठप्रतिष्ठेयं प्रदर्शिता ।
अर्थानुशासनस्याथ प्रकारः परिकीर्त्यते ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
सप्तमोऽध्यायः वाक्यविशेषाः काकुकलना पाठप्रतिष्ठा च ॥
१ B लटसं. २ A तिष्ठिता.
कविरहस्ये अष्टमोऽध्यायः । ३५
अष्टमोऽध्यायः काव्यार्थयोनयः ।
“श्रुतिः, स्मृतिः, इतिहासः, पुराणं, प्रमाणविद्या, समयविद्या,
राजसिद्धान्तत्रयी, लोको, विरचना, प्रकीर्णकं च काव्यार्थानां
द्वादश योनयः” इत्याचार्याः । “उचितसंयोगेन, योक्तृसंयोगेन,
उत्पाद्यसंयोगेन, संयोगविकारेण च सह षोडश” इति यायावरीयः। ५
तत्र श्रौतः। “उर्वशी हाप्सराः पुरूरवसमैडं चकमे” । अत्रार्थे—
“चन्द्राद्बुधः समभवद्भगवाम्नरेन्द्र-
मार्थं पुरूरवसमैडमसावसूत ।
तं चाप्सराः स्मरवती चकमे किमन्य-
दत्रोर्वशी स्मितवशीकृतशक्रचेताः ॥” १०
यथा वा—“यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां
लोकोऽथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां
लोकोऽथ य एष तस्मिन्मण्डले पुरुषः सोऽग्निस्तानि यजूंषि स यजुषां
लोकः सैषा त्रय्येव विद्या तपति ।”
अत्रार्थे—“एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचोऽर्चीषि यानि १५
द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डलेऽणुर्यजूंषि ।
एवं यं वेद वेदत्रितयमयमयं वेदवेदी समग्रो
वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः॥”
तच्चेदं वेपहरणम् । यदित्थं कथयन्ति—
“नमोऽस्तु तस्यै श्रुतये यां दुहन्ति पदे पदे । २०
ऋषयः शास्त्रकाराश्च कवयश्च यथामति ॥”
स्मार्तः—‘‘बह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना ।
विभावितैकदेशेन देयं यदभियुज्यते ॥”
अत्रार्थे—“हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ।
सम्भावितैकदेशेन देयं यदभियुज्यते ॥” २५
१ B प्रमाणं. २ A ०मैल. ३ B प्रपलायिना. ४ V सम्भावितैक०.
३६ काव्यमीमांसायाम्
ऐतिहासिकः—"न स सङ्कुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥"
अत्र—"मदं नवैश्वर्यलवेन लम्भितं
विसृज्य पूर्वः समयो विमृश्यताम् ।
जगज्जिघृत्सातुरकण्ठपद्धति-
र्न वालिनैवाहिततृसिरन्तकः ॥"
पौराणिकः—"हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाऽप्युदैक्षत ।
भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः ॥"
अत्र—"स सञ्चरिष्णुर्भुवनत्रयेऽपि यां
यदृच्छयाऽशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्-
करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥"
अत्राहुः—"श्रुतीनां साङ्गशाखानामितिहासपुराणयोः ।
अर्थग्रन्थः कथाभ्यासः कवित्वस्यैकमौषधम् ॥
इतिहासपुराणाभ्यां चक्षुर्भ्यामिव सत्कविः ।
विवेकाञ्जनशुद्धाभ्यां सूक्ष्ममप्यर्थमीक्षते ॥
वेदार्थस्य निबन्धेन श्लाघ्यन्ते कवयो यथा ।
स्मृतीनामितिहासस्य पुराणस्य तथा तथा ॥"
द्विविधः प्रामाणिको मैमांसकस्तार्किकश्च । तत्र प्रथमः । शब्दस्य
सामान्यमभिधेयं विशेषश्चार्थः । अत्र—
"सामान्यवाचि पदमप्यभिधीयमानं
मां प्राप्य जातमभिधेयविशेषनिष्ठम् ।
स्त्री काचिदित्यभिहिते सततं मनो मे
तामेव वामनयनां विषयीकरोति ॥"
१ B जिधित्सा०. २ A हत. ३ V त्रिसन्ध्यं त्रिर्दिशे नमः. ४ B भुवनान्तरेषु
५ B तदाहुः. ६ B श्लाघंते.
कविरहस्ये अष्टमोऽध्यायः । ३७
तर्केषु साङ्ख्यीयः—"नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदृष्टिभिः ॥१"
अत्र—"य एते यज्वानः प्रथितमहसो येऽप्यवनिपा
मृगाक्ष्यो याश्चैताः कृतमपरसंसारकथया ।
अमी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो
जगत्येवंरूपा विलसति मृदेशा भगवती ॥”
न्यायवैशेषिकीयः—स किंसामग्रीक ईश्वरः कर्ता ? इति पूर्व-
पक्षः । निरतिशयैश्वर्यस्य तस्य कर्तृत्वमिति सिद्धान्तः । अत्र—
"किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥”
बौद्धीयः—विवक्षापूर्वा हि शब्दास्तामेव विवक्षां सूचयेयुः ।
अत्र—
"भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः
स्मरयति यतः कान्ते कान्तां बलात्परिचुम्बति ।
न न न म म मा मा मां स्प्राक्षीर्निषेधपरं वचो
भवति शिथिले मानग्रन्थौ तदेव विधायकम् ॥”
लौकायतिकः—भूतेभ्यश्चैतन्यं मदशक्तिवत् । अत्र—
“बहुविधमिह साक्षिचिन्तकाः
प्रवदन्त्यन्यमितैः कलेवरात् ।
अपि सं सुदति ते चं चिन्तकाः
प्रलयं यान्ति सहैव चिन्तया ॥”
आर्हतः—शरीरपरिमाण आत्मा । अन्यथा शरीराफल्यमात्मा-
फल्यं वा ।
१ A ॰दर्शिभिः. २ B ॰दितः. ३ C च. ४ B स.
३८ काव्यमीमांसायाम्
अत्र—"शरीरमात्रमात्मानं ये १वदन्ति जयन्ति ते ।
तच्चुम्बनेऽपि यज्जातः सर्वाङ्गपुलकोऽस्य मे ॥"
सर्वपार्षदत्वात्काव्यविद्यायाः तानिमानन्यांश्चार्थान्व्युत्पत्तये प्रत्यवेक्षेत । आहुश्च—
"यांस्तर्ककर्कशानर्थान्सूक्तिष्वाद्रियते कविः ।
सूर्यांशव इवेन्दौ ते काश्चिदर्च(श्च)न्ति कान्तताम् ॥"
समयविद्यासु शैवसिद्धान्तीयः—
"घोरघोरतरातीतब्रह्मविद्याकलातिगः ।
परापरपदव्यापी पायाद्वः परमेश्वरः ॥"
पाञ्चरात्रः—"नाद्यन्तवन्तः कवयः पुराणाः
सूक्ष्मा बृहन्तोऽप्यनुशासितारः ।
सर्वज्वरान्घ्नन्तु ममानिरुद्ध-
प्रद्युम्नसङ्कर्षणवासुदेवाः ॥"
बौद्धसिद्धान्तीयः—"कलिकलुषकृतानि यानि लोके
मयि निपतन्तु विमुच्यतां स लोकः ।
मम हि सुचरितेन सर्वसत्त्वाः
परमसुखेन सुखावनीं प्रयान्तु ॥"
एवं सिद्धान्तान्तरेष्वपि । राजसिद्धान्तत्रय्यामर्थशास्त्रीयः—
"शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः
परं प्रत्यावापः फलति कृतसेकस्तरुख्रिव ।
बहुव्याजं राज्यं न सुकरमराजप्रणिधिभि-
र्दुराराधा लक्ष्मीरनवहितचित्तं छलयति ॥"
नाट्यशास्त्रीयः—"एवं धारय देवि बाहुलतिकामेवं कुरुष्वाङ्गकं
३मात्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् ।
देवीं नर्तयतः स्ववक्त्रमुरजेनाम्भोघरध्वानिना
शम्भोर्वः परिपान्तु लम्बितलयच्छेदाहतास्तालिकाः ॥"
१ A विदन्ति. २ A तश्वासदपि. ३ C मात्युच्चैर्न च.
कविरहस्ये अष्टमोऽध्यायः । ३९
कामसूत्रीयः—"नाश्चर्यं त्वयि यल्लक्ष्मीः क्षित्वाऽधोक्षजमागता ।
असौ मन्दरतस्त्वं तु प्राप्तः समरतस्तया ॥"
लौकिकस्तु द्विधा प्राकृतो व्युत्पन्नश्च । तयोः प्रथमः—
"स्फुटितपिठरीबन्धश्लाघ्यो विपक्षगृहेऽप्यभूत्
प्रियतम ययोः स्नेहग्रन्थिस्तथा प्रथमं स नौ । ५
जनवदधुना सद्मन्यावां वसाव इहैव तौ
धिगपरिचितं प्रेम स्त्रीणां चिराय च जीवितम् ॥"
यथा वा—"इक्षुदण्डस्य मण्डस्य दध्नः पिष्टकृतस्य च ।
वाराहस्य च मांसस्य सैष गच्छति फाल्गुनः ॥"
द्वितीयो द्विधा समस्तजनजन्यः कतिपयजनजन्यश्च । तयोः प्रथ- १०
मोऽनेकधा देशानां बहुत्वात् । तत्र दाक्षिणात्यः—
"पिबन्त्यास्वाद्य मरिचं ताम्बूलविशदैर्मुखैः ।
प्रियाधरावदंशानि मधूनि द्रमिडाङ्गनाः ॥"
यथा वा—"विरम मदन कस्त्वं चैत्र का शक्तिरिन्दो-
रिह हि कुसुमबाणाः कुण्ठिताग्राः स्खलन्ति । १५
हृदयभुव इमास्ताः कुन्तलप्रेयसीनां
प्रहतिकिणकठोरग्रन्थयो वज्रसाराः ॥"
उदीच्यः
तस्य रत्नाकरसुता श्रियो देव्याः सहोदरी ।
स्वयंवरविधावासीत्कलत्रं चित्रसुन्दरी ॥”
द्वितीया— “ज्योत्स्नां लिम्पति चन्दनेन स पुमान्सिञ्चत्यसौ मालती-
मालां गन्धजलैर्मधूनि कुरुते खादून्यसौ फाणितैः ।
यस्तस्य प्रथितान्गुणान्प्रथयति श्रीवीरचूडामणेः
तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥”
अत्राहुः— “नीचैर्नार्थैः कथासङ्गे(र्गे।) यस्य न प्रतिभाक्षयः ।
स कविग्रामणीरत्रं शेषास्तस्य कुटुम्बिनः ॥”
अभिहितेभ्यो यदन्यत्तत्प्रकीर्णकम् । तत्र हस्तिशिक्षीयः—
“मेघानां क्षणहासतामुपगतो हारः प्रकीर्णो दिशा-
माकाशोल्लसितामितामरवधूपीनस्तनास्फालकः ।
क्षुण्णश्चन्द्र इवोल्बणो मदवशादैरावणप्रेरितः
पायाद्वः परिपाकपाण्डुलवँलीश्रीतस्करः शीकरः ॥”
रत्नपरीक्षीयः— “द्वौ वज्रवण जगतीपतीनां
सद्भिः प्रदिष्टौ न तु सार्वजन्यौ ।
यः स्याज्जपाविद्रुमभङ्गशोणो
यो वा हरिद्रारससंनिकाशः ॥”
धनुर्वेदीयः— “स दक्षिणापाङ्गनिविष्टमुष्टिं
नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं
प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥”
योगशास्त्रीयः— “यः सर्वेषां हृदयकमले प्राणिनामेकहंस-
स्त्वं जागर्षि स्वपिषि च मुहुर्बुद्ध्यसे नापि बुद्धः ।
तं त्वाराध्य प्रविततधियो बन्धभेदं विधाय
ध्वस्तातङ्का विमलमहसस्ते भवन्तो भवन्ति ॥”
१ A नार्थं. २ B ०स्त्वत्र, ३ B ०मराधिपवधू. ४ A B लवलश्री०.
अष्टमोऽध्यायः । ४१
एवं प्रकीर्णकान्तरमपि । उचितसंयोगः—
“पाण्ड्योऽयमंसार्पितलम्बहारः
कॢप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः
सनिर्झरोद्गार इवाद्रिराजः ॥”
योक्तृसंयोगः— “कुर्वद्भिः सुरदन्तिनो मधुलिहामस्वादु दानोदकं
तन्वानैर्नमुचिद्रुहो भगवतश्चक्षुःसहस्रव्यथाम् ।
मज्जन्स्वर्गतराङ्गिणीजलभरे पङ्कीकृते पांसुभि-
र्यद्यात्राव्यसनं निनिन्द विमनाः स्वर्लोकनारीजनः ॥”
उत्पाद्यसंयोगः— “उभौ यदि व्योम्नि पृथक्प्रवाहा-
वाकाशगङ्गापयसः पतेताम् ।
तेनोपमीयेत तमालनील-
मामुक्तमुक्तालतमस्य वक्षः ॥”
संयोगविकारः— “गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादार्द्रकुङ्कुमम् ॥
यथा वा— “उन्माद्यत्यम्बुराशिर्विदलति कुमुदं सङ्कुचन्त्यम्बुजानि
स्यन्दन्ते चन्द्रकान्ताः पतितसुमनसः सन्ति शेफालिकाश्च ।
पीयन्ते चन्द्रिकाम्भः क्रमसरलगलं किं च किञ्चिच्चकोरा-
श्चन्द्रे कर्पूरगौरद्युतिभृति नभसो याति चूडामणित्वम् ॥”
इदं कविभ्यः कथितमर्थोत्पत्तिपरायणम् ।
इह प्रगल्भमानस्य न जात्वर्थकदर्थना ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
अर्थानुशासने पोडश काव्यार्थयोनयः अष्टमोऽध्यायः ॥
४२ काव्यमीमांसायाम्
नवमोऽध्यायः अर्थव्याप्तिः ।
“स त्रिधा” इति द्रौहिणिः, दिव्यो, दिव्यमानुषो, मानुषश्च ।
“सप्तधा” इति यायावरीयः; पातालीयो, मर्त्यपातालीयो, दिव्य-
पातालीयो, दिव्यमर्त्यपातालीयश्च । तत्र दिव्यः—
“स्मृत्वा यन्निजवारवासगतया वीणासमं तुम्बरो-
रुद्गीतं नलकूबरस्य विरहादुत्कण्ठुलं रम्भया ।
तेनैरावणकर्णचापलमुषा शक्रोऽपि निद्रां जह-
द्भूयः कारित एव हासिनि शचीवक्त्रे दृशां सम्भ्रमम् ॥”
दिव्यमानुषस्तु चतुर्द्धा । दिव्यस्य मर्त्यागमने, मर्त्यस्य च स्वर्ग-
गमन इत्येको भेदः । दिव्यस्य मर्त्यभावे, मर्त्यस्य च दिव्यभाव इति
द्वितीयः । दिव्येतिवृत्तपरिकल्पनया तृतीयः । प्रभावाविर्भूतदिव्य-
रूपतया चतुर्थः । तत्र दिव्यस्य मर्त्यागमनम्—
“श्रियः पतिः श्रीमति शासितुं जग-
ज्जगन्निवासो वसुदेवसद्मनि ।
वसन्ददर्शावतरन्तमम्बरा-
द्धिरण्मगर्भाङ्गभुवं मुनिं हरिः ॥”
मर्त्यस्य स्वर्गगमनम्—
“पाण्डोर्नन्दन नन्दनं वनमिदं सङ्कल्पजैः सीधुभिः
कृत्तापानककेलि कल्पनतरुषु द्वन्द्वैः सुधालेहिनाम् ।
अप्यत्रेन्दुशिलालवालवलयं सन्तानकानां तले
ज्योत्स्नासङ्गलदच्छनिर्झरजलैर्यत्रं विना पूर्यते ॥”
दिव्यस्य मर्त्यभावः—“इति विकसति तस्मिन्नन्ववाये यदूनां
समजनि वसुदेवो देवकी यत्कलत्रम् ।
किमपरमथ तस्मात्षोडशस्त्रीसहस्र-
प्रणिहितपरिरम्भः पद्मनाभो बभूव ॥”
१ V A कण्ठुलं, V B कण्ठलं. २ A जलं. ३ A पूर्ज्यते.
नवमोऽध्यायः । ४३
मर्त्यस्य दिव्यभावः—"आकाशयानतटकोटिकृतैकपादा-
स्तद्धेमदण्डयुगलान्यवलम्ब्य हस्तैः ।
कौतूहलात्तव तरङ्गविघट्टितानि
पश्यन्ति देवि¹ मनुजाः स्वकलेवराणि ॥"
दिव्येतिवृत्तपरिकल्पना—
"ज्योत्स्नापूरप्रसरविशदे सैकतेऽस्मिन्सरय्वा
वादद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।
एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः
स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥"
प्रभावाविर्भूतदिव्यभावः—
"मा गाः पातालमुर्वि² स्फुरसि किमपरं पात्यमानः कुदैत्यै
स्त्रैलोक्यं पादपीठप्रथिम नहि बले पूरयस्यूनमङ्गेः ।
इत्युत्स्म्रायमाने भुवनभृति शिशावङ्कसुप्ते यशोदा
पायाच्चक्राङ्गपादप्रणतिपुलकितस्मेरगण्डस्थला वः ॥"
मर्त्यः—"वधूः श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे
पदे रिक्ते रिक्ते विनिहितपदार्थान्तरमिति ।
नदीस्रोतो न्यायादकलितविवेकक्रमघनं
न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च ॥"
पातालीयः—
"कर्कोटः कोटिकृत्व³ः प्रणमति पुरतस्तक्षके देहि चक्षुः
सज्जः सेवाञ्जलिस्ते कपिलकुलिकयोः स्तौति च स्वस्तिकस्त्वाम् ।
पद्मः सङ्घैष भक्तेर्वलगति पुरः कम्बलोऽयं बलोऽयं
सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः ॥"
मर्त्यपातालीयः—"आर्द्रावले व्रज न वेत्स्यपकर्ण कर्णं
द्विः सन्दधाति न शरं हरशिष्यशिष्यः ।
तत्साम्प्रतं समिति पश्य कुतूहलेन
मर्त्यैः शरैरपि किरीटिकिरीटमाथ⁴म् ॥"
१ V A देव. २ B मूर्ध्नि. ३ A कोटिकुण्ठः. ४ A नाथम्.