सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 83, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 83

२८ काव्यमीमांसायाम्
“योनिरुदूखलं शिश्नं मुसलं मिथुनमेवैतत् प्रजननं क्रियते ॥”
आर्ष:—“उपोप मे परामृश मा मे दभ्राणि मन्यथाः ।
सर्वाऽहमस्मि रोमशा गन्धारीणामिवाविका ॥”
शास्त्रीय:—“यस्याः प्रसन्नधवलं चक्षुः पर्यन्तपक्ष्मलम् ।
नवनीतोपमं तस्या भवति स्मरमन्दिरम् ॥”
पदवाक्यविवेकोऽयमिति किञ्चित्प्रपञ्चितः ।
अथ वाक्यप्रकारांश्च कांश्चिदन्यान्निबोधत ॥
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे
षष्ठोऽध्यायः पदवाक्यविवेकः ॥
सप्तमोऽध्यायः पाठप्रतिष्ठा ।
वाक्यं वचनमिति व्यवहरन्ति । तच्च त्रिधा प्रणेतृभेदेन ब्राह्मं,
शैवं, वैष्णवमिति । तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत
ब्राह्मं वचः पञ्चधा स्वायम्भुवमैश्वरमर्षिमार्षीकमार्षिपुत्रकं च [इति]।
स्वयम्भू्र्ब्रह्मा तस्य स्वायम्भुवम् । तन्मनोजन्मानो भृगुप्रभृतयः पु-
त्रास्ते ईश्वरास्तेषामैश्वरम् । ईश्वराणां सुता ऋषयस्तेषामार्षम् । ऋषी-
णामपत्यानि ऋषीकास्तेषामार्षीकम् । ऋषीकाणां सूनव ऋषिपुत्र-
कास्तेषामार्षिपुत्रकम् । स्वयम्भुवः प्रथमं वचः श्रुतिः । श्रुतेरन्यच्च
स्वायम्भुवम् । तदाहुः—
“सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् ।
क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत् ॥”
तदेव स्तोकरूपान्तरपरिणतमैश्वरं वचः । उक्तञ्च—
“व्यक्तक्रममसङ्क्षिप्तं दीप्तगम्भीरमर्थवत् ।
प्रत्यक्षं च परोक्षं च लक्ष्य्तामैश्वरं वचः ॥”
१ B तस्मै जननं. २ B गान्धारिणा० ३ A omits च. ४ A लिंश्यता०.